बाध्यत्वमपि हि तेषां मिथ्या ..

ज्ञाननिवर्त्यत्वस्य मिथ्यात्वाङ्गीकारे दूषणाभिधानम्

श्रीमज्जयतीर्थटीका

किं च जगति सत्त्वानुपपत्त्यर्थमुपन्यस्तं बाध्यत्वं परेण सत्यमङ्गीक्रियते मिथ्या वा । आद्ये अपसिद्धान्तादिप्रसङ्गाद् द्वितीय एवाङ्गीकार्य इत्याह-

मूल

बाध्यत्वमपि हि तेषां मिथ्या ।

अपिशब्दो युक्तिसमुच्चयार्थः । न केवलं जगत् । किं तु बाध्यत्वमपीति वा । तेषां हीति सत्यत्वाङ्गीकारेऽपसिद्धान्तादिकं सूचयति । किमत इत्यत आह-

मूल

तस्य च मिथ्यात्वेऽबाध्यत्वमेव सत्यं स्यात् ।

यदा जगतो बाध्यत्वमपि मिथ्या तदा आत्मवन्मिथ्याभूतबाध्यत्वेन जगतोऽबाध्यत्वमेव सत्यं स्यात् । तथा च न केवलं प्रमाणाभावेन जगतो बाध्यत्वाभावः । किं नाम परन्यायेनापि । न केवलं बाध्यत्वाभावात्तदनुपपत्त्या सद्विलक्षणत्वासिद्धिः । प्रत्युत अबाध्यत्वस्य सत्यत्वात् सत्यत्वमेव सिद्ध्यति ।

ननु बाध्यत्वं मिथ्येत्यनेनैव जगति बाध्यत्वासिद्धिरुक्ता । तत्किमुत्तरेण वाक्येन    मैवम्    न हि मिथ्येत्यसत्त्वं परोऽङ्गीकुरुते । परन्यायेन चेह दूषणमुपक्रान्तम् । अतो व्याप्तिबलेनैव बाध्यत्वाभावमबाध्यतासत्यतया सत्यत्वं चोपपादयितुमुत्तरो ग्रन्थः । अत एव ‘तस्य च मिथ्यात्वे बाध्यत्वाभावः’ इति नोक्तम् ।

अनिर्वचनीयस्य निराक्रियमाणत्वान्मिथ्यात्वमसत्त्वमेव पर्यवस्यातीति बाध्यत्वासिद्धिः पूर्ववाक्येनैव शक्योपपादनेति चेत् सत्यम् । मार्गान्तरमेतदित्यदोषः ।

