वेदवेदानुसारेषु ..

वेदवेदानुसारिप्रमाणानां श्रुत्यादिप्रमाणान्तरविरोधे सर्वथा हेयत्वाभावः

श्रीमज्जयतीर्थटीका

यथा प्रमाणविरुद्धानां युक्तीनामविषयवृत्तित्वेन व्याप्तिशून्यत्वेन चाऽभासत्वात्सर्वथा हेयत्वं किं तथा वचनानामपीत्यपेक्षायामाह-

मूल

वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।

इतराणि विरुद्धानि प्रलम्भभ्रमजान्यपि ।। इति व्यासस्मृतिः ।

वेदमनुसरन्तीति वेदानुसाराणि वेदवेदानुसारेषु प्रबलप्रमाणविरोधे सति तेषां विरुद्धमर्थं परित्यज्याविरुद्धोऽर्थः कल्पनीयः । न तु सर्वथा हेयानि । वेदवेदानुसारीतराणि प्रमाणविरुद्धानि चेत्प्रलम्भभ्रमजान्यतरत्वेन सर्वथाऽप्रमाणानीति ज्ञातव्यानि ।

ननु शब्दस्तावज्ज्ञानकरणम् । प्रमायाश्च ज्ञानकरणमात्राधीनत्वमङ्गीकृतम्    तस्मादितर-प्रमाणानामन्यार्थकल्पनैवोचितेति चेत् सत्यम् । तथाऽपि स्वतः प्रामाण्यस्यौत्सर्गिकत्वेन दोषाद् अप्रामाण्यस्यापि जननात् । प्रकृतवचनानि च विप्रलम्भादिमूलानीत्यप्रमाणान्येव । अत एवेतराण्यप्रमाणानीति  वक्तव्ये तदुपपादनाय प्रलम्भभ्रमजानीत्युक्तम् । प्रलम्भादिमूलत्वं च प्रबलप्रमाणविरोधानुमेयम् । अत एव विरुद्धानीत्युक्तम् । तर्हि वेदादिषु तत्कल्प्यं स्यादिति चेत् । अपौरुषेयत्वादिबाधकाभावे सत्येवमेव तत् । अत एव ‘वेदवेदानुसारेषु’ इत्युक्तम् । अन्यार्थकल्पनाप्रकारश्च लेशतो दर्शयिष्यते ।

श्रीविजयीन्द्रभिक्षु

अविषयवृत्तित्वेनेति ।। युक्तीनामाभासत्वज्ञापकं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्व-मविषयवृत्तित्वञ्चेति त्रितयम् । तत्र यथा प्रमाणविरुद्धयुक्तीनामविषयवृत्तित्वेन वा व्याप्तिशून्यत्वेन वा प्रामाण्यासम्भवात् सर्वथा हेयत्वमेव किं तथा वेदवेदानुसारिवचनानामपि हेयत्वम् अप्रमाणत्वेन प्रेक्षावदनुपादेयत्वमित्याशङ्कायामित्यर्थः । वेदानुसाराणीति ।। वेदाविरुद्धार्थपराणीत्यर्थः । वेदवेदानुसारिणां बाह्यागमशुष्कयुक्त्यादिविरोधे तस्यैव बाध्यतया कथमन्यार्थकल्पनमित्यत आह- प्रबलेति ।। अर्थमिति ।। अर्थत्वेन प्रतीतं तात्पर्यागोचरमिति यावत् । प्रलम्भेति ।। विप्रलम्भेत्यर्थः। ननु वेदवेदानुसारीतरवचनानामपि ज्ञानसामग्रीत्वात्तज्जन्यज्ञानेऽपि प्रामाण्यं दुर्वारम् । ज्ञान-प्रामाण्यस्योत्पत्तिज्ञप्त्योः स्वतस्त्वाङ्गीकारात् । न हि प्रामाण्यस्य ज्ञानसामान्यसामग्रीमात्र-प्रयोज्यत्वादन्यत्स्वतस्त्वमस्ति । न हि सामग्रीबलात् प्राप्तं प्रामाण्यं हातुं युक्तम् । तथा च वेदवेदानुसारिवचनवत्तदितरवचनानामपि मानान्तरविरोधेऽन्यार्थत्वमेवोचितम् । न तु सर्वात्मनाऽ-प्रामाण्यस्वीकार इत्यभिप्रेत्य शङ्कते- नन्विति ।। भवेदेतदेवं तदा यदि ज्ञानसामान्य-सामग्य्रास्तत्प्रयोजकत्वनियमो मयाऽभ्युपगम्येत । न चैतदस्ति । किन्तु ज्ञानसामान्यसामग्य्राः प्रामाण्यप्रयोजकत्वमौत्सर्गिकम् । उत्सर्गश्च बाधकैकापोह्यत्वनियत इति । यत्र सामान्य-सामग्य्रामधिकदोषो न प्रविशति तज्जन्यज्ञान एव प्रामाण्यनियमः । यत्र तत्प्रवेशस्तज्जन्य-ज्ञानस्याप्रमात्वमेव । न तु प्रमात्वं क्वचिदपीत्यङ्गीकाराद् वेदवेदानुसारीतरवचनानां ज्ञान-सामग्रीत्वेऽपि पौरुषेयत्वेन भ्रमप्रमादादिदोषपूर्वकत्वेन तज्जन्यज्ञानस्याप्रामाण्यमेव । न प्रबल-प्रमाणविरोधेऽर्थान्तरपरत्वेन प्रामाण्यस्वीकार इत्यभिप्रेत्य परिहरति- सत्यमिति ।। ननु तदप्रामाण्यं दोषैककल्प्यम् । दोषाश्चाप्रामाण्यरूपफलैककल्प्या इत्यन्योन्याश्रयात् तदप्रामाण्यकल्पनमेवा-युक्तमित्यत आह- प्रबलेति ।। प्रबलप्रमाणविरोधित्वेनानुमेयमित्यर्थः । तथा च नान्योन्याश्रय इति भावः । अत एवेति ।। प्रबलप्रमाणविरोधस्य तदनुमापकत्वाभावे विरुद्धानीति न वदेदित्यर्थः ।

