‘विश्वं सत्यम्’..

विशिष्टनिराकरणतर्कस्य पञ्चाङ्गवैकल्येनाभासत्वसमर्थनम्

‘विश्वं सत्यम्’

श्रीमज्जयतीर्थटीका

तदनेन विशिष्टादिनिराकरणतर्कस्य प्रतितर्कपराहतिं प्रतिपादयता जगतो भिन्नमित्यादिना ग्रन्थेन व्याप्तिवैकल्यं च दर्शितम् । अननिर्वचनीयेऽपि ब्रह्मण्यस्य तर्कस्य सञ्चारोपपादनात् । अखण्डं ब्रह्मैव तत्त्वमित्यस्यार्थस्योपपत्तये खल्वयं परेण तर्कोऽवतारितः । तस्य ब्रह्मण्यपि प्रवेशोपपादनेनेष्टाविघातित्वाख्यतर्काङ्गवैकल्यमपि प्रतिपादितम् । इष्टापादनरूपता च यथा-सम्भवमूहनीयेत्यङ्गपञ्चकवैकल्यात्तर्काभासोऽयमिति स्थितम् ।

श्रीविजयीन्द्रभिक्षु

प्रमाणविरोधोद्भावनेन विपर्यये पर्यवसानाभावसूचनादनेनैव तर्कस्याऽभासत्वसिद्धेः प्रतिकूल-तर्कपराहत्युद्भावनं मृतमारणन्यायेन व्यर्थमित्याशङ्क्य अङ्गान्तरवैकल्यमस्तीति ज्ञापनाय प्रतिकूल-तर्कोक्तिरित्यभिप्रायेणोक्तमर्थमुपसंहरति- तदनेनेति ।। तदित्यव्ययं तस्मादित्यर्थे । तस्मादयं विशिष्टादिनिराकरणतर्कः तर्काभास इति स्थितमित्यन्वयः । अननिर्वचनीयेऽपीति ।। तथा चाप्रयोजकत्वादस्य विशिष्टादिनिराकरणार्थं प्रवृत्तस्य तर्कस्याङ्गभूता व्याप्तिरसिद्धेति भावः । इष्टाविघातित्वरूपतर्काङ्गवैकल्यस्यापि प्रदर्शनाय परस्येष्टं दर्शयति- अखण्डमिति ।। तथा च परोक्तन्यायेनैव ब्रह्मणोऽखण्डत्वभङ्गाद्विशिष्टादिनिराकरणतर्कस्य ब्रह्मविषयत्वोपपादनेनेष्टा-विघातित्वाख्याङ्गान्तरवैकल्यमपि प्रतिपादितमित्यर्थः ।

नन्वेवमपि अनिष्टरूपाङ्गवैकल्यस्य प्रतिकूलतर्कोपन्यासेनाज्ञापनात्कथमङ्गवैकल्यज्ञापकत्व-मित्याशङ्क्य तस्य स्वयमेवोदाहर्तुं शक्यत्वादुपेक्षितमित्याह - इष्टापादनरूपता चेति ।। ऊहनी-येति ।। इतिशब्दः प्रकारार्थः ।

श्रीवेदेशतीर्थ

अननिर्वचनीयेऽपीति ।। ‘यत्तत्त्वं तद्भिन्नत्वाद्यन्यतमप्रकारोपेतम्’ इति न व्याप्तिः । तत्त्वरूपेऽपि ब्रह्मणि भिन्नत्वाद्यन्यतमप्रकाराभावस्योपपादितत्वादिति भावः । अप्रयोजकत्वान्न तर्काङ्गभूतव्याप्तिरित्यनेनाऽहेति कश्चित् । इष्टाविघातित्वाख्यतर्काङ्गान्तरवैकल्यस्यापि प्रदर्शनाय परस्येष्टं दर्शयति- अखण्डमिति ।। इत्यस्येति ।। विशिष्टादेः सत्यत्वे ब्रह्मैव तत्त्वमित्यस्यानुप-पत्तेस्तन्मिथ्यात्वसाधकतर्कस्योक्तप्रतिपत्तिजनकत्वमिति भावः । यथासम्भवमिति ।। यदि विशिष्टादिकं तत्त्वं स्यात्तर्हि भेदाद्यन्यतमप्रकारोपेतं स्यादित्यापादने इष्टापत्तिः । तथा हि विशिष्टं क्वचिद्विशेषणेन दण्डादिना भिन्नं क्वचिद् ब्रह्मस्वरूपानन्दादिना विशेषणेन चाभिन्नम् । विशेष्येण तु खण्डितत्वे भिन्नाभिन्नम् । यावद्वस्तुभावित्वे चानन्दादिविशिष्टं विशेष्येण ब्रह्मणाऽत्यन्ता-भिन्नम् । विशेषणमपि विशेष्येण क्वचिद्भिन्नम् । यथा दण्डादिकम् । क्वचिदत्यन्ताभिन्नम् । यथा आनन्दादिकम् । क्वचिद्भिन्नाभिन्नम् । यथा फलश्यामतादिकम् । भेदस्तु धर्मिस्वरूपभूत एव । अत्र सर्वत्रोक्तदोषास्तु स्वव्याहतिकरा उपेक्ष्या एव । विशेषबलेन भेदकार्यादिकमुपपद्यते । तस्य भेदकार्यनिर्वाहकत्वादिना धर्मिग्राहकप्रमाणसिद्धत्वादित्यादिकमूहनीयमिति । तदिदमुक्तम् । यथा-सम्भवमिति ।।

