न च मायाविना माया ..
वियदादेर्मायाजन्यत्वाभावे प्रमाणोक्तिः
श्रीमज्जयतीर्थटीका
न केवलं जगतोऽज्ञानजन्यत्वे मानाभावः । अपि तु प्रमाणविरोधश्चेति दर्शयन् वियदादेः ईश्वरमायाजन्यत्वाभावे तावदनुमानं व्याप्तिपक्षधर्मतोपपादनप्रयासनिरासाय पुराणवाक्येनैव दर्शयति-
मूल
न च मायाविना माया दृश्यते विश्वमीश्वरः ।
सदा पश्यति तेनेदं न मायेत्यवधार्यताम् ।।
चशब्दो यस्मादित्यर्थे । अवधारणे वा । ‘मायाविना पुंसा माया नैव दृश्यते’ इति व्यतिरेकव्याप्तिप्रदर्शनम् । ‘विश्वमीश्वरः सदा पश्यति’ इति पक्षधर्मतोपदर्शनम् । सदेति स्वरूपकथनम् । मायावी मायामपि परोक्षतो जानातीति व्यभिचारपरिहाराय दृशिग्रहणम् । दृशिर्हि साक्षात्कारे वर्तते । ‘तेनेदं न माया’ इति साधनत्वख्यापनेन साध्यनिर्देशः । नेश्वरमायाजन्यमिति यावत् । इयमत्र प्रयोगपरिशुद्धिः । अम्बरादिकं नेश्वरमायाजन्यं, तेन दृश्यमानत्वात् यद्यन्मायाजन्यं न तत्तेन दृश्यते । यथैन्द्रजालिकं वस्तु मायाविनेति ।
कथमृजावन्वये सति वक्रो व्यतिरेक आद्रियत इति चेन्न । व्याप्तिप्रदर्शनं व्यभिचाराभावोपपादनञ्चेति लाघवेनोभयं लभ्यत इत्यर्थवत्त्वात् ।
ननु मायाविनैन्द्रजालिकं वस्तु मा दर्शि । परमेश्वरेण दृश्यमानमपि वियदादिकं तन्मायामयं किं न स्यात् । तथा च विपक्षे बाधकाभावान्नेदं मायामयमित्यवधारणानुपपत्तिरिति चेन्न । मायाया लोकोपमत्वेऽदृष्टकल्पनाप्रसङ्गात् । अलौकिकत्वेऽविद्यामयत्वापातात् । उभयबहिर्भावे त्वस्माकमप्रतिपक्षत्वात् । तदेवं विपक्षे बाधकसद्भावाद्युक्तमवधारणम् । तदिदमुक्तम्- ‘इत्यवधार्यताम्’ इति ।
श्रीविजयीन्द्रभिक्षु
प्रमाणविरोधश्चेति ।। प्रमाणेन बाधश्चेत्यर्थः । स्मृत्युपनिबन्धनत्वेन वक्ष्यमाणरीत्या अनुकूलतर्कसत्त्वेन चोच्यमानहेतोः परोक्तशुष्कानुमानापेक्षया बलवत्त्वादिति भावः । माया-मपीति ।। मायां तत्कार्यमपीत्यर्थः । साधनत्वख्यापनेनेति ।। साधनत्वख्यापनेन सह साध्यनिर्देशः कृत इत्यर्थः । ननु ‘तेनेदं न माया’ इत्युक्ते इदंशब्दार्थस्य विश्वस्य मायातिरिक्तत्वं साध्यत इति प्रतिभाति । तच्च न परस्यानिष्टम् । तेनापि जगन्माययोः भेदाङ्गीकारादित्यत आह- नेश्वरेति ।। अन्वये सम्भवतीति ।। यद्येन दृश्यते न तत्तन्मायामयम् । यथा अस्मदादिदृश्यघटादिकमित्यन्वये सतीत्यर्थः । व्याप्तिप्रदर्शनमिति ।। अन्वयसहचारे प्रदर्शितेऽपि साध्याभाववति हेत्वभावानुपदर्शनेन व्यभिचाराभावाप्रदर्शनेन व्यभिचाराभावप्रदर्शनार्थं पुनर्यत्नान्तरमपेक्षितं स्यादिति भावः । अव-धारणेति ।। निश्चयेत्यर्थः । मायाया इति ।। मायाया लोकसिद्धमायासरूपत्वमङ्गीकृत्य १मायाया अपीश्वरदृश्यत्वाङ्गीकारे