सोऽयं देवदत्त ..

सोऽयं देवदत्त इत्यादिवाक्ये वाच्यार्थानुपपत्त्यभावसमर्थनेन लक्षणानिराकरणम्

श्रीमज्जयतीर्थटीका

मैवम् । न हि स इत्यस्य देशकालसम्बन्धमात्रमर्थः । किं नाम तस्यातीतत्वमपि । तथाऽनुभवात् । एवञ्च स इत्यस्य तद्देशकालसम्बन्धोऽभूदित्यर्थः स्यात् । अयमित्यस्यापि न कालादिसम्बन्धमात्रमर्थः । किन्तु तस्य वर्तमानता च । न चैवं सति पक्षत्रयेऽपि काचिदनुप-पत्तिरस्ति यद्भयाल्लक्षणाऽश्रयणं स्यात् । तदिदमुक्तम्- अनित्येति ।। उपलक्षणञ्चैतत् । वर्तमानेत्यपि ज्ञेयम् ।

नन्वत एवानुपपत्तिरित्युक्तम् । मैवम् । भावानवबोधात् । अविरुद्धविशेषणानामेव वाच्यतयाऽनेनोक्तत्वात् । न ह्यतीतदेशादिसम्बन्धस्येदानीं सत्त्वे विरोधोऽस्ति । प्रध्वंसो हि तथोच्यते । तथाऽयमिति प्रागभावः । एतेन अन्यतरलक्षणाऽश्रयणं स्वयूथ्यानां निरस्तम् ।

विशिष्टैक्ये विशेषणैक्यं स्यादिति चेन्न । धूमवदग्निमतोरैक्येऽपि धूमाग्न्योर्भेददर्शनात् । तयोरैक्यमेव नास्तीति चेत् । तर्हि दृष्टान्ताभावात्सुतरां विशेषणैक्याऽपादनानुपपत्तिः। तथाऽपि किमत्र तत्वम् । श्रोतृबुभुत्सानुसारेण त्रयमपीति ब्रूमः । कुत एतदिति चेत् । अनित्य-देशकालसम्बन्धित्वस्येति तद्देशकालादिविशिष्ट इति वचनात्पक्षद्वयाङ्गीकारो ज्ञायते । ‘अनु-स्मृतेश्च’ इत्यादिना तृतीयाङ्गीकारोऽपि । तर्हि देशकालसम्बन्धित्वस्येति कथम् । उपलक्षणमित्यदोषः ।

ननु प्रकृष्टप्रकाशश्चन्द्र इत्यनेनैव ग्रन्थेनायमपि दृष्टान्तो दूषितो भविष्यति । न्यायसाम्यात् । तत्किमनेन ग्रन्थेन । मैवम् । एतदनुपपत्तिपरिहारेण सार्थक्यादिति ।

श्रीविजयीन्द्रभिक्षु

तस्यातीतत्वमपीति ।। तद्देशतत्कालसम्बन्धस्यातीतत्वमपीत्यर्थः । यद्यपि तद्देश-तत्कालमात्रस्य तच्छब्दार्थत्वे एतद्देशैतत्कालमात्रस्येदंशब्दार्थत्वे च नानुपपत्तिः । तदेतद्देश-कालादीनां सोऽयं देवदत्त इत्यनेन देवदत्ते सामानाधिकरण्यबोधसम्भवात् । न च तेषां विशेषणानां यौगपद्यप्रसङ्गः । तच्च बाधितमिति वाच्यम् । यदन्विततया ज्ञात एव तात्पर्यविषयेतरान्वय-धीस्तत्वस्येह विशेषणत्वस्य विवक्षितत्वात्    एतच्च  देशकालादीनां सामानाधिकरण्येऽप्युप-पन्नम् । तथाऽपि वस्तुगतिमभिप्रेत्यैवमुक्तम् । अत एव ‘तथाऽनुभवात्’ इत्युक्तमिति द्रष्टव्यम् । यस्येति ।। यस्य पुंसस्तद्देशकालसम्बन्धोऽभूत्सः ‘सोऽयम्’ इत्यत्र स इत्यनेनोच्यत इत्यर्थः । वर्तमानता चेति ।। वर्तमानदेशकालसम्बन्ध इत्यर्थः । यस्यैतद्देशकालसम्बन्धो वर्तते स ‘सोऽयं’ इत्यत्र अयमित्यनेनोच्यत इत्यपि द्रष्टव्यम् । न चैवं सतीति ।। उक्तरीत्या तदिदंशब्दयोरर्थविज्ञाने पक्षत्रयेऽऽपि न काऽप्यनुपपत्तिः । विशेषणानां यौगपद्यप्रसङ्गरूपा चानुपपत्तिर्नास्तीत्यर्थः । तस्या-तीतत्वमपीति मूलवाक्यानुक्तं कथमुच्यत इत्यत आह- तदिदमुक्तमिति ।। ‘अनित्यदेशकाल-सम्बन्धस्य सत्त्वात्’ इति वाक्ये इदमस्मदुक्तमतीतत्वं तद्देशकालयोरनित्यपदेनोक्तमित्यर्थः ।

ननु ‘तस्य वर्तमानता च’ इत्ययुक्तम् । अनित्यदेशकालेति वाक्ये तद्वाचकपदाभावादित्यत आह- उपलक्षणञ्चैतदिति ।। अत एवेति ।। यत एव तदिदंशब्दयोरतीतवर्तमानदेशकाल-सम्बन्धत्वप्रयुक्तार्थं विशेषणयौगपद्यप्रसङ्गरूपा तदभेदप्रसङ्गरूपा चानुपपत्तिरस्तीत्युक्तमित्यर्थः । अविरुद्धेति ।। वाच्यतयेति ।। इत्थम्भूतलक्षणे तृतीया । तदिदंशब्दवाच्यत्वं प्राप्तानामविरुद्ध-विशेषणानामेव ‘सोऽयं देवदत्तः’ इति वाक्येनोक्तत्वादित्यर्थः । अविरोधमेवोपपादयति- न हीति ।।

ननु देशकालादीनामतीतत्वे तत्सम्बन्धातीतत्वस्यावश्यम्भावात् तदा सम्बन्धसत्त्वमपि विरुद्धमित्यत आह- प्रध्वंसो हीति ।। तथा च प्रध्वंस एव तत्सम्बन्धः । विद्यमानतया विशेषणञ्चेत्यर्थः ।

ननु वर्तमानकालैकदेशभूतक्षणलवादीनां नाशाद्वर्तमानकालसम्बन्धरूपेदन्ताविरहाद् अयमिति व्यवहारो न स्यादित्याशङ्क्याऽह- तथाऽयमिति ।। यथा स इत्यनेनातीतदेशकालसम्बन्ध उच्यते, स चैतद्देशकालप्रागभावरूपः पर्यवस्यति तथाऽतीतकालादिध्वंसस्तत्सम्बन्ध इति भावः । एतेनेति ।। उक्तरीत्या पक्षत्रयेऽपि लक्षणाकल्पकानुपपत्त्यभावेनेत्यर्थः ।

ननूक्तकल्पद्वयेऽनुपपत्त्यभावेऽपि तृतीयपक्षे कथमनुपपत्त्यभावः । तत्ताविशिष्टस्येदन्ता-विशिष्टाभेदे विशिष्टान्वयिनो विशेषणान्वयित्वनियमेन तत्तेदन्तयोरभेदापत्तिः । इदन्ताविशिष्टे तत्ताया अनन्वये विधेयान्वयित्वाभावेन विशेषणत्वाभावप्रसङ्गादिति शङ्कते- विशिष्टैक्य इति ।। विशिष्टैक्येऽपि न विशेषणैक्यमदर्शनादित्याह- नेति ।। तयोरिति ।। धूमाग्निविशिष्टयोरैक्यमेव नास्ति । विशेषणभेदप्रयुक्तविशिष्टभेदावश्यम्भावादिति भावः । तर्हीति ।। न च विशिष्टान्वयिनो विशेषणान्वयित्वनियमात्तत्ताविशिष्टेदन्ताविशिष्टयोरभेदे तत्तेदन्तारूपविशेषणयोरप्यभेदो दुर्वारः । अन्यथा विधेयान्वयित्वाभावेन विशेषणत्वानुपपत्तेरिति वाच्यम् । यदन्विततया ज्ञात एव तात्पर्यविषयेतरान्वयधीस्तत्त्वरूपविशेषणत्वस्य तत्राप्यनपायादिति भावः ।

उक्तरीत्या खण्डिताहङ्कारः शिष्यभावं प्रपन्न आचार्याभिप्रेतं पक्षं पृच्छति- किमत्रेति ।। अत्र पक्षत्रयमध्ये । सकृत्प्रयुक्तस्य युगपदनेकार्थत्वासम्भवात्किमत्र तत्वमिति प्रष्टुरभिप्रायः । एतदित्यस्यानन्तरं ज्ञायत इति शेषः । आचार्यवचनादेव ज्ञायत इत्याह- अनित्येति ।। उदाहृतवचनानि क्रमेण पक्षत्रयाणामङ्गीकारसूचकानीति द्रष्टव्यम् । ननु यदि पक्षत्रय-मप्याचार्याभिप्रेतं तदा देशकालसम्बन्धित्वस्य तद्विशिष्टैक्यस्य च सत्त्वादिति तद्वचनाकारः स्यादित्याशङ्कते- तर्हीति ।। इत्यनेनैवेति ।। ‘प्रकृष्टप्रकाशश्चन्द्र इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम्’ इत्यनेनैवेत्यर्थः । एतदनुपपत्तीति ।। पक्षत्रयोक्तानुपपत्तीत्यर्थः ।

श्रीवेदेशतीर्थ

अतीतत्वमपीति ।। ध्वंसप्रतियोगित्वमपीत्यर्थः । अतीतत्त्वस्यापि भावे कियान् स इति तच्छब्दार्थो निष्पन्न इत्यपेक्षायामाह- एवञ्चेति ।। वर्तमानता चेति ।। स्वप्रागभावप्रध्वंसरूपता चेत्यर्थः । तदुक्तं शिवादित्येन ‘तच्च प्राक्सम्बद्धस्वाभावविरहरूपत्वम्’ इति । प्राक्सम्बद्धस्वाभावः प्रागभावः तद्विरहश्च प्रध्वंसतत्स्वरूपत्वं वर्तमानत्वमिति तत्फक्किकार्थः । अनित्यवर्तमानत्वस्य चेदं लक्षणमिति न कश्चित्क्षुद्रोपद्रवः । एवञ्च यस्यैतद्देशकालसम्बन्धप्रागभावो ध्वस्तः । सोऽयमित्य-नेनोच्यत इत्यपि ग्राह्यम्    गूढाभिसन्धिराह- न चैवमिति ।। अनित्येतीति ।। अत्र ह्युपलक्षणया तदिदंशब्दार्थयोर्देवदत्ते सत्त्वमुच्यते । तदर्थमनित्यदेशकालसम्बन्धित्वस्येत्यनेन च स इति तच्छब्दार्थोऽनूद्यते । तेनातीतत्वमपि स इति तच्छब्दार्थान्तर्गतत्वेनाऽचार्याभिप्रेतमिति ज्ञायत इति भावः । वर्तमानता चेत्युक्तं मूलारूढं करोति । उपलक्षणमिति ।। वर्तमानेत्यपीति ।। वर्तमानदेशकाल-सम्बन्धित्वस्यापि सत्त्वादित्यपि मूले ग्राह्यमित्यर्थः ।

आशयमविद्वान् शङ्कते- नन्विति ।। अत एवेति ।। तद्देशकालसम्बन्धित्वस्यातीतत्वादेवेत्यर्थः । अनुपपत्तिः तस्य विशेषणत्वानुपपत्तिः । आशयमुद्घाटयति । अविरुद्धेत्यादिना ।। उद्देश्यतावच्छेदकविधेयरूपतदेतद्देशकालसम्बन्धादिलक्षणविशेषणानां  यथा    परस्परविरोधः तथैव तदिदंशब्दवाच्यतयाऽनेनानित्येत्यादिमूलवाक्येनोक्तत्वादित्यर्थः । अविरोधमेवोपपादयति- न हीति ।।

नन्वतीतस्येदानीं सत्त्वे स्फुटो विरोध इत्यत आह-प्रध्वंसो हीति ।। अयं भावः । यथा शशविषाणमसदित्यत्र प्रतियोगिप्राधान्यविवक्षायामत्यन्ताभावप्रतियोगित्वमित्यर्थः । निषेध-प्राधान्यविवक्षायां तु तत्प्रतियोगिकोऽत्यन्ताभावोऽर्थः उभयथाऽपि प्रतीतेः । तथाऽत्राप्यतीत-सम्बन्धवाचितच्छब्दस्य प्रतियोगिप्राधान्यविवक्षायां ध्वस्तदेशकालसम्बन्धो निषेधप्राधान्य-विवक्षायां चानुभूतदेशकालसम्बन्धध्वंस एव वाच्यो भवति । एवं वर्तमानसम्बन्धवाचीदंशब्दस्यापि यदि प्रतियोगिप्राधान्यविवक्षा तदा ध्वस्तप्रागभावप्रतियोगिसम्बन्धः, यदा तु निषेधप्राधान्यविवक्षा तदा ध्वस्तसम्बन्धप्रागभाव एव वाच्यो भवति । एवञ्च यदा आद्यपक्षपरिग्रहस्तदा स इति तच्छब्दस्य निषेधप्राधान्ये वक्तृविवक्षया अनुभूतदेशकालसम्बन्धध्वंसवाचकत्वेनेदानीं तद्ध्वंसस्य सत्त्वान्न विरोधः । अस्मिन् पक्षेऽयमितीदंशब्दे वक्तुः प्रतियोगिप्राधान्यविवक्षैव । अन्यथाऽनवधेयवचनत्व-प्रसङ्गात् । तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यबुभुत्सायां हीदमुच्यते । बुभुत्सापूर्तिश्च नाय-मित्यत्र प्रतियोगिप्राधान्यविवक्षामन्तरेणोपपद्यत इति हृदयम् ।

यदप्यत्राबोध्यत्वादिति दूषणं तदपि तुच्छम् । एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षत्वेऽपि तद्देश-कालविशिष्टे तस्याप्रत्यक्षत्वादित्यग्रे वक्ष्यमाणत्वात् । यदा तु द्वितीयपक्षपरिग्रहस्तदा स इति तच्छब्दस्य प्रतियोगिप्राधान्ये वक्तृविवक्षयाऽतीतसम्बन्धवाचित्वेऽप्ययमितीदंशब्दस्य निषेध-प्राधान्यविवक्षायां ध्वस्तसम्बन्धप्रागभाववाचित्वमेव वक्तुरभिप्रेतम् । तथा च पूर्वानुभवकाले इदानीं ध्वस्तैतद्देशकालसम्बन्धप्रागभावस्य सत्त्वान्न विरोधः    तदिदमाह ।  तथाऽयमिति ।। प्रागभाव इति ।। अत्रापि स इति तच्छब्दार्थे बुभुत्सानुसारेण प्रतियोगिप्राधान्यविवक्षाऽऽवश्यकी । अत एव श्रोतृबुभुत्सानुसारेणेति वक्ष्यति । यदा तु तृतीयपक्षाङ्गीकारस्तदा तदिदंशब्दयोरन्यतरस्यैव निषेधप्राधान्ये वक्तृविवक्षया विशेषणयोरविरोधेन विशिष्टैक्यमुपपद्यते ।

