चन्द्रप्रादेशत्वादिविषयं तु..
प्रत्यक्षसिद्धस्यानुमानाद्यबाध्यत्वनियमे व्यभिचारशङ्का तत्परिहारश्च
श्रीमज्जयतीर्थटीका
ननु ‘नीलं नभः’ इति प्रत्यक्षं विभुत्वाद्यनुमानबाध्यं दृष्टम् । तथा ‘प्रादेश-परिमितश्चन्द्रमाः’ इति प्रत्यक्षमागमबाधितमुपलब्धम् । न हि गगनादेरनीलत्वादिकं प्रत्यक्ष-सिद्धम् । येन तत्रापि प्रत्यक्षं बाधकं स्यात् । अपौरुषेयवाक्येन बाधे मूलप्रत्यक्षस्याप्यभावात् । तत्कथमेतदित्यत आह-
मूल
चन्द्रप्रादेशत्वादिविषयं तु दूरस्थत्वादिदोषयुक्तत्वादपटु ।
चन्द्रप्रादेशत्वादिर्विषयो यस्य तत्तथोक्तम् । नन्वत्रान्यपदार्थो न तावत्प्रत्यक्षम् । अयथार्थ-त्वात् । न च ज्ञानमप्रकृतत्वात् । मैवम् । प्रत्यक्षमिव प्रत्यक्षमित्युपपत्तेः । अथ वा प्रत्यक्षस्य प्रकृतत्वादेवेन्द्रियजन्यं ज्ञानमपि प्रकृतमित्यदोषः । तुशब्दो विशेषार्थः । चन्द्रप्रादेशत्वादि-विषयप्रत्यक्षं न जगत्प्रत्यक्षवत् । किन्त्वपटु । स्वार्थे पुरुषं प्रवर्तयितुं न क्षममिति यावत् । कुतः दूरस्थत्वादिदोषयुक्तत्वात् ।
इदमुक्तं भवति । द्विविधं ज्ञानम् । एकाकारनियतं डोलायमानं च । तत्र द्वितीयं सन्देहसञ्ज्ञां लभते । आद्यमपि द्विविधम् । किञ्चित्स्वार्थस्य निश्चायकम् । यथा स्तम्भोऽयं भवत्येवेति । किञ्चित्स्वार्थमुल्लिखदपि न तस्य निश्चायकम् । यथा सवितृसुषिरविषयम् । स चायं भेदः क्वचित्सम्भावनाभावाभावाभ्यां भवति । क्वचित्परीक्षापेक्षायामपि तत्प्रवृत्त्यप्रवृत्तिभ्याम् । क्वचिच्च प्रागेव विपरीतसंस्काराभावभावाभ्याम् । तत्राऽद्यं निःशङ्कप्रवृत्तिहेतु । न तु द्वितीयम् । चन्द्रप्रादेशत्वादिविषयञ्च यद्दूरस्थत्वादिदोषयुक्तं तत्परिमाणादावयथार्थमिति साक्षिणा निश्चित-त्वादेकाकारविषयतया जायमानमप्यनिश्चाययदेव बाधितप्रायं जायते । ततः परञ्च प्रवर्तमानावनु-मानागमौ प्रागेव तेन दत्तावकाशौ चन्द्रप्रादेशत्वाभावादिकं निश्चिन्वानौ तद्बाधकाविवोच्येते । अतो नैतत्प्रत्यक्षस्यानुमानागमबाध्यत्वे निदर्शनमिति ।
श्रीविजयीन्द्रभिक्षु
प्रत्यक्षस्यानुमानशब्दाबाध्यत्वे बाधकं शङ्कते- नन्विति ।। आगमबाधितमिति ।।
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तस्य विज्ञेयं कलाः पञ्चदशैव तु ।।’
इत्यागमबाधितमित्यर्थः । अपौरुषेयेति ।। अर्थमुपलभ्य रचितत्वरहितेत्यर्थः । एतत् प्रत्यक्षं मानान्तराबाध्यमित्येतत् । अयथार्थत्वादिति ।। अपरोक्षभ्रमे प्रत्यक्षाभासशब्दस्यैव प्रयुज्यमानत्वेन प्रत्यक्षपदस्यापरोक्षप्रमितिवाचकत्वादिति भावः । अन्यपदार्थः प्रत्यक्षमेव । न च चन्द्रप्रादेशत्वादि-ज्ञानस्यायथार्थत्वेन तत्र प्रत्यक्षपदप्रयोगानुपपत्तिः । मुख्यप्रयोगासम्भवेऽपि गौण्या तत्प्रयोगोप-पत्तिरिति भावेनाऽह- प्रत्यक्षमिवेति ।। अथ वा इन्द्रियजन्यज्ञानमेवान्यपदार्थः । न च तस्याप्रकृतत्वं दोषः । प्रत्यक्षपदेनेन्द्रियजन्ययथार्थज्ञानस्य प्रकृतत्वेन तच्छरीरप्रविष्टतया इन्द्रियजन्यज्ञानस्यापि प्रकृतत्वादित्याह- अथ वेति ।। ननु ज्ञानस्यापटुत्वं सन्देहरूपत्वम् । न च चन्द्रप्रादेशत्वादिज्ञानं सन्देहः । तस्यैकाकारनियतत्वादित्यत