व्यावहारिकसत्त्वस्य ..

शून्यवादमायावादयोर्वैलक्षण्यमाशङ्क्यापरप्रमेये वैलक्षण्याभावोपपादनम्

श्रीमज्जयतीर्थटीका

नन्वेतदपि नास्ति । असदेव जगच्छून्यादुत्पद्यत इति शून्यवादांशो ह्यत्र निराक्रियते । न चैतत्प्रमेयद्वयं मायावादिनोऽभिमतम् । जगतः पारमार्थिकत्वाभावेऽपि व्यावहारिकसत्त्व-स्याङ्गीकृतत्वान्नापरप्रमेये वैलक्षण्याभावः । ब्रह्मणो जगत्कारणत्वाभ्युपगमान्न परप्रमेयेऽपीति । मैवम् । यतः परमार्थापेक्षयैव शून्यवादिना जगदसदुच्यते यथा मायावादिना । ‘अथ पुनर्विद्योदयेऽविद्यायाः निरुपाख्यत्वमङ्गीकृत्यासत्त्वमुच्यते । काममभिधीयताम्’ इति । व्यावहारिकसत्त्वं तु जगतस्तेनाप्यङ्गीकृतमेव । अतोऽपरप्रमेये तावन्न शून्यवादिमताद्वैलक्षण्यं मायावादिमतस्येत्याह-

मूल

व्यावहारिकसत्त्वस्य तेनाप्यङ्गीक्रियमाणत्वात् ।

पूर्वेण सम्बन्धः । जगति व्यावहारिकसत्त्वं शून्यवादिनाऽङ्गीक्रियत इत्येतत्कुतो ज्ञायते । तद्वाक्यादेवेति तदुदाहरति-

मूल

सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् ।

संव्रियतेऽनयेति संवृतिरविद्या तत्कृतं सांवृतम् । अनेन सत्यद्वयोद्देशः कृतः । के ते द्वे सत्ये इति शृङ्गग्राहिकया दर्शयति-

मूल

सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ।।

यदिदं हानादिव्यवहारविषयो जगत्तत् सांवृतं सत्यमित्युच्यते । व्यवहारनिवृत्तौ यदवतिष्ठते तदव्यावहार्यं शून्यमिति यावत् । तत्पारमार्थिकं सत्यमित्युच्यते ।

किंलक्षणके ते सत्ये इत्यतो वाक्यलाघवादनन्तरोक्तस्यापि पारमार्थिकसत्यस्य लक्षणं तावदाह- निवृत्तौ पारमार्थिकम् ।

व्यवहाराविषयत्वं पारमार्थिकलक्षणम् । अथ वा विज्ञानेनाशेषप्रपञ्चनिवृत्तावपि यन्न निवर्तते तत्पारमार्थिकमिति कालत्रयेऽप्यबाध्यत्वं पारमार्थिकसत्यलक्षणमुक्तं भवति । सांवृतसत्य-लक्षणमाह-

मूल

विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते ।

यस्य तत्सांवृतं ज्ञेयम् ..............।

प्रागूर्ध्वं यस्य सत्त्वं न मध्ये तस्य कुतो भवेत् ।

अन्यथा शुक्तिरूप्यादेः सत्त्वं केन निवार्यते ।।

इत्यादिविचार्यमाणे यस्य वस्तुनः सत्त्वं न युज्यते । तथाऽपि सत्त्वं प्रतीयते च । तद्वस्तु सांवृतं सत्यं ज्ञेयम् । अत्राऽद्येन विशेषणेन पारमार्थिकसत्याद्व्यावृत्तिः । द्वितीयेनात्यन्तासतः ।

लक्षणान्तरञ्चाऽह-

मूल

.......... व्यवहारपदञ्च यत् । इत्यादिना

पारमार्थिकस्यात्यन्तासतश्च हानाद्यविषयत्वाद्व्यवहारविषयत्वञ्च सांवृतसत्यलक्षणं भवति । आदिपदेन

द्वे सत्त्वे समुपाश्रित्य बुद्धानां धर्मदेशना ।

लोके सांवृतसत्यञ्च सत्यञ्च परमार्थतः ।।

इत्यादेः सङ्ग्रहः । इत्यादिनाऽङ्गीक्रियमाणत्वात् इति सम्बन्धः । इत्यादिना शून्यवादिवाक्येन तदङ्गीकारो ज्ञायत इति वा ।