दृष्टहानादृष्टकल्पनाप्रसङ्गादित्यर्थः । अलौकिकत्व इति ।। लोकसिद्ध-मायाविलक्षणत्व इत्यर्थः । आविद्यकत्वेति ।। अविद्याकार्यत्वापातादित्यर्थः । जगतो मायाऽविद्योभयकार्यान्यत्वस्य त्वयाऽनभ्युपगमादिति भावः । उभयेति ।। अभ्युपगमे तु नास्माकमनिष्टमित्यर्थः । उदाहृतपुराणवाक्येऽवधार्यतामित्यस्य वैयर्थ्यमाशङ्क्योक्तप्रदर्शनपरतया सार्थक्यमित्याह- तदिदमिति ।।
श्रीवेदेशतीर्थ
यस्मादित्यर्थ इति ।। तथा च तेनेति सङ्गच्छत इति भावः । अवधारणे वेति ।। अन्यथा व्याप्तिप्रदर्शनासिद्धेरिति भावः । ननु पश्यतीत्यपरोक्षज्ञानोक्त्यैव व्यभिचारपरिहारात् सदेति व्यर्थमित्यत आह- सदेति स्वरूपकथनमिति ।। साधनत्वख्यापनेनेति ।। सहेति शेषः । ननु न मायेति कथं निगमनम् । सिद्धसाधनत्वप्रसङ्गात् । अथ न मायाजन्यमित्यर्थ इति चेत् । तथापि केनचिद्दृश्यमानमपि कस्यचिन्मायामयं भवतीतीश्वरेण दृश्यमानत्वेन सामान्यतो मायामयत्वाभावः कथं साध्यत इत्यत आह- नेश्वरमायाजन्यमितीति ।। नन्वेवमीश्वरमायाकल्पितत्वाभावसिद्धावपि न मायामयत्वाभावसिद्धिः । अन्यमायामयत्वसम्भवादिति चेन्न । परैरन्यमायामयत्वानङ्गीकारेणेश्वर-मायामयत्वाभावसाधनेऽमायामयत्वस्यैव सिद्धेरिति भावः । अवधारणानुपपत्तिरिति ।। अवधार्यता-मित्युक्तनिश्चयरूपावधारणानुपपत्तिरित्यर्थः । मायाया लोकोपमत्व इति ।। स्वाश्रयाव्यामोहक-त्वेनैन्द्रजालिकार्थहेतुभूतमायासादृश्य इत्यर्थः । अदृष्टकल्पनाप्रसङ्गादिति ।। तेन दृश्यमाने तन्मायामयत्वस्य लोकेऽदृष्टस्यैव प्रपञ्चे कल्पनाप्रसङ्गादिति भावः । अलौकिकत्व इति ।। लोक-मायाविलक्षणत्वे स्वाश्रयव्यामोहकत्व इति यावत् । अविद्यामयत्वापातादिति ।। मायायाः स्वाश्रयव्यामोहकत्वे अविद्यात्वापत्त्या विश्वस्याविद्यकत्वप्रसङ्गादित्यर्थः । तथा चाम्बरादिकं मायिकं दुःखादिकं त्वाविद्यकमिति विभागो न स्यादिति भावः । अप्रतिपक्षत्वादिति ।। मायाशब्द-वाच्यप्रकृत्याद्युपादानकत्वादेः प्रपञ्चेऽस्माभिरङ्गीकृतत्वादिति भावः ।
श्रीराघवेन्द्रतीर्थ
प्रमाणविरोधश्चेति ।। प्रत्यक्षानुमानागमसूत्ररूपप्रमाणविरोधश्चेति ‘न च माया’ इत्यारभ्य ‘न स्वप्नादिवदित्यादिभगवद्वचनेनापि निरस्ताः’ इत्यन्तप्रकरणेन दर्शयिष्यन्नित्यर्थः । तावदि-त्युभयत्र सम्बद्ध्यते । मायाजन्यत्वाभावे तावदित्यस्य सुखादेरनाविद्यकत्वे त्वपरोक्षदृश इत्युत्तर-वाक्य इत्यर्थः । १अनुमानान्तराभावादित्यस्य प्रत्यक्षादेरप्युत्तरवाक्यैरित्यर्थः । अनुमानमिति ।। दर्शयतीत्यन्वयः । प्रयोगप्रकारोऽग्रे व्यक्तः । तेनेति श्रवणादाह- चो यस्मादित्यर्थ इति ।। माया नैव दृश्यत इत्यादौ मायाशब्दः मायामयपरः । अत एव तेनेदं न मायेत्यस्य नेश्वरमायाजन्यमिति यावदिति वक्ष्यति । अवधारण इत्युक्तस्यान्वयोक्तिर्नैव दृश्यत इति । व्यावर्त्याभावादाह- स्वरूपकथनमिति ।। व्यभिचारेति ।। तेन दृश्यमानत्वादिति वक्ष्यमाणहेतोरिति योज्यम् । साधनत्वख्यापनेनेति सहयोगे तृतीया । साधनत्वख्यापनेन सहेत्यर्थः । निगमनमिति यावत् ।