श्रीविजयीन्द्रभिक्षु

सत्यमपि बाध्यत्वं किं ब्रह्मस्वरूपम् उत ततोऽन्यत् । नाऽद्यः । सोपाधिकस्य भ्रम-कालानिश्चितस्य तस्य निरुपाधिकभ्रमकालनिश्चितब्रह्मस्वरूपत्वायोगादिति आद्यपक्षदूषणम् आदिपदेन सूचयन् द्वितीयं दूषयति - अपसिद्धान्तादीति ।। न चाभावद्वैतपक्षे नेदं दूषणमिति वाच्यम् । तस्यैवायुक्तत्वात् । अन्योन्याभावरूपभेदस्यापि विशेषहेत्वभावेन सत्यत्वापत्तेः । ‘नेह नाना’१ इति श्रुतौ किञ्चनेति सर्वनाम्ना ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यभावप्रतीतेः । तदेतदभि-प्रेत्याप्याह- अपसिद्धान्तादीति ।। युक्त्यन्तराभिधानेनापि युक्तिसमुच्चयस्य ज्ञातुं शक्यत्वेन अपि-शब्दस्य नातिप्रयोजनतां मन्वान आह- न केवलमिति ।। यद्यपि जगद्ग्रहणेन बाध्यत्वमपि गृहीतं तथाऽपि परेण बाध्यत्वस्य जगदनिर्वचनीयतासाधकतया पृथगुपादानात् पृथगुक्तम् । यदेति ।। विमतं जगत् सत्यबाध्यत्वाभाववत् मिथ्याभूतबाध्यत्वकत्वात् आत्मवत् इति प्रयोगो द्रष्टव्यः । न च बाध्यं जगदित्यत्र किञ्चिन्मानम् बाध्यत्वमपि हि तेषां मिथ्या इति पूर्ववाक्यद्वयार्थानुवादपूर्वकं जगदबाध्यत्वसत्यत्वसाधनस्य प्रयोजनमत्राऽह- तथा चेति ।। परन्यायेनापीति ।। बाध्यत्वं मिथ्येति परोक्तेनेत्यर्थः । जगत्सत्यं सत्याबाध्यताकत्वात् आत्मवत् इति प्रयोगमभिप्रेत्याऽह- प्रत्युतेति ।। मिथ्याशब्दस्यापह्नववचनत्वं मन्वानः ‘तस्य च’ इत्युत्तरवाक्यवैयर्थ्यं शङ्कते- नन्विति ।। तत्किमुत्तरेणेति ।। तस्यापि जगद्बाध्यत्वाभावप्रतिपादनपरत्वादिति भावः । न हि मिथ्येति ।। न हि मिथ्याशब्दस्यासत्त्वमर्थ इति परोऽङ्गीकुरुत इत्यर्थः । न हि परानङ्गीकारमात्रेण तस्य तदर्थत्वासिद्धिरिति तद्वैयर्थ्यतादवस्थ्यमित्यत आह- परन्यायेनेति ।। व्याप्तिबलेनेति ।। ‘यद्यत् मिथ्याभूतबाध्यत्वकं तत्तत् सत्यभूताबाध्यत्वकं यथा आत्मा’ इति व्याप्तिबलेनेत्यर्थः । बाध्यत्वा-भावमिति ।। तद्रूपमित्यर्थः । पररीत्यैव च दूषणमुपक्रान्तमित्यत्र ज्ञापकमाह- अत एवेति ।। उपायस्य उपायान्तरादूषकत्वादिति परिहरति- सत्यमिति ।।