श्रीविजयीन्द्रभिक्षु

एतदपीति ।। निरसनीयांशसालक्षण्यमपीत्यर्थः । तत्कथमित्यत आह- असदेवेति ।। कथं नाभिमतमित्यत आह- जगत इति ।। ब्रह्मण इति ।। न हि मायावादी स्वाभिमतब्रह्मणः शून्यत्वं मन्यत इत्यर्थः । पदार्थविवेचने क्रियमाणे परमप्रमेयापरमप्रमेययोः शब्दमात्रकृतव्यवहार-वैलक्षण्यं सिद्ध्यति । न त्वर्थकृतं मायावाद्युक्तमिति निरस्यति- मैवमिति ।। अपरप्रमेयावैलक्षण्यं तावदाह- यत इति ।। यस्मान्मायावादिना परमार्थमेकमङ्गीकृत्य तदपेक्षयैव यथा जगदसदुच्यते तथैव शून्यवादिनाऽप्युच्यत इत्यर्थः । ननु शून्यवादिना विद्योदये सत्यविद्याया निरुपाख्यत्वमङ्गी-कृत्यासत्त्वमुच्यते । कथमेवं सत्यपरप्रमेये वैलक्षण्याभाव इति शङ्कते- अथेति ।। तावता शब्दमात्रकृतवैलक्षण्यमेवाऽयातम् । न त्वर्थकृतमिति प्रतिपादयितुमाह- काममिति ।। इति काममभिधीयतामिति सम्बन्धः । उक्तप्रकारेण काममभिधीयताम् । न हि तथाऽभिधानमात्रेणार्थकृतं वैलक्षण्यं सिद्ध्यति । जगतः शून्यवादिनाऽपि व्यावहारिकसत्त्वस्यैवाङ्गीकारात् । अतो नापरप्रमेये तयोर्वैलक्षण्यमस्तीत्यर्थः । पूर्वेणेति ।। ‘न च शून्यवादिनः सकाशात्’ इति प्रतिज्ञावाक्येनेत्यर्थः । अनेनेति ।। ‘सत्यं तु द्विविधं प्रोक्तम्’ इत्यनेन सत्यद्वयस्याग्रे लिलक्षयिषितस्योद्देशः व्यावर्तकधर्मतात्पर्यकलक्षणोक्त्युद्देश्यकशब्दः कृत इत्यर्थः    तेन विना लक्षणोक्त्यसम्भवादिति भावः । सत्य इति ।। जिज्ञासायामिति शेषः । शृङ्गग्राहिकयेति ।। शृङ्गं गृहीत्वा प्रदर्शनोपायो हि शृङ्गग्राहिकेत्युच्यते । तयेत्यर्थः । यदिदमिति ।। ‘सांवृतं व्यावहार्यं स्यात्’ इति लक्ष्यतावच्छेदकोक्तिरिति भावः । वाक्यलाघवादिति ।। ‘सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम्’ इत्यत्र सांवृतमेव प्रथमोद्दिष्टमिति तस्यैव प्रथमं लक्षणं वाच्यम् । न तु तदनन्तरोक्तस्य पारमार्थिक-सत्यस्य । तथाऽप्युक्तिलाघवानुसन्धानवता शून्यवादिना पारमार्थिकसत्यस्यैव प्रथमं लक्षणमुक्त-मिति भावः । यद्यपि ‘निवृत्तौ पारमार्थिकम्’ इत्यनेनैव लक्ष्यतावच्छेदकलक्षणयोरभिधाने लक्ष्यता-वच्छेदकस्यैव लक्षणत्वप्रसङ्ग इति व्याप्तिग्रहदशायामेव १पक्षतावच्छेदकसाध्यसिद्धेः सिद्धसाधनं दोषो भवति तथाऽपि सिषाधयिषामादाय पक्षतासत्त्वान्नानुमानवैफल्यमिति भावः । एतदस्वरसादाह- अथ वेति ।। तथा च व्यवहाराविषयत्वं लक्ष्यतावच्छेदकम् । कालत्रयाबाध्यत्वं लक्षणमिति नोक्तदोष इति भावः । एतेन ‘निवृत्तौ पारमार्थिकम्’ इत्यत्र निवृत्तिप्रतियोगितया व्यवहारप्रपञ्चावुभावप्यभि-प्रेताविति गम्यते । विचार्यमाण इत्यस्य साकाङ्क्षतया विवक्षितार्थे पर्यवसानाभावात् तदर्थं यस्ये-त्यादिपदचतुष्टयमध्याहरति- यस्येति ।। विचारः किंरूप इत्याकाङ्क्षायां परोक्त्यैव विचारस्वरूपं दर्शयन् योजयति- प्रागूर्ध्वमिति ।। इत्यादीत्यादिपदं प्रकारार्थम् । इत्येवंप्रकारेण विचार्यमाण इत्यर्थः । हानाद्यविषयत्वादिति ।। हानोपादानादिव्यवहाराविषयत्वात् । पद्यत इति पदं विषयः। व्यवहारस्य पदं व्यवहारपदमिति व्यवहारविषयत्वे लक्षणेऽभिहितेऽसत्पारमार्थिकयोर्नातिव्याप्ति-रित्यर्थः । जगतो व्यावहारिकसत्त्वं शून्यवादिनाऽङ्गीक्रियत इत्येतत्कुतो ज्ञायत इति प्रश्ने उक्त-योजनाया अनुत्तरत्वाद्योजनान्तरमाह- इत्यादिनेति ।। यद्यपि ‘इत्यादिनाऽङ्गी-क्रियमाणत्वात्’ इति योजनायामपि तदङ्गीकारो ज्ञातुं शक्यः । इत्यादिनेति तृतीयान्तेन हेतोरुपन्यासात् । तथाऽपि ‘शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते’ इति न्यायात् प्रतिपत्तिलाघवाच्च द्वितीययोजनैव गरीयसीति भावः ।