आह- स्वार्थ इति ।। दूरस्थत्वादीति ।। दूरस्थत्वादि-दोषजन्यत्वेन निश्चितत्वादित्यर्थः । ननु लोके तदेव पट्वित्युच्यते । यन्निःशङ्कप्रवृत्तिजनकं ज्ञानम् । ‘स्वार्थे पुरुषं प्रवर्तयितुं न क्षमम्’ इत्यनेन च ‘सर्वथा प्रवृत्तिजनकं यन्न भवति तदेवापटु’ इत्युक्तम् । एवञ्च संशयस्य सकम्पप्रवृत्तिजनकस्य तदुभयबहिर्भावः स्यादित्याशङ्क्य निःशङ्कप्रवृत्तिजननयोग्यं पटु । तद्भिन्नमपटु इति प्रतिपादनाय ज्ञानभेदमाह-इदमुक्तं भवतीति ।। एकाकारेति ।। संशयभिन्नेत्यर्थः । डोलायमानमिति ।। एकस्मिन् धर्मिणि विरुद्धानेकधर्म-वैशिष्ट्यावगाहीत्यर्थः । स्वार्थस्येति ।। स्वविषयस्येत्यर्थः । स्तम्भोऽयं भवत्येवेतीति ।। एतादृशाभिलापजनकमित्यर्थः । स्वार्थमुल्लिखदपीति ।। वस्तुतः स्वविषयीभूतघटादिकमुल्लिख-दपीत्यर्थः । स्वार्थनिश्चायकत्वादिरूपो विशेषः केन जायत इति जिज्ञासायामाह- स चेति ।। क्वचित्स्तम्भसवितृसुषिरादौ योग्यत्वायोग्यत्वाभ्यां स भेदो निश्चितो भवतीत्यर्थः । क्वचिदिति ।। जलमृगतृष्णादौ संवादिविसंवादितत्तदर्थप्रवृत्तिनिवृत्तिभ्यां स निश्चितो भवतीत्यर्थः ।
ननु प्रवृत्तिसंवादविसंवादयोः परीक्षापेक्षज्ञानत्वात् तत एव तन्निश्चयः किं न स्यात् इत्यत आह- परीक्षापेक्षायामपीति ।। प्रवृत्तिगतसंवादादेः परीक्षापेक्षज्ञानत्वेऽपि तादृशप्रवृत्त्यप्रवृत्तिभ्यामुक्त-भेदनिश्चयो भवत्येव । न हि कार्यत्वनिश्चयार्थं सावयवत्वमपेक्षितमित्येतावता कार्यत्वं सकर्तृत्व-निश्चायकं न भवतीत्यस्तीति भावः । क्वचिच्चेति ।। शङ्खश्वैत्यपैत्यादावित्यर्थः । ननु भवतूक्त-रीत्याऽस्य ज्ञानस्यापटुज्ञानेऽन्तर्भावः तथाऽपि अनुमानादिबाध्यत्वं विना दोषजन्यत्वस्य निश्चेतु-मशक्यत्वात् प्रत्यक्षस्यानुमानबाध्यत्वं दुर्वारम् । अन्यथा चन्द्रप्रादेशत्वादिप्रत्यक्षविरोधेनानुमानादेः प्रवृत्तिरेव न स्यादित्यत आह- चन्द्रप्रादेशत्वादिविषयञ्चेति ।। अत्र आदिपदान्नभोनैल्य-प्रत्यक्षादिपरिग्रहः । परीक्षितप्रत्यक्षेणाधिकपरिमाणवत्तया निर्णीते पर्वताग्रवर्तिनि वृक्षे न्यून-परिमाणग्रहे दूरस्थत्वादेः दोषतया क्लृप्तत्वेन दूरे यत्परिमाणज्ञानं तद्दूरस्थत्वादिदोषजन्यमिति सामान्यव्याप्तित एव चन्द्रप्रादेशत्वज्ञानस्य दोषजन्यत्वनिश्चयसम्भवात् तन्निश्चयसहकृत-साक्षिणाऽप्रामाण्यस्य निश्चितत्वाद् अनुमानादिबाध्यत्वं विना दोषजन्यत्वनिश्चयः अनुमानादि-प्रवृत्तिश्च सम्भवतीति न तदर्थं प्रत्यक्षस्यानुमानादिबाध्यत्वस्वीकारावश्यकतेति भावः । नन्वेवमनुमानागमयोः नभोनैल्यादिप्रत्यक्षबाधकत्वव्यवहारो निरालम्बन एव स्यादित्यत आह- ततः परञ्चेति ।। तथा च नभोनैल्याद्यभावविषयकत्वमेव तदालम्बनमिति भावः । एतत् नभोनैल्यादिप्रत्यक्षम् ।
श्रीवेदेशतीर्थ
आगमबाधितमिति ।।
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।।’
