अनुमानस्य चाप्रसिद्धविशेषणः पक्षः ..

अनिर्वचनीयस्यानुमानसिद्धत्वशङ्का तन्निरासश्च

श्रीमज्जयतीर्थटीका

माभूत्प्रत्यक्षेणानिर्वचनीयार्थसिद्धिः । विवादपदमनिर्वचनीयं बाध्यत्वात् । यन्नानिर्वचनीयं न तद्बाध्यं यथाऽऽत्मेत्यनुमानेन भविष्यतीत्यत आह-

मूल

अनुमानस्य चाप्रसिद्धविशेषणः पक्षः ।

चशब्दः प्रत्यक्षनिराकरणेनानुमाननिराकरणसमुच्चये वर्तते ।

Load More