सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि..
विशिष्टनिरासकतर्कस्य विपर्यये पर्यवसानाभावसमर्थनम्
सर्ववैलक्षण्याङ्गीकाराद्दुर्घटमपि
श्रीमज्जयतीर्थटीका
अथ ब्रह्म कथं परस्य दुर्घटं प्रसक्तमिति चेत् । सर्ववैलक्षण्याङ्गीकारात् । चेतना-चेतनादिभावस्य परेण ब्रह्मण्यनङ्गीकारात् । इह हि नित्यशुद्धबुद्धमुक्तमखण्डैकरसं ब्रह्मानङ्गी-कुर्वाणाः केचिच्चेतनाचेतनतया भावाभावतया वा तत्वं द्विविधमभ्युपयन्ति । अपरे तु प्रमाणप्रमेयप्रमातृभेदेन त्रिविधम् । अन्ये तु द्रव्यगुणकर्मसामान्यभेदेन चतुर्विधमित्यादि । ते तु तर्कयन्ति । यद्युक्तलक्षणं ब्रह्म तत्वं स्यात्तर्हि चेतनाचेतनाद्युक्तविधास्वन्तर्भवेत् । न च ब्रह्मवादिना अस्त्वेवमिति शक्यते वक्तुम् । तेन तस्य चेतनाद्युक्तविधावैलक्षण्याङ्गीकारात् । अन्यथा ज्ञानाश्रयत्वादितत्तल्लक्षणवत्त्वापत्त्या निर्विशेषत्वभङ्गाद्यापत्तेः । चेतनाद्युक्तविधानन्तर्भूतं न तत्वं यथा शशविषाणमिति । एवं तर्केण ब्रह्मणि दुर्घटे सति ब्रह्मवादिनैतावदेव वक्तव्यम् । प्रमाणसिद्धं खलूक्तलक्षणं ब्रह्म न पुरुषमतिवैश्वरूप्यजन्मना१ तर्केण शक्यं निराकर्तुम् । किन्तु तर्क एव प्रमाणविरुद्धार्थे प्रवर्तमानोऽयमाभासो युक्तः। ततो यदि नामैतदुक्तविधासु नान्तर्भवति । विधान्तरेण तत्वं भविष्यति । चेतनादिलक्षणं वा अन्यत्प्रकल्प्यान्तर्भावयिष्यत इत्यादि । तथा शक्यते प्रकृतेऽपि वक्तुम् । ‘दण्डी देवदत्तः’ ‘पर्वतोऽग्निमान्’ ‘यः सर्वज्ञः’ इत्यादि प्रमाणसिद्धं तावद्विशिष्टादि । न तदुक्तविकल्पपांसुभिः शक्यमाच्छादयितुम् । तेषामेव प्रमाणविरुद्धाना-माभासत्वात् । ततो यदि नाम नोक्तप्रकारसम्भवस्तथाऽपि प्रकारान्तरेण सत्यं भविष्यति । एतेष्वेव वा प्रकारेषु कश्चिन्निर्वाहः२ कल्पनीय इति ।
श्रीविजयीन्द्रभिक्षु
सर्ववैलक्षण्याङ्गीकाराद् ब्रह्म दुर्घटमित्युक्तम् । तदुपपादयितुमाकाङ्क्षामुत्थापयति- अथ ब्रह्म कथमिति ।। चेतनेति ।। चेतनत्वाचेतनत्वादिधर्मस्येत्यर्थः । इत्यादीत्यादिपदेन षट्पदार्थ-वादिनः परिगृह्यन्ते । चेतनाचेतनेति ।। चेतनत्वाचेतनत्वाद्युक्तविभाजकोपाधिमत्तया गृहीतं स्यादित्यर्थः । ब्रह्मवादिना निर्विशेषब्रह्मवादिना । उक्तेति ।। उक्तविभाजकोपाध्यवच्छिन्नत्वा-नङ्गीकारादित्यर्थः । ज्ञानाश्रयत्वादीत्यादिपदेनाऽत्मयाथात्म्यानुभवत्वतद्विषयत्वतदाश्रयत्वगुणा-श्रयत्वाद्यचेतनादिलक्षणपरिग्रहः । निर्विशेषत्वेति ।। अत्राऽदिपदेन स्वप्रकाशत्वभङ्गादिपरिग्रहः ।
