न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम् ..

तर्कस्य प्रमाणदृष्टबाधनासामर्थ्ये वास्तविकनिमित्तप्रदर्शनम्

श्रीमज्जयतीर्थटीका

तर्कः प्रमाणदृष्टार्थबाधनस्य नेष्टे कुत इति पृष्टवतः प्रतिवादिनो दत्तमुत्तरम् । सुहृद्भावेन पृच्छन्तं प्रत्याह -

मूल

न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम् ।

बाधकेन हि बलवता भवितव्यम् । विरोधमात्रेण बाधकत्वे वैपरीत्यस्यापि प्रसङ्गात् । न हि विशिष्टादिजगद्विषयप्रत्यक्षादिदृष्टेः सकाशात्तर्कस्य प्राबल्यमस्ति । येनासौ तद्बाधकः स्यादिति ।

श्रीविजयीन्द्रभिक्षु

‘न हि दृष्टेर्बलवत्किञ्चित्प्रमाणम्’ इत्यनेन प्रमाणान्तरस्य तर्कबाधकता निरस्यते । इदं तु परं प्रति प्रमाणदृष्टार्थे तर्कबाधकतानिरासेन गतार्थमित्याशङ्क्यावतारयति- तर्क इति ।। अनेन वाक्येन प्रत्यक्षं प्रति प्रमाणान्तरस्य बाधकता निरस्यत इत्युक्तम् । तत्कथमप्रतीतेरित्याशङ्क्योप-पादयति- बाधकेनेति ।। यद्यस्य बाधकं तेन तदपेक्षया बलवता भवितव्यम् । विरोधिता च तथा यद्यस्य विरोधित्वे सति यदपेक्षया बलवत्तरस्य बाधकमिति नियमः । न तु विरोधिमात्रं बलवन्मात्रं वा । दुर्बलेनैव प्रबलस्य अविरुद्धेन बलवता च दुर्बलस्य बाधापत्तेः । न चैवम् । तथाऽनुपलब्धेः। तथा च विशिष्टादिजगद्विषयप्रत्यक्षादिप्रमाणजन्यज्ञानापेक्षया तन्निरासकतर्कस्य प्राबल्याभावाद् विरोधित्वेऽपि तेन तर्केण न तद्बाध इत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

दत्तमुत्तरमिति ।। अङ्गपञ्चकवैकल्यादाभासोऽयं तर्क इत्युत्तरं दत्तमित्यर्थः । विशिष्टा-दीति ।। प्रकृष्टप्रकाशश्चन्द्रः, सोऽयं देवदत्तः, दण्डी चैत्रः, पर्वतोऽग्निमान् इत्यादौ प्रकृष्ट-प्रकाशत्वादिविशिष्टादिजगद्विषयप्रत्यक्षानुमानादिज्ञानस्येत्यर्थः ।दत्तमुत्तरमिति ।। सर्ववैलक्षण्याङ्गीकारादित्यादिना ग्रन्थेनोक्तमुत्तरमित्यर्थः ।

गुरुराजीया

बाधनस्येति ।। ‘अधीगर्थदयेषां कर्मणि’२ इति षष्ठी ।।

गोविन्दीया

दत्तमुत्तरमिति ।। आक्षेपेण पृष्टवतः तर्कस्याभासत्वोपपादनेन दत्तमुत्तरमित्यर्थः । वैपरीत्यस्यापीति ।। विरोधमात्रस्य तत्रापि सत्त्वाद् वैपरीत्येन प्रत्यक्षस्यापि तर्कं प्रति बाधकत्वप्रसङ्गादित्यर्थः । येनासाविति ।। येन निमित्तेनासौ तर्कः प्रत्यक्षबाधकं स्यादित्यर्थः ।

जनार्दनभट्टीया

‘न हि दृष्टेः’ इत्युत्तरवाक्यस्य ‘दृष्टस्य वस्तुनः’ इति पूर्ववाक्येन पौनरुक्त्यम् आशङ्क्य प्रकृष्टव्यवस्थाया शङ्कां परिहरति – तर्क इत्यादिना ।। ‘नहि’ इति वाक्यलब्धं बाधकतावच्छेदकं दर्शयति – वैपरीत्यस्यापीति ।। इदं रजतमिति भ्रमस्यापि नेदं रजतमिति प्रमितिबाधकत्वप्रसङ्गात् इत्यर्थः । ‘दृष्टेः’ इत्यस्य षष्ठीत्वप्रतीतिं३ वारयन् वाक्यस्य प्रकृतोपयोगमाह – नहीत्यादिना ।।