विरुद्धानीत्यस्य विप्रलम्भादिमूलकत्वानुमापकत्वमात्रपरत्वं मन्वानः शङ्कते- तर्हीति ।। इतर-वचनवद्वेदस्यापि वाक्यत्वानुमितपौरुषेयत्वेन विप्रलम्भादिमूलकत्वकल्पनं किं न स्यादित्यर्थः । वाक्यत्वस्य पौरुषेयत्वं विनाऽप्याकाङ्क्षादिमच्छब्दत्वेनोपपत्त्या पौरुषेयत्वासाधकत्वात् महाप्रबन्धस्य लोके स्मर्यमाणकर्तृकत्वस्य बहुलमुपलम्भाद्वेदस्य च महाप्रबन्धत्वेऽपि तदनुपलम्भेन स्वतन्त्र-पुरुषप्रणीतत्वरूपपौरुषेयत्वाभावनिर्णयात् यत्र वाक्ये स्वतन्त्रपुरुषप्रणीतत्वरूपबाधकसम्भवः तत्रैव पौरुषेयत्वेन विप्रलम्भादिमूलकत्वकल्पनम् । न त्वतादृशे वेदेऽपीत्याह- अपौरुषेयत्वादीति ।। ननु प्रमाणविरोधस्थले वेदवेदानुसारिवचनानां विरुद्धमर्थं परित्यज्याविरुद्धान्यार्थकल्पनमेवोचित-मित्युक्तम् । अविरुद्धार्थानामनेकेषां कल्पनासम्भवेन तेषां नियतार्थकत्वाभावप्रसङ्गादित्यतआह- अन्यार्थेति ।। बुद्धिशालिनां दिङ्मात्रप्रदर्शनेनाप्यलमिति दर्शयति- लेशत इति ।।

श्रीवेदेशतीर्थ

व्याप्तिशून्यत्वेन चेति ।। प्रमाणबाधिते पक्ष एव व्यभिचारादिति भावः । वचनाना-मपीति ।। प्रमाणविरुद्धानामित्यनुवर्तते । मूलेऽपिशब्दस्तुशब्दार्थ इतराणीत्यनेन सम्बद्ध्यत इत्यभिप्रेत्य ‘इतराणि तु’१ इत्युक्तमिति ज्ञातव्यम् ।

श्रीराघवेन्द्रतीर्थ

अविषयवृत्तित्वेनेति ।। बाधितविषयत्वेनेत्यर्थः । भावार्थभ्रान्तिं निराह- वेदमनु-सरन्तीति ।। ‘घञ्यमनुष्ये बहुलम्’ इति बहुलग्रहणात्कर्तर्यपि घञिति भावः । प्रामाण्यस्येति ।। शब्दजन्यज्ञानप्रामाण्यस्येत्यर्थः । ज्ञानकारणमात्रेति ।। आप्तोक्तत्वादिगुणाधीनत्वं मात्रपदेन व्यावर्त्यते । तस्मादिति प्रामाण्यस्य ज्ञानकारणमात्राधीनत्वाद्वेदाननुसारिशब्दजन्यज्ञानप्रामाण्य-स्यापि तादृशत्वात् प्रमाणज्ञानजनकशब्दस्य प्रमाणत्वादित्यर्थः । स्वतःप्रामाण्यस्येति ।। ज्ञानजनकादेव प्रमाजननस्यौत्सर्गिकत्वेनानियतत्वेनेत्यर्थः । प्रकृतेति ।। वेदानुसारीतर-वचनानीत्यर्थः । प्रबलप्रमाणेति ।।

बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा ।’

इति तत्वनिर्णयोक्तेरिति भावः । एतत्कल्प्यमिति ।। विप्रलम्भभ्रममूलत्वं वाऽप्रामाण्यं वा कल्प्यं स्यादित्यर्थः । अत एवेति ।। १अपौरुषेयत्वादिसूचनादेवेत्यर्थः । दर्शयिष्यत इति ।। वाचारम्भणं विकारो नामधेयम्’ इत्यादिनेति भावः । अविषयवृत्तित्वेनेति ।। बाधितविषयत्वेनेत्यर्थः । प्रमायाश्चेति ।। ज्ञानप्रामाण्यस्येत्यर्थः । अधीनत्वं२ स्वतस्त्वमिति यावत् । प्रकृतेति ।। ईशादेरनीशत्वादिप्रतिपादकानि मायावाद्याचार्य-वचनानीत्यर्थः । तदुपपादनाय अप्रामाण्योपपादनाय । अनुमेयमिति ।। ‘बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा’ इति ब्रह्मर्कवचनादिति भावः । तत् विप्रलम्भादिमूलत्वम् । एवं ‘अपौरुषेयत्वादि’ इत्यादिपदेन वेदानुसारित्वग्रहणम् । ३एवमेतदिति ।। कल्पयामो वेदवेदानुसारिषु विप्रलम्भादिमूलत्वं यदि ४तद्बाधकापौरुषेयत्वादिकं न स्यादिति भावः । अत एव ।। अपौरुषेयत्वादिबाधक-सूचनार्थमेवेत्यर्थः । वेदेत्युक्त्याऽपौरुषेयत्वं सूचितम् ।

गुरुराजीया

व्याप्तिशून्यत्वेन चेति ।। प्रमाणबाधिते पक्ष एव हेतुसत्त्वेऽपि साध्यासत्त्वादिति भावः । वचनानामपीति ।। प्रमाणविरुद्धानां वचनानामपीत्यर्थः । मूलेऽपिशब्दस्तुशब्दार्थ इत्यभिप्रेत्याऽह- इतराणि त्विति ।। मूलेऽप्रमाणानीत्येव वक्तव्यत्वात् तथाऽनुक्त्वा प्रलम्भभ्रमजानीत्युक्तिर्व्यर्थे-त्यतोऽप्रामाण्योपपादनार्थत्वात् तदुक्तेर्न वैयर्थ्यमिति भावेन तदुपपादकतया तदुक्तिं योजयितुं तदनुपपत्तिशङ्कामुत्थापयति- नन्विति ।। अङ्गीकृतमिति ।। प्रामाण्यस्य स्वतस्त्वेन प्रमाया उत्पत्तौ ज्ञानकारणमात्राधीनत्वसिद्ध्याऽतिरिक्तकारणापेक्षत्वे तद्भङ्गेन स्वतस्त्वाभावप्रसङ्गादिति भावः । औत्सर्गिकत्वेनेति ।। यो धूमवानसावग्निमानिति धूमवह्निसम्बन्धस्य नियतत्ववत् न प्रमाया ज्ञानकारणमात्राधीनत्वं नियतम् । किन्त्वपवादाभाव एवेत्येवमौत्सर्गिकमेवेति भावः । दोषादिति ।। सहकारिणां सहजशक्तिप्रतिबन्धेन विपरीतशक्त्याधायकत्वस्य बहुलमुपलब्धत्वेन दोषसहकृत-शब्दस्याप्रमाजनकत्वस्य सम्भवादिति भावः । विप्रलम्भादीत्यादिपदेन भ्रमपरिग्रहः । कानिचिद्विप्रलम्भमूलकानीतराणि भ्रमजानीत्येवं विप्रलम्भादिमूलानीत्यर्थः ।

अन्येषां तु  विरुद्धानां विप्रलम्भोऽथ वा भ्रमः ।’

