अङ्गीक्रियमाणत्वाद्विशिष्टादे..
सत्यज्ञानादिवाक्यानां हेत्वन्तरेण विशिष्टार्थतासमर्थनम्
श्रीमज्जयतीर्थटीका
एवं सत्यज्ञानादिवाक्यानामखण्डार्थतां निराकृत्य विशिष्टार्थता समर्थिता । हेत्वन्तरेण तामुपपादयति-
मूल
अङ्गीक्रियमाणत्वाद्विशिष्टादेरनिर्वचनीयाभावाच्च सत्यत्वञ्च सिद्धम् ।
आदिपदेन विशेषणभेदादेर्विशिष्टापेक्षितस्य ग्रहणम् । सत्यज्ञानादिवाक्यानि लक्षणया ब्रह्म-स्वरूपमात्रपराणीति वदताऽवश्यं वाच्यार्थोऽङ्गीकार्यः । वाच्यार्थद्वारेण लक्षणाया दृष्टत्वात् । न च गङ्गायां घोष इतिवदन्यदेव वाच्यम् । अन्यत्रानन्तत्वादीनामसम्भवात् । अतो ब्रह्मण्येव सत्यत्वादिविशेषणानि तदुपयुक्तं (विशेषण) भेदादिकं विशिष्टाकारश्चाङ्गीकर्तव्यः । तथा च मुख्यार्थस्य ब्रह्मण्यङ्गीक्रियमाणत्वाद् अनुपपत्त्यभावेन किं स्वरूपमात्रलक्षणाश्रयणेन ।
श्रीविजयीन्द्रभिक्षु
उत्तरवाक्ये अखण्डार्थतानिरासस्याप्रतीतेरनिर्वचनीयतानिरासेन विशिष्टस्य सत्त्व-प्रतिपादनस्य प्रकृतानुपयुक्तत्वादयुक्तत्वमाशङ्क्योक्तार्थमुपसंहरन्नवतारयति- एवमिति ।। विशेषणभेदादेरादिपदग्राह्यत्वे नियामकमाह- विशिष्टापेक्षितस्येति ।। ‘अङ्गीक्रियमाणत्वात्’ इति मूलोक्तहेतुमुपपादयति- वाच्यार्थद्वारेणेति ।। वाच्यार्थप्रतीतिव्यवधानेनेत्यर्थः । गङ्गायामिति ।। यथा ‘गङ्गायां घोषः’ इति वाक्ये गङ्गापदस्य लक्ष्यत्वाभिमततीरादन्यदेव प्रवाहरूपं वाच्यमस्ति तथा सत्यज्ञानादिवाक्येऽपि सत्यज्ञानादिपदस्य लक्षणीयचिन्मात्रादन्यदेव वाच्यमिति न सत्य-ज्ञानादिपदमुख्यार्थसम्भवाय ब्रह्मणो विशिष्टाकारप्रसक्तिरित्यर्थः । अन्यत्रेति ।। ब्रह्मणोऽ-न्यत्रेत्यर्थः । सत्यत्वादीनामिति वक्तव्ये अनन्तत्वादीनामिति क्रमोल्लङ्घनं तु अन्यत्र सत्यत्वादेः कथञ्चित्सम्भवेऽपि परिच्छेदत्रयशून्यत्वरूपानन्तत्वस्य ब्रह्मणोऽन्यत्र सर्वथाऽसम्भव इति ज्ञापनाय । भेदादिकमित्यादिपदेन विशेषणसम्बन्धादिपरिग्रहः । उपपादकमुक्त्वोपपाद्यमाह- तथा चेति ।। मुख्यार्थस्येति ।। मुख्यार्थत्वस्येत्यर्थः । अनुपपत्त्यभावेनेति ।। अनुपपत्त्यभावेन चेत्यर्थः ।
श्रीवेदेशतीर्थ
विशेषणभेदादेरादिपदग्राह्यत्वे नियामकमाह- विशिष्टापेक्षितस्येति ।। अङ्कीक्रियमाण-त्वादिति मूलोक्तहेतुमुपपादयति- सत्येति ।। वाच्यार्थद्वारेण वाच्यार्थप्रतीतिव्यवधानेन । सत्यत्वादेरन्यत्र कथञ्चित्सम्भवात्क्रममुल्लङ्घ्याऽह- अनन्तत्वादीनामिति ।। मुख्यार्थस्येति ।। मुख्यार्थत्वस्येत्यर्थः । अनुपपत्त्यभावेनेति ।। अनुपपत्त्यभावेन चेत्यर्थः । किं स्वरूपमात्रेत्यादिसाध्यं मूलेऽध्याहृतमिति ज्ञेयम् ।
द्वैतद्युमणि
अनन्तत्वादीनामिति ।। सत्यत्वादेर्घटादौ कथञ्चिद् वक्तुं शक्यत्वात् त्रिविधपरिच्छेद-राहित्यरूपानन्तत्वस्यैव ग्रहणं कृतम् ।
श्रीराघवेन्द्रतीर्थ