इत्याद्यागमबाधितमित्यर्थः। एतत् प्रत्यक्षं न मानान्तरबाध्यमित्येतत् । अयथार्थत्वादिति ।। चन्द्रप्रादेशत्वादिविषयस्य तस्येति शेषः । इन्द्रियजन्ययथार्थज्ञानस्यैव प्रत्यक्षपदवाच्यत्वादिति भावः । प्रत्यक्षमिवेति ।। तथा च पूर्वं प्रत्यक्षशब्देन गौण्या वृत्त्या प्रत्यक्षाभासस्यापि प्रकृतत्वमिति भावः । विशेषमेव दर्शयति- चन्द्रप्रादेशत्वादीति ।। ननु ज्ञानस्यापटुत्वं सन्देहरूपत्वम् । न च प्रादेशत्वादिज्ञानस्यैकाकारनियतस्य सन्देहरूपत्वं युक्तम् । अतः कथमेतदित्यत आह- स्वार्थ इति ।। दोषयुक्तत्वात् दोषयुक्तत्वेन निश्चितत्वात् ।
ननु चन्द्रप्रादेशत्वादिप्रत्यक्षस्यापि स्तम्भोऽयमित्यादिप्रत्यक्षवदेकाकारविषयत्वेन स्वार्थे पुरुषप्रवर्तकत्वसम्भवात् कथमपटुत्वमुक्तमित्याशङ्कायामेकाकारविषयत्वाविशेषेऽप्यस्य दोषजन्य-तया निश्चितत्वात्स्तम्भोऽयमित्यादिज्ञानवैलक्षण्यमिति दर्शयितुं तावज्ज्ञानप्रभेदमाह- इदमुक्तं भवतीत्यादिना ।। ज्ञानप्रभेदप्रदर्शनकृत्यं तूत्तरत्र वक्ष्यामः । यद्वा ननु चन्द्रप्रादेशत्वादिविषय-प्रत्यक्षस्यापटुत्वोक्त्या अनुमानागमबाध्यत्वं कथं प्राप्तम् । प्रत्युतापटुत्वादेवानुमानागमबाध्यत्वं च स्यादित्यतोऽभिप्रायमाह- इदमुक्तं भवतीति ।। एकाकारविषयत्वात् स्वार्थनिश्चायकत्वादिरूपो विशेष एवायं किं निबन्धन इति जिज्ञासायामाह- स चेति ।। सम्भावनेति ।। अर्थाभावानिश्चय इत्यर्थः । स्तम्भोऽयमिति ज्ञानं सम्भावनासत्त्वेन स्वार्थनिश्चायकमिति ज्ञातव्यम् । क्वचिदिति ।। सत्यरजतज्ञाने शुक्तिरजतज्ञाने चेत्यर्थः । रजतमिदमिति ज्ञानानन्तरं प्रामाण्याप्रामाण्यसंशयेन प्रामाण्यग्राहके साक्षिणि प्रतिबद्धे सति प्रतिबन्धकाभावसिद्ध्यर्थं साक्षिणः परीक्षापेक्षायां तत्प्रवृत्तिर्यत्र सत्यरजतादिज्ञाने तत् स्वार्थनिश्चायकम् । परीक्षया शङ्कापगमेऽप्रतिबद्धेन साक्षिणा प्रामाण्यनिश्चयात् । यत्र च शुक्तिरजतादिज्ञाने न परीक्षा प्रवर्तते तत्राप्रामाण्यनिश्चयेन न तत्स्वार्थनिश्चायकमिति तयोर्भेदो भवतीत्यर्थः ।। क्वचिच्च प्रागेवेति ।। शैलाग्रस्थतरुपरिमाणादिज्ञाने सन्निहिततरुपरिमाणादिज्ञाने चेत्यर्थः । विपरीतसंस्कारेति ।। दोषनिश्चयेत्यर्थः । तत्र दूरस्थत्वा-देर्दोषस्य प्रागेव निश्चितत्वेन शैलाग्रस्थतरुपरिमाणादिज्ञानं न स्वार्थनिश्चायकम् । सन्निहित-परिमाणज्ञानं तु प्राग्दोषनिश्चयाभावात्स्वार्थनिश्चायकमित्यपि भेदो भवतीति भावः । तत्राऽद्य-मिति ।। यत्र सम्भावना यत्र परीक्षाप्रवृत्तिर्यत्र प्रागेव विपरीतसंस्काराभावस्तदित्यर्थः । निःशङ्कप्रवृत्तिहेतुरिति ।। अतः पटुशब्देनोच्यत इति शेषः । न तु द्वितीयमिति ।। अतस्तदपटु-शब्देनोच्यत इति शेषः ।
एवं ज्ञानप्रभेदमुक्त्वेदानीं चन्द्रप्रादेशत्वादिप्रत्यक्षस्यैकाकार-विषयत्वात्स्तम्भप्रत्यक्षवत्पटुत्व-मेव । अपटुत्वेऽप्यागमादिबाध्यत्वमेवेति शङ्काया उत्तरमाह- चन्द्रप्रादेशत्वादिविषयञ्चेति ।। आदिपदेन नभोनैल्यप्रत्यक्षग्रहणम् । दोषयुक्तं दोषयुक्तवस्तुविषयम् । परिमाणादावित्यादिपदेन रूपं ग्राह्यम् । १अयथार्थमितीति ।। ज्ञाननिष्ठव्याप्तिसत्वादित्यर्थः । निश्चितत्वादिति ।। प्रागेवेति शेषः । अनिश्चाययदेवेति ।। स्वार्थमिति शेषः । तद्बाधकाविवेति ।। येन हि यस्य भ्रमत्वं ज्ञायते तत्तस्य बाधकम् । न हि चन्द्रप्रादेशत्वादिविषयप्रत्यक्षस्यानुमानाऽगमाभ्यां भ्रमत्वं ज्ञायतेऽतो न वास्तवं बाधकत्वमित्यभिप्रेत्येवशब्दः । अत एवोक्तं तेन दत्तावकाशाविति । तर्हि बाधकसाम्यं कथमित्यत उक्तम्- चन्द्रप्रादेशत्वाभावादिकमिति ।।
