वस्तुतः ..
आत्मत्वहेतुनिराकरणम्
वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम्
श्रीमज्जयतीर्थटीका
एतेनात्मत्वहेतुरपि परास्तः । तत्खल्वदृश्यत्वं वा प्रमातृत्वं वा प्रकाशत्वं वा स्वप्रकाशत्वं वा अपरिच्छिन्नत्वं वा वक्तव्यम् । तत्सर्वमुक्तरीत्याऽसिद्धम् । दृष्टान्तश्च साधनविकलः । जातिविशेष आत्मत्वमिति चेत् न । तस्याप्यात्मनि परेण वस्तुतोऽनभ्युपगमात् । मिथ्याभूतस्य निरस्तत्वात् । आरोपितस्यातिप्रसञ्जकत्वात् ।
श्रीविजयीन्द्रभिक्षु
आत्मत्वहेतुरपीति ।। ‘विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात् परमात्मवत्’ इत्यात्मत्वहेतुरपीत्यर्थः । तत्सर्वमिति ।। वेदान्तानां निर्विषयत्वपरिहाराय दृश्यत्वात्, प्रमातृत्वस्य त्वयैवानङ्गीकारात्, ज्ञातृज्ञेययोरभावेन प्रकाशत्वासम्भवात्, तत एव स्वप्रकाशत्वा-सम्भवात् आत्मनः प्रपञ्चविलक्षणत्वाङ्गीकाराच्चादृश्यत्वादिरूपमात्मत्वं पक्षेऽसिद्धमित्यर्थः । दृष्टान्तश्चेति ।। पक्ष इव दृष्टान्तेऽपि साधनाभावस्योपपादयितुं शक्यत्वादित्यर्थः । अतिप्रसञ्जक-त्वादिति ।। बाष्पारोपितधूमस्यापि वह्निसाधकत्वप्रसङ्गात् । देहादौ व्यभिचारप्रसङ्गाच्चेत्यर्थः ।
श्रीवेदेशतीर्थ
एवं जगन्मिथ्यात्वसाधकहेतुं निराकृत्य यत्पूर्वं परमतानुवादावसरे ‘विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात्’ इति भेदमिथ्यात्वसाधकानुमानमनूदितं तदिदानी-मतिदेशेन दूषयति- एतेनेति ।। तत्सर्वमुक्तरीत्येति ।। वेदान्तवाक्यजनितविज्ञानस्यात्म-ज्ञानत्वनिर्वाहायाऽत्मनोऽपि दृश्यत्वात्, प्रपञ्चविलक्षणत्वाङ्गीकाराच्चादृश्यत्वादिरूपमात्मत्वं पक्षेऽसिद्धमित्यर्थः । दृष्टान्तश्चेति ।। पक्ष इव दृष्टान्तेऽपि साधनाभावस्योपपादयितुं शक्यत्वादिति भावः । जातिविशेषरूपमात्मत्वं किं पारमार्थिकमुत व्यावहारिकं प्रातिभासिकं वेति विकल्पं मनसि निधायाऽद्यं दूषयति- तस्यापीति ।। द्वितीयं दूषयति- मिथ्याभूतस्येति ।। व्यावहारिक-स्येत्यर्थः । निरस्तत्वादिति ।। अनिर्वचनीयनिरासेनेति शेषः । तृतीयं प्रत्याह- आरोपित-स्येति ।। बाष्पारोपितधूमस्यापि वह्निसाधकत्वप्रसङ्गादिति भावः ।
द्वैतद्युमणि
अतिप्रसक्तत्वाद्१ देहादौ व्यभिचरितत्वात् । आत्मतादात्म्यभ्रमे आत्मत्वस्यापि तत्र भ्रमगोचरत्वादिति भावः ।
श्रीराघवेन्द्रतीर्थ
