न च शून्यवादिनः ..

पूर्वोक्तशङ्कानिरासाय शून्यवादमायावादयोः साम्योपपादनम्

मूल

न च शून्यवादिनः सकाशाद्वैलक्षण्यं मायावादिनः ।

श्रीमज्जयतीर्थटीका

अत्र शून्यवादिमायावादिशब्दौ तन्मतोपलक्षणार्थौ । इदमुक्तं भवति । न सूत्राणि विषयविशेषनियतानि । तथात्वे सूत्रत्वव्याघातात् । विषयविशेषानन्त्याच्छास्त्रस्यापर्यवसान-प्रसङ्गाच्च । किन्तूदाहरणत्वेन विषयविशेषमादाय तत्समानविषये न्यायं सञ्चारयन्ति । न च शून्यवादिमताद्वैलक्षण्यं मायावादिमतस्यास्ति । अतः शून्यवादिमतनिराकरणपराणामप्येषां मायावादिमतमपि विषयो भवतीति तन्निरासायैतत्सूत्रोदाहरणे न कश्चित्सिद्धान्तविरोध इति ।

अथोच्येत किं शून्यवादान्मायावादस्य वैलक्षण्याभावः कार्त्स्न्येनोतैकदेशेन । नाऽद्यः । आचारादिवैलक्षण्यस्योपलब्धेः । न द्वितीयः । एकदेशसाम्येन सूत्रसञ्चारे सकलदर्शनेष्वपि तद्दर्शनाद् दर्शनान्तरनिरासप्रयासवैयर्थ्यादिति । मैवम् । इह निरसनीयांशसालक्षण्येन सूत्र-सञ्चाराभ्युपगमात् ।

श्रीविजयीन्द्रभिक्षु

ननु प्रतिमुखं परस्परवैलक्षण्यवत् शून्यवादिमायावादिनोरपि परस्परवैलक्षण्यस्य प्रत्यक्षादिप्रमाणसिद्धत्वात् ‘न च शून्यवादिनः सकाशात्’ इति तन्निषेधे कथं तत्प्रमाणविरोधो न स्यादित्याशङ्क्य तदविरोधाय व्याचष्टे- अत्रेति ।। नन्वेतावताऽपि ‘मायावादिशून्यवादि-मतयोरविशेष इति यदुक्तं तच्च प्रतिज्ञामात्रम् । न हि प्रतिज्ञामात्रेणार्थसिद्धिः’ इत्याशङ्क्य ‘व्यावहारिकसत्त्वस्य तेनाप्यङ्गीक्रियमाणत्वात्’ इति वैलक्षण्याभावे हेतोरुच्यमानत्वान्न प्रतिज्ञा-मात्रमेतदित्युपपादयितुम्  उक्तार्थासङ्गतिसिद्धान्तविरोधौ  यथा  नापततस्तथाऽह - इदमुक्तं भवतीति ।। विषयविशेषेषति ।। एकमात्रार्थतात्पर्यकानि न । तथात्वे सूत्रत्वानुपपत्तेः । सूत्रं हि ‘अल्पाक्षरमसन्दिग्धम्’ इत्यादिप्रमाणप्रतिपन्नाल्पाक्षरत्वादिघटितम् । सूत्रपदप्रवृत्तिनिमित्तं विश्वतो-मुखत्वं च समानजातीयबहुविषयत्वान्नातिरिच्यते । अन्यथा विषयविशेषानन्त्यात् तत्तद्विषय-विशेषनिर्णयार्थं न्यायग्रथनात्मकसूत्रसन्दर्भात्मकशास्त्रानन्त्यप्रसङ्गात् । न ह्युदाहरणभेदमात्रेण शास्त्रापर्यवसानप्रसङ्गोऽङ्गीकारार्हः । किन्तूदाहरणत्वेन क्रोडीकृतं विषयविशेषमादाय शास्त्र-कारैरुदाहृतान्यपि शास्त्राणि तत्समानविषये तत्प्रतिबद्धन्यायं समर्पयन्ति । तथा च शून्यवादि-मतावैलक्षण्ये मायावादिमतस्य तन्निरासकान्येव शास्त्राणि मायावादिमतनिरासकानि भवितु-मर्हन्तीति काऽसङ्गतिः कश्च सिद्धान्तविरोध इत्यखण्डार्थः ।

ननु मतान्तराणामपि परस्परं केनचिद्रूपेण वैलक्षण्यसत्त्वेऽपि केनचिद्रूपेण तदभावसम्भवात् प्रत्येकं सूत्रकारस्तन्निराकरणाय न प्रयतेतेति शङ्कते- अथोच्येतेति ।। सकलदर्शनेष्वपीति ।। मतशब्ददर्शनशब्दयोः पर्यायत्वेनानुवाददूषणयोर्भिन्नविषयत्वेन न वैयधिकरण्यमिति द्रष्टव्यम् । सूत्रसन्दर्भात्मके शास्त्रे निरसनीयांश एव वैलक्षण्याभावोऽभिप्रेतः । न तु कृत्स्नांशे । तथा च यत्र यत्र निरसनीयांशे निरसनीयतावच्छेदकमेकमुभयसम्प्रतिपन्नं तत्पुरस्कारेणैव तन्निरासकन्याय-निबन्धनात्मकं सूत्रं तत्र व्याप्रियत इत्यङ्गीकारेण नोक्तप्रसङ्ग इति परिहरति- मैवमिति ।।