नन्वस्तु परिमाणयाथात्म्यस्य समीपे चक्षुषा सम्यग्गृहीतत्वेन दूरे तद्धीरयथार्थेति प्रागेव निश्चयसम्भवेन नागमे वास्तवं बाधकत्वमिति । अनुमाने तु कथं वास्तवमबाधकत्वम् । आकाश-स्यातीन्द्रियत्वेन तत्र रूपाभावस्य समीपेऽप्यनुमानं विना ग्रहीतुमशक्यत्वेन दूरे रूपधीरयथार्थेति प्राग्व्याप्तेरेव ग्रहीतुमशक्यत्वादिति चेन्न । अश्रावणेऽप्याकाशे श्रावणीशब्दाभावधीरिव अचाक्षुषेऽ-प्याकाशे रूपाभावधीर्वायाविव चाक्षुष्येव युक्ता । दूरस्थस्य पुंसो यत्र नभःप्रदेशे नैल्यधीः समीप-स्थस्य तस्यैव तत्रैव चक्षुषैव नैल्यबुद्धेरनुभवसिद्धत्वात् । एवञ्च नानुमानेऽपि वास्तवं बाधकत्वमिति ।
द्वैतद्युमणि
प्रवर्तयितुमिति ।। उपलक्षणमेतत् । आप्तान् प्रत्युपदेष्टुमपीति ध्येयम् । अक्षमम् अजनकम् । दोषयुक्तत्वात् दोषजन्यत्वात् । ननु शङ्ककेनानुमानागमादिज्ञाप्यमप्रमात्वरूपमपटुत्वं यदभिहितं तस्य दूरस्थत्वादिदोषप्रयुक्तत्वमभिहितं मूले ।
तेन शङ्का दृढीकृतैव । न परिहृतेत्यतोऽभिप्रायमाह- इदमुक्तमित्यादिना ।। उपोद्घातविधयाऽह- द्विविधमित्यादिना ।। एकाकारनियतं परस्परविरुद्धत्वेन भासमानकोटिद्वयमेकत्रानवगाहमानम् ।। डोलायमानं तादृशकोटिद्वयमेकत्रावगाहमानम् । निश्चायकं स्वोत्तरकाले स्वार्थसन्देहोत्पत्त्यभाव-प्रयोजकम् । तत्त्वं च दोषजन्यत्वादिसम्भावनारूपमानसदोषरूपापवादाभावसहितसाक्षिनिश्चित-प्रामाण्यकत्वेन । न तस्य निश्चायकमिति ।। तद्विपरीतार्थग्रहोत्पत्तिं प्रत्यविरोधित्वम् । तच्च स्वोत्पत्तिकाल एव साक्षिणा अप्रमात्वेन गृह्यमाणत्वेन । सवित्रिति ।। आसन्नमरणरोग्यादिसम्बन्धि ज्ञानमित्यर्थः । स चायं भेद इति ।। उक्तयोर्ज्ञानयोर्मध्ये कस्यचिदुत्पत्तिकाल एव निश्चित-प्रामाण्यकत्वं कस्यचिदुत्पत्तिकाल एव निश्चितप्रामाण्यकत्वाभावोऽप्रमाणत्वेन गृह्यमाणत्वं चेत्येतद्रूपवैलक्षण्यं चेत्यर्थः । क्वचिदिति ।। सम्भवानेति ।। भासमानधर्माभावव्याप्यधर्म-विषयकोद्बुद्धसंस्कारस्मृत्याद्यभावः सम्भावना । तद्भावाभावाभ्यामित्यर्थः । तत्प्रवृत्त्यप्रवृत्तिभ्या-मिति ।। पूर्वं उत्पन्नेषु तज्जातीयमानेषु यदा परीक्षापेक्षा तदा तेषु संवादादिरूपपरीक्षा-प्रवृत्त्यप्रवृत्तिभ्यामित्यर्थः । पूर्वं तज्जातीयज्ञाने यत्र परीक्षायामपि प्रामाण्याप्रामाण्यान्यतरनिश्चयो न जातः इदानीमपि तत्सन्दिग्धप्रामाण्यकमेव जायत इति भावः । अनभ्यासदशादेरप्युपलक्षणया ग्रहः । तेनानभ्यासदशापन्नं प्रथमत एव यद्विषयकं ज्ञानं निश्चितप्रामाण्यकं न भवति तद्बीजोक्तेरपि प्राप्तेर्न न्यूनता । तेन दत्तावकाशाविति ।। तद्रूपनिश्चयेनाप्रतिबन्धप्रयुक्तोत्पत्तिशालिनावित्यर्थः । बाधकाविवेति ।। तत्र स्वयमेवाप्रामाण्यनिश्चायकाविवेत्यर्थः ।