एवमिति ।। ‘प्रकृष्टप्रकाशश्चन्द्रः’ इत्यादिष्वित्यादिनोक्तप्रकारेणेत्यर्थः । विशेषण-भेदादेर्ग्रहणे हेतुर्विशिष्टापेक्षितस्येति । तथा चेत्यादिना मूलं व्याचिख्यासुरुपोद्घातमाह- सत्य-ज्ञानादीत्यादिना ।। वाच्यार्थद्वारेणेति ।। वाच्यार्थधीद्वारेणेत्यर्थः । अन्यदेवेति ।। लक्ष्यार्था-दन्यदेवेत्यर्थः । विशेषणभेदादिकमिति ।। विशेषणविशेष्ययोः भेदस्तथा विशेषणतत्सम्बन्ध-श्चेत्यर्थः । मूलार्थमाह- तथा चेत्यादिना ।। द्वारेण तद्बोधद्वारेण । घोषः पल्ली, ग्राम इत्यर्थः । अन्यदेवेति ।। यथा गङ्गायां घोष इत्यत्र लक्ष्यार्थभूततीरव्यतिरिक्तप्रवाहो वाच्यार्थोऽस्ति, एवं ब्रह्मरूपलक्ष्यार्थव्यतिरिक्तम् अन्यदेव सत्यादिपदवाच्यं न हीत्यर्थः । कुतो न हीत्यत आह- अन्यत्रेति ।। लक्ष्यार्थभूते ब्रह्मव्यतिरिक्ते अन्यस्मिन् वस्तुनीत्यर्थः । सत्यत्वादेः कथञ्चिदन्यत्र सम्भवादनन्तत्वादीनामित्युक्तम् । ब्रह्मण्ये-वेति ।। लक्ष्यार्थभूते ब्रह्मण्येवेत्यर्थः । तदुपयुक्तं भेदादिकम् इति विशिष्टापेक्षितं विशेषणभेदादिकमित्यर्थः । विशिष्टाकारः सत्यत्वादिविशेषणविशिष्टाकारः ।
गुरुराजीया
विशिष्टादेरित्यादिपदसङ्ग्राह्यमाह- आदिपदेनेति ।। अवच्छेदकानुक्तौ १विशिष्टादे-रित्यादिना सर्वग्रहणापत्त्या अतिप्रसङ्गात् सङ्कुचितवृत्तित्वेऽवश्यमङ्गीकर्तव्ये तत्सङ्ग्राह्यतावच्छेदक-धर्मानुक्तौ तदनिर्वाहात् सङ्कुचितवृत्तित्वनिर्वाहार्थं विशिष्टापेक्षितत्वमेव आदिपदसङ्ग्राह्यतावच्छेदको धर्म इति भावेन तमाह- विशिष्टापेक्षितस्येति ।। अङ्गीक्रियमाणत्वाद् इति मूलोक्तं हेतुमुपपादयति- सत्येति ।। वाच्यार्थद्वारेण तत्प्रतीतिद्वारेण । अनन्तत्वादीनामिति ।। सत्यत्वज्ञानत्वा-नन्तत्वादीनामित्यर्थः । मुख्यार्थस्येति ।। सत्यादिपदवाच्यस्येत्यर्थः२ । अनुपपत्त्यभावेनेति ।। अनुपपत्त्यभावेन चेत्यर्थः । फलकथनम्- किमित्यादि ।।
गोविन्दीया
विशेषणभेदादेरिति ।। विशेषणम्, विशेषणविशेष्ययोर्भेदः, आदिपदेन सङ्गृहीतः विशेषणानां परस्परं भेदश्चेति त्रयस्येत्यर्थः । अन्यदेवेति ।। ब्रह्मस्वरूपादन्यदेवेत्यर्थः । अन्यत्रेति ।। ब्रह्मस्वरूपादन्यत्रेत्यर्थः ।
जनार्दनभट्टीया
उत्तरवाक्ये सत्यत्वं च सिद्धमिति विशिष्टादेः सत्यत्वमसङ्गतम् । तस्याप्रस्तुतत्वाद् इत्यतः तदवतारयति – एवमित्यादिना ।। पूर्ववाक्यस्यातःशब्दार्थमनुवदति– निराकृत्येत्यन्तेन ।। उत्तरदलार्थम् अनुवदति – विशिष्टार्थता चेति३ ।। मूले ‘अङ्गीक्रियमाणत्वात्’ इति हेतोः सत्यत्वं च सिद्धमित्यंशस्य च सत्यादिपदानां विशिष्टार्थतायां साक्षाद्धेतुत्वाभावेन स्वरूपमात्रलक्षणाप्रयोजकानुपपत्तिविघटकत्वेन परम्परया हेतुत्वमुपपादयति– सत्यज्ञानेत्यादिना सत्यज्ञानादिवाक्यार्थ इत्यन्तेन ।। परमार्थब्रह्मतया विशिष्टाकारोपदेशे आरोपितविशिष्टाकारस्याब्रह्मत्वेन तदुपदेष्टुः विप्रलम्भकत्वं स्यादिति भावः ।