नन्वविरुद्धयोरपि विशेषणयोर्भेदे कथं विशिष्टद्वयैक्यमुपपद्यत इति चेत् । ‘विवादास्पदं विशिष्टद्वयं नाभिन्नम्, भिन्नविशेषणकत्वात्’ इति त्वदीयानुमानस्याप्रयोजकत्वात् तदेतत्सर्वमभिप्रेत्य पूर्वं पक्षत्रयेऽपि नानुपपत्तिरित्युक्तमिति ।

अन्ये तु ‘ननु देशकालयोरतीतत्वे तत्सम्बन्धातीतत्वस्याश्यम्भावात् तदा सम्बन्धसत्त्वमपि विरुद्धमित्यत आह- प्रध्वंसो हीति ।। तथा च प्रध्वंस एव तत्सम्बन्धः विद्यमानतया विशेषणञ्चे-त्यर्थः ।

ननु वर्तमानकालैकदेशभूतक्षणलवादीनां नाशाद्वर्तमानकालसम्बन्धरूपेदन्ताविरहादयमिति व्यवहारो न स्यादित्याशङ्क्याऽह- तथाऽयमितीति ।। ‘‘यथा ‘सः’ इत्यनेनातीतदेशकालसम्बन्ध उच्यते तथा ‘अयम्’ इत्यनेन वर्तमानकालसम्बन्ध उच्यते । स च एष्यत्कालदेशप्रागभावरूप एव पर्यवस्यति । यथाऽतीतकालादिध्वंसस्तत्सम्बन्ध इति भावः’’ इत्यप्याहुः ।

एतेनेति ।। उक्तरीत्या पक्षत्रयेऽपि वाच्यार्थमविहायैव परोक्तानुपपत्तिपरिहारेणेत्यर्थः । भिन्नविशेषणकत्वानुमानमनुकूलतर्कसद्भावान्नाप्रयोजकमित्याशङ्कते- विशिष्टैक्य इति ।। व्यभिचारात्तर्कः प्रशिथिलमूल इत्याह- धूमवदिति ।।

ननु तत्राऽपादकाभावादेव न व्यभिचार इत्याशङ्कते- तयोरिति ।। दृष्टान्ताभावादिति ।। नन्वत्र कथं दृष्टान्ताभावः । अग्निमतोऽग्निमतैक्येऽग्नेरग्निनैक्यदर्शनादिति चेन्मैवम् । स्यादेवं दृष्टान्तोपपादनं यद्यत्र विशिष्टैक्यमात्रमापादकं विशेषणैक्यमात्रञ्चाऽपाद्यं स्यात् । न च तत्सम्भवति । तथात्वे तर्कस्यानिष्टापादनरूपत्त्वाभावप्रसङ्गात् । प्रकृतेऽपि तत्तादिविशिष्टस्य तत्तादिविशिष्टेनैक्ये तत्तादि-रूपविशेषणैक्यस्यापि विद्यमानत्वात् । तस्माद्विशिष्टद्वयैक्ये विशेषणद्वयैक्यं स्यादित्यापादनीयम् । अत्र च धूमवदग्निमतोरैक्याभावेऽङ्गीकृते दृष्टान्ताभावेन व्याप्तिग्रहासम्भवादित्यभिप्रायात् ।

तटस्थः शङ्कते- तथाऽपीति ।। यद्यपि पक्षत्रयेऽपि नानुपपत्तिस्तथाऽप्यत्र पक्षत्रये आचार्याभिप्रेतः कः पक्ष इत्यर्थः । श्रोतृबुभुत्सानुसारेणेति ।। यदि हि श्रोता तत्ताविशिष्टे इदन्तावैशिष्ट्यसन्देहादिना पृच्छति तदा स इत्यत्र निषेधप्राधान्यविवक्षयाऽयमित्यत्र प्रतियोगि-प्राधान्यविवक्षया सोऽयमित्युत्तरं प्रवर्तते । यदा तु श्रोता इदन्ताविशिष्टे तत्तावैशिष्ट्यसन्देहादिना पृच्छति तदोक्तरीत्याऽयमित्यत्रैव निषेधप्राधान्यविवक्षयाऽयं स इत्युद्देश्यविधेयभावेन सोऽयमिति वाक्यं प्रवर्तते । यदा तु तत्ताविशिष्टेदन्ताविशिष्टयोर्भेदसन्देहादिना श्रोता पृच्छति तदा तदिदंशब्द-योरन्यतरस्यैव निषेधप्राधान्यविवक्षया सः अयञ्च देवदत्त एवेत्युत्तरं प्रवर्तते । तथा च श्रोतृबुभुत्सानु-सारेण पक्षत्रयमपि सम्भावितमित्याचार्याभिप्रेतमवगम्यत इति भावः ।

ननु पक्षत्रयस्य सम्भावितत्वेऽपि कथमाचार्याभिप्रेतत्वं निश्चीयते । तन्निश्चायकवचनाभावादि-त्याशङ्कते- कुत इति ।। कुतो वचनादेतत्पक्षत्रयं निश्चीयत इति शेषः । पक्षद्वयेति ।। आद्य-पक्षोक्ततद्देशकालयोरपीदानीं सत्त्वं स्यादिति बाधकस्यानित्येति वाक्येनेष्टापत्त्या परिहारा-दाद्यपक्षाङ्गीकारो ज्ञायते । न हि तदनङ्गीकारे तत्रोक्तबाधकपरिहारः सम्भवति । तद्देशकालविशिष्ट एवेत्युत्तरमूले तु द्वितीयाङ्गीकारः स्पष्ट एव । तत्र तद्देशकालविशिष्टत्वस्य वाक्यार्थत्वकथनेन विधेयत्वस्योक्तत्वादिति भावः ।

तृतीयपक्षाङ्गीकारज्ञापकं ब्रह्मसूत्रमुदाहरति- अनुस्मृतेरिति ।। आदिपदेन ‘तदेवेदमिति प्रत्यभिज्ञानाच्च’ इति भाष्यं गृह्यते । अत्र हि ‘यत्सत्तत्क्षणिकम् यथा दीपादि सन्तश्चामी भावाः’ इति क्षणिकत्वसाधकानुमानस्य प्रत्यभिज्ञाबाध उच्यते । तेन तदेतद्देशकालविशिष्टघटाद्यैक्य-विषयत्वं प्रत्यभिज्ञायाः सूत्रकाराभिप्रेतमिति वक्तव्यम् । अन्यथा तस्या बाधकत्वासम्भवात् । एवञ्च तज्जन्याभिलापस्यापि तदेतद्देशकालविशिष्टैक्यप्रतिपादकत्वं सूत्रकाराभिप्रेतमिति ज्ञायते । अभिलापस्याभिज्ञासमानविषयत्वनियमादिति भावः । ननु यदि पक्षत्रयमाचार्याभिप्रेतं स्यात्तदा तदेतद्देशकालसम्बन्धित्वस्य  तद्विशिष्टैक्यस्य च सत्त्वादिति वचनव्यक्तिः स्यादित्याशङ्कते- तर्हीति ।।

द्वैतद्युमणि

उक्तं विवृणोति- प्रध्वंसो हीति ।। सर्वाभिः प्रतीतिभिः प्रायः स्वकालीनधर्मावगाहन-स्यौत्सर्गिकत्वात् स इत्यस्य तद्देशकालसम्बन्धध्वंसवानित्यर्थः इति भावः । प्रागभाव इति ।। स इत्यनेन पूर्वकालेऽतीतत्वविवक्षां विहाय पूर्वकालसम्बन्धमात्रबोधनपक्ष एतद्देशकालप्रागभावा-वच्छिन्नोऽयमित्यस्यार्थ इति भावः । अन्यतरलक्षणेति ।। पदद्वयमध्येऽन्यतरपदस्य स्वबोध्यदेश-कालाघटितं पदार्थान्तरान्वययोग्यतावच्छेदकं यद्रूपं तद्विशिष्टलक्षणेत्यर्थः । सर्वनाम्नापि बुद्धिस्थ-वाचित्वात् तादृशधर्मान्तरस्येदमादिपदप्रयोगहेतुतया बुद्धिस्थत्वाभावात् तद्विशिष्टबोधो लक्षणैवेति भावः ।

स्वयूथ्यानां रामानुजीयानाम् । निरस्तमिति ।। वक्ष्यमाणरीत्या देशकालघटितोक्तमुख्यार्थकत्व-स्यैव पदद्वयेऽपि सम्भवादिति भावः ।

तटस्थः शङ्कते- तथाऽपीति ।। त्रयमपीति ।। एतद्देशकालवैशिष्ट्यस्य पुरोवर्तिपिण्डे प्रत्यक्ष-सिद्धत्वेऽपि तद्देशकालसम्बन्धध्वंसविशिष्ट एतद्देशकालवैशिष्ट्यप्रकारकसन्देहेन तद्बुभुत्सायामाद्य-पक्षः प्रवर्तते । एतत्कालादिप्रागभावविशिष्टे तद्देशकालादिवैशिष्ट्यसन्देहादितबुभुत्सायां द्वितीयपक्षः प्रवर्तते । प्रथमकल्पे ‘सः देवदत्तः अयम्’ इत्युद्देश्यविधेयभावः । द्वितीयपक्षे ‘अयं देवदत्तः सः’ इत्युद्देश्यवधेयभावः । तात्पर्यानुसारेण योजनासम्भवात् । शाब्दबोधः सर्वपक्षेऽप्यभेदान्वयावगाही । परन्तु प्रथमद्वितीयपक्षयोस्तदनन्तरमेकविशिष्टेऽपरवैशिष्ट्यावगाहिमानसबोधः श्रोतुरिष्टो जायते । तन्निर्वाहकतयैव वाक्यसार्थक्यम् । तृतीयपक्षे वक्ष्यमाणे शाब्द एव श्रोत्रभिमतो भवतीति ज्ञेयम् । पक्षत्रयेऽपि विशिष्टवैशिष्टावगाही बोधो विशेषणयोः समकालिकत्वमवगाहते । अत एकविशिष्टेऽ-परवैशिष्ट्यस्य विशष्टद्वयैक्यस्य च सिद्धिः ।

श्रीराघवेन्द्रतीर्थ

अतीतत्वमपीति ।। ध्वंसप्रतियोगित्वमपीत्यर्थः । पक्षत्रयेऽपीति ।। स इत्यनूद्यायमि-त्येतद्वैशिष्ट्यविधिपक्षे अयमित्यनूद्य स इति तद्वैशिष्ट्यविधिपक्षे उभयानुवादेन ऐक्यमात्रविधिपक्षे चेत्यर्थः । अत एवेति ।। तदिदंशब्दयोरतीतवर्तमानदेशकालसम्बन्धार्थत्वादेव विशेषणयौगपद्य-प्रसङ्गरूपा विशेषणयोरभेदप्रसङ्गरूपा चानुपपत्तिरित्युक्तम्    ‘ननु कथमत्र’  इत्यादिपूर्वग्रन्थ इत्यर्थः । वाच्यतयेति ।। सोऽयमिति तदिदंशब्दवाच्यतयाऽनेनानित्यदेशकालसम्बन्धित्वस्येति मूलवाक्येनोक्तत्वादित्यर्थः । अविरोधमेव व्यनक्ति । न हीत्यादिना ।। तथा चायमर्थः । यदा ‘सः’ इति तद्देशकालसम्बन्धवन्तमनूद्य ‘अयम्’ इति  विधीयते तदा तद्देशकालसम्बन्धप्रागभाववानि-त्यर्थः । यदा तु अयमिति वर्तमानदेशकालसम्बन्धमनूद्य स इति विधीयते तदा तद्देशकालसम्बन्ध-ध्वंसवानित्यर्थः विशिष्टद्वयैक्यपक्षेऽपि एकदेशकालसम्बन्धः तद्देशकालसम्बन्धध्वंसवान् तद्देश-कालसम्बन्धो वा वर्तमानदेशादिसम्बन्धप्रागभाववान् इत्यर्थः । इति पक्षत्रयेऽपि विशेषणयो तद्देश-कालसम्बन्धयोर्यौगपद्यरूपाऽनुपपत्तिर्नेति प्राचीनग्रन्थो विवृतो ध्येयः ।

एतेनेति ।। तदिदंपदयोरविरुद्धविशेषणवाचकत्वकथनेन तदिदंपदयोरन्यतरपदं स्ववाच्य-विशेषणत्यागेन लक्षणया विशेष्यमात्रपरमिति लक्षणाऽऽश्रयणं स्वसमूहसम्बन्धिनां वैष्णवानां केषाञ्चिन्निरस्तमित्यर्थः । तयोरिति ।। धूमविशिष्टाग्निविशिष्टयोर्विशेषणभेदादैक्यमेव नास्तीत्यर्थः । दृष्टान्तेति ।। विशिष्टैक्ये विशेषणयोरप्यैक्यमित्यत्रेति योज्यम् । तथाऽपीति ।। पक्षत्रयेऽनुपपत्त्य-भावेऽपि सोऽयमित्यादौ कः पक्षः साधुरित्यर्थः । श्रोत्रिति ।। तत्पदार्थबुभुत्सायामयमितीदं-वैशिष्ट्यविधिः । इदंपदार्थजिज्ञासायां स इति तद्वैशिष्ट्यविधिः उभयैक्यबोधेच्छायां विशिष्ट-द्वयैक्यपक्ष इत्यर्थः । कुत इति ।। कस्माज्ज्ञापकादित्यर्थः ।