तथा चायं प्रघट्टिकार्थः । यादृशनिश्चयेऽप्रामाण्यमाज्ञानास्कन्दिते सत्यपि यादृशज्ञानमुत्पन्नं सत् पूर्वज्ञानसजातीयज्ञानान्तरं विरुणद्धि पूर्वज्ञानेऽप्रमाण्यग्रहमुत्पाद्य तन्निर्वाह्यप्रवृत्त्यादिकार्योच्छेदा-दिकं वा करोति तत् तस्य बाधकमति स्थितिः । प्रकृते च चन्द्रप्रादेशपरिमितत्वनभो-नैल्यावगाहिप्रत्यक्षमुक्तरीत्याऽप्रामाण्यज्ञानानास्कन्दितमेव जायते । तत्सत्ताकाले उत्पन्नस्या-गमिकादिनिश्चयस्य तदप्रामाण्यग्रहं प्रत्युत्पादकत्वं नास्ति । तस्य पूर्वमेव सिद्धत्वात् । तत्सजातीय-ग्रहान्तरं तु दोषवशाज्जायत इति नास्य प्रत्यक्षबाधकत्वम् । किन्तु तद्विपरीतार्थविषयकत्व-मात्रेणोपचारेण बाधकमिति व्यवहार इति ।।
श्रीराघवेन्द्रतीर्थ
प्रत्यक्षसिद्धं प्रत्यक्षान्तरेणैव बाध्यमित्येतद्व्यभिचारीति शङ्कते- नन्वित्यादिना ।। विभुत्वादिति । भूतचतुष्टयान्यत्वशब्दगुणकत्वादिरादिपदार्थः। ‘नभो न नीलं विभुत्वादात्मवत्’ इति प्रयोगः । आगमेति ।।
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।’
इत्याद्यागमेत्यर्थः । अपौरुषेयेति ।। मानान्तरादर्थमुपलभ्य रचितत्वहीनेत्यर्थः । अन्यपदार्थ इति ।। बहुव्रीहेरन्यपदार्थप्रधानत्वाच्चन्द्रप्रादेशत्वादिविषयमित्यस्य बहुव्रीहित्वादन्यपदार्थशब्दितं विशेष्य-मित्यर्थः । प्रमाणभूतप्रत्यक्षमित्यर्थः । तस्यैव प्रकृतत्वादिति भावः । अयथार्थत्वादिति ।। चन्द्रप्रादेशत्वबुद्धेरिति योज्यम् । इन्द्रियजन्यत्वगुणयोगेन गौणप्रत्यक्षं विशेष्यमिति भावेनाऽह- प्रत्यक्षमिवेति ।। प्रकृतप्रत्यक्षान्तर्गतत्वात्प्रत्यक्षैकदेशेन्द्रियजन्यज्ञानमपि प्रकृतमेवेति भावेनाऽह- अथ वेति ।। मूलार्थमाह- चन्द्रेति ।।
ननु दूरस्थत्वदोषयुक्तत्वोक्त्या कथमागमबाध्यत्वस्य सर्वजनसम्मतस्यापलाप इत्यतो मृतमारकस्येवागमस्य तत्र बाधकत्वमिति ज्ञानभेद-व्युत्पादनपूर्वमाह- इदमुक्तं भवतीति ।। १यद्वा एकाकारमपीदं ज्ञानम् आगमाबाधितं चेत्कुतो न प्रवृत्तिक्षममित्यत आह- इदमुक्तमिति ।। २एककोटिज्ञानेऽप्ययं स्वार्थनिश्चायकत्वानिश्चायकत्वभेदः किंनिमित्त इत्यत आह-स चायमिति ।। स्तम्भसवितृसुषिरादौ स्तम्भत्वादिसम्भावनायोग्यतायाः भावेनाभावेन च यथाक्रमं ध्येयम् । परीक्षेति ।। तटाकजलमरुमरीचिकादाविति भावः । परीक्षा द्रवद्रव्यत्वपिपासाशमनशक्तत्वादि-युक्तिः । विपरीतेति ।। शङ्खपैत्यश्वैत्ययोः विषय इति भावः । आद्यमिति ।। स्तम्भोऽयं भवत्येवेत्येवमादिकं स्वार्थनिश्चयरूपज्ञानमित्यर्थः । द्वितीयं स्वार्थानिश्चायकम् । अस्त्वेवं प्रकृते किमायातम् इत्यत आह- चन्द्रप्रादेशत्वादिविषयञ्चेति । एकाकारेत्यादिनान्वयः । कुत इत्यतः प्रादेशिकत्वज्ञानात्प्रागेव प्रादेशिकत्वाभावगोचरविपरीतसंस्कारभावादिति भावेनाऽह- यदिति ।। यद्यद्दूरस्थत्वातिसामीप्यादिदोषसहकृतकरणजन्यं तत्तदयथार्थमिति व्याप्तेर्भावात्तन्मूलकानुमानेन वा सहकृतेन साक्षिणा दोषजन्यज्ञानेष्वप्रामाण्यस्य विषयापहाररूपस्य निश्चितत्वेन तादृशस्थले जायमानं ज्ञानं ३शङ्खपैत्यज्ञानमिव स्वार्थमनिश्चाययदेव जायत इत्यर्थः । प्रादेशिकत्वादिभ्रमादा-वागमप्रवृत्तेः प्रागेव बाधितत्वोपपादनेन नभोनैल्यभ्रमादावपि विभुत्वाद्यनुमानप्रवृत्तेः प्रागेव बाधितत्वमुपपादितप्रायं मत्वाऽऽह- ततः परञ्च प्रवर्तमानाविति ।। नभसि समीपे नीरूपत्व-निश्चयाद्दूरे तत्र नैल्यधीः दूरस्थत्वदोषजन्येति प्रागेव साक्षिणा निश्चयादेकाकारतया जायमानमपि नैल्यज्ञानं स्वार्थमनिश्चाययदेव बाधितप्रायं४ जायत इति वा अश्रावणे नभसि श्रावणी शब्दाभाव-बुद्धिरिवाचाक्षुषेऽपि गगने रूपाभावधीर्वायाविव चाक्षुष्येव । दूरस्थस्य पुंसः यत्र नभःप्रदेशे नैल्यधीः समीपस्थस्य तस्यैव तत्रैव चक्षुषैवानैल्यबुद्धेः दर्शनादित्यादिरूपेण उपपादनं ध्येयमिति भावः । तेनेति । दूरस्थत्वादिदोषजन्यत्वयुक्तिसध्रीचीनेन । तदाहितशक्तिकेनेति यावत् । साक्षिणा दत्तावकाशावित्यर्थः । नैल्यमादिपदार्थः । अयथार्थत्वादिति ।। चन्द्रप्रादेशत्वादिविषयप्रत्यक्षस्यायथार्थत्वेनेन्द्रियजन्ययथार्थ-ज्ञानस्यैव ‘प्रत्यक्षबाधितं च’ इत्यत्र प्रत्यक्षपदवाच्यतया विवक्षितत्वेन तस्य चन्द्रप्रादेशत्वादि-विषयकत्वाभावेन तस्यान्यपदार्थत्वं न सम्भवतीत्यर्थः ।। न च ज्ञानमिति ।। ज्ञानसामान्य-स्यैवान्यपदार्थत्वेन तस्य चन्द्रप्रादेशत्वादिविषयकत्वं युक्तमित्यर्थः । अप्रकृतत्वादिति ।। ‘प्रत्यक्ष-बाधितं च’ इत्यत्रेन्द्रियजन्ययथार्थज्ञानस्यैव प्रकृतत्वेन ज्ञानसामान्यस्याप्रकृतत्वेन तस्यान्यपदार्थत्वं न युक्तमिति भावः । प्रत्यक्षमिवेति ।। प्रत्यक्षपदवाच्यं यत् इन्द्रियजन्यं यथार्थज्ञानं अर्थविषयकत्व-गुणयोगेन तद्वद्विद्यमानस्य प्रत्यक्षाभासस्यैवात्र गौण्या वृत्त्या प्रकृतप्रायत्वात्तस्य चन्द्रप्रादेशत्वादि-विषयकत्वोपपत्तेर्युक्तं तस्यान्यपदार्थत्वमिति भावः । अत एवास्वरसादाह । अथवेति । तथाच ज्ञानसामान्यमेवान्यपदार्थः । न च तस्य पूर्वं प्रत्यक्षपदेनाप्रकृतत्वं दोषः । इन्द्रियजन्ययथार्थज्ञान-रूपविशेषस्य प्रकृतत्वादेव तज्जन्यं ज्ञानसामान्यमपि प्रकृतमेव । ऋग्वेदिनः प्रकृतत्वे ब्राह्मणस्यापि प्रकृतत्ववदिति भावः ।
गुरुराजीया
विभुत्वाद्यनुमानेनेति ।। नभः न नीलं विभुत्वाद् आत्मवद् इत्यनुमानेनेत्यर्थः । आदिपदेन नीरूपत्वाद्यनुमानपरिग्रहः । आगमबाधितमिति ।।
अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तु ।।
इत्याद्यागमबाधितमित्यर्थः । ननु विभुत्वाद्यनुमानमूलभूतानैल्यप्रत्यक्षादिनैव तस्य बाधात् कथं विभुत्वाद्यनुमानेन बाध इत्यत आह- न हीति ।। आगमस्यापि प्रत्यक्षमूलकत्वासम्भवमाह- अपौरुषेयेति ।। तन्मूलभूतप्रत्यक्षसद्भावेन पौरुषेयत्वापत्त्याऽपौरुषेयत्वाभावप्रसङ्गादिति भावः । तत्कथमेतदिति ।। प्रत्यक्षं मानान्तराबाध्यमित्येतदित्यर्थः । अन्यपदार्थ इति ।। यस्येत्यनेन श्रूयमाणपदार्थ इत्यर्थः । अयथार्थत्वादिति ।। निर्दोषार्थेन्द्रियसन्निकर्षजज्ञानस्य प्रत्यक्षत्वात् तस्य च यथार्थत्वनियमादिति भावः । प्रत्यक्षमिव प्रत्यक्षमिति ।। तथा च पूर्वं प्रत्यक्षशब्देन गौण्या वृत्त्या प्रत्यक्षाभासस्य प्रकृतत्वमिति भावः । विशेषमेव दर्शयति- चन्द्रेति ।। ननु चन्द्रप्रादेशत्वादिज्ञानस्यैकाकारनियतत्वेनासन्देहरूपत्वात् कथमपटुत्वमित्यत आह- स्वार्थ इति ।। दोषेति ।। दोषयुक्तत्वेन निश्चितत्वादित्यर्थः ।
