एवमेव हेत्वादिष्वपि ..
पूर्वोक्तप्रतिज्ञादोषनिरासस्य हेत्वादिदोषनिरासे अतिदेशः
श्रीमज्जयतीर्थटीका
एवमनिर्वचनीयासिद्ध्या साध्यभेदविषयविकल्पनिरासेनापसिद्धान्तादिप्रतिज्ञादोष-निराकरणं कृतम् । एतमेव न्यायं हेत्वादिदोषनिरासे अतिदिशति ।
मूल
एवमेव हेत्वादिष्वपि विकल्पो निराकरणीयः ।
अत्र हेतुशब्देन तदर्थो मुक्तत्वमुच्यते । आदिपदेन दृष्टान्तगते मुक्तत्वभिन्नत्वे गृह्येते । विषयसप्तमी चेयम् । किमनिर्वचनीयं मुक्तत्वं हेतूक्रियते उत पारमार्थिकम् । आद्ये वाद्यसिद्धिः । द्वितीये प्रतिवाद्यसिद्धिः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ।
इति तेनाङ्गीकृतत्वात् । एवं दृष्टान्तेऽपि मुक्तत्वभिन्नत्वे यद्यनिर्वचनीये विवक्षिते तदा वादिनं प्रति दृष्टान्तस्य साधनादिविकलता । यदा पारमार्थिके तदा प्रतिवादिनं प्रति तथा । तत्साधने पुनः दृष्टान्तानुसरणेऽनवस्थेति । आसतामेते विकल्पदोषाः । विकल्प एवायं पुरोवदनिर्वचनीयासिद्ध्या निराकरणीय इति ।
नन्वत्राधिकाशङ्काभावात्किमतिदेशेन । उदाहरणभेदेनातिदेशे त्वपर्यवसानं स्यात् । सत्यम् । तथाऽप्येकत्रोक्तो न्यायोऽन्यत्रानुसन्धेय इति मन्दान् व्युत्पादयितुमतिदेश इत्यदोषः ।
श्रीविजयीन्द्रभिक्षु
इयता प्रबन्धेन प्रतिपादितानिर्वचनीयत्वनिरासेन किं फलं साधितमित्यत आह- एव-मिति ।। साध्यभेदेति ।। ‘विमतो भिन्नो मुक्तत्वात्’ इत्यनुमाने यः साध्यो भेदस्तद्विषयेत्यर्थः । ननु हेतुशब्दस्य पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनमर्थः । न च तद्विकल्पस्य निराकरणस्य वा प्रकृतोपयोगोऽस्तीत्यत आह- अत्रेति ।। अपर्यवसानमिति ।। उदाहरणोक्त्यपर्यवसानमित्यर्थः ।
श्रीवेदेशतीर्थ
अपसिद्धान्तादिप्रतिज्ञादोषेति ।। आदिपदेन साध्याप्रसिद्धिः । दृष्टान्तस्य साध्य-वैकल्येनापि तस्या एव लाभादिति भावः । ननु साधनत्वख्यापकविभक्त्यन्तं लिङ्गवचनं हेतुः । तत्र च परेण विकल्पस्याकृतत्वात्तन्निराकरणायातिदेशोऽनुपपन्न इत्यत आह- अत्र हेतुशब्देनेति ।। उच्यते प्रतिपाद्यते । लिङ्गवचनवाचकेन हेतुशब्देन लिङ्गं लक्ष्यत इति यावत् । तत्र शक्य-सम्बन्धोपपादनायाऽह- तदर्थ इति ।। एतेन धूमो हेतुरित्यादिप्रयोगोऽपि लाक्षणिकतयैव व्याख्यातव्य इति ज्ञातव्यम् ।
श्रीराघवेन्द्रतीर्थ
प्रतिवाद्यसिद्धिं व्यनक्ति- न मुमुक्षुरिति ।। प्रतिवादिनं प्रति तथेति ।। मायावादिनं प्रति साधनसाध्यविकलतेत्यर्थः । तत्साधन इति ।। निगडमुक्तः सत्यमुक्तत्वभिन्नत्ववान् तादृशाबाधित-धीविषयत्वात् सम्मतपाशमुक्तवदिति साधन इत्यर्थः । आसतामिति ।। एतेऽसिद्ध्यादयो विकल्पदोषास्तिष्ठन्तु तावदित्यर्थः । उदाहरणभेदेनेति । एवं वा एवं वेति विकल्पनिरासस्य साध्यभूतभेद इव हेत्वादिकमपि विषयतया उदाहरणमिति विकल्पनिरासस्थानम् । तत्र सर्वत्रा-तिदेशः कार्य इत्युदाहरणभेदेनातिदेश इत्यर्थः । यद्वैकत्रोक्तन्यायः तत्समानतयोदाहरणभेद-शब्दितेष्वतिदेश इति सामान्योक्तिः ।
