अनिर्वचनीयासिद्धेश्च..
अनिर्वचनीयलक्षणानुपपत्त्या अनिर्वचनीयनिराकरणम्
श्रीमज्जयतीर्थटीका
अथवा अनिर्वचनीयं साधकप्रमाणाभावेन बाधकसद्भावेन च निराकृत्य लक्षणानुपपत्त्याऽपि निराकरोति-
मूल
अनिर्वचनीयासिद्धेश्च
अनिर्वचनीयमित्यनिर्वचनीयलक्षणम् । तस्यासिद्धेश्च न च भेदे विकल्पो युज्यत इति सम्बन्धः। तथा हि, न तावन्निर्वचनानर्हत्वमनिर्वचनीयत्वम् । मूकीभावप्रसङ्गेनासम्भवित्वात् । नापि सत्त्वा-सत्त्वाभ्यां निर्वक्तुमशक्यत्वलक्षणम् । प्रत्येकं सदसतोरनिर्वचनीयतापातात् । समुच्चितस्य तथात्वे सतोऽसतश्च सदसदात्मकत्वाभावेन तत्प्रसङ्गानिवारणात् । सत्त्वेन निर्वक्तुमशक्यत्वे सत्यसत्त्वेन निर्वक्तुमशक्यत्वमिति चेन्न । सदसदात्मकतावत्प्रतिषेधसमुच्चयस्यापि विरुद्धत्वेनासम्भवित्वात् । अनिर्वचनीयवादिनो विरोधोऽसिद्ध इति चेन्न । अनिर्वचनीयसिद्धौ विरोधासिद्धिः । ततो लक्षणसिद्ध्या अनिर्वचनीयसिद्धिरिति परस्पराश्रयप्रसङ्गात् ।
श्रीविजयीन्द्रभिक्षु
पूर्वव्याख्याने ‘अनिर्वचनीयासिद्धेश्च’ इति चकारस्य नातिप्रयोजनतां मन्वान आह- अथवेति ।। नन्वनिर्वचनीयलक्षणनिराकरणपरत्वे ‘सदसद्विलक्षणत्वासिद्धेश्च’ इति तद्वाक्याकारः स्यादित्यत आह- अनिर्वचनीयमितीति ।। अनिर्वचनीयत्वरूपलक्षणस्यासिद्धेरित्यर्थः । हेतोः साध्यापेक्षायां साध्येन सह सम्बन्धं दर्शयति- न च भेद इति ।। लक्षणासिद्धिमुपपादयति- तथा हीति ।। मूकीभावप्रसङ्गेति ।। गुरुशिष्ययोः लोकमात्रस्य वा अभिलपनाभावप्रसङ्गेनेत्यर्थः । सदसतोरिति ।। सतोऽसत्त्वेनासतश्च सत्त्वेन निर्वक्तुमशक्यत्वादिति भावः । समुच्चितस्येति ।। समुच्चितप्रतियोगिकाभावस्य लक्षणत्व इत्यर्थः । सत्त्वेनेति ।। सत्त्वेन निर्वक्तुमशक्यत्वेन सहितमसत्त्वेन निर्वक्तुमशक्यत्वं लक्षणमस्त्वित्यर्थः । असम्भवित्वादिति ।। यद्यपि सत्त्वेन निर्वक्तुमशक्यत्वासत्त्वेन निर्वक्तुमशक्यत्वयोः परस्परविरहरूपत्वाभावेन गोत्वाश्वत्वयोरिवैकत्र निषेधसम्भवः तथाऽपि तयोः परस्परविरहात्मकसत्त्वासत्त्वोभयघटितमूर्तित्वेन सत्त्वासत्त्वयोरिव तयोरप्येकत्र निषेधो न सम्भवतीति भावः ।
श्रीवेदेशतीर्थ
‘अनिर्वचनीयासिद्धेश्च’ इति चशब्दास्वारस्यं मन्वान आह- अथवेति ।। सदसतो-रनिर्वचनीयतापातादिति ।। सत्त्वेन निर्वक्तुमशक्यत्वमसति, असत्त्वेन निर्वक्तुमशक्यत्वं सती-त्यतिव्याप्त्यापत्तेरित्यर्थः । समुच्चितस्येति ।। सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्वस्य लक्षणत्व इत्यर्थः । सदसदात्मकत्वाभावेनेति ।। सतः सन्मात्रात्मकत्वाद् असत असन्मात्रात्मकत्वात् तयोः सदसदात्मकत्वाभावादित्यर्थः । ननु सदसदात्मकत्वयोः विरुद्धत्वेऽपि न तदभावौ विरुद्धौ । सत्त्वासत्त्वयोरेकत्र प्रवेशाभावेऽपि तदभावयोरनिर्वचनीये जगति शुक्तिरूप्यादौ च सत्त्वात् । यथा गोत्वाश्वत्वयोरेकत्र समावेशाभावेन विरुद्धत्वेऽपि तदभावयोरेकत्र महिष्यादौ समावेशेना-विरुद्धत्वमित्यभिप्रेत्य शङ्कते- अनिर्वचनीयवादिन इति ।।
श्रीराघवेन्द्रतीर्थ