श्रीवेदेशतीर्थ

आद्य इति ।।  बाध्यत्वं सत्यं चेत् तद्ब्रह्मान्यद् ब्रह्ममात्रं वा । आद्ये सदद्वैतसिद्धान्त-भङ्गप्रसङ्गः । द्वितीये सोपाधिकस्य भ्रमकालानिश्चितस्य बाध्यत्वस्य निरुपाधिकभ्रमकाल-निश्चितब्रह्ममात्रत्वानुपपत्तिरिति दूषणमपसिद्धान्तादीत्यादिशब्देनाऽह । ननु भावाद्वैतपक्षे नेदं दूषणमिति चेन्मैवम् । दृश्यत्वादेस्तत्रैव व्यभिचारापत्त्या भेदस्याप्यन्योन्याभावरूपतयाऽभाव-त्वेनाविशेषात्सत्यत्वापत्त्या च तस्य पक्षस्यायुक्तत्वात् । एतदप्याहाऽदिपदेन- सूचयतीति ।। तेषां हीत्यस्य ब्रह्मातिरिक्तसर्वमिथ्यात्ववादिनामित्यर्थत्वादिति भावः । अपिशब्दो युक्तिसमुच्चयार्थ इत्येतद्दर्शयति- तथा चेति ।। परन्यायेनापीति ।। बाध्यत्वाभाव इति वर्तते । परन्यायेन बाध्यत्वं मिथ्येति परोक्तेत्यर्थः । तथा च अबाध्यत्वं स्यात् इत्येतद्बाध्यत्वाभावः प्राप्त इति व्याख्यातं भवति । ननु जगति सत्त्वानुपपत्त्यर्थमुपन्यस्तस्य बाध्यत्वस्याभाव एव तन्मिथ्यात्वेन साधनीयः । न त्वबाध्यत्वसत्यत्वम् । तस्य प्रकृतानुपयोगादित्यतो बाध्यत्वाभावसाधनप्रयोजनानुवादपूर्वकम-बाध्यत्वसत्यतासमर्थनप्रयोजनमाह- न केवलमिति ।। जगत्सत्यं सत्यबाध्यत्वकत्वादात्मवदित्यनु-मानमभिप्रेत्याऽह- प्रत्युतेति ।। तत्किमुत्तरेणेति ।। अत्रापि बाध्यत्वाभावस्यैव प्रतिपादनात् । न चाबाध्यत्वसत्यत्वमपि जगत्सत्यतासिद्ध्यर्थं प्रतिपाद्यत इति सार्थक्यम् । बाध्यत्वाभावोपपादनस्य सद्विलक्षणत्वासिद्ध्युपयुक्तत्ववदबाध्यत्वसत्यत्वेन जगत्सत्यताकथनस्य सद्विलक्षणत्वासिद्ध्य-नुपयुक्तत्वादिति शङ्कितुर्हृदयम् । यद्वा तस्य च इत्युत्तरवाक्ये बाध्यत्वाभाव एव प्रतिपाद्यत इति भ्रान्तः शङ्कते- नन्विति ।। न हीति ।। येन बाध्यत्वं मिथ्येत्युक्ते पूर्ववाक्ये तदसिद्धिरुक्ता स्यादिति भावः । ननु तथाऽप्यस्मन्मते मिथ्यात्वमसत्त्वमेवेति बाध्यत्वं मिथ्येत्युक्ते तदसिद्धिरुक्ता स्यादित्यत आह- परन्यायेेनेति ।। अत इति ।। यतो बाध्यत्वमपि मिथ्येत्युक्त्या न बाध्यत्वासिद्धिरुक्तेत्यर्थः । व्याप्तिबलेनैवेति ।। यन्मिथ्याभूतबाध्यताकं न तद्बाध्यम् । यन्मिथ्याभूतबाध्यताकं तत्सत्यभूता-बाध्यताकम् । यत्सत्यभूताबाध्यताकं तत्सत्यम् । यथाऽऽत्मेति व्याप्तिबलेनेत्यर्थः । सत्यत्वं चोपपादयितुमिति ।। तथा च जगति सद्वैलक्षण्यसाधने सत्प्रतिपक्षतारूपदोषान्तरकथनेनापि सार्थक्यमिति भावः । उभयोपपादनं विवक्षितमित्यत्रावष्टम्भकमाह- अत एवेति ।।

श्रीराघवेन्द्रतीर्थ

अपसिद्धान्तादीति ।। ‘एकमेवाद्वितीयम्’१ इत्यादिश्रुतिविरोधः । ब्रह्मणः सद्वितीयत्वं इत्यादिरादिपदार्थः । युक्तिसमुच्चयार्थ इत्युक्तं व्यञ्जयन्नुत्तरवाक्यार्थं चाऽह- न केवलमित्यादिना ।। उत्तरेणेति ।। तस्य चेत्यनेनेत्यर्थः । परन्यायेनेति । ‘मिथ्याशब्दोऽनिर्वचनीयं वदति’ इत्यादिना तथैव प्रक्रमादिति भावः । व्याप्तिबलेनेति ।। २अत एवेति ।। व्याप्तिबलेनोपपादनीयत्वादेवेत्यर्थः । तस्य चेति । तथोक्तौ सत्यत्वं नोपपादितं स्यादिति भावः । मार्गान्तरमेतदिति । तस्य चेत्यादिनाऽबाध्यत्वसत्यत्वोक्तिमुखेन बाध्यत्वाभावकथनमित्यर्थः । सत्त्वानुपपत्त्यर्थम् ।। सद्वैलक्षण्यार्थम् ।

गुरुराजीया

युक्तिसमुच्चायकापिशब्दानुरोधाद् बाध्यत्वमपि इत्युत्तरग्रन्थस्य युक्त्यन्तरेण बाध्यत्वाभावोपपादकत्वमित्यभिप्रेत्य तत्परतयोत्तरग्रन्थं योजयति- किञ्चेति ।। अपसिद्धान्तादी-त्यादिपदेन३ बाध्यत्वे व्यभिचारपरिग्रहः । अत एव ‘तस्य सत्त्वे तेनैवानैकान्तिकत्वात्’ इति वक्ष्यतीति द्रष्टव्यम् । युक्तिसमुच्चयार्थ इति ।। ‘बाध्यत्वमपि हि’ इत्यादिवाक्योक्तयुक्तेः ‘न च बाध्यं जगदित्यत्र किञ्चिन्मानम्’ इति पूर्ववाक्योक्तबाध्यत्वाभावसाधकप्रमाणाभावरूपयुक्त्या समुच्चयार्थ इत्यर्थः    अत एव वक्ष्यति ‘तथा च न केवलं प्रमाणाभावेन जगतो बाध्यत्वा-भावः । किं नाम परन्यायेनापि’ इति भावः ।