श्रीवेदेशतीर्थ

जगदसदुच्यत इति ।। पारमार्थिकसद्विलक्षणमुच्यत इत्यर्थः। ननु शून्यवादिना न परमार्थापेक्षया जगतोऽसत्त्वमुच्यते । किन्तु विद्योदयेऽविद्याया निरुपाख्यत्वमङ्गीकृत्यासत्त्वमुच्यते । एवं चापरप्रमेये वैलक्षण्यं प्राप्तमेवेति शङ्कते- अथेति ।। तावता शब्दकृतवैलक्षण्येऽपि नार्थकृतं वैलक्षण्यमित्यभिप्रेत्याऽह- काममिति ।। यद्वा ननु मायावादिना जगदसदिति न कुत्रापि व्यवहृत-मित्यतस्तद्वाक्यं पठति । अथेति ।। इति मायावादिनोच्यत इति सम्बन्धः । वाक्यलाघवादिति ।। निवृत्तौ पारमार्थिकमित्येकेनैव वाक्येन शृङ्गग्राहिकया प्रदर्शनलक्षणयोर्लाभादुद्देशक्रमोल्लङ्घनमिति भावः ।

ननु ‘सांवृतं व्यावहार्यं स्यात्’ इत्येतदपि लक्षणपरतयैव कुतो न व्याख्यातम् । उद्देशानन्तरं लक्षणस्यैव वक्तव्यत्वात् । शृङ्गग्राहिकया प्रदर्शनस्यासार्वत्रिकत्वादिति चेन्न । तथात्वे ‘व्यवहारपदं च यत्’ इत्यादिना पौनरुक्त्यापत्तेः । अत इत्थं व्याख्यातमित्यवधेयम् । ‘यस्य तत्सांवृतं ज्ञेयम्’ इत्यन्तं मूलवाक्यम् । ‘प्रागूर्ध्वम्’ इत्यारभ्य व्याख्यानमिति विवेकः ।

एवञ्च ‘विचार्यमाणे’ इत्यस्य साकाङ्क्षतया विवक्षितार्थे पर्यवसानाभावात्तदर्थं यस्येत्यादिपद-चतुष्टयमध्याहरति- यस्येति ।। इति व्याख्यानं मूलपाठसम्प्रदायानभिज्ञकृतमित्यवधेयम् । विचार्यमाण इत्युक्तं विचारं परोक्त्यैव दर्शयन् व्याख्यति- प्रागूर्ध्वमित्यादिना ।। जगतो व्याव-हारिकसत्त्वं शून्यवादिनाऽङ्गीकृतमिति कुतो ज्ञायत इति प्रश्ने उक्तयोजनाया अनुत्तरत्वाद् योजनान्तरमाह - इत्यादिना शून्यवादिवाक्येनेति ।। अत्र ‘तदङ्गीकारो ज्ञायते’ इति शेष इति भावः ।