वक्ष्यमाणवाक्येन सह मूलवाक्यमनुवदति- अनित्येति ।। इति वचनादिति ।। तत्रादिपदेनैतद्देश-कालविशिष्ट इति च ग्राह्यत्वादिति भावः । अनुस्मृतेरिति ।। समयपादे पदार्थानां क्षणिकत्व-निराकरणेन स्थायित्वोपपादनाय तदेवेदमिति प्रत्यभिज्ञोक्त्यर्थं सूत्रम् । तत्र वस्तूनां पूर्वोत्तरकाल-स्थानां भेदोऽथाभेद इति जिज्ञासायां पूर्वोत्तरकालविशिष्टानामभेदोक्तेरिति भावः । तर्हीति ।। विशिष्टैक्यस्यैवाभिमतत्वेऽ-नित्यदेशकालसम्बन्धित्वविशिष्टस्येति वाच्यम् । कथं सम्बन्धित्वस्ये-त्युक्तिरित्यर्थः । उपलक्षणमिति ।। वैशिष्ट्यस्येति योज्यम् । यद्वा इति कथमित्यस्य एकस्यैवोक्तिः कथं वर्तमानदेशकालसम्बन्धित्वस्य सत्त्वादित्यपि वाच्यत्वादित्यर्थः । अयमपीति । सोऽयं देवदत्त इति दृष्टान्तोऽपीत्यर्थः । न्यायेति ।। प्रकृष्टत्वादिविशेषणानि सन्त्येवेत्युक्त्याऽनित्यदेशकाल-सम्बन्धरूपविशेषणस्यापि सत्त्वप्राप्तिरिति भावः । एतदनुपपत्तीति ।। पक्षत्रये परोक्तविशेषण-यौगपद्यादिरूपानुपपत्तीत्यर्थः । पक्षत्रयेऽपीत्यस्य विवरणमुत्तरत्र भविष्यति । ज्ञेयमिति ।। वर्तमानदेशकालसम्बन्धित्वस्य सत्त्वादित्यपि ग्राह्यमित्यर्थः । अत एवेति ।। स इत्यनेन बोधितस्य देशकालसम्बन्धस्या-तीतत्वेनायमित्येतेन विधेयभूतैतद्देशकालसम्बन्धबोधनकालेऽभावेन विरुद्धस्य विशेषणत्वानुपपत्तिः विधेयान्वयकाले सत एव विशेषणत्वादिति भावः । वाच्यतयेति ।। तदिदंशब्दवाच्यतयेत्यर्थः । अनेनेति । अनित्येत्यादिमूलवाक्येनेत्यर्थः । अविरोधमेवोपपादयति- न हीति ।। नन्वतीतस्येदानीं सत्त्वे विरोधः स्फुट एवेति चेत्तत्राऽह- प्रध्वंसो हीति ।। तथा स इत्यनेन  । तथा च सः तद्देशकाल-सम्बन्धध्वंसवान् । अयं एतद्देशकालसम्बद्ध इत्यर्थः । तथा अयं एतद्देशकालसम्बन्धप्रागभाववान् सः तद्देशकालसम्बन्धवानित्यर्थः । अन्यतरेति ।। उक्तरीत्या विशिष्टैक्यस्य बाधितत्वात् सोऽयमिति पदद्वयमध्येऽन्यतरपदस्य लक्षणा कार्या । यदा स इत्यस्य मुख्यार्थविवक्षा तदा अयमित्यस्य एतद्देशकालसम्बन्धरूपविशेषणपरित्यागेन देवदत्तस्वरूपमात्रे लक्षणा कार्या । तथा च तद्देश-कालसम्बद्धं देवदत्तस्वरूपमित्यर्थः । यदा तु अयमित्यस्य मुख्यार्थविवक्षा तदा स इत्यस्य तद्देश-कालसम्बन्धरूपविशेषणपरित्यागेन देवदत्तस्वरूपमात्रे लक्षणा कार्या । तथा चैतद्देशकालसम्बद्धं देवदत्तस्वरूपमित्यर्थ इत्येवं स्वयूथ्यानां तत्त्ववादितया अस्मद्यूथनिविष्टानां रामानुजानां अन्यतर-लक्षणाश्रयणं एतेन निरस्तम् । उक्तरीत्या वच्यार्थमविहायैवार्थस्योक्तत्वादित्यर्थः । ‘अन्यतर-लक्षणाश्रयणं कार्यम्’ इति रामानुजा इति न्यायामृतवचनादिति ज्ञेयम् । विशिष्टैक्य इति ।। उक्तरीत्याऽविरुद्धविशेषणद्वयविशिष्टद्वयैक्याङ्गीकारे विशेषणयोरपि तद्देशकालैतद्देशकालयोरैक्यं स्यादित्यर्थः । विशिष्टस्य यद्भवति तद् विशेषणस्यापि भवतीति न्यायादिति भावः । अस्याः व्याप्तेर्व्यभिचारमाह- धूमवदिति ।। धूमविशिष्टाग्निविशिष्टयोः पर्वतयोरित्यर्थः । ननु तत्राऽपादका-भावान्न व्यभिचार इति शङ्कते । तयोरिति ।। धूमवदग्निमतोरित्यर्थः । दृष्टान्तेति ।। विशिष्टैक्य-रूपापादकवतो दृष्टान्तस्याभावादित्यर्थः । १श्रोतृबुभुत्सेति ।। यदा श्रोता तत्ताविशिष्टे इदंतावैशिष्ट्यसन्देहेन पृच्छति कोऽयमिति तदा सः तद्देशकालसम्बन्धध्वंसवान् अयं एतद्देशकालसम्बद्ध इत्युत्तरं प्रवर्तते । यदा तु श्रोता इदंताविशिष्टे तत्तावैशिष्ट्यसन्देहेन कोऽयमिति पृच्छति तदा अयं एतद्देशकालसम्बन्धप्रागभाववान् सः तद्देशकालसम्बद्ध इत्युत्तरं प्रवर्तते । यदा तु तत्ताविशिष्टेदन्तविशिष्टयोर्भेदसन्देहेन कोऽयमिति पृच्छति तदा सोऽयमित्युत्तरं प्रवर्तते । तत्ताविशिष्टो देवदत्त एवेदन्ताविशिष्ट इत्यर्थः । पक्षत्रयस्यापि ज्ञापकमाह- अनित्येति ।। तद्देश-कालविशिष्टस्य  एतद्देशकालवैशिष्ट्यबोधने तद्देशकालयोरपीदानीं सत्त्वं स्यादिति बाधकस्या-नित्येति वाक्येन इष्टापत्त्या परिहृतत्वाद् आद्यपक्षाङ्गीकारो ज्ञायते । न हि तदनङ्गीकारे तत्रोक्तदोष-परिहारः सम्भवति । एतद्देशकालादिविशिष्टस्य तद्देशकालवैशिष्ट्यरूपद्वितीयपक्षाङ्गीकारस्तु ‘तद्देशकालादिविशिष्ट एव वाक्यार्थः’ इत्युत्तरमूले तद्देशकालवैशिष्ट्यस्य विधेयत्त्वेनोक्तत्त्वात् स्पष्टं ज्ञायत इत्यर्थः । विशिष्टद्वयैक्यरूपतृतीयपक्षाङ्गीकारस्तु ब्रह्मसूत्रभाष्याभ्यां ज्ञायत इत्याह- अनुस्मृतेश्चेत्यादिनेति ।। आदिपदेन तदेवेदमिति प्रत्यभिज्ञानाच्चेति भाष्यसङ्ग्रहः । अत्र हि यत् सत्तत्क्षणिकमिति बौद्धोक्तजगत्क्षणिकत्वानुमानस्य तदेवेदमिति प्रत्यभिज्ञाप्रत्यक्षविरोध उच्यते तेन च प्रत्यक्षेण तत्तेदन्ताविशिष्टयोरैक्यं स्पष्टमवगम्यत इति द्रष्टव्यम् । ननु पक्षत्रयस्याप्या-चार्याभिप्रेतत्वेनानित्यदेशकालसम्बन्धित्वस्येतिवत् तद्देशकालादिविशिष्ट एव वाक्यार्थ इतिवच्च विशिष्टद्वयैक्यमपि वाक्यार्थ इति अत्र कस्मान्नोक्तमित्यत आह- उपलक्षणमितीति ।। अनित्येति तद्देशकालादिविशिष्ट इति वाक्यद्वयं विशिष्टैक्यमपि वाक्यार्थ इत्यस्योपलक्षकमित्यर्थः । न्यायसाम्यादिति ।। ‘प्रकृष्टप्रकाशश्चन्द्रः’ इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम्’ इत्युक्तन्यायस्य, ‘सोऽयं देवदत्तः’ इत्यादिषु तद्देशकालविशिष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यं तत्त्वमस्यादिवाक्यस्येत्यत्रापि साम्यात्प्रकृष्टप्रकाश इत्यनेनैव ग्रन्थेन ‘सोऽयं देवदत्तः’ इत्ययमपि दृष्टान्तो दूषितो भविष्यति । अतः ‘अनित्यदेशकालसम्बन्धित्वस्य’ इत्यनेन ग्रन्थेन किं प्रयोजनमित्यर्थः । एतदनुपपत्तीति ।। ‘ननु कथमत्रलक्षणाश्रयणनिमित्त-वाच्यार्थानुपपत्त्यभावः’ इत्यादिनोक्तानुपपत्तिपरिहारेणेत्यर्थः ।

गुरुराजीया

अस्तु तावत्तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यं विधेयमित्याद्यः पक्षः । न चास्मिन् पक्षे तद्देशकालयोरिदानीं सत्त्वं स्यादिति दूषणमुक्तमिति वाच्यम् । तद्देशकालसम्बन्धस्येव तद्ध्वंसस्यापि अनुभवानुरोधेन स इत्येतदर्थत्वेन स इत्यस्य तद्देशकालसम्बन्धरूपैकमात्रार्थकत्वा-भावात् प्रकृते च स इत्यस्य तद्देशकालयोरिदानीं सत्त्वानापादकतद्देशकालसम्बन्धध्वंसार्थकत्वस्यैव विवक्षितत्वेन तदापादकतद्देशकालसम्बन्धार्थकत्वानङ्गीकारेण तदप्रसङ्गादित्यभिप्रेत्य गूढाभिसन्धिः परिहरति- न हीति ।। अतीतत्वमपीति ।। अत्र ध्वंसप्रतियोगित्वरूपातीतत्वस्य स इत्येत-च्छब्दार्थान्तर्गतत्वकथनं अतीतत्वान्तर्गतध्वंसमात्रस्य तच्छब्दार्थान्तर्गतत्वाभिप्रायम् । न तु विशिष्टस्यापि तदन्तर्गतत्वाभिप्रायम् । ध्वंसमात्रस्य तदन्तर्गतत्वविवक्षयोक्तदोषपरिहारसम्भवेन विशिष्टस्य तदर्थान्तर्गतत्वाश्रयणप्रयासवैयर्थ्यादिति ज्ञेयम् ।

अस्त्वेवं स इत्यस्योभयार्थत्वम् । तथाऽपि प्रकृते कस्तदर्थ आश्रियत इत्यत आह- एवञ्चेति ।। इदञ्च तद्देशकालसम्बन्धध्वंसस्य स इत्येतदर्थकत्वं स इत्यनुवादेन अयमिति विधानपक्षे । तत्रैव तद्देशकालयोरापादितस्येदानीं सत्त्वस्य परिहाराय स इत्यस्य तद्देशकालसम्बन्धार्थकत्वपरित्यागेन तद्ध्वंसार्थकत्वपर्यन्तधावनस्यार्थवत्त्वात् । न तु अयमित्यनुवादेन स इति विधानपक्षेऽपि । तत्र तद्देशकालयोस्तदानीं सत्त्वेन स इत्यस्य तद्देशकालसम्बन्धार्थकत्वस्योपपन्नत्वेन तत्परित्यागेन तद्देशकालसम्बन्धध्वंसार्थकत्वपर्यन्तधावनस्यानर्थकत्वादिति ध्येयम् ।

अस्तु वा एतद्देशकालविशिष्टे तद्देशकालवैशिष्ट्यं विधेयमिति द्वितीयः पक्षः । न चैतस्मिन् पक्षे एतद्देशकालयोस्तदानीं सत्त्वं स्यादिति दूषणमुक्तमिति वाच्यम् । एतद्देशकालसम्बन्धस्येव तत्प्रागभावस्यापि अयमित्येतदर्थत्वेन अयमित्यस्यैतद्देशकालसम्बन्धरूपैकमात्रार्थकत्वाभावात् । प्रकृते च अयमित्यस्यैतद्देशकालयोस्तदानीं सत्त्वानापादकैतद्देशकालसम्बन्धप्रागभावार्थकत्वाभ्युप-गमेन तदापादकैतद्देशकालसम्बन्धार्थकत्वानङ्गीकारेण तदप्रसङ्गादित्यभिप्रेत्य गूढाभिसन्धि-रुत्तरमाह- अयमित्यस्यापीति ।। वर्तमानता चेति ।। अत्र वर्तमानत्वस्य अयमित्येत-च्छब्दार्थान्तर्गतत्वकथनं वर्तमानत्वान्तर्गतप्रागभावस्यैव १तदन्तर्गतत्वाभिप्रायम् । न तु विशिष्टस्यापि तदन्तर्गतत्वाभिप्रायम् । प्रागभावमात्रस्य तदन्तर्गतत्वाश्रयणेनैवैतत्पक्षोक्तदोषपरिहारेण विशिष्टस्य तदर्थान्तर्भावाश्रयणस्यानर्थकत्वात् । अयमित्यस्यैतद्देशकालसम्बन्धप्रागभावार्थकत्वञ्च अयमित्य-नुवादेन स इति विधानपक्षे । तत्रैवैतद्देशकालयोस्तदानीं सत्त्वस्याऽपादितत्वेन तत्परिहाराय अयमि-त्यस्य एतद्देशकालसम्बन्धार्थकत्वपरित्यागेन तत्प्रागभावार्थकत्वपर्यन्तानुधावनस्यार्थवत्त्वात् । न तु स इत्यनुवादेन अयमिति विधानपक्षेऽपि । तत्रैतद्देशकालयोरिदानीं सत्त्वेन एतद्देशकालसम्बन्धस्य अयमित्येतदर्थकत्वसम्भवात् तत्परित्यागेनैतद्देशकालसम्बन्धप्रागभावार्थकत्वपर्यन्तधावनस्यानर्थ-कत्वादिति ध्येयम् ।