द्वैतद्युमणि

इष्टाविधातित्वरूपेति ।। उक्ततर्कस्य सत्तर्कत्व एतज्जातीयतर्केण स्वाभिमतस्य ब्रह्माननिर्वनीयत्वस्य विघातापत्त्येष्टाविघातित्वरूपतर्काङ्गस्य वैकल्यमित्यर्थः ।

श्रीराघवेन्द्रतीर्थ

प्रतितर्कपराहत्युक्त्याऽन्यदपि लब्धमित्युपपादयन् दृष्टस्येत्यादिनोक्तमुपसंहरति- तदने-नेति ।। तत् तस्मात् । अङ्गपञ्चकवैकल्यादित्यादिनाऽन्वयः । अनेन इत्यस्य विवरणमित्यादिना ग्रन्थेनेति । कथमित्यतो व्यनक्ति- अननिर्वचनीयेऽपीति ।। साध्याभावोपपादनायैतदुक्तिः । तर्कस्येति ।। विकल्पपूर्वमुक्तानवस्थादिरूपतर्कस्येति वा भिन्नत्वादिविकल्पसहत्वरूपतर्कस्येति वाऽर्थः । इष्टाविघातकत्वरूपं यदङ्गान्तरं तदपि नेति परस्येष्टोक्तिपूर्वमाह-अखण्डं ब्रह्मैवेत्यादि ।। प्रतिपादितमिति ।।  इत्यादिना ग्रन्थेनेत्यनुषङ्गः    यथासम्भवमिति ।। भेदपक्षे याऽनवस्थोक्ता सेष्टैव । भेदानभ्युपगमात् । अभेदपक्षे भेदाभेदपक्षे चोक्तदोषावपीष्टावेव । पक्षद्वयेऽपि सविशेषत्वा-भ्युपगमेन निर्विशेषाभेदादिपक्षे प्रागुक्तदोषस्याङ्गीकारादित्यूहनीयेत्यर्थः । इष्टेति ।। इष्टस्य ब्रह्माखण्डत्वसत्यत्वादेरविघातित्वम् अनुकूलत्वमित्यर्थः ।

गुरुराजीया

कथं तत्प्रदर्शितमित्यतः ब्रह्मणस्तर्कबाध्यत्वेऽप्यनिर्वचनीयत्वाभावेन ‘यत्तर्कबाध्यं तदनिर्वचनीयमिति’ तर्कमूलव्याप्त्यसिद्धेरिति१ भावेनाऽऽह- अननिर्वचनीयेऽपीति ।। ओति ।। परस्याननुकूलत्वरूपाङ्गेत्यर्थः । तस्य चेष्टविघातकत्वरूपत्वेन प्रकृततर्कस्य ब्रह्मण्यपि प्रवृत्त्युप-पादनेन इष्टविघातकत्वसमर्थनादिति भावः । विशिष्टादिनिराकरणतर्के२ इष्टापादनतां चाऽह- इष्टापादनता चेति ।। ब्रह्मण इव विशिष्टादेर्जगतोऽपि प्रमाणप्रमितत्वस्य विशिष्टादेरिव च ब्रह्मणोऽपि तर्कबाध्यत्वेनानिर्वचनीयत्वापादनस्य च सूपपादत्वेन३ उभयोरपि साम्याद्यथा परेण सत्तया प्रमाणेनावगतस्य ब्रह्मणस्तद्विरुद्धानिर्वचनीयत्वं परित्यज्य तर्कबाध्यत्वप्रयुक्तसत्यत्वा-विरुद्धनाममात्रभूतमनिर्वचनीयत्वम् अङ्गीकृत्य तर्कस्येष्टापादनता उपपादनीया । तथा जगतो ब्रह्ममात्रसाम्यमभिलषता मया विशिष्टादेर्जगतः प्रमाणसिद्धसत्यत्वविरुद्धानिर्वचनीयताया अङ्गीकर्तुमशक्यत्वेऽपि तां परित्यज्य तदविरुद्धतर्कबाध्यत्वप्रयुक्तनाममात्रभूतानिर्वचनीयताया अङ्गीकर्तुं शक्यत्वेन तर्कस्येष्टापादनत्वं चेत्यर्थः । एतदेवाभिप्रेत्य यथासम्भवमूहनीयेति४ ग्रन्थकृतोक्तम् । अन्यथा इष्टापादनता चेत्येतावता पूर्तेस्तावन्मात्रस्य वक्तव्यतया यथासम्भवमूहनीयेति५ इत्यस्याऽनर्थक्यापात इत्यवधेयम् ।