ननु चन्द्रप्रादेशत्वादिप्रत्यक्षस्य स्तम्भोऽयमित्यादिप्रत्यक्षवदेकाकारविषयत्वेन स्वार्थे पुरुष-प्रवर्तकत्वसम्भवात् कथमपटुत्वमित्याशङ्क्यैकाकारविषयत्वाविशेषेऽप्यस्य दोषजन्यतया निश्चित-त्वात् स्तम्भोऽयमित्यादिज्ञानवैलक्षण्यं दर्शयितुं तावज्ज्ञानप्रभेदमाह- इदमुक्तं भवतीत्यादिना ।। विभागकथनस्य प्रकृतोपयोगस्तूत्तरत्राऽकर एव स्पष्टः । बाधकाविवेति ।। येन हि यस्य भ्रमत्वं विज्ञायते तदेव तस्य बाधकमित्युच्यते । न हि चन्द्रप्रादेशत्वादिविषयप्रत्यक्षस्यानुमानागमाभ्यां भ्रमत्वं विज्ञायते । अतो न तौ बाधकाविति भावेनेवशब्दप्रयोगः । अत एवाऽह ग्रन्थकारः- तेन दत्तावकाशाविति ।। बाधकसादृश्योपपादनं च चन्द्रप्रादेशत्वाभावादिकं निश्चिन्वानाविति ।।
नन्वस्तु परिमाणयाथात्म्यस्य समीपे चक्षुषा सम्यग्१ गृहीतत्वेन दूरे तद्धीरयथार्थेति प्रागेव निश्चयसम्भवेनाऽगमे वास्तवमबाधकत्वम् । अनुमाने तु कथं वास्तवमबाधकत्वम् । आकाशस्या-तीन्द्रियत्वेन तत्र रूपाभावस्य समीपेऽप्यनुमानं विना गृहीतुमशक्यत्वेन दूरे रूपधीरयथार्थेति प्राग्व्याप्तेरेव गृहीतुमशक्यत्वाद् इति चेदत्र न्यायामृतकाराः प्राहुः ‘यथा अश्रावणेऽप्याकाशे श्रावणी शब्दाभावधीरेवमचाक्षुषेऽप्याकाशे रूपाभावधीर्वायाविव चाक्षुष्यैव युक्ता । दूरस्थस्य पुंसो यत्र नभःप्रदेशे नैल्यधीः समीपस्थस्य तत्रत्यस्यैव तस्यैव तत्रैव चक्षुषैवानैल्यबुद्धेरनुभवसिद्धत्वात् । एवञ्चानुमानेऽप्यवास्तवं बाधकत्वम्’ इति ।
गोविन्दीया
विभुत्वेति ।। आकाशः रूपिद्रव्यं विभुत्वादित्यनुमानं बाध्यं विज्ञेयम् । कलाः पञ्चदशैवेत्याद्यागमबाधितमित्यर्थः । तत्कथमिति ।। तत् तस्मादनुमानागमाभ्यां प्रत्यक्षं बाध्यं न भवतीत्येतद् कथमित्यत आहेत्यर्थः । नन्विति ।। अत्र वाक्यस्थबहुव्रीहिसमासेऽन्यपदार्थो नेन्द्रियरूपप्रत्यक्षप्रमाणम् । तावच्छब्दः क्रमार्थः । यथार्थत्वाच्चन्द्रप्रादेशत्वादिरूपार्थस्य अयथार्थ-भूतत्वेन तद्ग्राहिण इन्द्रियस्य यथावस्थितार्थविषयकारित्वरूपप्रमाणसामान्यलक्षणाभावादित्यर्थः । नेति ।। समासस्थेऽन्यपदार्थो न ज्ञानम्, तस्याप्रकृतत्वादिन्द्रियस्यैव प्रकृतत्वादित्यर्थः । प्रत्यक्षमिवेति ।। चन्द्रप्रादेशत्वादिग्राहिण इन्द्रियस्यायथार्थत्वेन प्रत्यक्षप्रमाणत्वाभावेऽपि प्रत्यक्ष-मिव प्रत्यक्षमित्युपपत्तेः । आभासप्रत्यक्षत्वोपपत्तेरित्यर्थः । एकाकारेति ।। नियमेनैकाकारमित्यर्थः । सवित्रिति ।। सुषिरमुक्तसवितृविषयमित्यर्थः । सवितारमिति ।। सवितारमुल्लिखदपि सुषिर-विषयेऽयथार्थमतः स्वार्थस्यानिश्चायकमिति भावः । स चेति ।। एकाकारनियतस्यापि स्वार्थ-निश्चायकत्वेन च स चायं भेदः क्वचित् सम्भावनाभावाभावाभ्यां भवति । सम्भावनायाः सत्त्वे निश्चायकत्वम्, असत्त्वे चानिश्चायकमित्यर्थः । तदिति ।। परीक्षाप्रवृत्त्यप्रवृत्तिभ्यामित्यर्थः । परीक्षायाः प्रवृत्तत्वात् स्तम्भोऽयं भवत्येवेति ज्ञानं स्वार्थस्य निश्चायकं परीक्षाया अप्रवृत्तत्वाद् सवितृसुषिरविषयज्ञानं स्वार्थस्यानिश्चायकमिति भावः । प्रागेवेति ।। ज्ञानोत्पत्तेः प्रागेव विपरीतसंस्कारस्याभावात् । स्वार्थस्य निश्चायकम् । तस्य च १भावादनिश्चायकमित्यर्थः । चन्द्रेति ।। चन्द्रप्रादेशत्वादिविषयमिन्द्रियजन्यं ज्ञानमित्यर्थः । अत इति ।। जगत्प्रत्यक्षस्यानुमानागमबाध्यत्वे नैतन्निदर्शनं चन्द्रप्रादेशत्वादिविषयप्रत्यक्षनिदर्शनं नेत्यर्थः ।