एवं पक्षद्वयोक्तदोषपरिहारेण तदुपपाद्योपसंहरति- न चेति ।। यद्यप्यत्र तृतीयपक्षे प्रागुद्भावित-दोषानुपपत्तिः विशिष्टैक्येत्यादिनोत्तरत्राऽशङ्क्य परिहरिष्यते । न तु पूर्वत्र परिहृतेति पक्षद्वयेऽपीत्येव वक्तुमुचितम् । न तु पक्षत्रयेऽपीति । तथाऽपि तत्र सम्भावितानुपपत्त्यन्तरपरिहारस्य पूर्वत्र सिद्ध-प्रायत्वाभिप्रायेणैवमुक्तम् । विशिष्टद्वयैक्यं बोध्यमिति तृतीयपक्षे स इत्यस्य न तद्देशकालसम्बन्ध-ध्वंसमात्रार्थकत्वम् । तथा सति तद्देशकालसम्बन्धध्वंसविशिष्टस्य मध्यस्थस्येदन्ताविशिष्टेना-भेदबोधनादनेन तदभेदस्य सिद्धिप्राप्तावपि तद्देशकालसम्बन्धविशिष्टस्येदन्ताविशिष्टेनाभेदाबोधनेन तदसिद्धिप्रसङ्गात् । नापि तद्देशकालसम्बन्धमात्रं तदर्थः । तथा सति तद्देशकालसम्बन्धविशिष्ट-स्येदन्ताविशिष्टेनाभेदबोधनादनेन तदभेदसिद्धिप्राप्तावपि तद्देशकालसम्बन्धध्वंसविशिष्टस्य मध्यस्थस्येदन्ताविशिष्टेनाभेदाबोधनात्तदसिद्धिप्रसङ्गात् । किन्तु तद्देशकालसम्बन्धविशिष्टस्ये-दन्ताविशिष्टेनाभेदबोधनदशायां स इत्यस्य तद्देशकालसम्बन्धार्थत्वं मध्यस्थस्येदन्ताविशिष्टेना-भेदबोधनदशायां तु तस्य ध्वंसार्थत्वमित्येवमुभयार्थत्वमित्यतो युक्तमुभयाभेदबोधकत्वम् । एवम् अयमित्यस्यापि नैतद्देशकालसम्बन्धमात्रार्थत्वम् । तथा सति एतद्देशकालसम्बन्धविशिष्टस्य तत्ताविशिष्टेनाभेदबोधनादनेन तदभेदसिद्धावपि मध्यस्थस्यैतद्देशकालसम्बन्धविशिष्टत्वाभावेन तस्य तत्ताविशिष्टेनाभेदस्याबोधनादनेन तदसिद्धिप्रसङ्गात् । नाप्येतद्देशकालसम्बन्धप्रागभाव-मात्रार्थकत्वम् । तथा सति एतद्देशकालसम्बन्धप्रागभावविशिष्टत्वान्मध्यस्थस्य तत्ताविशिष्टेनाभेद-बोधनात्तस्य तेनाभेदस्यानेन सिद्धावपि एतद्देशकालसम्बन्धविशिष्टस्य तत्ताविशिष्टेनाभेदाबोधना-त्तदसिद्धिप्रसङ्गात् । किन्तु एतद्देशकालसम्बन्धविशिष्टस्य तत्ताविशिष्टेनाभेदबोधने तस्यैतद्देश-कालसम्बन्धार्थकत्वं मध्यस्थस्य तदभेदबोधनदशायां तु तस्यैतद्देशकालसम्बन्धप्रागभावार्थकत्व-मित्येवमुभयार्थकत्वमित्यतो युक्तमुभयाभेदबोधकत्वमिति तृतीयपक्षोपपादनस्यापि पूर्वेण सिद्धत्वादिति द्रष्टव्यम् ।

स इत्यनुवादेन अयमिति विधानपक्षे स इत्यस्य तद्देशकालसम्बन्धध्वंसार्थत्वमेव । अयमित्यनुवादेन स इति विधानपक्षे अयमित्यस्यैतद्देशकालसम्बन्धप्रागभावार्थत्वमेवेति सिद्धान्तिनो गूढाभिप्रायमजानानः स इत्यनुवादेऽपि तस्य तद्देशकालसम्बन्धार्थत्वमपि अयमित्यनुवादेऽपि तस्यैतद्देशकालसम्बन्धार्थत्वमपीति मन्वानः शङ्कते- नन्विति ।। अत एव यतः स इत्यस्य तद्देशकालसम्बन्धोऽप्यर्थः अयमित्यस्यैतद्देशकालसम्बन्धोऽप्यर्थः अत एवेत्यर्थः । अनुपपत्तिः तद्देशकालसम्बन्धविशिष्टे एतद्देशकालसम्बन्धवैशिष्ट्यस्यैतद्देशकालसम्बन्धविशिष्टे तद्देशकालसम्बन्धवैशिष्ट्यस्य विधानानुपपत्तिः । आद्ये तद्देशकालयोरिदानीं सत्त्वस्य द्वितीये एतद्देशकालयोस्तदानीं सत्त्वस्याऽपाताद् इत्युक्तमित्यर्थः ।

आशयमुद्घाटयति- अविरुद्धेति ।। अविरुद्धत्वमेवोपपादयति- न हीति ।। अतीत-देशादिसम्बन्धस्येति ।। देशादिसम्बन्धातीतत्वस्येत्यर्थः । उपलक्षणञ्चैतत् । देशादिसम्बन्धस्य वर्तमानत्वरूपवर्तमानदेशादिसम्बन्धस्य तदानीं सत्त्वेऽपि विरोधाभावादित्यपि द्रष्टव्यम् ।

कथं न विरोध इत्यतः स इत्यनुवादेन अयमिति विधानपक्षे देशादिसम्बन्धातीतत्वरूपातीत-देशादिसम्बन्धार्थकस्य स इत्यस्य तद्देशकालसम्बन्धध्वंसार्थत्वेन तद्देशकालसम्बन्धार्थत्वाभावात् स इत्यनेन तद्देशकालसम्बन्धध्वंसोक्तावपि तद्देशकालसम्बन्धानभिधानान्न तद्देशकालयोरिदानीं सत्त्वप्राप्तिरित्यभिप्रेत्याऽह- प्रध्वंसो हीति ।। स इत्यनुवादेन अयमिति विधानपक्षे प्रध्वंसः देशादिसम्बन्धप्रध्वंसः तथा देशादिसम्बन्धातीतत्वरूपातीतदेशादिसम्बन्धार्थक स इत्येत-च्छब्दार्थत्वेनोच्यते । न तु देशादिसम्बन्धः । अतो नोक्तदोषप्रसङ्ग इति योजना ।

अयमित्यनुवादेन स इति विधानपक्षे देशादिसम्बन्धवर्तमानत्वरूपवर्तमानदेशादिसम्बन्धार्थकस्य अयमित्यस्य देशादिसम्बन्धप्रागभावार्थकत्वेनैतद्देशकालसम्बन्धार्थकत्वाभावान्नैतद्देशकाल-योस्तदानीं सत्त्वप्रसङ्ग इत्यभिप्रेत्याऽह- तथेति ।। अयमित्यनुवादेन स इति विधानपक्षे देशादिसम्बन्धवर्तमानत्वरूपवर्तमानदेशादिसम्बन्धार्थकायमित्यनेनैतद्देशकालसम्बन्धप्रागभाव एवोच्यते । न त्वेतद्देशकालसम्बन्ध इति नोक्तदोष इत्यर्थः । एतेनेति ।। सोऽयमिति पदद्वयस्य मुख्यार्थमादायैव पक्षद्वयेऽपि परोक्तदूषणपरिहारेणेत्यर्थः । अन्यतरलक्षणाश्रयणं १प्रागुक्तानुपपत्तिपरिहाराय सोऽयमित्यनयोरन्यतरस्य लक्षणया देवदत्तस्वरूपमात्रपरत्वा-श्रयणमित्यर्थः ।

यद्वा अस्तु तावदाद्यः । न चैवं सति तद्देशकालयोरिदानीं सत्त्वप्रसङ्गः । तदनापादकस्य ध्वंसपर्यवसन्नतद्देशकालसम्बन्धातीतत्वरूपातीततद्देशकालसम्बन्धस्यानुभवानुसारेण स इत्येतदर्थ-तया इदानीं तद्देशकालयोः सत्त्वापादकतद्देशकालसम्बन्धमात्रस्य तदर्थत्वाभावेन तदप्रसङ्गादि-त्यभिप्रेत्य गूढाभिसन्धिरुत्तरमाह- न हीति ।। स इत्यस्योक्तोऽर्थश्च स इत्युद्दिश्य अयमिति विधानपक्षे विशेषणम् । इदानीं तद्देशकालसम्बन्धध्वंसस्य सत्त्वेन तस्य विशेषणताया उपपन्नत्वात् । अयमित्युद्दिश्य स इति विधानपक्षे तूपलक्षणम् । तदानीं तद्देशकालसम्बन्धस्यैव सत्त्वात् तद्ध्वंसस्यासत्त्वेन तस्य विशेषणताया बाधितत्वादिति द्रष्टव्यम् ।

अस्तु वा द्वितीयः । न चैवं एतद्देशकालयोस्तदा सत्त्वप्रसङ्गः । तदनापादकस्य प्रागभाव-पर्यवसन्नैतद्देशकालसम्बन्धवर्तमानत्वरूपवर्तमानैतद्देशकालसम्बन्धस्यैव अयमित्येतदर्थतया तदानीमेतद्देशकालसत्त्वापादकस्यैतद्देशकालसम्बन्धमात्रस्य अयमित्येतदर्थत्वाभावेन तदप्रसङ्गादि-त्यभिप्रेत्य गूढाभिसन्धिरुत्तरमाह- अयमित्यस्यापीति ।। अयञ्चार्थः अयमित्यनुवादेन स इति विधानपक्षे विशेषणम् । तदानीमेतद्देशकालसम्बन्धप्रागभावसत्त्वेन तस्य विशेषणताया उपपन्न-त्वात् । स इत्यनुवादेन अयमिति विधानपक्षे तूपलक्षणम् । इदानीमेतद्देशकालसम्बन्धस्य सत्त्वात्तत्प्रागभावस्यासत्त्वेन तस्य विशेषणताया बाधितत्वादिति ज्ञेयम् ।

विशिष्टद्वयैक्यबोधनपक्षेऽपि मध्यस्थस्येदन्ताविशिष्टस्य चैक्यबोधनदशायां स इत्यस्यार्थो विशेषणम् । मध्यस्थे तद्देशकालसम्बन्धध्वंसस्य सत्त्वेन विशेषणताया उपपन्नत्वात् । तद्देशकाल-विशिष्टस्यैतद्देशकालविशिष्टस्य चैक्यबोधनदशायां तूपलक्षणम् । तद्देशकालविशिष्टे तद्देशकाल-सम्बन्धध्वंसस्यासत्त्वेन तस्य विशेषणताया बाधितत्वात् । एवं मध्यस्थस्य तद्देशकाल-सम्बन्धविशिष्टस्य चाभेदबोधनदशायां अयमित्यस्योक्तोऽर्थो विशेषणम् । मध्यस्थे एतद्देशकाल-सम्बन्धप्रागभावस्य सत्त्वेन तस्य विशेषणताया उपपन्नत्वात् । एतद्देशकालविशिष्टस्य तद्देशकाल-विशिष्टस्य चैक्यबोधनदशायां तूपलक्षणम् । एतद्देशकालविशिष्टे एतद्देशकालसम्बन्ध-प्रागभावस्यासत्त्वेन तस्य विशेषणताया बाधितत्वात् । ततश्च पदद्वयार्थस्योक्तरीत्या विशेषण-त्वोपलक्षणत्वाश्रयणाद् विशिष्टद्वयैक्यबोधकत्वपक्षोऽपि युक्त एवेत्यभिप्रेत्य प्राग्व्युत्पादितान् पक्षानुपसंहरति- न चेति ।। न चैवं ‘एतेनान्यतरलक्षणाश्रयणम्’ इत्युत्तरग्रन्थविरोधः । तदनुरोधेन प्राग्व्युत्पादितपक्षत्रयेऽन्यतरलक्षणाभावस्य प्राप्तत्वात् । उक्तयोजनायां तु अन्यतरस्योप-लक्षणत्वाङ्गीकारेण लक्षणाया आश्रितत्वादिति वाच्यम् । एतेनेत्यग्रिमग्रन्थे अन्यतरस्य लक्षणया देवदत्तस्वरूपमात्रपरत्वाभावस्यैव पूर्वयोजनायां सूचितत्वेनान्यतरस्य पूर्वत्रोपलक्षणत्वाश्रयणेऽपि लक्षणया देवदत्तस्वरूपमात्रपरत्वानङ्गीकारेणोत्तरग्रन्थविरोधाप्रसङ्गात् ।

आशयमविद्वान् शङ्कते- नन्विति ।। अत एव यतः स इत्यस्यातीतदेशकालसम्बन्धोऽर्थः यतश्च अयमित्यस्य वर्तमानैतद्देशकालसम्बन्धोऽर्थः अत एव तद्देशकालयोरिदानीं सत्त्वस्य एतद्देश-कालयोस्तदानीं सत्त्वस्य चाऽपत्त्या तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यस्य एतद्देशकालविशिष्टे तद्देशकालवैशिष्ट्यस्य च विधानानुपपत्तिरित्युक्तमित्यर्थः । आशयमुद्घाटयति- अविरुद्धेति ।। विशेषणानामविरुद्धत्वमेव दर्शयति- न हीति ।। एतच्चोपलक्षणम् । वर्तमानैतद्देशकालसम्बन्धस्य तदा सत्त्वे विरोधो नास्तीत्यपि द्रष्टव्यम् ।

नन्वेतद्देशकालवैशिष्ट्यदशायां तद्देशकालयोः सत्त्वापादकत्वादतीतदेशकालसम्बन्धसत्त्वस्य१ कथमिदानीं सत्त्वे विरोधाभावः कथं च तदानीमेतद्देशकालसत्त्वापादकत्वादेतद्देशकालसम्बन्ध-सत्त्वस्य तदानीं सत्त्वे च विरोधाभाव इत्यत आद्ये विरोधाभावं दर्शयति- प्रध्वंसो हीति ।। प्रध्वंसः तद्देशकालसम्बन्धध्वंसः । तथा स इत्यनेनोक्ततद्देशकालसम्बन्धातीतत्वरूपातीतदेशकाल-सम्बन्धत्वेनोच्यते । न त्वन्यः । तद्देशकालसम्बन्धध्वंसस्येदानीं सत्त्वञ्च न तद्देशकालयोरिदानीं सत्त्वापादकमित्यविरुद्धमिति भावः । द्वितीयेऽपि तं दर्शयति- तथेति ।। प्रागभावः एतद्देश-कालसम्बन्धप्रागभावः तथा अयमित्यनेनोक्तैतद्देशकालसम्बन्धवर्तमानत्वरूपवर्तमानैतद्देशकाल-सम्बन्धत्वेनोच्यते । न त्वन्यः । एतद्देशकालसम्बन्धप्रागभावस्य तदा सत्त्वञ्च नैतद्देशकालयोस्तदा सत्त्वापादकमित्यविरुद्धमेवेत्यर्थः । तेनेत्यस्य तु पूर्वकल्प एवाभिप्राय२ इति योजना ।

तृतीयपक्षे प्रागुक्तामनुपपत्तिं परिहर्तुं शङ्कते- विशिष्टद्वयैक्य इति ।। विशिष्टस्य विशेषणविशेष्यतत्सम्बन्धात्मकत्वपक्षे विशेषणभेदेन पदार्थान्तरत्वपक्षे च विशेष्यभेदेनेव विशेषण-भेदेनापि तद्भेदस्याऽवश्यकत्वादिति भावः । व्यभिचारेण यत्र विशिष्टद्वयैक्यं तत्र विशेषणैक्यमिति तर्काङ्गभूतव्याप्तेरसिद्धेस्तर्काभासोऽयमित्याशयेन परिहरति- धूमवदग्निमतोरिति ।। विशेष्य-स्यैक्येऽपि विशिष्टद्वयस्यैक्याभावेनाऽपादकस्यैव तत्रागमनान्न व्यभिचार इत्याशङ्कते-तयोरिति ।।