यत्तु ‘युक्तिर्व्याप्यं लिङ्गमिति यावत् । तथा च बाध्यत्वरूपसाध्यसाधकत्वेनाभिमता१ युक्तिरपि मिथ्येत्यर्थः’ इति तन्न । युक्तिसमुच्चयार्थकापिशब्दस्वारस्यलब्ध‘किञ्च’इत्यादिरूपैतन्मूल-ग्रन्थावतारेण ‘तथा च न केवलं प्रमाणाभावेन जगतो बाध्यत्वाभावः । किं नाम ? परन्यायेनापि’ इत्युत्तरग्रन्थेन च विरुद्धत्वात् तद्ग्रन्थद्वयपर्यालोचनया बाध्यत्वाभावसाधकप्रमाणाभावतत्साधक-परन्यायरूपयुक्त्योरेव समुच्चयस्य तदर्थतायाः स्पष्टत्वात् । अपसिद्धान्तादीत्यादिपदेन व्यभिचारपरिग्रहः ।

परन्यायेनापीति ।। बाध्यत्वाभाव इति वर्तते । परन्यायेन बाध्यत्वं मिथ्येति परोक्त्येत्यर्थः । तथा च ‘अबाध्यत्वं स्यात्’ इत्येतद् बाध्यत्वाभावः प्राप्त इति व्याख्यातं भवति ।

ननु जगति सत्त्वानुपपत्त्यर्थमुपन्यस्तस्य बाध्यत्वस्याभाव एव तन्मिथ्यात्वेन साधनीयः । न त्वबाध्यत्वसत्यत्वम् । तस्य प्रकृतानुपयोगादित्यतः बाध्यत्वाभावसाधनप्रयोजनानुवादपूर्वकम् अबाध्यत्वसत्यतासमर्थनप्रयोजनमाह- न केवलमिति ।। जगत् सत्यं सत्याबाध्यत्वकत्वाद् इत्यनुमानं मनसि निधायाऽह- प्रत्युतेति ।। तत्किमुत्तरवाक्येनेति ।। अत्रापि बाध्यत्वाभावस्यैव प्रतिपादनात् । न चाबाध्यत्वसत्यत्वमपि जगत्सत्यतासिद्ध्यर्थं प्रतिपाद्यत इति सार्थक्यम् । बाध्यत्वाभावोपपादनस्य सद्विलक्षणत्वासिद्ध्युपयुक्तत्ववद् अबाध्यत्वसत्यत्वेन जगत्सत्यता-कथनस्य सद्विलक्षणत्वासिद्ध्यनुपयुक्तत्वादिति भावः ।

यद्वा पूर्ववाक्ये बाध्यत्वस्य मिथ्यात्वं प्रतिपादितम् । तच्च बाध्यत्वाभावे पर्यवसितम् । बाध्यत्वाभावस्य सत्यत्वमेवेति विवक्षितलाभस्तत्रैव जातः । अत उत्तरवाक्यमनुपयुक्तम् । तेनैव तत्साधनायोगादिति भावः ।

ननु तथाऽपि अस्मन्मते मिथ्यात्वमसत्त्वमेवेति बाध्यत्वं मिथ्येत्युक्ते तदसिद्धिरुक्ता स्यादित्यत आह-परन्यायेनेति ।। अत इति ।। यतो बाध्यत्वं मिथ्येत्युक्त्या न बाध्यत्वासिद्धिरुक्तेत्यर्थः । व्याप्तिबलेनेति ।। यन्मिथ्याभूतबाध्यताकं न तद्बाध्यम् । यन्मिथ्याभूतबाध्यताकं तत्सत्य-भूताबाध्यताकम् । यत्सत्यभूताबाध्यताकं तत्सत्यं यथा आत्मा इति व्याप्तिबलेनेत्यर्थः । सत्यत्वञ्चोपपादयितुमिति ।। तथा च जगति सद्वैलक्षण्यसाधने सत्प्रतिपक्षतारूप-दोषान्तरकथकत्वेनापि सार्थक्यमिति भावः । उभयोपपादनं विवक्षितमित्यत्रोपष्टम्भकमाह- अत एवेति ।।