श्रीराघवेन्द्रतीर्थ

परप्रमेयेऽपीतीति ।। वैलक्षण्याभाव इत्यनुषङ्गः । परमार्थापेक्षयैवेति ।। १न तु शशविषाणमिव निःस्वरूपलक्षणमसदित्युच्यते । तथा चासदित्यमुख्यं सदेव तेनाङ्गीक्रियते । यथा परमार्थब्रह्मापेक्षया मायावादिना जगदसदित्युच्यते तथैवेत्यर्थः ।

शून्यवादिमतमाशङ्कते- अथ पुनरिति ।। विद्योदय इति ।। शून्यतत्वसाक्षात्कारे सतीत्यर्थः । निरुपाख्यतां निःस्वरूपतामङ्गीकृत्य २तद्विधारूपजगतोऽसत्त्वमुच्यत इति । शून्यवादिनेत्यनुषङ्गः। तन्मात्रं न वैलक्षण्यापादकमिति भावेनाऽह- काममभिधीयतामितीति ।। इतिशब्दः १शङ्कान्तर-समाप्तौ  । इति काममभिधीयतामिति वा योजना । तर्हि  कथमवैलक्षण्यमित्यत  आह- व्याव-हारिकसत्त्वञ्चेति ।। पूर्वेणेति ।। ‘न च शून्यवादिनः’ इत्यादिप्रतिज्ञावाक्येनेत्यर्थः । संव्रियते अनयेति सम्पूर्वात् ‘वृञ्= वरणे’ इत्यतः करणे क्तिन्निति भावः । तत्कृतमिति ।। संवृतेरिदमित्यर्थेऽण्प्रत्यय इति भावः । कृतमिति फलितोक्तिः । इतीति ।। अत इति योज्यम् । शृृङ्गग्राहिकयेति ।। शृृङ्गग्रहणेनेत्यर्थः ।। ‘धात्वर्थनिर्देशे ण्वुल्’२ इति गृह्णातेर्ण्वुलि अका-देशस्त्रीप्रत्यययोः सतोर्ग्राहिकेति सिद्धेः । लक्ष्यभूतं दर्शयतीत्यर्थः । फलितमाह- तदव्यावहार्य-मिति ।। हानादिव्यवहाराविषय इत्यर्थः । वाक्यलाघवादिति ।। प्रथमनिर्दिष्टस्य सांवृतसत्यस्यैवाऽदौ लक्षणे वाच्येऽपि निवृत्तौ पारमार्थिकमित्येकेनैव वाक्येन लक्ष्यलक्षणयोरुक्तौ लाघवमिति तल्लोभात्पश्चादुक्तस्यापि लक्षणमाह- शून्यवादीत्यर्थः । हानादिव्यवहारनिवृत्ताविति पूर्वं व्याख्यातम् । अधुना व्यावहार्यप्रपञ्चनिवृत्तावित्यर्थमुपेत्याऽह- अथ वेति ।। श्लोकं व्याचष्टे- विचार्यमाणे यस्येत्यादिना ।। अत्यन्तासत इति ।। व्यावृत्तिरित्यनुषङ्गः । व्यावर्त्यं  वदन्नेव  लक्षणं  निर्धारयति- पारमार्थिकस्येति ।। हानादीति ।। एतेन व्यवहारपदेनात्रोपादानहानरूपव्यव-हारोऽभिमतो नाभिलपनादिर्येन व्याहतिशङ्कावकाशः स्यादिति सूचितम् । धर्मदेशनेति ।। धर्मोपदेश इत्यर्थः । इति सम्बन्ध इति ।। तृतीयान्तस्य पूर्ववाक्यगतपञ्चम्यन्तेनान्वय इत्यर्थः । वाक्यस्य ज्ञापकतया कारकत्वाभावाद् योजनान्तरमाह- इत्यादिनेति ।। तदङ्गीकारो व्यावहारिक-सत्त्वाङ्गीकारः । संव्रियत इति ।। सम्यक् आव्रियते ज्ञानमित्यर्थः । आवरणभूतेति यावत् । व्यवहारो हानोपादानादिरूपः । निवृत्तौ पारमार्थिकमित्येतदुद्देशपरतया व्याख्यायेदानीमुत्तरत्र सांवृत्तसत्त्व-लक्षणकथनेन पारमार्थिकसत्त्वलक्षणाकथनात् न्यूनतापरिहाराय लक्षणोद्देशोभयपरतया व्याख्यातुमाह- किंलक्षणके इति ।। हानाद्यविषयत्वादिति ।। तथा चातिव्याप्त्यभावादिति भावः। देशना उपदेशः ।।