माऽस्तु तर्हि व्यभिचारेण व्याप्त्यसिद्ध्या तर्कस्याऽभासत्वसिद्धिः । दृष्टान्ताभावेन व्याप्त्यसिद्ध्या तु भविष्यत्येव तत्सिद्धिरित्याशयेन परिहरति- तर्हीति ।। न चाग्निमतः अग्निमता साकमैक्य-स्थलेऽग्निमद्रूपविशिष्टद्वयैक्यस्याग्निरूपविशेषणद्वयैक्यस्य च सत्त्वात्तस्यैवोक्तव्याप्तौ दृष्टान्तत्व-सम्भवान्न दृष्टान्ताभावप्रयुक्तव्याप्त्यसिद्धिरपीति वाच्यम् । तावता दृष्टान्ताभावप्रयुक्तव्याप्त्य-सिद्ध्यप्राप्तावपि धूमवदग्निमतोः सत्यप्यैक्ये धूमाग्न्योरैक्याभावात्तत्र व्यभिचारेण व्याप्त्यसिद्धेराव-श्यकत्वात् । न च तत्र तयोरैक्यमेव नास्तीति न व्यभिचार इति वाच्यम् । विशिष्टमपदार्थान्तरमिति मते विशेष्यस्यैवोक्ताधिकरणत्वेऽपि१ धर्मयोरप्युद्देश्यतावच्छेदकत्वेन विशेषणत्वात् तस्यैव च विशिष्टद्वयाभेदशब्दार्थत्वात् । पदार्थान्तरमित्यावयोर्मते तु धूमाग्न्योर्भेदेऽपि धूमवानग्निमानित्य-बाधितसामानाधिकरण्यधीबलेन विशिष्टयोरभेदस्यापि सत्त्वात् । अन्यथा इदं रूप्यमित्युक्ते पुरोवर्तिनि२ रूप्यभेदाप्रतीते रूप्यार्थिनः पुरोवर्तिनि प्रवृत्तिश्च न स्यात् । तत्तेदन्तोप-लक्षितत्वरूपविशेषणभेदाद्विशिष्टभेदावश्यम्भावादित्याशयात् ।

यत्तु, अतीतत्वमपीत्यस्य ध्वंसप्रतियोगित्वमित्यर्थवर्णनं तदसत् । अतीतत्वशरीरान्तर्गत-ध्वंसमात्रस्य स इत्येतदन्तर्भावाश्रयणमात्रेणोक्तदोषपरिहारसम्भवेन ध्वंसप्रतियोगित्वरूपातीतत्वस्य तदर्थान्तर्भावाश्रयणानर्थक्यात् ।

यच्च वर्तमानताऽपीत्यस्य स्वप्रागभावप्रध्वंसरूपता चेत्यर्थवर्णनं तदप्यसत् । वर्तमानत्व-शरीरान्तर्गतप्रागभावमात्रस्य अयमित्येतदर्थान्तर्भावाश्रयणेनोक्तदोषपरिहारस्योपदर्शितत्वे-नोक्तरूपवर्तमानत्वस्य तदर्थान्तर्भावाश्रयणानर्थक्यात् । स्वकार्यप्रागभावसमयसम्बन्धित्वस्यापि वर्तमानत्वलक्षणेन३ तत्परित्यागेन स्वप्रागभावप्रध्वंसत्वरूपतद्विवक्षाया निर्निबन्धनत्वाच्च । न च स्वप्रागभावप्रध्वंसत्वस्योपपन्नत्वात् परिग्रहः४ । अन्यस्य त्वनुपपन्नत्वात्त्याग इति वाच्यम् । शेषा-नन्तपण्डितेन स्वकार्यप्रागभावसमयसम्बन्धित्वस्योपपन्नतायाः प्राक्सम्बद्धस्वाभावविरहस्य५ चानु-पपन्नतायाश्च व्युत्पादितत्वेन तस्यैव स्वीकर्तव्यत्वप्रसङ्गात् । नापि प्रकृतानुपयोगात्तत्परित्यागः । तदुपयोगाच्चैतस्य स्वीकार इति युक्तम् । आशयखण्डनावसरे एतस्यापि प्रकृतानुपयोगस्य वक्ष्यमाणत्वेनास्वीकार्यत्वप्रसङ्गात् ।

यच्च स्वप्रागभावप्रध्वंसत्वस्य  वर्तमानत्वलक्षणतायाः  शिवादित्यमिश्रसम्मतत्ववर्णनं तदप्य-सत् । प्राक्सम्बद्धस्वाभावविरहत्वस्य तल्लक्षणताया एव मिश्रसम्मतत्वेन स्वप्रागभावप्रध्वंसत्वस्य नित्यवर्तमानतायामव्याप्तस्य वर्तमानत्वलक्षणतायास्तदसम्मतत्वात् । न चानित्यवर्तमानताया एवात्र लक्ष्यत्वान्नित्यवर्तमानतायामेतदसत्त्वं नैतदलक्षणत्वापादकमिति वाच्यम् । ‘प्राक्सम्बद्धः स्वाभावः प्रागभावः तद्विरहस्तत्संसर्गाभावः । स च प्रागभावस्य प्रागभावाभावात् प्रध्वंसोऽ-त्यन्ताभावश्च । तदन्यतररूपत्वमित्यर्थः । एवञ्च नित्यानित्योभयवर्तमानत्वं सङ्गृहीतं भवति । अनित्यानां प्रागभावध्वंसरूपत्वान्नित्यानां तदत्यन्ताभावरूपत्वात्’ इति तद्व्याख्यानरूपग्रन्थ-पर्यालोचनया नित्यानित्यसाधारण्येन वर्तमानत्वस्यैव लक्ष्यत्वसिद्ध्या अनित्यवर्तमानतामात्रस्य लक्ष्यत्ववर्णनस्य तद्विरुद्धत्वात् । तदुक्तलक्षणे वर्तमानतामात्रस्य लक्ष्यतायामपि स्वप्रागभाव-प्रध्वंसत्वरूपलक्षणे अनित्यवर्तमानताया एव लक्ष्यत्वमित्यभिप्राये च स्वप्रागभावप्रध्वंसत्वस्य तेन तत्त्वेनानुक्ततया तदुक्तमिति प्रतिज्ञायाः ‘तच्च प्राक्सम्बद्धस्वाभावविरहत्वम्’ इति तद्वाक्यमुपन्यस्य ‘प्राक्सम्बद्धः स्वाभावः प्रागभावस्तद्विरहस्तत्प्रध्वंसस्तत्स्वरूपत्वम्’ इति तदर्थकथनस्य च गजस्नानवद्वैयर्थ्यापातात् ।।

अत एव ‘एवञ्च यस्यैतद्देशकालसम्बन्धप्रागभावो ध्वस्तः सोऽयमित्यनेनोच्यते इत्यपि ग्राह्यम्’ इत्युक्तं निरस्तम् ।  वर्तमानत्वशरीरान्तर्गतप्रागभावमात्रस्यायमित्येतदर्थान्तर्भावकथनमात्रेणोक्त-दोषपरिहारस्योक्तरूपवर्तमानताया अनुपपन्नत्वप्रकृतानुपयुक्तत्वोपपादनेन १तदर्थान्तर्भावस्य च दर्शितत्वेन विशिष्टस्य तदर्थत्वाभावात् ।

यच्च गूढाभिसन्धिराहेति ‘न चैवं सति’ इत्यादिग्रन्थप्रवृत्त्युपवर्णनं तदसत् । भावानव-बोधादित्युत्तरग्रन्थानुसारेण सर्वस्यापि न हीत्यादिपूर्वग्रन्थस्य गूढाभिसन्धिकत्वस्य सूचितत्वात् सर्वस्यापि गूढाभिसन्धिकत्वस्योपपादयितुं शक्यत्वाच्च तत्परित्यागेन न चेत्यादिग्रन्थमात्रस्यैव गूढाभिप्रायकत्ववर्णनस्य निर्निबन्धनत्वात् । व्याख्यात्रा गूढमभिप्रायमुपदर्श्यैव न चेत्यादिग्रन्थस्य गूढाभिसन्धिताया वक्तव्यत्वेन तमनुपदर्श्य गूढाभिसन्धिकत्ववचनस्य २शिष्यदन्धन-मात्रार्थकत्वेनायुक्तत्वाच्च ।

यच्च ‘आशयमविद्वान् शङ्कते’ इति नन्वित्यादिग्रन्थप्रवृत्त्युपवर्णनं तदसत् । आशयोद्घाटनपूर्वकं ‘तमविद्वान् शङ्कते’ इत्येव ग्रन्थावतारस्य तत्र तत्र दृष्टत्वेन तमनुद्घाट्योक्तरीत्या तदवतारस्य १शिष्यदन्धनमात्रार्थत्वात् ।

यच्च ‘न चातीतस्येदानीं सत्त्वे विरोधः’ इत्याशङ्कानिवर्तकतया प्रध्वंसो हीति वाक्यमवतार्य ‘यथा शशविषाणमसदित्यत्र प्रतियोगिप्राधान्यविवक्षायाम् अत्यन्ताभावप्रतियोगित्वमर्थः निषेध-प्राधान्यविवक्षायां तु तत्प्रतियोगिकोऽत्यन्ताभावोऽर्थः उभयथाऽपि प्रतीतेः, तथाऽत्राप्यतीत-सम्बन्धवाचितच्छब्दस्य प्रतियोगिप्राधान्यविवक्षायां ध्वस्तदेशकालसम्बन्धः निषेधप्राधान्य-विवक्षायाञ्चानुभवदेशकालसम्बन्धध्वंस एव वाच्यो भवति । एवं वर्तमानदेशकालसम्बन्ध-वाचीदंपदस्यापि यदि प्रतियोगिप्राधान्यविवक्षा तदा ध्वस्तप्रागभावप्रतियोगिदेशकालसम्बन्धः, यदा तु निषेधप्राधान्यविवक्षा तदा ध्वस्तसम्बन्धप्रागभाव एव वाच्यो भवति ।

एवञ्च यदाऽऽद्यपक्षपरिग्रहस्तदा स इति तच्छब्दस्य निषेधप्राधान्यविवक्षया अनुभवदेशकाल-सम्बन्धध्वंसवाचकत्वेनेदानीं तद्ध्वंसस्य सत्त्वान्न विरोधः । अस्मिन् पक्षेऽयमितीदंशब्देन वक्तुः प्रतियोगिप्राधान्यविवक्षैव । अन्यथा अनवधेयवचनत्वप्रसङ्गात् । तद्देशकालविशिष्टे एतद्देशकाल-वैशिष्ट्यबुभुत्सायामिदमुच्यते । बुभुत्सापूर्तिश्च नायमित्यत्र प्रतियोगिप्राधान्यविवक्षामन्तरेणोत्पद्यत इति हृदयम् ।

यदप्यत्राबोध्यत्वादिति दूषणं तन्न । एतद्देशकालवैशिष्ट्यस्य प्रत्यक्षत्वेऽपि तद्देशकालविशिष्टे तस्याप्रत्यक्षत्वादित्यग्रे वक्ष्यमाणत्वात् ।

यदा तु द्वितीयपक्षपरिग्रहस्तदा स इति तच्छब्दस्य प्रतियोगिप्राधान्ये वक्तृविवक्षयाऽतीत-सम्बन्धवाचित्वेऽपि अयमितीदंशब्दस्य निषेधप्राधान्यविवक्षया ध्वस्तसम्बन्धप्रागभाववाचित्वमेव वक्तुरभिप्रेतम् । तथा च पूर्वानुभवकाले इदानीं ध्वस्तैतद्देशकालसम्बन्धप्रागभावस्य२ सत्त्वान्न विरोधः । तदिदमाह- तथाऽयमिति प्रागभाव इति ।। अत्रापि स इति तच्छब्दार्थे बुभुत्सानुसारेण प्रतियोगिप्राधान्यविवक्षा आवश्यकी । अत एव ‘श्रोतृबुभुत्सानुसारेण’ इति वक्ष्यति ।

यदा तु तृतीयपक्षाङ्गीकारस्तदा तदिदंशब्दयोरन्यतरस्यैव निषेधप्राधान्ये वक्तृविवक्षया विशेषणयोरविरोधेन विशिष्टैक्यमुपपद्यते । नन्वविरुद्धयोरपि विशेषणयोर्भेदे कथं विशिष्ट-द्वयैक्यमुपपद्यत इति चेत् ‘विवादास्पदं विशिष्टद्वयं नाभिन्नं भिन्नविशेषणकत्वात्’ इति त्वदीयानुमानस्याप्रयोजकत्वात् । तदेतत्सर्वमभिप्रेत्य पूर्वं ‘न चैवं सति पक्षत्रयेऽपि काचिदनुप-पत्तिरस्ति’ इत्युक्तम्, इति भाववर्णनं१ तदप्यसत् ।

विकल्पासहत्वात्  । तथा हि, किमेतद्भाववर्णनं ‘प्रध्वंसो हि’ इति वाक्यस्याभिमतं किं वा सर्वस्य । नाऽद्यः । तथा सति असच्छशविषाणमित्यत्रेव स इति तच्छब्दस्यापि निषेधप्राधान्य-विवक्षया देशकालसम्बन्धध्वंसार्थकत्वेन तद्ध्वंसस्य चेदानीं सत्त्वान्न विरोध इत्येतावतैव तत्सिद्ध्या शिष्टवैयर्थ्यापातात् । नान्त्यः । तथा सति अतीतदेशादिसम्बन्धस्येदानीं सत्त्वे स्फुटो विरोध इत्याशङ्कापरिहारकतया ‘प्रध्वंसो हि’ इति ग्रन्थं, ननु वर्तमानदेशादिसम्बन्धस्य तदानीं सत्त्वे स्फुटो विरोध इत्याशङ्कापरिहारकतया ‘तथा’ इत्यादिग्रन्थमवतार्य२ वा अतीतदेशादिसम्बन्धस्येदानीं सत्त्वे वर्तमानदेशादिसम्बन्धस्य तदानीं सत्त्वे स्फुटो विरोध इत्याशङ्कापरिहारकतया ‘प्रध्वंसो हि’ इत्यादिसमग्रं ग्रन्थमवतार्य वा उक्तरीत्या आशयवर्णनस्य सङ्गततया कर्तव्यत्वेन तथा ग्रन्थावतारमकृत्वा उक्तरीत्या आशयवर्णनस्यासङ्गतत्वापातात् ।