२यच्चोक्तं प्राक् ‘विमता आत्मानः परमात्मनो न भिद्यन्ते आत्मत्वात्’ इति तमपि हेतुमतिदेशेन पराचष्टे- एतेनेति ।। ‘आत्मत्वहेतुः सत्यो मिथ्या वा । आद्ये तवासिद्धिः । अन्त्ये ममासिद्धिः’ इत्यादिरूपेणोक्तवक्ष्यमाणबाधादिदोषग्रस्तत्वेनेत्यर्थः । विशिष्यापि निराह- तत्खल्वित्यादिना ।। उक्तरीत्येति ।। ‘आत्मनोऽपि दृश्यत्वात्’ इत्यादिना उक्तदिशा, ‘न च प्रमातृत्वमात्मनस्तैरङ्गीक्रियते’ इत्युक्तदिशा, ‘तच्चाप्रकाशत्वमात्मनः’ इत्युक्तरीत्या ‘वस्तुतः परिच्छिन्नत्वमात्मनोऽपि’ इत्युक्तरीत्या चासिद्धमित्यर्थः । दृष्टान्तश्चेति ।। परमात्मा हि त्वया दृष्टान्ततयोक्तः । तत्र चोक्तरीत्या अदृश्यत्वादिरूपमात्मत्वमसिद्धमिति साधनविकल इत्यर्थः । निरस्तत्वादिति ।। अनिर्वचनीयस्य निरासान्मिथ्येत्यस्यासदित्यर्थत्वादात्मत्वं नास्तीत्युक्तं स्यात् । ततश्चासिद्धिसाधनवैकल्ये भवत इति भावः । अतिप्रसक्तत्वादिति ।। देहादावप्या-रोपितात्मत्वस्य सत्त्वादित्यर्थः । दृष्टान्तश्चेति ।। परमात्मरूपो दृष्टान्त इत्यर्थः ।
गुरुराजीया
एवं मिथ्यात्वसाधकहेतून्निराकृत्य भेदाभावसाधकत्वेनोक्तमात्मत्वमपि निराकरोति- एतेनेति ।। उक्तरीत्येति ।। ‘न चाऽत्मनो दृक्मर्मत्वं विना तज्ज्ञानत्वम्’ इत्युक्तरीत्येत्यर्थः । निरस्तत्वादिति ।। अदृश्यत्वादिरूपस्याऽत्मत्वस्य दृश्यत्वाद्युपपादनेन निरस्तत्वादिति भावः । जातिविशेषरूपमात्मत्वं पारमार्थिकं व्यावहारिकम् उत प्रतिभासिकमिति विकल्पान् मनसि निधायाऽद्यं दूषयति- तस्यापीति ।। लक्षणव्याघातेन एकस्मिन्नुपदेशादिनैव व्युत्पत्त्याद्युपपत्त्या जात्यङ्गीकारवैयर्थ्यप्रसङ्गेन च जातिवादिभिः जातेरनेकाश्रितत्वाङ्गीकारेणाऽत्मत्वस्य जातित्वे आत्मव्यक्तेर्बहुत्वप्रसङ्गेनानङ्गीकारादित्यर्थः । द्वितीयं दूषयति- मिथ्येति ।। मिथ्येति नानिर्वचनीयमुच्यते । प्रमाणाभावादिना तस्य निरस्तत्वात् । अतोऽसत्त्वमेव तदिति वाच्यम् । तथा च ‘आत्मन आत्मत्वं मिथ्या’ इत्युक्ते ‘आत्मन आत्मत्वं नास्ति’ इत्येवोक्तं स्यात् । तथा च स्वरूपासिद्ध्यादिप्रसङ्ग इति भावः । तृतीयं निराकरोति- आरोपितस्येति ।। आरोपितस्य साधकत्वे बाष्पारोपितधूमस्यापि वह्निसाधकत्वप्रसङ्गादिति भावः ।
गोविन्दीया
