न चाऽत्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम् ..
आत्मनो दृश्यत्वाभावे बाधकोक्तिः
श्रीमज्जयतीर्थटीका
विपक्षे बाधकञ्चाऽह-
मूल
न चाऽत्मनो दृक्कर्मत्वं विना तज्ज्ञानत्वम् ।
तज्ज्ञानत्वेनाभिमतस्येति शेषः । भवतीति वक्ष्यमाणेन सम्बन्धः । प्रकृतत्वाद् दृश्यत्वमिति वक्तव्ये दृक्कर्मत्वमिति दृश्यत्वव्याख्यानमतिप्रसङ्गस्फुटीकरणार्थम् ।
तदयमर्थः । यद्यात्मनो दृश्यत्वं न स्यात् तदा वेदान्तवाक्यजनितविज्ञानस्याऽत्मज्ञानत्वं न स्यात् । दृशिं प्रति कर्मत्वं हि दृश्यत्वम् । आत्मकर्मकं ज्ञानमेवाऽत्मज्ञानम् । तथा च आत्मनो दृश्यत्वाभावे कथमात्मज्ञानं सम्भवेत् । अकर्मणः कर्मतया ज्ञानव्यावर्तकत्वे व्याघातात् ।
श्रीविजयीन्द्रभिक्षु
‘न चाऽत्मनो दृक्कर्मत्वम्’ इत्यत्र दृक्कर्मत्वं विना आत्मनस्तज्ज्ञानत्वं स्वविषयकज्ञानत्वं नेत्यर्थः प्रतीयते । तत्र चेष्टापत्तिमाशङ्क्याऽह- तज्ज्ञानाभिमतस्येति ।। भवतीति वक्ष्यमाणे-नेति ।। ‘तदज्ञाननिवृत्तिश्च तेन भवति’ इति वक्ष्यमाणेनेत्यर्थः । दृशिमिति ।। यद्यपि ‘इक्श्तिपौ धातुनिर्देशे’ इति स्मरणाद्दृशिशब्दस्य दृशिधातुरेवार्थः । न तु दर्शनक्रिया । तथाऽपि तस्य कुषादिषु पाठात् ‘कुषादिभ्यः’ इति भावे इक्प्रत्ययान्तत्वाद्दर्शनक्रियार्थत्वमिति भावः । कर्मत्वं हीति ।। हिशब्देन ‘लः कर्मणि च भावे चाकर्मकेभ्यः’१ इति सूत्रे लकारोपलक्षितकृत्यादीनां कर्मार्थत्व-मेव । न तु भावार्थत्वमित्युक्तां तत्सूत्रव्याख्यानप्रसिद्धिं सूचयति । नन्वात्मव्यावर्तितमेव ज्ञानमात्मज्ञानम् । न चाऽत्मनोऽकर्मत्वे व्यावर्तकत्वानुपपत्तिः । सम्बन्धाभावादिति वाच्यम् । विषयतया व्यावर्तकत्वोपपत्तेरित्याशङ्क्याऽह- अकर्मण इति ।। विषयत्वातिरिक्तस्य ज्ञानकर्मत्वस्य दुर्निरूपतयाऽकर्मत्वाभ्युपगमे अविषयत्वमेवाभ्युपगतं स्यात् । तथा च व्याघात इति भावः ।
श्रीवेदेशतीर्थ
आत्मनस्तज्ज्ञानत्वमित्यन्वयभ्रमनिवारणायाऽह- तज्ज्ञानत्वेनाभिमतस्येति शेष इति ।। भवतीत्यस्य स्यादित्यर्थकतिङन्तप्रतिरूपकाव्ययत्वं लटो लिङर्थत्वं वाऽभिप्रेत्याऽह- यद्यात्मन इति ।। एवमुत्तरत्रापि द्रष्टव्यम् ।
श्रीराघवेन्द्रतीर्थ
अतिप्रसङ्गेति ।। व्याघातरूपातिप्रसङ्गस्फुटीकरणायेत्यर्थः ।
गुरुराजीया
आत्मनः आत्मज्ञानत्वाभावापादनस्येष्टसाधनतामप्रयोजकताञ्चाऽशङ्क्य परिहरति- तज्ज्ञानत्वाभिमतस्येति शेष इति ।।
गोविन्दीया
विपक्षे इति ।। दृश्यत्वानङ्गीकार इत्यर्थः । न चेति ।। तज्ज्ञानाभिमतस्य आत्मज्ञानत्वेन सम्मतस्य वेदान्तजनितज्ञानस्य तज्ज्ञानत्वम् आत्मज्ञानत्वं न च भवति । अतो दृक्कर्मत्वम् आत्मन्यङ्गीकर्तव्यमित्यर्थः । अकर्मण इति ।। अकर्मणोऽप्यात्मनः कर्मतया स्वात्मज्ञानस्य अज्ञान-व्यावर्तकत्वे अज्ञाननिवर्तकत्वे कर्मत्वाकर्मत्वाङ्गीकारेण व्याघातात् कर्मत्वमेवाङ्गीकर्तव्यमित्यर्थः ।
जनार्दनभट्टीया
‘न च आत्मनः’ इति मूले आत्मनो दृक्कर्मत्वाभावे आत्मनः आत्मज्ञानत्वं न स्यादिति अन्यथाप्रतीतेः अध्याहृत्य योजयति – तज्ज्ञानत्वेनाभिमतस्येति ।। शेष इति ।। ब्रह्मविषयकज्ञानत्वेन अभिमतस्य वेदान्तवाक्यजनितज्ञानस्येत्यर्थः । ‘तज्ज्ञानाभिमतस्य’ इति शेषे तज्ज्ञानशब्दार्थाप्रतीतेः मूलोक्ततर्के आपाद्यापादकयोः निमित्तनैमित्तिकभावस्य अस्फुटत्वाच्च विस्तरेण प्रतिपादयितुमाह – तदयमित्यादिना ।।