यदि जडत्वं..

अप्रकाशत्वस्य जडत्वे आत्मनि व्यभिचारोपपादनम्

श्रीमज्जयतीर्थटीका

नाप्रमातृत्वं जडत्वम् । किं नाम अप्रकाशत्वम् । न च तदात्मन्यस्ति । तस्य ज्ञानस्वरूपत्वात् । अतः कथमनैकान्तिकमित्यत आह-

मूल

यदि जडत्वं नामाप्रकाशत्वं तदाऽप्यात्मनः स्वविषयप्रकाशत्वाभावात् परविषयप्रकाशत्वाभावाच्चानैकान्तिकमेव ।

यदि जडत्वं नामाप्रकाशत्वं परोऽङ्गीकुर्यात् तदा तदप्यनैकान्तिकमेव प्रतिपत्तव्यम् । आत्मनः प्रकाशत्वायोगात् । तथा हि, योऽयमात्मस्वरूपप्रकाशोऽङ्गीक्रियते स किं सविषयो निर्विषयो वा । आद्येऽपि किं स्वविषयः परविषयो वा । नाऽद्यः । तदभावात् । न द्वितीयः । परस्यैवापरेणानङ्गीकृतत्वात् । पराभावे च परविषयत्वस्य दुर्निरूपत्वात् ।

श्रीविजयीन्द्रभिक्षु

तदभावादिति ।। स्वस्य स्वविषयत्वानङ्गीकारादित्यर्थः । दुर्निरूपत्वादिति ।। अभावादित्यर्थः । यद्यात्मरूपज्ञानमविद्यमानपरविषयकं स्यात्तदा मोक्षेऽपि परविषयत्वापत्त्या संसाराविशेषः स्यादिति भावः ।

श्रीवेदेशतीर्थ

तदभावादिति ।। स्वस्य स्वविषयत्वानङ्गीकारादित्यर्थः । दुर्निरूपत्वादिति ।। अभावादित्यर्थः ।

श्रीराघवेन्द्रतीर्थ

शङ्कते- नाप्रमातृत्वमिति ।। तदभावादिति । कर्तृकर्मभावविरोधादित्यग्रे व्यक्तम् ।

गुरुराजीया

तदभावादिति ।। स्वस्य स्वविषयत्वाभावादित्यर्थः । १अभावे हेतोर्वक्ष्यमाणत्वादिति भावः । दुर्निरूपत्वादिति ।। सर्वाभावेन तत्सापेक्षसर्वज्ञत्वादीनां परेण ब्रह्मणि सत्त्वानङ्गी-कारादित्यर्थः । अन्यथा तेषामप्यङ्गीकारप्रसङ्गादिति भावः ।

गोविन्दीया

तदभावादिति ।। अविषयप्रकाशस्यैवाभावात् कर्तृकर्मणोरेकत्वेन विरोधादित्यर्थः ।

जनार्दनभट्टीया

यदि जडत्वमिति मूलावतारिकायां तस्य ज्ञानस्वरूपत्वादिति प्राप्तचोद्यस्य मूले ‘आत्मनो ज्ञानस्वरूपत्वाभावात्’ इति १प्रकाशत्वनिषेधाभावेन अप्रतीतेः स्वविषयप्रकाशत्वादिति विशेषनिरासेन सामान्यनिराकरणपरम् इदं मूलमिति वक्तुं मूलं योजयति – यदि जडत्वं नाम अप्रकाशत्वमित्यादिना ।। स किमिति ।। परविषयप्रकाशत्वाभावात् निर्विषयत्वाभावाच्च इत्यनिवेशस्तु निर्विषयप्रकाशत्वपक्षस्य स्फुटदूषणतया आक्षेपाक्षमत्वाद् इति ज्ञातव्यम् ।