गुरुराजीया

यतः परमार्थापेक्षयैव शून्यवादिना जगदसदित्युच्यत इति ।। न तु सर्वथा सत्त्वानधि-करणत्वाभिप्रायेणेति यावत् । ततो न जगदसत्त्वं तन्मतेऽपीति भावः । ननु तदीयाया जगद-सत्त्वोक्तेः सर्वथा सत्त्वानधिकरणत्वनिमित्तकत्वमेवास्तु । न तु पारमार्थिकसत्त्वानधिकरणत्व-निमित्तकत्वम् । ततश्च तन्मते जगतोऽसत्त्वमवर्जनीयमेवेति कथं जगतोऽसत्त्वनिषेध इत्यतस्तथा सति मायावादिनोऽपि जगदसत्त्वोक्तेः सर्वथा सत्त्वानधिकरणत्वाभिप्रायकत्वप्रसङ्गेन पारमार्थिक-सत्त्वानधिकरणत्वनिमित्तकत्वाभावेन जगतोऽसत्त्वापत्त्याऽनिर्वचनीयत्वाभावेन तद्वादित्वं न स्यात् । अतस्तत्संरक्षणार्थं तदीयाया जगदसत्त्वोक्तेः १पारमार्थिकसत्त्वानधिकरणत्वाभिप्रायनिमित्त-कत्ववच्छून्यवादिनस्तदुक्तेरपि पारमार्थिकसत्त्वानधिकरणत्वनिमित्तकत्वसिद्ध्या जगतोऽसत्त्वा-भावसिद्धिरप्रत्यूहैवेत्याशयेन प्रतिबन्दीमाह२- यथा मायावादिनेति ।। यथा मायावादिना परमार्था-पेक्षयैव पारमार्थिकसत्त्वानधिकरणत्वाभिप्रायेणैव जगदसदित्युच्यते । न तु सर्वथा सत्त्वानधिकरण-त्वाभिप्रायेणेति जगतो नासत्त्वं तथेत्यर्थः । अन्यथा तन्मतेऽपि जगतोऽसत्त्वेन तस्याप्यसद्वादित्वं स्यादिति भावः ।

ननु भवेदेतदेवं यदि मायावादिना जगदसदुच्यत इति सिद्धं स्यात् । तदेव कुतः सिद्धम् । तथा च नोक्तप्रतिबन्द्यवसर इत्यतस्तद्वाक्यादेव तत्सिद्धेर्युक्ता प्रतिबन्दीत्याशयेन तद्वाक्यमुदाहरति- अथ पुनर्विद्योदय इत्यादिना काममभिधीयतामित्यन्तेन ।

नन्वेवं मायावादिनो जगदसत्त्वोक्तिसिद्धावपि तस्या मायावादिनस्तद्व्यावहारिकत्वाङ्गीकारेण सर्वथा सत्त्वानधिकरणत्वाभिप्रायकत्वानुपपत्त्या पारमार्थिकसत्त्वानधिकरणत्वसिद्ध्या जगतोऽ-सत्त्वाभावसिद्धावपि शून्यवादिनस्तदुक्तेः सर्वथा सत्त्वानधिकरणत्वाभिप्रायकत्वे बाधकाभावेन पारमार्थिकसत्त्वानधिकरणत्वमात्रनिमित्तकत्वासिद्ध्या जगतोऽत्यन्तासत्त्वं तन्मते दुर्वारमेवेत्यतः शून्यवादिनो जगदसत्त्वोक्तेरपि शून्यवादिना जगतो व्यावहारिकत्वाङ्गीकारेण सर्वथा सत्त्वानधि-करणत्वाभिप्रायकत्वासम्भवेन पारमार्थिकसत्त्वानधिकरणत्वमात्रनिमित्तकत्वसिद्ध्या न तन्मतेऽपि जगतोऽसत्त्वमित्याशयेनाऽह- व्यावहारिकसत्त्वस्येति ।। मायावादिनेव शून्यवादिनाऽपि व्याव-हारिकसत्त्वस्याङ्गीक्रियमाणत्वादित्यर्थः ।