अयुक्तञ्चेदमाशयवर्णनम् । तथा हि, यत्तावदुक्तं ‘यथा शशविषाणमसदित्यत्रासच्छब्द-स्योभयथा प्रतीत्यनुरोधेन निषेधप्रतियोगिप्राधान्यविवक्षाभेदेन निषेधप्रतियोगिरूपोभयार्थकत्वं तथा अतीतदेशादिसम्बन्धवाचितच्छब्दस्य प्रतियोगिप्राधान्यविवक्षाभेदेन३ ध्वस्तदेशादिसम्बन्धवाचित्वं निषेधप्राधान्यविवक्षया देशादिसम्बन्धध्वंसवाचित्वम् एवं वर्तमानदेशादिसम्बन्धवाचिनोऽयमितीदं-शब्दस्य प्रतियोगिप्राधान्यविवक्षया ध्वस्तप्रागभावप्रतियोगिदेशादिसम्बन्धार्थकत्वं निषेधप्राधान्य-विवक्षया ध्वस्तदेशादिसम्बन्धप्रतियोगिकप्रागभावार्थकत्वं’ इत्याशयेन पीठरचनं तदसारम् । ४नञ्समभिव्याहृतशब्दस्यापि प्रतियोगिनिषेधप्राधान्यविवक्षाभेदेन प्रतियोगिनिषेधरूपोभयार्थत्वे घटादिशब्दानामपि तत्प्रसङ्गेन नञ्समभिव्याहृतशब्दस्यैवोक्तविवक्षाभेदेनोभयार्थस्यावश्याऽ-श्रयणीयत्वस्थित्या असदिति नञ्समभिव्याहृतासच्छब्दस्य प्रतियोगिनिषेधप्राधान्यविवक्षया प्रतियोगितदत्यन्ताभावरूपोभयार्थतायाः सम्भवदुक्तिकत्वेऽपि स इति तच्छब्दस्य अयमितीदं-शब्दस्य च नञ्समभिव्याहृतत्वाभावेन तच्छब्दे प्रतियोगिप्राधान्यविवक्षया ध्वस्तदेशादि-सम्बन्धार्थकताया निषेधप्राधान्यविवक्षया देशादिसम्बन्धध्वंसार्थकताया इदंशब्दे च प्रतियोगि-प्राधान्यविवक्षया ध्वस्तप्रागभावप्रतियोगिदेशादिसम्बन्धवाचिताया निषेधप्राधान्यविवक्षया च ध्वस्तदेशादिसम्बन्धप्रतियोगिकप्रागभाववाचितायाश्चासम्भवदुक्तिकत्वात् । प्रतियोगिनिषेध-प्राधान्यविवक्षाभेदेन तच्छब्दे ध्वस्तदेशादिसम्बन्धवाचिताया इव देशादिसम्बन्धध्वंसवाचिताया इव इदंशब्देऽपि प्रतियोगिप्राधान्यविवक्षया ध्वस्तप्रागभावप्रतियोगिदेशादिसम्बन्धवाचिताया इव च निषेधप्राधान्यविवक्षया देशादिसम्बन्धप्रतियोगिकप्रागभावध्वंसवाचिताया एव प्राप्त्या ध्वस्तदेशादिसम्बन्धप्रतियोगिकप्रागभाववाचित्वाभावेन तद्वाचित्वोक्तेरज्ञानमूलकत्वापाताच्च ।

यच्च एवञ्चेत्यादिना आद्यपक्षेऽविरोधोपपादनं तदप्यसत् । स इत्यस्य नञसमभिव्याहृततया तत्र निषेधप्राधान्यविवक्षाप्रयुक्तनिषेधार्थकत्वासम्भवस्योक्तत्वात् । तावतैवाऽद्यपक्षेऽविरोधोपपादन-सिद्ध्या तत्पक्षेऽयमितीदंशब्दे प्रतियोगिप्राधान्यविवक्षावर्णनस्याऽनर्थक्याच्च । प्रतियोगि-प्राधान्यविवक्षायाः स्वरसतः प्राप्ततयोपपादनानपेक्षत्वेनाऽद्यपक्षे तच्छब्दे स्वरसतोऽप्राप्तनिषेधान्य-विवक्षाया१ एवोक्तयुक्त्योपपादनीयत्वेन तामनुपपाद्येदंशब्दे स्वरसतः प्राप्तप्रतियोगिप्राधान्य-विवक्षोपपादनस्यासङ्गतत्वापाताच्च ।

यदपि द्वितीयपक्षपरिग्रहे स इति तच्छब्दस्य प्रतियोगिप्राधान्ये वक्तृविवक्षयाऽतीतदेशादि-सम्बन्धवाचित्वेऽप्ययमितीदंशब्दस्य निषेधप्राधान्यविवक्षया ध्वस्तदेशादिसम्बन्धप्रतियोगिकप्रागभाव-वाचित्वात् पूर्वानुभवकाले इदानीं ध्वस्तैतद्देशादिसम्बन्धप्रागभावसत्त्वान्न विरोध इत्यविरोधोपपादनं तदप्यसत् । नञसमभिव्याहृततया तच्छब्दे इदंशब्दे च प्रतियोगिनिषेधप्राधान्यविवक्षाऽसम्भवेन  २ध्वस्तप्रागभावप्रतियोगिदेशादिसम्बन्धवाचित्वोक्तेः ध्वस्तदेशादिसम्बन्धप्रतियोगिकप्रागभाव-वाचित्वोक्तेश्चासामञ्जस्यात् । तद्विवक्षायामपि प्रतियोगिप्राधान्यविवक्षया तच्छब्दे ध्वस्तप्रागभाव-प्रतियोगिदेशादिसम्बन्धवाचित्वप्राप्त्या स इत्यस्य तदवाचित्वेऽपि निषेधप्राधान्यविवक्षया देशादि-सम्बन्धप्रतियागिकप्रागभावप्रध्वंसस्यैवेदंशब्दवाच्यत्वप्राप्त्या ध्वस्तसम्बन्धप्रागभाववाचित्वाभावेन पूर्वानुभवकाले इदानीं ध्वस्तैतद्देशकालसम्बन्धप्रागभावस्य सत्त्वमादायाविरोधोक्तेरज्ञानमूलक-त्वात्१ । आशयकथनावसरे तन्मात्रोक्तेरेव सङ्गतत्वेन ग्रन्थावतारस्यावक्तव्यतया २तदिदमयमिति तथाऽयमिति प्रागभाव इति मध्ये ग्रन्थावतारस्यासङ्गतत्वापाताच्च ।

यदपि ‘अत्रापि स इति तच्छब्दार्थे श्रोतृबुभुत्सानुसारेण प्रतियोगिप्राधान्यविवक्षा आवश्यिकीति तदावश्यकत्ववर्णनं तदप्यसत् । इदंशब्दे स्वरसतोऽप्राप्तनिषेधप्राधान्यविवक्षाया एवोक्तदोषपरिहारोपपादकतयाऽवश्यवक्तव्यत्वेन तच्छब्दे प्रतियोगिप्राधान्यविवक्षायाः स्वरसतः प्राप्ततयाऽवक्तव्यत्वेन वक्तव्यानुक्त्यवक्तव्योक्तिप्रसङ्गात् ।

यदपि श्रोतृबुभुत्सानुसारेणेति वक्ष्यतीत्युपष्टम्भकमुक्तं तदपि न । ‘किमत्र तत्वम् । पक्षत्रयमपीति ब्रूमः’ इत्यादिपूर्वोत्तरग्रन्थपर्यालोचनया पक्षत्रयस्य तात्विकतामात्रोपपादकत्वेनैकैकस्मिन्नपि पक्षे निषेधप्राधान्यविवक्षाऽऽवश्यकत्वानुपपादकत्वेन तस्य तत्रोपष्टम्भकत्वायोगात् ।

यदपि तृतीयपक्षाङ्गीकारेऽपि तदिदंशब्दयोरन्यतरस्यैव निषेधप्राधान्ये वक्तृविवक्षया विशेषणयोरविरोधेन विशिष्टैक्यमुपपद्यत इति वर्णनं तदप्यसत् । विशेषणयोः विरोधेनैक्यानुपपत्तेः प्रागनाशङ्कितत्वेनापरिहर्तव्यत्वात् । अनाशङ्कितत्वेऽपि सम्भावितत्वात्तस्याः परिहार्यत्वाभिप्राये३  आशङ्कासमाधानाभ्यां तृतीयपक्षोक्तदोषानुपपत्तिपरिहारकनन्वित्याद्युत्तरग्रन्थ एवैतदनुपपत्ति-परिहारस्य सङ्गतत्वेन पूर्वग्रन्थाशयवर्णनदशायां तत्परिहारवर्णनस्यासङ्गतत्वाच्च । तदिदं-शब्दयोरन्यतरस्य नञसमभिव्याहृततया तत्रोक्तविवक्षाया असम्भवदुक्तिकत्वाच्च । विवक्षायामपि वा अन्यतरस्य निषेधप्राधान्यविवक्षावत् प्रतियोगिप्राधान्यविवक्षाया अप्यवश्यवक्तव्यत्वेन निषेधप्राधान्यमात्रोक्तेर्निर्निबन्धनत्वाच्च ।

यदपि विवादास्पदं विशिष्टद्वयं नाभिन्नं भिन्नविशेषणकत्वादित्यनुमानमाशङ्क्याप्रयोजकत्वेन निराकृतं तदप्यसत् । साक्षादनुमानस्यानाशङ्कितत्वेनाप्रयोजकत्वेनादूषणीयत्वात् । सूचितत्वेन दूषणाभिधानाभिप्राये च तत्पक्षोक्तदोषपरिहारकनन्वित्याद्युत्तरग्रन्थ एवैतद्दूषणस्य सङ्गतत्वेन आशयकथनावसरे तद्दूषणाभिधानस्यासङ्गतत्वात् ।

यदपि अस्याप्याशयतया वर्णनीयत्वे उपष्टम्भकतया ‘न चैवं सति पक्षत्रयेऽपि काचिदनुप-पत्तिरस्ति’ इति पूर्वग्रन्थोपदर्शनं तदप्यसत् । तृतीयपक्षोक्तानुपपत्तेरुत्तरत्र परिहरिष्यमाणतया १पूर्वत्रापरिहृतत्वेऽपि तत्परिहारस्याल्पप्रयत्नसाध्यत्वेन वा पक्षद्वयोक्तानुपपत्तिपरिहारवद्बहु-प्रयत्नसाध्यत्वाभावेन वाऽस्मदुक्तरीत्या तत्पक्षे सम्भावितानुपपत्त्यन्तरपरिहाराभिप्रायेण वा पक्षत्रयेऽपि उत्तरत्र तत्पक्षोक्तदोषपरिहारं वक्तुं न हीत्यादिनोपोद्घातमुक्त्वा पक्षत्रयेऽप्युक्त-दोषाभावप्रतिज्ञारूपत्वेन वा सावकाशतयाऽप्रयोजकत्वस्याऽशयतया वर्णनीयत्वानुपपादकतया तत्रोपोद्बलकत्वायोगात् ।

यच्च भिन्नविशेषणकत्वानुमानम् अनुकूलतर्कसद्भावान्नाप्रयोजकमित्याहेति विशिष्टैक्य इति शङ्काग्रन्थप्रवृत्त्युपवर्णनं तदप्यसत् । तृतीयपक्षोक्तानुपपत्तिं परिहर्तुं तामाशङ्कत इत्येवं तदवतारस्य स्फुटप्रतिभासस्य परित्यागेन त्वया पूर्वग्रन्थाशयतया वर्णितस्येह टीकायां पूर्वोत्तरग्रन्थे तदनुवादरूपन्यायामृतग्रन्थे च सर्वथैवास्पष्टस्य भिन्नविशेषणकत्वानुमानप्रयोजकत्वस्योप-मर्दकतयैतद्ग्रन्थप्रवृत्त्युपवर्णनस्यासङ्गतत्वात् । कथञ्चित्सङ्गतत्वेऽपि भिन्नविशेषणकत्वाद्विशिष्टद्वयं नाभिन्नम् । न चाप्रयोजकत्वम् । अनुकूलतर्कसनाथत्वेन तदयोगादिति पूर्वपक्षाशयवर्णनेनापि प्रकृतग्रन्थस्य भिन्नविशेषणकत्वानुमानाप्रयोजकत्वोपमर्दकत्वस्य लाभान्मदुक्तरीत्यैवैतद्ग्रन्थ-स्योत्थापनीयत्वेन त्वदुक्तरीत्या तदवतारायोगाच्च । न चैवं पक्षत्रयेऽपीत्यादेरुक्तरीत्या सावकाशत्वेन भिन्नविशेषणकत्वानुमानाप्रयोजकत्वस्य सिद्धान्ताशयागमकत्वेन तस्य सिद्धान्ता-शयत्वासिद्ध्या तदुपमर्दकत्वेनैतद्ग्रन्थप्रवृत्त्युपवर्णनस्य निर्निबन्धनत्वाच्च ।

