असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः ..

असतः प्रतीत्यनङ्गीकारे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

अत्यन्तासतः प्रतीत्यनङ्गीकारे बाधकञ्चाऽह-

मूल

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः ।

यदि  परोऽसन्न  प्रतीयात्तदा शुक्तिरजतादेरसद्वैलक्षण्यं न जानीयात् । वैलक्षण्यज्ञानस्य प्रतियोगिज्ञानसापेक्षतानियमात् । न हि केनाप्यविदिताद्घटाद्वैलक्षण्यं पटस्य ज्ञातुं शक्यते ।

श्रीविजयीन्द्रभिक्षु

असद्वैलक्षण्यं न जानीयादिति ।। इदमुपलक्षणम् । असत्प्रतीत्यभावे तत्प्रतीतिनिषेधानुप-पत्तिः असदादिपदप्रयोगानुपपत्तिश्चेत्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

बाधकञ्चेति ।। अत्यन्तासतो नरविषणादेरपि तत्पदात्प्रतीतिसम्भवेनेति साधकस्योक्त-त्वाच्चशब्द इति ज्ञातव्यम् ।

श्रीराघवेन्द्रतीर्थ

बाधकञ्चेति ।। न केवलं नरविषाणादिपदात् तत्प्रतीतिरूपसाधकमस्ति । किं तु बाधकञ्चेत्यर्थः ।

गुरुराजीया

बाधकं चेति ।। प्राचीनसाधकोक्त्या बाधकोक्तेः समुच्चयद्योतकश्चशब्दः ।