ननु शून्यवादिनो जगतो व्यावहारिकत्वाङ्गीकारे ज्ञापकाभावेन तदसिद्ध्या तदीयजगदसत्त्वोक्तेः सर्वथा  सत्त्वानधिकरणत्वनिमित्तकत्वसम्भवेन जगतोऽसत्त्वं दुर्वारमेवेति शङ्कते- तत्कुतो ज्ञायत इति ।। तथा सति मायावादिनोऽपि ज्ञापकाभावेन तदङ्गीकारासिद्ध्या तदीयजगदसत्त्वोक्तेरपि सर्वथा सत्त्वानधिकरणत्वनिमित्तकत्वसम्भवेन तन्मतेऽपि जगतोऽसत्त्वमवर्जनीयमेव । यदि च मायावादिवाक्यस्यैव तदीयजगद्व्यावहारिकत्वाङ्गीकारज्ञापकत्वेन तत एव तत्सिद्ध्या न तदीय-जगदसत्त्वोक्तेः सर्वथा सत्त्वानधिकरणत्वनिमित्तकत्वमिति न तन्मते जगतोऽसत्त्वमिति मन्यसे हन्त तर्हि शून्यवादिवाक्यस्यैव तदङ्गीकारज्ञापकत्वेन तत एव शून्यवादिनोऽपि जगद्व्याव-हारिकत्वाङ्गीकारसिद्धिसम्भवेन तदीयजगदसत्त्वोक्तेरपि सर्वथा सत्त्वानधिकरणत्वनिमित्तकत्वा-भावेन    तन्मतेऽपि जगतोऽसत्त्वमिति दुरुद्धरा प्रतिबन्दितरङ्गिणीत्याशयेनाऽह- तद्वाक्या-देवेति ।।

ननु लक्षणप्रमाणाभ्यामेव वस्तुसिद्धेः संवृतिलक्षणप्रमाणयोश्च दुर्निरूपत्वात् संवृतेरेवासिद्धेर्न सांवृतमङ्गीकर्तुं शक्यमित्यतोऽविद्यालक्षणादिकमेव तल्लक्षणादिकमिति भावेन तयोर्भेदे तदनुपपत्तेः संवृतिशब्दमविद्यापरत्वेन व्याख्याति- संवृतिरविद्येति ।। अभिधानादेरभावात् कथं संवृतिशब्दस्या-विद्यापरत्वमित्यतो रूढ्यभावेऽपि योगेन तत्परत्वसम्भवान्नानुपपत्तिरिति भावेन तं दर्शयति- संव्रियते अनयेतीति ।। शृृङ्गग्राहिकयेति ।। यथा ‘का गौः’ इति पृष्टे शृृङ्गे कर्णे वा गां गृहीत्वा ‘इयं गौः’ इति व्यक्तिपुरस्कारेण निर्देशः क्रियते तथा ‘के ते द्वे सत्ये’ इति पृष्टे ‘इदं सांवृतं सत्यम् इदं पारमार्थिकम्’ इति व्यक्तिपुरस्कारेण व्यक्तिद्वयं दर्शयतीत्यर्थः । न च ‘सांवृतं व्यावहार्यं स्यात्’ इत्येतदपि लक्षणपरतयैव कुतो न व्याख्यायते । ‘उद्दिष्टं च लक्ष्यते’ इति न्यायेन उद्देशानन्तरं लक्षणस्यैव वक्तव्यत्वाच्छृङ्गग्राहिकया प्रदर्शनस्यासार्वत्रिकत्वाच्चेति वाच्यम् । तथा सति ‘व्यवहारपदं च यत्’ इत्यादिना पौनरुक्त्यापत्त्या तथाऽव्याख्यानोपपत्तेः । ननु ‘यथोद्देशं लक्षणप्रणयनम्’ इति न्यायेन पूर्वमुद्दिष्टस्य पूर्वं, पश्चादुद्दिष्टस्य पश्चादेव लक्षणीयतया कथं पश्चादुद्दिष्टस्य प्रथमं लक्षणकथनमित्यत आह- वाक्यलाघवादिति ।। ‘निवृत्तौ पारमार्थिकम्’ इत्येकेनैव वाक्येन शृृङ्गग्राहिकया दर्शनलक्षणयोः लाभादुद्देशक्रमोल्लङ्घनमित्यर्थः । अन्यथा पुनर्व्यवहारपदोपादाने गौरवप्रसङ्गादिति भावः । विचार्यमाण इत्युक्तं विचारप्रकारमेव परोक्तरीत्या दर्शयति- प्रागूर्ध्वमित्यादिना ।। सम्बन्ध इति ।। ततः ‘ततश्च किम्’ इत्याकाङ्क्षाग्रस्तत्वेन साकाङ्क्षतया वाक्याभासत्वशङ्का नेति भावः । ‘जगतो व्यावहारिकसत्त्वं शून्यवादिनाऽङ्गीकृतमिति कुतो ज्ञायते’ इति शङ्काग्रन्थाननुगुणत्वाद्योजनान्तरमाह- इत्यादिना शून्यवादिवाक्येनेति ।। अत्र ‘तदङ्गीकारो ज्ञायते’ इति साकाङ्क्षत्वपरिहाराय मूले शेषपूरणमिति ज्ञातव्यम् ।