गोविन्दीया

आद्य इति ।। सत्यत्वपक्षेऽपि ब्रह्मान्यत्पक्षेऽपसिद्धान्तः । ब्रह्मस्वरूपपक्षे बाध्यत्वस्वरूपत्वात् जगद्वत् ब्रह्माप्यनिर्वचनीयं स्यादिति आदिशब्दार्थ इत्यर्थः । न हीति ।। मिथ्येति असत्त्वं परो नाङ्गीकुरुते येनोत्तरवाक्यं व्यर्थं स्यात् । इह च वाक्ये परन्यायेन बाध्यत्वासिद्धिरूपदूषणमुपक्रान्तम् । अतः सार्थकमुत्तरवाक्यमित्यर्थः । अत इति ।। मिथ्या-भूताबाध्यत्वाद् बाध्यं न भवतीति व्याप्तिबलेनैव बाध्यत्वाभावं सत्यभूतबाध्यत्वसत्यत्वं चेति व्याप्त्या सत्यत्वं चोपपादयितुमुत्तरो ग्रन्थ इत्यर्थः । मार्गान्तरमिति ।। अनिर्वचनीयनिराकरणद्वारा पूर्ववाक्येनैव बाध्यत्वसिद्धिरुक्ता इत्येको मार्गः । तस्य चेत्युत्तरवाक्येन परन्यायेन बाध्यत्वासिद्धिरुक्ता । अतो मार्गान्तरमेतदित्यर्थः ।

नारोपन्तीया

युक्तिसमुच्चयार्थ इति । युक्तिर्लिङ्गं व्याप्यमिति यावत् । बाध्यत्वरूपसाध्यसाधकत्वेनाभिप्रेता युक्तिरपि मिथ्येत्यर्थः । किमुत्तरवाक्येनेति । पूर्ववाक्ये बाध्यत्वस्य मिथ्यात्वं प्रतिपादितम् । तच्च बाध्यत्वाभावे पर्यवसितम् । बाध्यत्वाभावश्च सत्यत्वमेवेति विवक्षितलाभः तत्रैव जातः । अत उत्तरवाक्यमनुपपन्नम् । तेनैव तत्साधनायोगादिति भावः । व्याप्तिबलेनेति । यद्यपि निष्कर्षे क्रियमाणे पूर्ववाक्येनैवेष्टसिद्धिः । तथाऽपि ‘तुष्यतु दुर्जनः’ इति  न्यायेनाविवेचितस्वरूपं मिथ्यात्वमभ्युपगम्य, यत्र मिथ्याभूततद्धर्माधिकरणत्वं तत्र सत्यभूततदभावाश्रयत्वम् । यथा मिथ्याभूतरजतत्ववति शुक्तिशकले सत्यभूततदभावाश्रयत्वमिति दृष्टान्तसम्भवाद् व्याप्तिबलेन तत्साधनं युक्तमित्यर्थः ।। अत एवैतदाक्षिप्याऽह- मार्गान्तरमेतदित्यदोष इति ।

जनार्दनभट्टीया

‘तस्य च बाध्यत्व’ इति वाक्यलब्धमर्थविशेषणमाह – तथा चेति ।। तेनैव लब्धमर्थान्तरमाह– न केवलमिति ।। अतो व्याप्तिबलेनेति ।। ‘यस्य बाध्यत्वं बाध्यं तस्याबाध्यत्वं सत्यम्’ इति व्याप्तिबलेनेत्यर्थः । शङ्कते – अनिर्वचनीयस्येति ।। सच्छब्दार्थविकल्पानुपपत्तिः सद्विलक्षणत्वस्येति शेषः ।