नारोपन्तीया
अयथार्थत्वादिति ।। निर्दोषार्थेन्द्रियसन्निकर्षजज्ञानस्य प्रत्यक्षत्वात् । तस्य च यथार्थत्व-नियमादिति भावः । एकाकारनियतं निश्चयरूपमित्यर्थः । तेन- ‘श्यामो युवा लोहिताक्षः कम्बुग्रीवो देवदत्तः’ इत्यादेः अनेकाकारावगाहिनोऽपि परिग्रह इति ध्येयम् । डोलायमानं संशयरूपमि-त्यर्थः । स्वार्थनिश्चायकमिति ।। अप्रामाण्यशङ्काऽनास्कन्दितमित्यर्थः ।
तदनिश्चायकमिति । अप्रामाण्यशङ्कास्कन्दितमित्यर्थः । अत्रोभयत्राप्रामाण्यशङ्कासामग््रयभावौ नियामकौ । शङ्कासामग्री चानुगतैवेत्याह- स चायं भेद इत्यादिना ।। स्तम्भोऽयं भवत्येवेत्य-प्रामाण्यशङ्कानास्कन्दितं ज्ञानं हि स्तम्भत्वस्य पुरोवर्तिनि सम्भावितत्वाद्वा, समर्थप्रवृत्तिजनकत्वेन परीक्षाक्षमत्वाद्वा, तादृशनिश्चयात्प्राग्विपरीतसंस्काराभावाद्वा भवति । सवितरि सुषिर इति ज्ञाने तु सवितरि सुषिरस्यासम्भावितत्वात् प्रवृत्तेरेवायोगेन तत्सामर्थ्यस्य दुरवधारतया परीक्षाया अप्रवर्तनात्, प्राग्विपरीतसंस्कारस्य सत्त्वाच्च अप्रामाण्यशङ्काकलङ्कितमेवोत्पद्यत इत्यर्थः । अत एवाह- तत्राद्यमिति ।। अप्रामाण्यशङ्कानास्कन्दितनिश्चयस्यैव निष्कम्पप्रवृत्तिहेतुत्वादिति भावः । उक्तमर्थं विवृणोति । चन्द्रप्रादेशत्वादिविषयमिति ।
जनार्दनभट्टीया
विभुत्वाद्यनुमानेनेति ।। ‘नभो नीलं विभुत्वात् कालवत्’ इत्याद्यनुमानबाध्यमित्यर्थः । आगमबाधितमिति ।।
‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु’ इत्याद्यागमबाधितमित्यर्थः । न हीति ।। अधिकरणस्य गगनस्य अप्रत्यक्षत्वादनीलत्वं न प्रत्यक्षसिद्धमित्यर्थः । अत्रेदं चिन्त्यम्– गगने अनीलत्वं प्रत्यक्ष-सिद्धमेव, यदि गगने नीलरूपं स्यात् तर्हि उपलभ्येत । महत्वसमानाधिकरणत्वे सति उद्भूतत्वात् । न चोपलभ्यते । तस्मात् ‘नास्ति गगने नीलं रूपम्’ इति तर्कसहकृतेन प्रत्यक्षेण अनीलत्वनिश्चयोपपत्तेः– इति ।
ननु ‘नायं सर्पः’ इत्याप्तवाक्यात् निवर्तनस्थल इव चन्द्रप्रादेशत्वादिग्राहिप्रत्यक्षस्य ‘अष्टाशीतिसहस्राणि विस्तीर्णो योजनानि तु’ इत्याद्यागममूलभूतं प्रत्यक्षमेव बाधकमस्तु इत्यत आह – अपौरुषेयेति ।। तथा च ‘नित्या वेदाः समस्ताश्च शाश्वता विष्णुबुद्धिगाः’ ‘वाचा विरूप नित्यया’ इत्यादिप्रमाणैः वेदस्य अनादिनित्यत्वावगमात् ‘अष्टाशीति’ इति वाक्यमूलभूत-प्रत्यक्षस्यैव अभावात् न तस्य प्रत्यक्षबाधकत्वं सम्भवतीति भावः । विषयशब्दस्य पुल्लिङ्गत्वात् प्रादेशत्वादिविषयमिति नपुंसकनिर्देशानुपपत्तिमाशङ्क्य आह – चन्द्रेति ।। दूरस्थत्वेति ।। निर्दोषेन्द्रियजन्यं ज्ञानं प्रकृते प्रत्यक्षपदेन विवक्षितमिति भावः । तुशब्दार्थविशेषं वदन्नेव मूलं योजयति– चन्द्रेति ।। मूले ‘अपटु’शब्देन संशयः प्रतीयते । तस्य निश्चयविशेषपरत्वे नभो नैल्यादिप्रत्यक्षादेरनुमानागमबाधशङ्काया अपरिहाराच्चाऽह – इदमुक्तमिति ।।