उदाहरणोपनयनिगमनानामुक्त्या सिद्धं प्रयोगप्रकारमाह- इयमत्रेत्यादिना ।। सतीति । यद्येन दृश्यते न तत्तन्मायामयम् । यथा कुलालेन दृश्यमानं घटादीत्येवं सतीत्यर्थः । उभयं लभ्यत इति ।। विपक्षे हेतुसाध्ययोः द्वयोरप्यभावोक्त्या द्वयमपि लभ्यते । विपक्षाद्धेतुव्यावृत्तेरव्यभिचाररूपत्वा-दन्वयोक्तावस्यालाभादिति भावः। अर्थवत्त्वादिति ।। व्यतिरेकव्याप्त्युक्तेरिति योज्यम् । तथा चेति ।। एवं शङ्किते सतीत्यर्थः । अवधारणेति । १तेनेदं न मायेत्यवधारणायोगाद् इत्यर्थः । लोकोपमत्व इति ।। वियदादिहेतुभूतायाः २ईश्वरनिष्ठमायायाः लोके मायाविनिष्ठमायासरूपत्वेऽङ्गीकृते सति माया-विकृतमायामये अदृष्टस्य मायाविना दृश्यमानत्वस्य कल्पनाप्रसङ्ग इत्यर्थः । अलौकिकत्व इति ।। लोकमायाविलक्षणत्वे आविद्यकत्वप्रसङ्गः । आविद्यकस्यैव सुखादेः शुक्तिरूप्यादेश्चाविद्यावता दृश्यमानत्वाभ्युपगमात् । मायाऽविद्योभयजन्यत्वस्यैव प्रपञ्चेऽङ्गीकृतत्वेन लोकसरूपमायाजन्यत्वा-भावे आविद्यकत्वावश्यम्भावाच्चेति भावः । अप्रतिपक्षत्वादिति ।। ईश्वरेच्छानिमित्तकत्वरूपेश्वर-मायामयत्त्वस्य प्रपञ्चेऽस्माभिरभ्युपगमेन विश्वसत्यत्वाप्रतिपक्षत्वादवधारणानुपपत्तिः नेत्यन्वयः । तदेवमिति ।। अदृष्टकल्पनादिरूपेत्यर्थः । मायाशब्दात् ‘अस्मायामेधास्रजोविनिः’३ इति सूत्रेण मायास्यास्तीति मत्वर्थे विन्प्रत्यये मायाविन् प्रातिपदिकं सिद्ध्यति पश्चात्स्वाद्युत्पत्तौ मायावीति भवति । मायामिति ।। माया-कल्पितमित्यर्थः । साक्षात्कार इति ।। तथा च न दृश्यते । न साक्षात्क्रियत इत्यर्थः । ‘ख्यापनेन सह साध्यनिर्देशो’ निगमनम् । ‘हेतुपूर्वं पुनः पक्षवचो निगमनं मतम्’ इति वचनादिति भावः । व्याप्तीति ।। व्यतिरेकव्याप्तीत्यर्थः । व्यभिचाराभावेति ।। अन्वयव्याप्तौ व्यभिचारशङ्कायां साध्याभाववति हेत्वभावकथनेन हेतोरेवाभावान्न व्यभिचार इत्युक्तं भवति । नेदमिति ।। तथा चाप्रयोजकतेति भावः ।
गुरुराजीया
तेनेति तच्छब्दश्रवणाद् यस्मादित्यर्थकतया चशब्दं व्याख्याति- यस्मादित्यर्थ इति ।। अवधारणे वेति ।। अन्यथा व्याप्तिप्रदर्शनासिद्धेरिति भावः । ननु पश्यतीत्यपरोक्षतोक्त्यैव व्यभि-चारपरिहारात् सदेति व्यर्थमित्यत आह- सदेति ।। साधनत्वप्रख्यापनेनेति ।। सहयोगे तृतीया ।