श्रीवेदेशतीर्थ

ननु शून्यवादिमायावादिनोराकारादिवैलक्षण्यस्य प्रत्यक्षसिद्धत्वात्तन्निषेधानुपपत्ति-रित्यत आह- अत्र शून्येति ।। नन्वेतावता कथमुक्तशङ्कापरिहार इत्यत आह- इदमुक्तं भवतीत्यादिना ।। सूत्रत्वव्याघातादिति ।। समानजातीयबहुविषयत्वरूपविश्वतोमुखत्वलक्षण-सूत्रत्वव्याघातादिति भावः ।

श्रीराघवेन्द्रतीर्थ

मायावादिशून्यवादिनोर्मुखाद्यवयवगतवैलक्षण्यस्य प्रमाणसिद्धत्वाद्बाधनिरासायाऽह- अत्र शून्यवादिमायावादिशब्दाविति ।। तावता सिद्धान्तविरोधचोद्यस्य किमुत्तरमुक्तमित्यतो व्यनक्ति- इदमुक्तमिति ।। विषयविशेषेति ।। शून्यादिरूपेत्यर्थः । सूत्रत्वेति ।। विश्वतोमुख-शब्दितसमानन्यायानेकशाखानिर्णायकत्वानेकमतनिरासकत्वादिरूपसूत्रत्वव्याघातादित्यर्थः ।

अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।

 अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।।’१

इत्युक्तेरिति भावः । तर्ह्युदाहरणविशेषोक्तिः किमर्थेति पृच्छायामुत्तर-माह- किन्त्वित्यादि ।। सञ्चारयन्तीति ।। परीक्षका इति योज्यम् । एवं परिष्कृत्य मूलं योजयति-न चेति ।। आचारेति ।। वेदोक्तकर्मानुष्ठानाननुष्ठानरूपाचारवैलक्षण्यस्येत्यर्थः । तद्दर्शनादिति ।। प्रत्यक्षप्रामाण्याङ्गीकारादि-रूपैकदेशसाम्यस्य दर्शनादित्यर्थः । विषयविशेषनियतानीति । केवलशून्यवादिनिराकरणपराण्येवेत्येवंरूपाणीत्यर्थः । तद्दर्शनादिति । प्रत्यक्षप्रामाण्याङ्गीकारस्य सर्वदर्शनेष्वपि सत्त्वादित्यर्थः । दर्शनान्तरेति ।। साङ्ख्यचार्वाकादिशास्त्रसिद्धान्तेत्यर्थः ।

गुरुराजीया

ननु वादिद्वयस्याऽकारादिवैलक्षण्यमनुभवसिद्धं न निषेद्धुं शक्यम् । तथा सत्यनुभव-विरोधादित्यत आह- अत्रेति ।। इदमुक्तं भवतीति ।। व्याघातादिति ।। तथा सति विश्वतोमुखत्वा-भावेन तद्रूपसूत्रताया व्याहतत्वादित्यर्थः । तर्ह्येकेनैव सूत्रेण सूत्रान्तरप्रयोजनसिद्धेस्तद्वैयर्थ्यमिति पृच्छति- किन्त्विति ।। परिहरति- उदाहरणत्वेनेति ।।

गोविन्दीया

तथात्वे इति ।। विषयविशेषैकनियतत्वे । सूत्रत्वव्याघातात् विश्वतोमुखत्वेन विरोधादि-त्यर्थः । तत्समानेति ।। उदाहरणसमानधर्मवति विषय इत्यर्थः । आचारादीति ।। आचारधर्मादि-भेदस्योपलब्धेरित्यर्थः । सकलेति ।। सकलदर्शनेष्वपि शून्यवादिमतैकदेशसाम्येन शून्यमत-निराकरणेनैव तेषां निराकृतत्वात् पुनस्तत्तद्दर्शनान्तरनिरासप्रयासवैयर्थ्यादित्यर्थः । इहेति ।। यावन्निरसनीयांशः तावदंशसालक्षण्येनेह मायावादिमते सूत्रसञ्चाराभ्युपगमात् साकल्येनैकदेशेन वाऽनुपपत्त्यभाव इत्यर्थः ।

नारोपन्तीया

तन्मतोपलक्षणार्थाविति । वादिस्वरूपवैलक्षण्योपपादनस्यासङ्गतत्वाद्बाधितत्वाच्चेति भावः ।

जनार्दनभट्टीया

तन्मतोपलक्षणार्थाविति ।। तन्मतयोरेव प्रकृतत्वादिति भावः । यद्यप्यत्र शून्यवादिमायावादिमते इव तद्वादिनौ अपि प्रकृतौ । यदवोचत् – ‘तद्वादिन इति वेति’ । तथाऽपि तयोः वैलक्षण्याभावो न वर्तुलैकपुण्ड्रत्रिपुण्ड्रधारणादिना प्रकृतः । बाधात् । यद्वक्ष्यति ‘आचारादिवैलक्षण्यस्य उपलब्धेः’ इति । किन्तु मतसालक्षण्यमादायैव वाच्य इत्यावेदयितुं तन्मते उपलक्षिते इति ज्ञातव्यम् । मूले, ननु सिद्धान्ते शून्यवादिनिराकरणपरत्वेन व्याख्यातानां सूत्राणां कथं मायिमतनिराकरणपरत्वेन कथनमिति चोद्यस्य परिहाराप्रतीतेराह – इदमिति ।। विषय-विशेषनियतानीति ।। समानन्यायविषयाणां मध्ये एकं परित्यज्य अपरमात्रनिर्णयकानि न भवन्ती-त्यर्थः । सूत्रत्वव्याघातादिति ।। समानन्यायविषयबह्वर्थनिर्णायकत्वरूपविश्वतोमुखत्वाभावादिति भावः ।