गोविन्दीया

नन्विति ।। एतदपि निरसनीयांशसालक्षण्यमपि नास्तीत्यर्थः । अत्रेति ।। ‘नासतोऽ-दृष्टत्वात्’१, ‘नाभाव उपलब्धेः’२ इति सूत्रद्वये इत्यर्थः । जगत इति ।। पारमार्थिकसत्त्वाभावेऽपि असत्त्वस्य व्यावहारिकसत्त्वस्याप्यङ्गीकृतत्वात् । असत्त्वमादाय वैलक्षण्याभावेऽपि व्यावहारिक-सत्त्वमादायापरप्रमेये वैलक्षण्याभावो नास्तीत्यर्थः । अथेति ।। मायावादिना परमार्थापेक्षया जगत असत्त्वमुच्यते शून्यवादिना तु विद्योदये सति अविद्यायाः निरुपाख्यतां नाशतामङ्गीकृत्य तत्कार्यस्य जगत असत्त्वमुच्यतेऽतोऽसत्त्वपक्षेऽपि वैलक्षण्याभावोऽपि नास्तीति यद्युच्येतेत्यर्थः । शब्द-वैलक्षण्यं, विना वैलक्षण्याभिधानं न दोषायेत्याह- काममभिधीयतामिति ।। उभयमतेऽपि जगतोऽ-सत्त्वशब्देनाभिधानादिति भावः । पूर्वेणेति ।। न च शून्यवादीत्यादिपूर्ववाक्येन सम्बन्ध इत्यर्थः। वाक्यलाघवादिति ।। वाक्यद्वयेन यदर्थो लभ्यते तदर्थद्वयस्यैकेनैव लाभे वाक्यस्य लाघवम् । तथा च ‘निवृत्तौ पारमार्थिकम्’ इति वाक्यस्य शृङ्गग्राहकतया प्रदर्शनं लक्षणाभिधानं चेत्यर्थद्वयलाभेन वाक्यलाघवादनन्तरोक्तस्यापि पारमार्थिकसत्यस्य लक्षणं तावदाहेत्यर्थः । ‘विचार्यमाणे नो सत्त्वम्’ इत्यादिसांवृतसत्यलक्षणपरवाक्यादनन्तरं पारमार्थिकसत्यलक्षणपरवाक्यस्याभावाद् ‘निवृत्तौ पार-मार्थिकम्’ इति वाक्यं पारमार्थिकसत्यलक्षणपरतया योजितमिति भावः । लक्षणान्तरपरतया व्याख्याति- अथवेति ।। ‘विचार्यमाणे’ इति वाक्येन योऽयं विचारोऽभिहितः स विचारः शून्यवादिनैव कथित इत्यभिप्रेत्य जयतीर्थाचार्यवर्यः स्वयं तद्वाक्यमुदाहरति- प्रागूर्ध्वमिति ।। यस्य जगतः प्राग् उत्पत्तेः पूर्वकाले न सत्त्वमूर्ध्वं ध्वंसानन्तरमपि नास्ति तस्य जगतः मध्ये काले सत्त्वं कुतो भवेत्, न भवेत् एव । अन्यथा मध्यकाले सत्त्वं यदि स्याच्छुक्तिरूप्यादेः सत्त्वं केनैव निवार्यते सत्त्वमेव स्यात् इत्यादिना शून्यवादिवाक्येनैव विचार्यमाणे सतीत्यर्थः । व्यवहारपदं चेति ।। यज्जगद्व्यवहारपदं व्यवहाराश्रयमित्यर्थः । अनेन जगतः व्यवहारविषयत्वं लक्षणान्तरमुक्तं भवतीति भावः । धर्मदेशनेति ।। धर्मोपदेश इत्यर्थः । तदङ्गीकार इति ।। सत्यद्वयाङ्गीकार इत्यर्थः ।