हेत्वादीति ।। मुक्तत्वरूपहेतुदृष्टान्तगतमुक्तत्वादिविषये यः परेणोक्तदोषस्तन्निरास इत्यर्थः । पारमार्थिकत्वसाधने कुतः प्रतिवादिनोऽसिद्धिरित्यत आह- न मुमुक्षुरिति ।। एषा स्थितिः परमार्थता परमार्था । स्वार्थे तल्प्रत्ययः । तत्साधनायेति ।। दृष्टान्तगतभिन्नत्वमुक्तत्वयोः पार-मार्थिकत्वसाधनायेत्यर्थः । दृष्टान्तशब्देनानुमानमुपलक्ष्यते । पुरोवत् ।। पूर्ववत् न च मुक्तत्वे विकल्पो युज्यत इत्यादिरूपेणेत्यर्थः । उदाहरणेति ।। साध्यविकल्पदोषनिरासं कृत्वा तमेव प्रकारं हेतुविकल्पदोषनिरासेऽप्यतिदिशतीत्युदाहरणभेदेनेत्यर्थः । अपर्यवसानेति ।। दृष्टान्तविकल्प-दोषनिराकरणेऽपि पुनरतिदेशापत्त्याऽपर्यवसानप्रसङ्ग इत्यर्थः ।
गुरुराजीया
अपसिद्धान्तादीत्यादिपदेन साध्याप्रसिद्धिपरिग्रहः। लिङ्गवचनस्यादूषितत्वादाह- हेतु-शब्देनेति ।। लिङ्गमुच्यते लक्षणया प्रतिपाद्यत इत्यर्थः । तदर्थ इति लक्षणाहेतुभूतशक्य-सम्बन्धकथनम् । एवं हेत्वादिविषये विकल्पदोषप्रकारमभिधाय तन्निरासप्रकारमाह- आसता-मिति ।। नन्वत्रेति ।। यत्र शङ्कायामाधिक्यं परिहारस्य चाविशिष्टत्वं तत्रैवातिदेशप्रवृत्तिनियमादिति भावः ।
गोविन्दीया
एवमिति ।। अनिर्वचनीयासिद्ध्या भेदविकल्पो यथा निराकृतः, एवमनिर्वचनीयासिद्ध्या साध्यभूतभेदविषयविकल्पनिरासेनापसिद्धान्तसाध्याप्रसिद्धिरूपप्रतिज्ञादोषनिराकरणं कृतमित्यर्थः । वादिनाऽनिर्वचनीयभेदाङ्गीकारेऽपसिद्धान्तादिकं स्यादिति भावः । एतमिति ।। प्रतिज्ञादोषनिरासे यो न्यायोऽनुसृतः, एतमेव न्यायं हेत्वाभासादिदोषनिरासेऽतिदिशति उपदिशतीत्यर्थः । आद्ये इति ।। वादिमतानुसारेणासिद्धिः, तेन चानिर्वचनीयमुक्तत्वस्यानङ्गीकृतत्वादित्यर्थः । द्वितीयेति ।। प्रतिवादिमतानुसारेणासिद्धिः, तेन च सदसद्वैतभङ्गभिया पारमार्थिकमुक्तत्वस्यानङ्गीकारादि-त्यर्थः । अनवस्थेति ।। यथा पक्षगतभिन्नत्वसाधने दृष्टान्तोऽपेक्षितः, तथा दृष्टान्तगतभिन्नत्व-मुक्तत्वसाधने दृष्टान्तान्तरमङ्गीकरणीयम् । पुनरपि तत्साधने दृष्टान्तान्तरमिति दृष्टान्त-परम्परयाऽनवस्थेत्यर्थः । पुरोवदिति ।। पूर्ववदित्यर्थः । नन्विति ।। अत्र हेत्वंशेऽधिकशङ्काभावात् साध्यांशविकल्पनिरासवद्धेत्वंशविकल्पनिरासोऽपि कार्य इत्यतिदेशेन किं प्रयोजनम्, कृतेऽप्यति-देशे निगडमुक्तपाशमुक्ताद्युदाहरणानां भेदेनातिदेशस्याप्यपर्यवसानं स्यादित्यर्थः । सत्यमिति ।। अधिकशङ्काभावस्तु अङ्गीकारः । अतिदेशेन किमित्याक्षेपोऽनङ्गीकार इत्यर्थः ।
जनार्दनभट्टीया
तथा तत्साधन इति ।। यथा पक्षे मुक्ते पारमार्थिको भेदः साध्यते; तथा निगडमुक्ते दृष्टान्ते तत्साधने = पारमार्थिकभेदसाधने इत्यर्थः । ‘हेत्वादिष्वपि विकल्पदोषो निराकरणीयः’ इत्यनतिदिश्य, ‘विकल्प’ इत्येव निर्देशः कुतः कृतः? इत्याशङ्क्य कैमुत्यन्यायसूचनार्थम् इत्याह – आसतामिति ।। पुरोवदिति ।। ‘भेदः किमनिर्वचनीयः पारमार्थिको वा? इति प्रतिज्ञायामिव’ इति ‘पूर्ववत्’इत्य-स्यार्थः । अपर्यवसानमिति ।। व्याप्तिः किमनिर्वचनीया उत पारमार्थिकी? इत्याद्याशङ्क्य निराकरणे अनवस्था स्यादित्यर्थः ।