गोविन्दीया

अनिर्वचनीयेऽपीति ।। विशिष्टादिजगतोऽनिर्वचनीयत्वमङ्गीकृत्य तत्सत्यत्वनिराकरण-तर्कोऽवतारितः । तादृशे दृष्टान्ते तर्कस्य व्याप्तिप्रदर्शनमुचितम्, तद्विहायाननिर्वचनीयेऽपि सत्यभूतेऽपि ब्रह्मणि तर्कस्यास्य सञ्चारोपपादानात् । व्याप्तिवैकल्यं च दर्शितमित्यर्थः । यथा खलु आपादकस्य  सत्त्वे  आपाद्यस्यासत्त्वे  व्याप्तिवैकल्यं तथाऽसम्मतस्थलेऽपि उभयोस्सत्त्वेऽपीति भावः । इष्टाविघातित्वाख्यतर्काङ्गवैकल्यमिति । प्रतितर्कप्रतिघातित्वमित्यर्थः । इष्टापादनरूपता चेति ।। अनिष्टापादनं तर्काङ्गमिष्टापादनेन चाङ्गवैकल्यमित्यर्थः । प्रमाणविरुद्धार्थेऽनिर्वचनीये विपर्यये पर्यवसानात् । तदङ्गवैकल्यं परस्याननुकूलत्वं हि तर्काङ्गं परेण विशिष्टनिराकरणे यस्तर्कोऽवतारितः, तमेव तर्कमादाय ब्रह्मणः सत्यत्वनिराकरणं च कृतमतः परस्यानुकूलत्वादेव तदङ्गवैकल्यमित्यङ्गपञ्चकवैकल्यमूहनीयमिति भावः ।

नारोपन्तीया

इष्टाविघातित्वाख्यतर्काङ्गवैकल्यमिति ।। जगदेव मिथ्या ब्रह्म तु सत्यमिति परस्येष्टम् । ब्रह्मण्यपि यदा तर्कः संवादितः तदा परेष्टविघात इत्यर्थः । १इष्टापादनरूपस्येति ।। ब्रह्मसमानयोगक्षेमस्य नाममात्रेण मिथ्यात्वस्य सिद्धान्तिनामपीष्टत्वादिति भावः ।

जनार्दनभट्टीया

व्याप्तिवैकल्यं च दर्शितमिति ।। विपर्ययापर्यवसानं तु सर्ववैलक्षण्याङ्गीकाराद् दुर्घटमपीति पूर्ववाक्य एवोक्तमिति भावः । इष्टापादनरूपतेति ।।

ननु तत्ववादिभिः अस्माभिः घटानित्यत्ववत् विशिष्टादिनिराकरणतर्के आपाद्यस्य अनवस्थैकतर-परिशेषादेः वस्तुतोऽनङ्गीकारेण अनिष्टत्वात् कथमिष्टापादनरूपतेत्युक्तम्? इत्यत आह– यथा सम्भवमिति ।। अयं भावः – विशिष्टनिरासकतर्के यदापाद्यम् अनवस्थादि तत् घटानित्यत्ववत् प्रामाणिकत्वेनेष्टं तत्ववादिनां किन्तु तादृशतर्केण यदापादकं भिन्नत्वादि तदेव आपादकीकृत्य, ब्रह्म पक्षीकृत्य तदापाद्यस्यैव अनवस्थादेरस्माभिरापादयितुं शक्यत्वेन परानिष्टमेव अस्माकमिष्टमेवेति । अत एव इष्टापादनता यथासम्भवमिति वक्तव्ये इष्टापादनरूपतेति यथासम्भवमिति चोक्तम् । अङ्गपञ्चकेति ।। ‘सर्ववैलक्षण्याङ्गीकारात्’ इति वाक्ये विपर्ययापर्यवसानस्य उक्तत्वात् ‘जगतो भिन्नम्’ इत्यादिना अङ्गचतुष्टयवैकल्यस्य प्रतिपादनात् मिलित्वा अङ्गपञ्चकवैकल्यमित्यर्थः ।