नारोपन्तीया

निरुपाख्यतां अप्रतीयमानत्वमित्यर्थः । वाक्यलाघवादिति । अन्यथा पुनर्व्यवहार-पदोपादानेन गौरवं स्यादित्यर्थः ।

जनार्दनभट्टीया

मायावादिमतस्य शून्यवादिमतापेक्षया वैलक्षण्याभावः किमपरतत्वविषये उत जगत्कारणीभूत-परतत्वब्रह्मविषये इति विकल्प्य आद्यं निराह – जगत इति ।। द्वितीयं प्रत्याह – ब्रह्मण इति ।। शून्यवादिमायावादिमतयोः अपरप्रमेयविषये न वैलक्षण्याभाव इत्येतन्निराचष्टे – मैवमिति ।। १परमार्थापेक्षयेति ।। पारमार्थिकत्वाकारेणैव न तु स्वरूपेणेत्यर्थः । एवञ्च जगतो व्यावहारिकसत्वस्य मतद्वयेऽपि अविशिष्टत्वात् जगद्विषये वैलक्षण्याभाव इति भावः । निरूपाख्यत्वमिति ।। निर्विषयतामित्यर्थः । ‘निवृत्तौ पारमार्थिकम्’ इत्यत्र निवृत्तिपदस्य प्रतियोगिसापेक्षत्वात् तत्कथनपूर्वकं चतुर्थपादं व्याचष्टे – व्यवहारेति ।। ‘निवृत्तौ’ इत्यस्य प्रतियोग्यन्तरकथनपूर्वकं तमेव पादं प्रकारान्तरेण मायावादिमतसाधारणपारमार्थिकसत्यलक्षणान्तरपरतया व्याचष्टे – अथवेति ।। अशेषप्रपञ्चनिवृत्तावपि यन्न निवर्तते तत्पारमार्थिकसत्यमित्युक्ते असति शशविषाणादौ अतिव्याप्तिरित्यत आह – काल-त्रयेति ।। त्रैकालिकनिषेधप्रतियोगित्वमित्यर्थः । शून्यवादिनां विचारं तदीयसमयसम्मत्यैव दर्शयति – प्रागूर्ध्वमित्यादिना ।। आद्येनेति ।। नोऽसत्वमिति विशेषणेनेत्यर्थः ।

द्वितीयेनेति ।। सत्वं प्रतीयत इति विशेषणेनेत्यर्थः । हानाद्यविद्याविषयत्वात् इति ।। तथा च हानादिव्यवहारविषयत्वं सांवृतलक्षणम् । पारमार्थिकात्यन्तासतोः ब्रह्मशशविषाणयोः अभि-लपनादिव्यवहारविषयत्वेऽपि हानादिव्यवहारविषयत्वाभावात् नातिव्याप्तिरिति भावः । निर्लेपे-त्यादिविशेषणप्रयोजनं वक्तुं शङ्कामुत्थापयति – अनेनेति ।। उक्तमिति ।। उक्तप्रायमित्यर्थः ।  निर्विशेषत्वादिब्रह्मसाधारणधर्माणां शून्ये कथनात् मायावाद्यभिमतात्मैव शून्यमिति अवश्यं शून्यवादिना वक्तव्यमिति शङ्कितुराशयः । अन्यथेति ।। ब्रह्मणः शून्यत्वानङ्गीकार इत्यर्थः । तस्येति ।। शून्यस्ये-त्यर्थः । कथं तत्सिद्धिः स्यादिति ।। अज्ञातसन्दिग्धविपर्यस्तानामेव जिज्ञासासाध्यसिद्धिविषयत्वेन स्वयं प्रतिभाते अज्ञानादीनाम् असम्भवादिति भावः । तथा चेति ।। जिज्ञासोत्थसिद्धिविषयत्वसिद्धये आत्मशून्ययोः ऐक्ये अङ्गीक्रियमाणे इत्यर्थः । अपरप्रकाश्यत्वमिति ।। परप्रकाश्यत्वाभाव इत्यर्थः । अभावरूपो धर्मो न निर्विशेषत्वभञ्जकः । किन्तु भावरूपधर्म एवेति भावः ।  न तु स्वविषयेति ।। कर्तृकर्मभावविरोधात् इति भावः । यद्यपि ‘अवाच्यं सर्वशब्दैः’ इत्यत्र निर्विशेषादिपदानामपि शून्ये लक्षणाङ्गीकाराद्  अभावरूपधर्मोऽपि न परेणापि अङ्गीकर्तुं शक्य इति ज्ञातव्यम् ।