तस्यासिद्धेश्चेति ।। न केवलं साधकाभावबाधकभावाभ्यामनिर्वचनीयाभावात्; लक्षणस्य असिद्धेश्चानिर्वचनीयाभावात्, न च भेदे विकल्पो युज्यत इत्यर्थः । मूकीभावेति ।। अनिर्वच-नीयपदेनैव निर्वचनेन व्याघातप्रसङ्गभयेनेति भावः । सदसतोरिति ।। सत्त्वेन निर्वक्तुमशक्यत्वमसति असत्त्वेन निर्वक्तुमशक्यत्वं सति ब्रह्मणीति यथायोगमन्वयः । समुच्चयपक्षेऽपि किं सत्त्वे सति यदसत्तत् सदसत् । तत्त्वेन निर्वचनानर्हत्वमिति प्रतियोगिनि समुच्चयपक्षं निराह - समुच्चित-स्येति ।। तथात्वे लक्षणत्व इत्यर्थः । तदिति ।। अनिर्वचनीयताप्रसङ्गादित्यर्थः । असद्ब्रह्मणो-रनिर्वचनीयत्वं न परस्येष्टमिति भावः । निषेधसमुच्चयपक्षं विवृण्वन्नेव निराह- सत्त्वेनेत्यादिना ।। असम्भवित्वादिति । लक्षणस्येति योज्यम् । लक्षणानुपपत्त्याऽपीति । वस्तुसिद्धेर्लक्षणाधीनत्वादिति भावः । समुच्चितस्येति ।। सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्वस्य लक्षणत्व इत्यर्थः । सदसदात्मकत्वाभावेनेति ।। सतः सन्मात्रात्मकत्वेनासदात्मकत्वाभावात् सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्व१ सद्भावेन सतोऽ-निर्वचनीयत्वं स्यात् । एवमसतोऽप्यसन्मात्रात्मकत्वेन सदात्मकत्वाभावात् सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्वसद्भावेनासतोऽनिर्वचनीयत्वं स्यादित्यर्थः ।
गुरुराजीया
‘अनिर्वचनीयासिद्धेश्च’ इति चशब्दस्वारस्यानुरोधादाह- अथ वेति ।। सदसतोर-निर्वचनीयतापातादिति ।। सत्त्वेन निर्वक्तुमशक्यत्वस्यासति, असत्त्वेन निर्वक्तुमशक्यत्वस्य सति सत्त्वेनातिव्याप्त्यापत्तेरित्यर्थः । समुच्चितस्येति ।। सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्वस्य लक्षणत्व इत्यर्थः । सतः सन्मात्रात्मकत्वादसतश्चासन्मात्रात्मकत्वात् तयोः सत्त्वेनासत्त्वेन निर्वक्तुमशक्यत्वाभावेऽपि सतोऽसतश्च सदसदात्मत्वाभावेन सत्त्वविशिष्टासत्त्वेन निर्वक्तु-मशक्यत्वस्य सत्त्वात् तत्रातिव्याप्तिरेवेत्यर्थः ।
ननु सदसदात्मकताया विरुद्धत्वेऽपि न तदभावौ विरुद्धौ । सत्त्वासत्त्वाभावयोः प्रत्येकं सति असति चावृत्तावपि अनिर्वचनीये वियदादौ शुक्तिरूप्यादौ च सत्त्वात् । गोत्वाश्वत्वयोरेकत्र समावेशाभावेन विरुद्धत्वेऽपि तदभावयोः महिष्यादौ समावेशस्याविरुद्धत्वादिति शङ्कते- अनिर्वचनीयवादिना इति ।।
गोविन्दीया
अनिर्वचनीयमिति ।। अनिर्वचनीयमिति पदेनानिर्वचनीयलक्षणं लक्ष्यते । तस्यासिद्धेः अनिर्वचनीयासिद्धिः । तदसिद्ध्या भेदे विकल्पो न युज्यत इत्यर्थः । समुच्चितस्येति ।। समुच्चितस्य सत्त्वविशिष्टासत्त्वेन निर्वक्तुमशक्यत्वस्य तथात्वे लक्षणत्वे सतोऽसतश्च सदसदात्मकत्वाभावेन तत्प्रसङ्गानिवारणादनिर्वचनीयतानिवारणादित्यर्थः । अनिर्वचनीयेति ।। अनिर्वचनीयसिद्धौ विरोधासिद्धिः तदसिद्धेर्लक्षणसिद्धिद्वाराऽनिर्वचनीयसिद्धिरिति परस्पराश्रयप्रसङ्गादित्यर्थः ।
जनार्दनभट्टीया
‘अनिर्वचनीयासिद्धेश्च’ इति पञ्चम्यन्तस्य ‘विलक्षणत्वम्’ इत्यनेन अन्वयाङ्गीकारे पूर्वयोजनापेक्षया भेदाभावप्रसङ्गे सति योजनान्तरत्वानुपपत्तेराह – न च भेद इति ।।१ प्रतिषेध-समुच्चयस्येति ।। सत्यत्वेन निर्वक्तुं शक्यत्वाभाव असत्वेन निर्वक्तुं शक्यत्वाभावद्वयस्येत्यर्थः । अनिर्वचनीयवादिन इति ।। उभयाभावाधिकरणस्यैव अनिर्वचनीयत्वेन विरोधोऽसिद्ध इति भावः ।