इत्यन्यत्र भगवत्पादोक्तेरिति भावः । तत्प्रकारश्च तद्वाक्यव्याख्यानावसरे तत्वनिर्णयटीकायां टीकाकृदुक्तरीत्याऽनुसन्धेयः । अत एवेति ।। ततः मूले न विरुद्धानीत्यस्य वैयर्थ्यमिति भावः । तत्कल्प्यमिति ।। कल्पकस्य विरोधस्य तत्राप्यविशिष्टत्वेन दोषजन्यत्वं कल्प्यं स्यादित्यर्थः । अत एवेति ।। अपौरुषेयत्वादिबाधकाभावे सत्येव विरोधस्य दोषजन्यत्वकल्पकत्वेन वेदादिषु तदसिद्धेरेवेत्यर्थः । लेशत इति ।। आद्यादिभ्य उपसङ्ख्यानात् तृतीयान्तात् तसिः । ततश्च लेशेनेत्यर्थः । दर्शयिष्यत इति ।। वाचाराम्भणं विविधप्रकार इत्यादिनेति शेषः ।

गोविन्दीया

अविषयवृत्तित्वेनेति ।। १साध्यवृत्तित्वेन साध्यसाधकत्वेनेति यावदित्यर्थः । सर्वथेति ।। २सर्वथा प्रामाण्यमित्यर्थः । तथेति ।। ३अविषयवृत्तित्वेनार्थप्रतिपादकत्वेनाऽभासत्वाद् वचनानि ‘तथा किम्’ प्रमाणानि किमित्यर्थः४ । नन्विति ।। शब्दस्तावत् ज्ञानकरणम् । ज्ञानगत-प्रामाण्यस्यापि करणमिति वक्ष्याम इति तावच्छब्दप्रयोगः । तत्प्रमायाश्च तस्य ज्ञानस्य यत्प्रमात्वं यथार्थज्ञानत्वरूपप्रामाण्यं तस्य च ज्ञानमात्रस्य यत्करणं तदधीनत्वमङ्गीकृतम् । ज्ञानगतप्रामाण्यस्य स्वतस्त्वेन तज्जनकशब्दरूपकरणप्रामाण्यस्यापि स्वतस्त्वमङ्गीकृतमित्यर्थः । तस्मादिति ।। इतरेषां वचनानां शब्दत्वेन स्वतःप्रामाण्याद् अन्यार्थकल्पनैवोचितेति चेदित्यर्थः । सत्यमिति ।। स्वतःप्रामाण्यमित्यङ्गीकारांशोऽन्यार्थकल्पनेनेत्यनङ्गीकारांश इत्यर्थः । तथाऽपीति ।। यद्यपि शब्दमात्रस्य स्वतःप्रामाण्यं तथाऽपि तत्प्रामाण्यस्यौत्सर्गिकत्वेन स्वाभाविकत्वेन, दोषात् तत्रा-प्रामाण्यस्यापि जननात् । शब्दत्वादेव प्रकृतवचनानि विप्रलम्भादिदोषयुक्तत्वाद् अप्रमाणा-न्येवेत्यर्थः । अत एवेति ।। दोषाप्रामाण्यज्ञानाभिप्रायादेवेत्यर्थः । प्रबलेति ।। प्रकृतवचनानि विप्रलम्भादिमूलानि प्रबलप्रमाणविरुद्धत्वादित्यनुमानेन विप्रलम्भादिमूलत्वं साध्यमित्यर्थः । अत एवेति ।। प्रबलप्रमाणविरोधानुमेयत्वादेव विरुद्धानीत्युक्तमित्यर्थः । तत्कल्प्यमिति ।। प्रबल-प्रमाणविरुद्धत्वेन विप्रलम्भादिमूलत्वं तेन चाप्रामाण्यं कल्प्यं स्यादिति चेदित्यर्थः  । अपौरुषे-येति ।। अपौरुषेयत्वआप्तोक्तत्वरूपबाधकाभावे सति एतद् अप्रामाण्यं विप्रलम्भादिमूलत्वं वा एवम् उक्तप्रकारेण स्यादित्यर्थः । अत एवेति ।। अपौरुषेयत्वाद्यभिप्रायादेवेत्यर्थः ।

जनार्दनभट्टीया

१इतरप्रमाणानामिति ।। वेदवेदानुसारिणामित्यर्थः । प्रमाणत्वाविशेषादिति भावः ।

ननु परकीयविप्रलम्भादेः अप्रत्यक्षत्वाद् वेदवेदानुसारीतरवचनानां विप्रलम्भादिजन्यत्वं कुतोऽवसीयते? इत्यत आह – प्रलम्भादीति ।। अत एवेति ।। ‘वेदास्ते नित्यविन्नत्वात्’ इत्यादिप्रमाणानुसारेण वेदशब्देनैव अपौरुषेयत्वसूचनार्थमित्यर्थः । लेशत इति ।। ‘वाचारम्भणश्रुत्यर्थकथनावसरे’ इति शेषः ।