यच्च ‘अग्निमतोऽग्निमतैक्ये अग्नेरग्निनैक्यदर्शनान्न दृष्टान्ताभावः’ इत्याशङ्क्य ‘स्यादेवं दृष्टान्तोपपादनं यत्र विशिष्टैक्यमात्रमापादकं विशेषणैक्यमात्रमापाद्यमिति स्यात् । न चैवम् । तथात्वे तर्कस्यानिष्टापादनरूपत्वाभावप्रसङ्गात् । प्रकृतेऽपि तत्तादिविशिष्टेन तत्तादिविशिष्टस्यैक्ये तत्तादि-रूपविशेषणैक्यस्यापि विद्यमानत्वात् । तस्माद् विशिष्टद्वयैक्ये विशेषणद्वयैक्यं स्यादित्यापाद-नीयम् । अत्र च धूमवदग्निमतोरैक्याभावेऽङ्गीकृते दृष्टान्ताभावेन व्याप्तिग्रहासम्भवः’ इत्यभिप्राय-वर्णनं ‘तर्हि दृष्टान्ताभावेन’ इत्यादिग्रन्थस्य तदप्यसत् । ‘धूमवदग्निमतोरैक्यापादक-विशिष्ट-मपदार्थान्तरम्’ इति न्यायामृतस्थोत्तरग्रन्थानुसारेण ‘अग्निमतोऽग्निमतैक्ये अग्नेरग्निनैक्यदर्शनात्’ इति तच्छङ्काग्रन्थस्थेनेह१ टीकायां व्यभिचारेण व्याप्त्यसिद्ध्या आपादनानुपपत्तिवद् दृष्टान्ताभावेन व्याप्त्यसिद्ध्या आपादनानुपपत्तेरुपपत्तेरुक्तत्वेऽपि न तत्र तात्पर्यम् । वह्निमतो वह्निमतैक्ये वह्नेर्वह्नि-नैक्यदर्शनेन दृष्टान्ताभावप्रयुक्तव्याप्त्यसिद्ध्यनुपपत्त्या तत्प्रयुक्तापादनानुपपत्तेः निर्दलत्वात् । किं तु व्यभिचारेण व्याप्त्यसिद्ध्या तदापादनानुपपत्तावेव धूमवदग्निमद्रूपविशिष्टद्वयैक्यस्य धूमाग्निरूपविशेषणभेदस्य च विशिष्टमपदार्थान्तरमिति पदार्थान्तरमिति मतद्वयसाधारणत्वेन व्यभिचारस्य दृढतया तत्प्रयुक्तव्याप्त्यसिद्धेरवर्जनीयत्वेन तत्प्रयुक्तापादनानुपपत्तेः सदलत्वादित्य-भिप्रायसूचनेन दृष्टान्ताभावप्रयुक्तव्याप्त्यसिद्ध्या तदापादनानुपपत्तौ ग्रन्थकृदतात्पर्यस्य द्योतितत्वेन तदनुसारेण भवताऽपि ‘मास्तु तर्हि दृष्टान्ताभावेन व्याप्त्यसिद्ध्या तदापादनानुपपत्तिः । व्यभिचारेण व्याप्त्यसिद्ध्या तदापादनानुपपत्तिस्तु स्यादेव’ इत्येवं वह्निमतैक्येऽपीत्यादिन्यायामृतग्रन्थ-मूलकत्वादुक्ताक्षेपस्य परिहर्तव्यत्वेन तथाऽपरिहृत्य प्रकारान्तरेण तत्परिहारस्य तत्तात्पर्यापरि-ज्ञानमात्रमूलकत्वात् । विशिष्टद्वयैक्यं वेति २विकल्पग्रन्थानुसारेण ‘न तृतीयः विशेषणभूतदेश-कालैक्येन विना विशिष्टद्वयैक्यानुपपत्तेः । विशेषणैक्यस्य च प्रमाणबाधितत्वात्’ इति दूषण-ग्रन्थानुरोधेन च विशिष्टद्वयैक्यस्याऽपादकताया विशेषणद्वयैक्यस्याऽपाद्यतायाश्च सिद्धत्वेन विशिष्टैक्यादेरापादकत्वादौ बाधकोपदर्शनाय३ विशिष्टद्वयैक्यादेरापादकत्वादिना त्वदीयव्युत्पा-दनस्यानर्थकत्वाच्च धूमवदग्निमतोरैक्याभावेऽङ्गीकृते तस्य दृष्टान्तत्वासम्भवेऽपि अग्निमतोऽग्नि-मतैक्यस्याग्नेरग्निनैक्यस्य च दृष्टत्वेन तस्यैव यत्र विशिष्टद्वयैक्यं तत्र विशेषणद्वयैक्यमिति व्याप्तौ दृष्टान्तत्वेन तदभावप्रयुक्तव्याप्त्यसिद्ध्यनुपपत्त्या तत्प्रयुक्तापादनानुपपत्तेरसामञ्जस्यात् । धूमवदग्नि-मद्रूपविशिष्टद्वयस्यैक्यानङ्गीकारे आपादकाभावेनेव तदङ्गी-कारपक्षेऽपि आपाद्याभावेन दृष्टान्तत्वा-नुपपत्त्या ऐक्याङ्गीकारानङ्गीकारयोः दृष्टान्ताभावतद्भावानुपपादकत्वेनैक्याभावेऽङ्गीकृते दृष्टान्ता-भावेन व्याप्त्यसिद्धिप्रसङ्गोपपादनस्य प्रशिथिलमूलत्वाच्च ।

ननु  त्रयाणामप्येतेषां  पक्षाणामाचार्यसिद्धान्तत्वासम्भवात्  कश्चिदेव  तत्सिद्धान्त  इति वाच्यम् । तथा च१ तत्पक्षमेव परिगृह्य तत्रोक्तदोषपरिहारेण तदुपपादनमात्रेणैव चरितार्थत्वात् पक्षत्रयदोषपरिहारेण तदुपपादनमनर्थकमित्यभिप्रेत्य त्रिषु पक्षेषु कः पक्ष आचार्यसिद्धान्त इति पृच्छति- तथाऽपीति ।। त्रयाणामप्याचार्यसिद्धान्तत्वासम्भवः किं तेषां विरुद्धत्वम् किं वा तदङ्गीकृतत्वज्ञापकाभावादिति विकल्पद्वयं मनसि निधाय ‘नाऽद्यः । त्रयाणामेतेषां पक्षाणामव्यव-स्थितानां विरुद्धत्वेऽपि श्रोतुस्तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यबुभुत्सायां सः अयमिति तद्देशकालविशिष्टे एतद्देशकालवैशिष्ट्यं विधेयमित्याद्यः, एतद्देशकालविशिष्टे तद्देशकाल-वैशिष्ट्यबुभुत्सायां अयं सः इत्युद्देश्यविधेयभावव्यत्यासेन एतद्देशकालविशिष्टे तद्देशकालवैशिष्ट्यं विधेयमिति द्वितीयः, तस्य विशिष्टद्वयैक्यबुभुत्सायां तद्बोध्यमिति तृतीय इति श्रोतृबुभुत्सानुसारेण व्यवस्थितानामेतेषां त्रयाणामुक्तरीत्या अविरुद्धत्वेन विरुद्धत्वप्रयुक्तसिद्धान्तत्वासम्भवस्य वक्तुमशक्यत्वात्’ इत्याह- श्रोतृबुभुत्सानुसारेणेति ।। पक्षत्रयस्य तदङ्गीकृतत्वज्ञापकाभावान्नाऽ-चार्यसिद्धान्तत्वमिति द्वितीयपक्षमङ्गीकृतत्वज्ञापकोक्त्या दूषयितुमुत्थापयति- कुत एतदवगम्यत इति चेदिति ।। परकीयैतद्ग्रन्थव्यख्यानखण्डनं प्राग्वत् । तर्हीति ।। देशकालसम्बन्धित्वस्येव विशिष्टद्वयैक्यस्यापि वक्तव्यत्वेन तन्मात्रोक्तेरश्लिष्टत्वादिति भावः । देशकालसम्बन्धित्वस्येत्यस्य विशिष्टद्वयैक्योपलक्षणत्वेन देशकालसम्बन्धित्वमात्रपरत्वाभावान्नानुपपत्तिरित्याशयेन परिहरति- उपलक्षणमिति ।। एतदनुपपत्तिपरिहारेणेति ।। अत एव एतद्ग्रन्थव्याख्यानावसर एव ‘ननु कथमत्र’ इत्यादिना एतदनुपपत्तिमुद्भाव्य तत्परिहारो दर्शित इति द्रष्टव्यम् ।

गोविन्दीया

तस्येति ।। न सम्बन्धस्यातीतत्वं पूर्वत्वमित्यर्थः । तस्येति ।। सम्बन्धस्य वर्तमानता इदानीमस्तित्वमित्यर्थः । न चेति ।। यस्य तद्देशकालसम्बन्धो भूतस्यैतद्देशकालसम्बन्धोऽस्ति । यस्यैतद्देशकालसम्बन्धोऽस्ति तस्य तद्देशकालसम्बन्धोऽभूत् । यश्च पूर्वं तद्देशकालसम्बन्धवान् स इदानीमेतद्देशकालसम्बन्धवान् इत्येवमर्थेऽपि पक्षत्रयेऽपि काचिदनुपपत्तिर्नास्तीत्यर्थः  । तदिद-मिति ।। यन्मयोपपादितं तदिदमाचार्येणोक्तमनित्येतीत्यर्थः । नन्विति ।। अत एव तद्देशकालसम्बन्धस्यातीतत्वाद् एतद्देशकालसम्बन्धस्य स्वरूपतोऽभावाद् विशेषणैक्यप्रसङ्गेन विशिष्टैक्याभावात् पक्षत्रयेऽपि वाच्यार्थानुपपत्तिरित्युक्तमित्यर्थः । भावेति ।। अभिप्राया-नवबोधादित्यर्थः ।। भावानवबोधत्वमेवोपपादयति- अविरुद्धविशेषणानामिति ।। तद्देशकाल-सम्बन्धित्वे तद्देशकालसम्बन्धित्वविशिष्टैक्यरूपविशेषणानां यथा विरोधो नास्ति तथाऽनेनाऽ-चार्यवाक्येनोक्तत्वादित्यर्थः । अविरुद्धत्वमेवोपपादयति- न हीति ।। सामान्यतो विरोधाभावमभि-धाय कथमित्यापेक्षायामाह- प्रध्वंस इति ।। तद्देशकालसम्बन्धप्रध्वंसो हि प्रतियोगिप्राधान्यापेक्षया सम्बन्ध इति सशब्देनोच्यते । अविरोधेन प्रध्वंसस्य सत्त्वादित्यर्थः । तथेति ।। एतद्देशकाल-सम्बन्धप्रागभावः प्रतियोगिप्राधान्यापेक्षया सम्बन्ध इति, अयंशब्देनोच्यते । तद्देशकालसम्बन्ध-विशिष्टेऽविरोधेनैतद्देशकालसम्बन्धप्रागभावस्य सत्त्वादित्यर्थः । एतेनेति ।। विरोधाभावोपपादनेन स्वयूथ्यानाम् अनुपपत्तित्रयाक्षिप्तानामन्यतरलक्षणाश्रयणं निरस्तमित्यर्थः । कुत इति ।। एतत्त्रयम् आचार्याभिप्रेतमिति कुतः वाक्यादवगतमिति चेदित्यर्थः । अनित्येति ।। ‘अनित्यदेशकाल-सम्बन्धित्वस्य’ इति वचनात्  । तद्देशकालादिविशिष्ट  इत्युत्तरवचनाच्च  पक्षद्वयाङ्गीकारो  ज्ञायत इत्यर्थः । अनुस्मृतेश्चेति ।। ‘अनुस्मृतेश्च’१ इति ब्रह्मसूत्रेण तदिदमिति भाष्येण विशिष्टैक्यरूप-तृतीयपक्षाङ्गीकारो ज्ञायत इत्यर्थः । तर्हीति ।। विशिष्टैक्यस्येति पदमभिधाय देशकालसम्बन्धित्व-स्येति पदं कथमभिहितमित्यर्थः । उपलक्षणमिति ।। लक्षणया सम्बन्धित्वस्येति पदेन विशिष्टैक्यमपि सङ्गृहीतमित्यदोष इत्यर्थः । अयमपीति ।। सोऽयं देवदत्त इत्यपीत्यर्थः । न्यायसाम्यादिति ।। स्वरूपमात्रपरत्वाभावरूपसाध्यविकलत्वसाम्यादित्यर्थः । एतदिति ।। यद्यपि न्यायसाम्याद् दृष्टान्तस्य दूषितत्वेनानित्येत्यादिग्रन्थस्य प्रयोजनाभावेऽपि सोऽयं देवदत्त इत्यादौ वाच्यार्थानुप-पत्तिपरिहारेण सार्थक्यादित्यर्थः ।

नारोपन्तीया

नन्वतीतदेशकालसम्बन्धस्येदानीं सत्त्वे कथं न विरोध इत्यतोऽविरुद्धविशेेषणानामेव वाच्यतयाऽनेनोक्तत्वादिति सामान्येनोक्तं विशिष्यकथनेन विवृणोति । ध्वंसो हि तथोच्यत इति ।। तथा तच्छब्दार्थतया तद्देशकालसम्बन्धध्वंस उच्यत इत्यर्थः । इदमुक्तं भवति । अतीत-देशादिसम्बन्धस्तच्छब्दार्थः । तत्र प्रतिषेधप्राधान्येन वा प्रतियोगिप्राधान्येन वा निर्देशो वाच्यः । तत्र प्रतिषेधप्राधान्ये तद्देशकालसम्बन्धध्वंसवानयं वर्तमानकालसम्बन्धवानित्यर्थः । प्रतियोगि-प्राधान्ये तु- वर्तमानध्वंसप्रतियोगिकालविशिष्टस्तच्छब्दार्थस्स्यात् । तदायमिति प्रागभावः । इदं शब्दार्थो वर्तमानकालप्रागभावविशिष्ट इत्यर्थः । एवं चाविरुद्धविशेषणविशिष्टयोर्द्वयोरैक्यं सूपपन्नमेव । आद्यपक्षे पदद्वये लक्षणा नास्त्येव । द्वितीयपक्षे इदंशब्दस्य वर्तमानकालसम्बन्ध-वाचकस्य तत्प्रागभावविशिष्टे लक्षणा । न चैवं स्वयूथ्यानाम् अन्यतरलक्षणाश्रयणं निरस्त-मित्युत्तरग्रन्थविरोध इति वाच्यम् ।  स्वार्थपरित्यागरूपभागत्यागलक्षणामाश्रित्य स्वरूपमात्रे पर्यवसानमिति पराभिमतलक्षणायाः स्वयूथ्यैरन्यतरपदे स्वीकृतायाः निरसिष्यमाणत्वात् । आद्यपक्षे लक्षणायाः सर्वथाऽप्यनभ्युपगमाच्च । प्रकृते चाधिकः प्रागभावरूपपदार्थः प्रविष्टो न तु वाच्यार्थस्य हानिः । इयं च लक्षणा पराभिमतलक्षणातो ज्यायसी    ‘अधिकं प्रविष्टं न तु तद्धानिः’ इति न्यायात् ।

यद्वा- प्रागभावोऽपीदंपदार्थ एव अयमित्यस्य वर्तमानार्थकतायाः प्रागुक्तत्वात् । वर्तमानत्वं च ध्वंसप्रागभावानधिकरणकालवृत्तित्वम् । गगनादावप्यप्रसिद्धप्रतियोगिकात्यन्ताभाववादिनां इदमेव वर्तमानत्वम् । एवं च यथा तत्पदस्य प्रतिषेधप्रधानत्वे ध्वंसस्तच्छब्देनोच्यते, तथा इदंपदस्यापि प्रतिषेधपरत्वे प्रागभाव इदंपदेनोच्यते । तथा च यदा तच्छब्दस्य प्रतिषेधप्राधान्यमाश्रित्य अतीत-कालसम्बन्धध्वंसविशिष्ट इत्यर्थः तदा इदंशब्दस्य प्रतियोगिप्राधान्यमाश्रित्य ध्वंसप्रागभावा-नाधारकालवैशिष्ट्यमर्थ इति विशिष्टद्वयैक्यमविरुद्धमेव । यदा पुनस्तच्छब्दस्य प्रतियोगिप्राधान्यमाश्रित्य वर्तमानध्वंसप्रतियोगिकालविशिष्टोऽर्थः तदा इदंशब्दस्य प्रतिषेधप्राधान्यमाश्रित्य ध्वंसानाधार-कालवृत्तिप्रागभावविशिष्टोऽर्थ इति विशिष्टद्वयैक्यमविरुद्धमिति ज्ञातव्यम् । तथा च कुत्रापि लक्षणागन्ध एव नास्तीति नोत्तरग्रन्थविरोधः । नापि अविरुद्धविशेषणानामेव वाच्यतयेत्यस्य पूर्वग्रन्थस्य,  प्रध्वंसो हि तथोच्यत इत्यस्य च ग्रन्थस्य स्वरसभङ्गः । एतावत्त्वनुमन्यामहे-  यद्विशिष्टवाचकयोस्तदिदं-शब्दयोर्विशेषणविशेष्यभावव्यत्यासेन शाब्दबोधजनकत्वम् । यथा-  प्रत्यक्षमित्यस्य पदस्य सन्निकृष्टेन्द्रियाभिधायकत्वं, इन्द्रियसन्निकर्षाभिधायकत्वं च । भार्यापित्रादिवाचकश्वशुरादिशब्देभ्यस्तु व्यत्यासेन भार्यादिविशेष्यको बोधो भवत्येवेत्यत्र तु शब्दविशेषस्वभाव एव शरणम् । अतो नातिप्रसङ्ग इति सर्वमवदातम् ।

