अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात् ..
तत्त्वमस्यादिवाक्यानामखण्डार्थतासाधकानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्
श्रीमज्जयतीर्थटीका
द्वितीयं दृष्टान्तं दूषयति -
मूल
अनित्यदेशकालसम्बन्धित्वस्य सत्त्वात् न सोऽयं देवदत्त इत्याद्युपमा च ।
इत्यादिवाक्यम् उपमा तत्त्वमस्यादिवाक्यस्याखण्डार्थतायामिति शेषः । तदेतद्देशकाल-सम्बन्धित्वं हि स इत्यादिपदवाच्योऽर्थः । तच्चास्त्येव देवदत्तादौ प्रमितमिति वाच्यार्थसम्भवान्न ‘सोऽयं देवदत्तः’ इत्यादिवाक्यं लक्षणया देवदत्तादिस्वरूपमात्रपरम् । अतो नैतद्दृष्टान्तेन तत्त्वमस्यादिवाक्यानामखण्डार्थतासिद्धिः ।
श्रीविजयीन्द्रभिक्षु
उपमा दृष्टान्तः । तदेतदिति ।। ‘सोऽयं देवदत्तः’ इति दृष्टान्तवाक्ये तद्देशकालसम्बन्धित्वं तच्छब्दस्य वाच्योऽर्थः एतद्देशकालसम्बन्धित्वम् अयमितीदंशब्दस्य वाच्योऽर्थ इति विवेकः ।
ननु तदेतद्दशकालसम्बन्धित्वस्य देवदत्तादौ प्रमाणसिद्धत्वेऽपि स इत्यादिपदं लक्षणया देवदत्तादिस्वरूपमात्रपरं किं न स्यादित्यत आह- वाच्यार्थेति ।।
श्रीवेदेशतीर्थ
तदेतदिति ।। तद्देशकालसम्बन्धित्वं स इति तच्छब्दार्थः । एतद्देशकालसम्बन्धित्वम् ‘अयमिति’ इदंशब्दार्थ इति विवेकः ।
श्रीराघवेन्द्रतीर्थ
तदेतद्देशकालेति ।। तद्देशकालवैशिष्ट्यं तच्छब्दार्थः । एतद्देशकालवैशिष्ट्यमयंशब्दार्थः । अस्त्येवेत्यनुवादः प्रमितमिति व्याख्यानम् । सत्त्वादित्यस्यार्थः । विशिष्टद्वयैक्यं वेति । तद्देशकालविशिष्टं एतद्देशकालविशिष्टं चेति द्वयं सोऽयमित्यनूद्य देवदत्त इत्यनेन तस्यैैक्यं बोध्यत इत्यर्थः । नन्वत्रापि विशेषणैक्यमित्यत आह- विशेषणैक्यस्येति ।। तदेतद्देशकालयोरैक्यस्येत्यर्थः । भ्रमव्युदासेनेति ।। तद्द्वारेणेत्यर्थः ।
गोविन्दीया
उपमेति ।। दृष्टान्त इत्यर्थः । तच्चेति ।। देवदत्तादौ तदेतद्देशकालसम्बन्धित्वादि-विशेषणानां सत्त्वात् सोऽयं देवदत्त इत्यादिवाक्यं तत्स्वरूपमात्रपरं न, अपि तु सम्बन्धित्वादिपरं चेत्यर्थः । अत इति ।। सोऽयं देवदत्त इत्यादिवाक्यस्योभयपरत्वाद् एतद्दृष्टान्तेन न तत्त्व-मस्यादिवाक्यानामखण्डार्थतासिद्धिरित्यर्थः ।