एतेन वक्ष्यमाणेनेत्यर्थः । तदिति ।। तत्सर्वं हेतुजातमुक्तरीत्या स्वरूपासिद्धं तदभावस्य पक्षे दृश्यमानत्वादित्यर्थः । दृष्टान्तश्चेति ।। परमात्माख्यदृष्टान्तश्च साधनविकलः । तत्रादृश्यत्वा-प्रमातृत्वाभावस्योपपादितत्वादित्यर्थः । जातीति ।। जातिविशेष एव आत्मत्वमतो निर्धर्मके ब्रह्मणि जातिविशेषानङ्गीकारान्न साधनविकलो दृष्टान्त इति चेदित्यर्थः । तस्यापीति ।। सत्यभूतस्यात्मत्व-स्यात्मनि परेणानभ्युपगमान्मिथ्याभूतस्य चानिर्वचनीयमसद्वेति मिथ्याशब्दविकल्पेन निरस्तत्वात् । आरोपितस्य आरोपितात्मत्वस्य । यद्यारोपितात्मत्वं भेदमिथ्यात्वसाधकं स्यात् तर्हि आरोपित-धूमवत्त्वेनाग्निमत्त्वसाधनं स्यादित्यतिप्रसङ्गजनकत्वादित्यर्थः ।
नारोपन्तीया
ननु तथापि न वस्तुतः परिच्छिन्नत्वहेतुरनैकान्तिकः । विपक्षभूतात्मनि तत्त्ववादिना भेदाङ्गीकारेऽपि मया तत्रात्मत्वहेतुना तदभावस्य साधयितुं शक्यत्वेन हेतोरेवागमनादित्यत आह- एतेनात्मत्वहेतुरपि निरस्त इति ।। किञ्च ‘आत्मा न वस्तुतः परिच्छिन्नः आत्मत्वात्’ इत्यनु-मातव्यम् । तत्र साध्यवस्तुशब्देन किमात्मस्वरूपमेवोच्यते? प्रपञ्चो वा? । आद्ये सिद्धसाधनम् । तावन्मात्रस्य मिथ्यात्वं प्रति हतुेत्वेऽप्रयोजकत्वं च । द्वितीये किमसावन्वयी ? व्यतिरेकी च ? आद्ये आह । दृष्टान्तश्च साधनविकल इति ।। प्रपञ्चे प्रपञ्चभेदाभावात्स दृष्टान्तीकर्तव्यः । तथाविधश्चात्मा । तस्य पक्षत्वात्तत्र चात्मत्वस्यैव सत्त्वात् ।। तदभाववान् प्रपञ्चश्चेत् दृष्टान्त-त्वेनोच्यते । न च सोऽपि भवतीत्याह । दृष्टान्तश्चेति । अत्र साधनशब्देन व्याप्यमुच्यते । व्यतिरेकव्याप्तौ साध्याभावस्य व्याप्यत्वात् । प्रकृते प्रपञ्चाभेदरूपसाध्याभावस्य प्रपञ्च(भेद)रूपस्य व्याप्यस्य प्रपञ्चे अभावाद्दृष्टान्तोऽनुपपन्न इत्यर्थः ।
जनार्दनभट्टीया
एतेनेति ।। वक्ष्यमाणप्रकारेणेत्यर्थः । आत्मत्वहेतुरिति ।। ‘विमत आत्मा तत्वतो न भिद्यते । आत्मत्वात् परमात्मवत्’ इति प्रागुक्तहेतुरित्यर्थः । दृष्टान्तश्चेति ।। परमते निर्गुणे परमात्मनि आत्मत्वरूपधर्माभावादित्यर्थः । जातिविशेष इति ।। तथा च तत्खलु दृश्यत्वमित्यादिना उक्त-दोषानवकाश इति भावः । १वस्तुतोऽनभ्युपगमादिति ।। तात्विकस्यानङ्गीकारादित्यर्थः । तथा च भेदाभावसाधकात्मत्वहेतोः पक्षेऽसिद्धिरिति भावः । निरस्तत्वादिति ।। मिथ्याप्रमातृत्वञ्च अनिर्वचनीय-निरासादेव निरस्तमित्युक्तरीत्या प्रमातृत्वअपरपर्यायस्य आत्मत्वस्य निरस्तत्वादित्यर्थः । मिथ्याभूतात्मत्वहेतुम् अङ्गीकृत्यापि दूषणान्तरमाह – आरोपितस्येति ।। आरोपितस्य आत्मत्वस्य भेदाभावसाधकत्वाङ्गीकारे ह्रदादावपि आरोपितधूमेन पारमार्थिकवह्निसाध्यापत्तिरिति भावः ।