श्रोतृबुभुत्सानुसारेणेति ।। यदा श्रोतुः प्रत्यक्षेणायंपदार्थः सामान्येन सिद्धः, पूर्वावस्था च तस्य विशिष्यानुभूताऽपि न स्मर्यते, ततः पृच्छति – अयं कः ? इति । तमितरस्तदीयं पूर्वं स्मारयन्नाह । अयं सः इति । तदा एतद्देशकालविशिष्टस्य तद्देशकालवैशिष्ट्यं बोध्यते । यदा पुनः पूर्वावस्थां स्मरन्नपि, पुरोवर्तिनं पश्यन्नपि, न प्रत्यभिजानात्यतः पृच्छति - स कः ? इति । तमितर आह । सोऽयमिति । तदा तद्देशेकालविशिष्टस्यैतद्देशकालवैशिष्ट्यं बोध्यते । यदा पुनः पूर्वावस्थां स्मरति, पुरोवर्तिनं च पश्यति, विशेषजिज्ञासायां च पृच्छति - सः कः ? अयं च कः ? इति तमितरः प्रत्युत्तरयति - सः अयं च एक एवेत्याशयेन- सोऽयमिति ।। तदा विशिष्टद्वयैक्यमिति विवेकः । अत्रोद्देश्यविधेयभावभेदेन वाक्यार्थभेदः । स च ज्ञातत्वाज्ञातत्वनिबन्धनः । तत्र च श्रोतृबुभुत्सा नियामिकेति । अनुस्मृतेश्चेति ।। इदं च सूत्रं आत्मक्षणिकत्ववादं निराकर्तुं समयपादे पठितम् । तद्भाष्यं च- ‘तदेवेदमिति प्रत्यभिज्ञानाच्च’ इति । तेन तदेतद्देशकालविशिष्टद्वयैक्यं प्रत्यभिज्ञावाक्यार्थ इति आचार्याभिमतिर्ज्ञायत इति भावः । तर्हि देशकाल इति । अत्र प्रतियोगिप्राधान्यमात्रावगमादिति भावः । उपलक्षणमिति । प्रतिषेधप्राधान्यस्यापीति शेषः । तेन ध्वंसो हि तथोच्यत इत्याद्युक्तविरोधो नेति भावः । एतदनुपपत्तिपरिहारेणेति । प्रकृष्टप्रकाशश्चन्द्र इत्यत्र प्रकृष्टत्वप्रकाशत्वयोः विरुद्धविशेषणत्वाभावात् विशिष्टैक्यमस्तु नाम । तथाऽपि- सोऽयमित्यत्र विरुद्धविशेषणत्वात्कथं विशिष्टैक्यं युज्यत इत्यापाततो मन्दानामनुपपत्तिशङ्कोन्मिषति । तत्परिहारार्थमयं ग्रन्थ इत्यर्थः ।

जनार्दनभट्टीया

एवं परेण सोऽयमिति पदद्वयस्य कालमात्रपरत्वाभिप्रायेण पक्षत्रयानुपपत्तौ चोदितायामपि आचार्यः कालमात्रपरत्वम् अनङ्गीकृत्य वस्तुस्थितिमनुसृत्य प्रकारान्तरेणाखण्डार्थत्वं समर्थयति – मैवमित्यादिना ।। अत एवोक्तं न्यायामृते- ‘टीकायां तु तद्देशकालसम्बन्धमात्रं न तत्ता । किन्तु तद्ध्वंसः । स चेदानीमस्ति । एवञ्च पक्षत्रयेऽपि न दोष इत्यत उक्तम् – ‘वस्तुस्थितिप्रदर्शनमात्रं तत्तेदन्तयोः न केवलं बाल्ययौवनयोरिव सामानाधिकरण्यमात्रम् । किन्तु नीलत्व-उत्पलत्ववत् समानकालत्वमपीति प्रदर्शनार्थं च । न तु अखण्डार्थत्वार्थम् । तत्तोपलक्षितस्य इदन्त्वोपलक्षितेन इदन्तोपलक्षितस्य तत्तोपलक्षितेन वा ऐक्यबोधकत्वेनापि अस्य सखण्डार्थत्वोपपत्तेरपि इति अन्यथाऽपि सखण्डार्थत्वसिद्धेः । परेण तद्देशकालसम्बन्ध एतद्देशकालसम्बन्ध इत्यस्मिन् उदाहृते टीकोक्त-प्रकाराप्रसाराच्च’ इति । ‘स’ इत्यस्य कालादिसम्बन्धमात्रं नार्थश्चेत् तर्हि अधिकोऽर्थ कः? इति पृच्छति सति उत्तरमाह – तस्येति ।। १देशकालसम्बन्धस्येत्यर्थः । ‘स’ इत्यस्य अतीतार्थत्वे किं प्रमाणम्? इत्यत आह – तथेति ।। १प्रतियोग्यनुयोगिभावेन कालतद्ध्वंसयोः प्रधानोपसर्जनभावेनैव प्रतीतेरिति भावः । अतीतत्वमेव अभिधाय दर्शयति – एवञ्चेति ।। तस्य वर्तमानता चेति ।। तस्य कालसम्बन्धस्येत्यर्थः । एवञ्च अयमित्यस्य वर्तमानकालसम्बन्धः प्राङ् मा भूदित्यर्थः । अनित्यभावपदार्थस्य वर्तमानता नाम पूर्वकाले विद्यमानप्रागभावप्रतियोगित्वमेवेति भावः । अत्रापि ‘वर्तमानता च’ इति चशब्दात् कालस्तत्प्रागभावश्चेत्युभयार्थकोऽयं शब्द इत्यर्थः ।

ननु एवं सति अक्षादिशब्दवत् सोऽयमिति पदद्वयस्य नानार्थत्वं स्यादिति चेन्न । अक्षशब्दाद् वृक्षविशेषरथावयवयोरिव समप्राधान्यं विनाऽपि धीरोदारादिशब्दात् धैर्यादिविशिष्टस्येव प्रतियोग्यनु-योगिभावसम्बन्धेन प्रधानोपसर्जनभावापन्नानामेव पूर्वकालतद्ध्वंसवर्तमानकालतत्प्रागभावानां प्रतीतेरित्याचार्याशयात् ।

ननु ‘अनित्यदेशकालसम्बन्धित्वस्य’ इति मूले द्वितीयतृतीयपक्षीङ्गीकारसूचकं किमपि नास्ति? इत्यत आह – उपलक्षणमिति ।। कस्योपलक्षणम्? इत्यत आह–  वर्तमानेत्यपीति ।। आशयमविद्वान् शङ्कते– नन्वत एवेति ।। मूलगतानित्यदेशकालसम्बन्धित्वपदस्य वर्तमानदेशकालसम्बन्धित्वोप-लक्षकत्वादेव  उभयविशेषणसम्बन्धित्वस्य एकदेशे एकस्मिन् वस्तुनि अनुपपत्तिरिति शङ्कितु-राशयः । आशयानवबोधमेव आविष्करोति– भावेति ।। आशयमाविष्करोति– अविरुद्धेति ।। ‘सोऽयं देवदत्तः’ इति वाक्यस्यैव परेण दृष्टान्तीकृतत्वाद् देवदत्तत्वस्यापि विशेषणत्वेन विशेषणानामिति बहुवचनोपपत्तिः ।

ननु मायावादिमत इव किं भागत्यागलक्षणया अविरुद्धविशेषणानाम् अनेनोक्तिः नेत्याह – वाच्यतयेति ।। मुख्यवृत्तिविषयेनेत्यर्थः । अविरोधमेव प्रकटीकरोति – नहीति ।। इदानीमिति ।। ‘सोऽयं देवदत्तः’ इत्युपदेशकाल इत्यर्थः । किं तदविरुद्धं विशेषणं सोऽयमितिपदाभ्याम् अभिधीयते? इत्यत आह – प्रध्वंसो हीति ।। पूर्वकालध्वंससम्बन्ध इत्यर्थः । तथेति ।। स इति पदेनेत्यर्थः । स इति पदस्य ‘स नहुषः, अयं ययातिः’ इत्यादौ कालादिव्यवहितपरत्वात् कालादिव्यवधानं च कालादिध्वंस एवेति भावः ।

अयमत्र आशयविस्तारो बोध्यः – धीरोदारादिशब्दाद् धैर्यादिविशिष्टस्यैव स इति पदेन प्रतियोग्यनुयोगिभावसम्बन्धेन प्रधानोपसर्जनाभावापन्नयोरेव पूर्वदेशकालसम्बन्धतद्ध्वंसयोः प्रतीतेः तस्य पूर्वदेशकालसम्बन्धतद्ध्वंसौ अर्थः । तस्य पूर्वदेशकालसम्बन्धमात्रार्थकत्वे पूर्वकालविषयेन भेदेऽपि तत्तोल्लेखापत्या स्मृत्यनुभवजनितयोः व्यवहारयोः वैलक्षण्यं न स्यात् । स्मृत्यनुभवयोः संस्कारजन्यत्वाजन्यत्वाभ्याम् अनुभवकालस्य स्मृतिकाले वस्तुगत्या अतीतत्वेऽपि विषयकृतवैलक्षण्याभावाद् इति । तथाऽयमिति प्रागभाव इति ।। वर्तमानकालप्रागभाव इत्यर्थः । ‘स नहुषः, अयं ययातिः’ इत्यादौ अयमिति पदस्य कालाव्यवहितपरत्वात् कालाव्यवधानं च वर्तमानकालप्रागभाव इति भावः ।

अयमत्र आशयविस्तारो बोध्यः – धीरोदारादिशब्दात् धैर्यादिविशिष्टस्यैव अयमिति पदेन प्रतियोग्यनुयोगिभावसम्बन्धेन प्रधानोपसर्जनाभावापन्नयोरेव एतद्देशकालसम्बन्ध-तत्प्रागभावयोः प्रतीतेः तस्य वर्तमानदेशकालसम्बन्ध-तत्प्रागभावौ अर्थः । अत एवोक्तम् – अधस्तात् अयमित्यस्यापि न कालादिसम्बन्धमात्रमर्थः । किन्तु तस्य वर्तमानता चेति । यदत्र प्राचीनानां ‘तथाऽयमिति प्रागभाव इति वाक्ये अयमिति पदस्य भविष्यत्कालप्रागभावः’ इत्यर्थ इति व्याख्यानं तत् न शोभां बिभर्ति । न्यायामृते मायावादिना पूर्वकालध्वंसविशिष्टस्य इदानीं सत्वेऽपि एतत्कालप्रागभावाभावौ तत्कालविशिष्टस्य इदन्तावैशिष्ट्यं न ‘सोऽयं देवदत्तः’ वाक्यार्थ इति चोदिते तं प्रति भविष्यत्कालप्रागभाव एव इदन्ता इति प्राचीनव्याख्यानानुसारेण इदन्तावैशिष्ट्यार्थकत्वस्य सुप्रतिपादनत्वेन तदुपेक्ष्य ‘अनुवृत्तव्यावृत्तयोः’ इत्यादिग्रन्थेन समाधानान्तरकथनप्रयासानुपपत्त्या तद्विरोधप्रसङ्गात् । प्रपञ्चितं हि न्यायामृते चोद्यपूर्वकमिदमेव ।

ननु पूर्वकालध्वंसविशिष्टो मध्येऽप्यस्ति । इदन्ताविशिष्टस्तु मध्ये नेति कथं तयोरभेदः? न च इदन्ता नैतत्कालसम्बन्धः । किन्तु तत्प्रागभावः । तद्विशिष्टश्च मध्येऽपि अस्तीति वाच्यम् । पूर्वकालध्वंसविशिष्टस्य इदानीं सत्वेऽपि तत्कालप्रागभावविशिष्टस्य अभावादिति चेत्, न । अनुवृत्तव्यावृत्तयोः अभेदस्य विशेषमात्रस्य ऐक्येऽपि तत्तादेः विशेषणत्वस्य समर्थितत्वादिति । किञ्च घटमात्रशून्येऽपि भूतलादौ ‘अयं घटः’ इति व्यवहारप्रसङ्गः । भविष्यद्घटप्रागभावस्य वर्तमानकालेऽपि भूतलादावपि सत्त्वादित्यलं प्रपञ्चेन । इदञ्च प्रागभावार्थकत्वकथनं वस्तुस्थित्यनुसारेण । न तु ‘सोऽयं देवदत्तः’ इत्यस्य सखण्डार्थत्वार्थम् । ‘इदन्तोपलक्षितस्य तत्तावैशिष्ट्यं, तत्ताविशिष्टाभेदो वा, तत्तोपलक्षितस्य इदन्तावैशिष्ट्यं वा’ इत्यादि न्यायामृतोक्तरीत्या अन्यथाऽपि सखण्डार्थत्वस्य सुप्रतिपादनात् ।१

एतेनेति ।। ‘सोऽयम्’ इति पदाभ्याम् अविरुद्धविशेषणानां वाच्यताभिधानेनेत्यर्थः । किमत्रेति ।। पक्षद्वयमध्ये इत्यर्थः । बुभुत्सानुसारेणेति ।। श्रोतुरतीतकालसम्बन्धध्वंसादिवैशिष्ट्यबुभुत्सानुसारेणे-त्यर्थः । अनुस्मृतेश्चेत्यादिनेति ।। जगतः क्षणिकत्वनिराकरणार्थं भगवता बादरायणेन समयचरणे ‘अनुस्मृतेश्च’ इति सूत्रितम् । तस्यायमर्थः । तदेवेदमिति प्रत्यभिज्ञानाच्च न सत्वाद्यनुमानात् क्षणिकं जगदिति । तथा च विशिष्टद्वयैक्यं सूत्रकारस्य अभिमतम् । एवञ्च बादरायणमतस्यैव आचार्यमतत्वात् आचार्यस्यापि तृतीयपक्षाङ्गीकारः सम्मत इति ज्ञायते । ज्ञापयतीति भावः ।१ ‘इत्यादिना’ इत्यादिशब्देन ‘आकाशे चाविशेषात्’२ इति पूर्वसूत्रग्रहणम् । तर्हीति ।। सम्बन्धित्वस्येति ।। कथमिति ।।तृतीयपक्षे सम्बन्धिन इति वक्तव्यमिति भावः । अयमपि दृष्टान्त इति ।। ‘सोऽयं देवदत्तः’ इति वाक्यदृष्टान्त इत्यर्थः । अनेन ग्रन्थेनेति ।। ‘अनित्यदेशकाले’ इति वाक्येनेत्यर्थः । एतदनुपपत्तीति ।। पक्षत्रयानुपपत्ती-त्यर्थः ।