ननु परेण मायात्वस्यानभ्युपगमेन सिद्धसाधनत्वात् कथं न मायेति निगमनम् । न च न माया-जन्यमित्यर्थकत्वाद्युक्तं निगमनमिति वाच्यम् । केनचिद् दृश्यमानस्याप्यन्यमायाजन्यत्वस्य१ सम्भवाद् ईश्वरेण दृश्यमानत्वेन मायामयत्वाभावसाधनायोगादित्यतस्तदुक्तेरभिप्रायमाह- नेश्वर-मायाजन्यमिति यावदिति ।। न चेश्वरमायाजन्यत्वाभावसिद्धावप्यन्यमायामयत्वाभावस्यासिद्ध्या कथममायामयत्वावधारणमिति वाच्यम् । अन्यमायामयत्वस्यानङ्गीकारपराहतत्वेन पराङ्गीकृतेश्वर-मायाकल्पितत्वाभावसिद्धावमायामयत्वस्यैव सिद्धेरित्यत्र तात्पर्यम् ।
अवधारणानुपपत्तिः अवधार्यतामित्युक्तावधारणानुपपत्तिः । लोकोपमत्व इति ।। स्वाश्रया-व्यामोहकत्वेनैन्द्रजालिकार्थहेतुभूतमायातुल्यत्व इत्यर्थः । अदृष्टेति ।। तेन दृश्यमानस्य तन्माया-मयत्वकल्पनस्यादृष्टत्वादिति भावः । अलौकिकत्व इति ।। लोकमायाविलक्षणत्वे स्वाश्रय-व्यामोहकाविद्यात्वापत्त्या विश्वस्याऽविद्यकत्वप्रसङ्गादित्यर्थः । तथा चाम्बरादिकं मायिकं दुःखादिकं त्वाविद्यकमिति पराभिमतविभागो न स्यादिति भावः । अप्रतिपक्षत्वादिति ।। मायाशब्दवाच्येश्वरेच्छानिमित्तकत्वस्य तच्छब्दवाच्यप्रकृत्युपादानकत्वस्यास्माभिरप्यङ्गीकृतत्वा-दिति भावः ।
गोविन्दीया
सदेति ।। दर्शनस्वरूपकथनमित्यर्थः । कथमिति ।। यद्येन दृश्यं तत्तन्मायाजन्यं न, यथाऽस्मदादिदृश्यब्रह्मवदिति ऋजान्वये सति कथं वक्त्रा व्यतिरेक आद्रियत इति चेदित्यर्थः । तथा चेति ।। एवमुक्ते सति विपक्षे यदीश्वरमायामयं स्यात्तर्हि तेन दृश्यमानत्वं न स्यादित्यस्येष्टा-पादकत्वेन बाधतर्कत्वाभावान्नेदं मायामयमिति साध्यावधारणानुपपत्तिरिति चेदित्यर्थः । मायाया इति ।। ईश्वरमायाया लोकमायासदृशत्वमङ्गीकृत्य तज्जन्यवस्तुनस्तेन दृश्यमानत्वाङ्गीकारेऽ-दृष्टकल्पना स्यात् । लौकिकमायाजन्यवस्तुन ऐन्द्रजालिकेन पुंसाऽदृश्यमानत्वादित्यर्थः । अलौकिकत्वे इति ।। तज्जन्यस्य बाह्यप्रपञ्चस्याविद्यामयत्वापातात् । तथा चापसिद्धान्त इत्यर्थः। उभयेति ।। लौकिकत्वालौकिकत्वाभावे इच्छापरत्वेन तज्जन्यत्वसाधने प्रपञ्चस्यास्माकमविरुद्ध-त्वादित्यर्थः । तदिति ।। तदिदं बाधकत्रयमाचार्यैरेवेत्यवधार्यतामिति वाक्येनोक्तमित्यर्थः ।
नारोपन्तीया
व्याप्तिप्रदर्शनं व्यभिचाराभावोपपादानं चेति ।। अन्वयव्याप्तौ प्रदर्शितायामपि, क्वचिद्धेतुमति साध्याभावः किं न स्यादिति शङ्कायां, यत्र साध्याभावः तत्र साधनाभाव इति व्यतिरेकोऽपि दर्शनीय इत्युभयत्र प्रदर्शने ग्रन्थगौरवं स्यात् । अनेन च साधने साध्याभाव-व्यापकाभावप्रतियोगित्वज्ञाने सति अन्वयव्याप्तिः स्वानुमेयैवेति भावः । लोकोपमत्व इति । ऐन्द्रजालिकमायातुल्यत्वे मायामयवस्तुनः ऐन्द्रजालिकेनादर्शनात् वियदादेरीश्वरेण दृश्यत्वाङ्गीकारे अदृष्टकल्पनमित्यर्थः । अलौकिकत्व इति । यथा देवदत्ताज्ञानकल्पितं रजतं देवदत्तेनाज्ञानिना दृश्यत एव, एवमीश्वरमायाकल्पितमपि तेन दृश्यतामित्यङ्गीकारे, रजतवद्वियदादेरविद्यामयत्वं प्रातिभासिकमापद्येत । ततश्चेश्वर एव पश्येन्नत्वन्ये जीवाः । न हि देवदत्ताज्ञानकल्पितं रजतं यज्ञदत्तः पश्यतीति पुनरनिष्ट एवापद्येतेति भावः ।
अस्माकमप्रतिपक्षत्वादिति । उभयबहिर्भूताचिन्त्येश्वरशक्तेर्मायाशब्दवाच्यायाः, अर्थक्रियासमर्थस्य सत्यभूतप्रपञ्चस्य कारणत्वेनास्माभिरप्यभ्युपगमादिति भावः ।
जनार्दनभट्टीया
‘न च मायाविना’ इति श्लोकस्य ‘नच जगत’ इति वाक्यसान्निध्यवशात् प्राप्तं जगतो अज्ञानजन्यत्वे मानाभावपरत्वं वारयन् अवतारयति – न केवलमित्यादिना ।। अम्बरादिकं नेश्वरमायाजन्यमिति वक्ष्यमाणानुमानेन ‘न च मायाविना’ इत्यस्य अन्वयव्याप्तिप्रदर्शनपरत्वाभावात् प्रकारान्तरेण उपयोगाप्रतीतेश्चाह – मायाविनेति ।। तथा च अन्वयव्याप्तिप्रदर्शकतया उपयोगाभावेऽपि व्यतिरेकव्याप्तिप्रदर्शकत्वेन उपयोग इति भावः । व्यभिचारपरिहारायेति ।। ईश्वरेण दृश्यमानत्वादिति हेतौ दृश्यपदमपहाय ज्ञायमानत्वादित्येव कृते मायाविना परोक्षतो ज्ञायमाने मायाकल्पितत्वरूपसाध्यरहिते तेन अज्ञायमानत्वरूपहेत्वाभावाभावेन व्यतिरेकव्याप्तौ व्यभिचारवारणायेत्यर्थः । तेन ‘इदं न माया’ इति निगमने मायात्वाभावस्य साध्यताप्रतीतेः न ईश्वरमायाजन्यमिति करिष्यमाणप्रतिज्ञानानुगुण्यमाशङ्क्य आह – नेश्वरेति ।। तथा च कारण-वाचकमायाशब्दस्य तज्जन्ये उपचार इति भावः । ईश्वरेण दृश्यमानत्वहेतौ दृशिग्रहणस्य सामान्यतो व्यतिरेकव्याप्तावेव ऐन्द्रजालिके व्यभिचारवारकतया तस्याश्च ‘न च मायाविना’ इति मूले यत्तदादि-पदाभावेन अप्रतीतेः प्रतिज्ञाहेत्वभिधानपूर्वकं सामान्यव्याप्तिमाह – इयमत्रेति ।।
किमियमीश्वरमाया ऐन्द्रजालिकपुरुषमायासदृशी उत तद्विलक्षणा अथवा उभयबहिर्भूता? इति विकल्प्य आद्यं निराह– मायाया इति ।। जगद्व्यामोहकेश्वरमायायाः लोकोपमत्वे लोके विद्यमानमायाविपुरुषमायासदृशत्व इत्यर्थः । अदृष्टेति– मायामयस्य मायिना दृश्यमानत्वम् अदृष्टमेव कल्प्येतेति भावः । द्वितीयं निराकरोति – अलौकिकत्व इति ।। अलौकिकपुरुषनिष्ठमायाविलक्षणत्व इत्यर्थः । अविद्यामयेति ।। त्वन्मते अनिर्वचनीयत्वस्य मायामयाविद्यामयान्यतरनियमाङ्गीकारादिति भावः । तृतीयं निराह – उभयेति ।। त्वदभिमतमायाविद्याबहिर्भूतेश्वरेच्छारूपत्वे तादृशेच्छाकल्पितत्वस्य सत्यत्वाविरोधित्वेन अस्माकमविरोधित्वादित्यर्थः ।