तर्कस्य विपर्यये पर्यवसानं दर्शयति- चेतनाद्युक्तेति ।। ‘प्रमाणादङ्गीक्रियत एव’ इति मूलावयव-मुपपादयति- एवमिति ।। पुरुषमतीति ।। पुरुषाणां मतयः परस्परं विरुद्धा अङ्गीकार्याः । तत्प्रभवेनेत्यर्थः । तत इति ।। तथा च ‘तस्मान्न तत्वम्’ इति विपर्ययापर्यवसानेनैव तर्कस्याऽभासत्वमिति भावः । चेतनादीति ।। ‘यद्युक्तलक्षणं ब्रह्म तत्वं स्यात् तदा चेतनाद्युक्त-विधास्वन्तर्भवेत्’ इत्यस्यानिष्टप्रसङ्गरूपत्वाभावादाभासत्वमिति भावः ।
प्रमाणसिद्धेऽर्थे तर्कोऽकिञ्चित्कर इत्येतत्प्रकृतेऽपि विशिष्टस्य पदार्थान्तरत्वपक्षेऽपि योजयति- तथेति ।। विकल्पेति ।। ‘विशिष्टं विशेष्यादिभ्यो भिन्नमभिन्नं भिन्नाभिन्नं वा’ इत्यादितर्कवाद्युक्त-विकल्पपांसुभिरित्यर्थः । कल्पनीय इति ।। यत्र विशेषणानामागन्तुकत्वं तत्र विशिष्टविशेष्य-योर्भेदाभेदः । यत्र तु यावद्धर्मभावित्वं तत्राभेदः । न चैवं व्याघातः प्रत्येकं विशिष्टबुद्धिश्च स्यादिति वाच्यम् । प्रतीतिव्यवहाररूपफलबलेन भेदाभेदे सिद्धे विरोधपरिहाराय प्रत्येकं विशिष्टबुद्धि-प्रतिबन्धाय च कस्यचिद् विशेषस्य कल्पनादिरूपनिर्वाहः कल्पनीय इत्यर्थः ।
श्रीवेदेशतीर्थ
‘सर्ववैलक्षण्याङ्गीकारात्’ इतीममंशं व्याख्यातुमाह- अथेति ।। चतुर्विधमित्यादी-त्यादिपदेन ‘पञ्चार्थान् गुरवः प्राहुर्विशेषाभाववर्जितान् ।’
‘अर्थाः षट्पदार्थाः’ इत्यादिप्रसिद्धमतपरिग्रहः । निर्विशेषत्वभङ्गाद्यापत्तेरिति ।। अत्राऽदि-पदेनास्वप्रकाशत्वरूपाचेतनलक्षणयोगित्वं स्वप्रकाशत्वभङ्ग इत्यादिकं गृह्यते । तर्कस्य विपर्यये पर्यवसानं दर्शयति-चेतनाद्युक्तेति ।। प्रमाणादङ्गीक्रियत एवेति मूलावयवमुपपादयति-एवमिति ।। विधान्तरेणेति ।। तथा च तर्कस्य विपर्ययापर्यवसानमिति भावः । अन्तर्भावयिष्यत इति । तथा च यद्युक्तलक्षणं ब्रह्म तत्त्वं स्यात्तर्हि चेतनत्वाद्युक्तविधास्वन्तर्भवेदिति तर्कस्येष्टापादनरूपत्वेनाऽ-भासत्वं स्यादिति भावः । सत्यं भविष्यतीति ।। तथा चात्राप्युक्ततर्कस्य विपर्ययापर्यवसानमिति भावः । निर्वाहः कल्पनीय इति ।। अनवस्थादिदोषपरिहारेण भिन्नत्वाद्यन्यतमप्रकारोपेततया वाच्यम् । तथा चेष्टापत्तिरिति भावः । निर्वाहप्रकारञ्चाग्रे लेशतो दर्शयिष्यामः ।
श्रीराघवेन्द्रतीर्थ
चेतनादिभावानङ्गीकारमात्रेण कथं दुर्घटं तर्केणेत्यतो व्यनक्ति- इह हीत्यादिना ।। वादिवर्गे इत्यर्थः । हीति प्रसिद्ध्यर्थः । शुद्धं जडामिश्रं बुद्धं ज्ञानरूपं मुक्तं बन्धहीनं अखण्डैकरसं जाति-गुणकर्मावयवादिशून्यम् । इत्यादीत्यादिपदेन विशेषसमवायसहिता द्रव्यादयः षडिति वदन्तो ग्राह्याः । ततः किमित्यत आह- यद्युक्तेति ।। नित्यशुद्धेत्यादिनोक्तेत्यर्थः । उक्तविधेति ।। उक्तविधायाः सकाशाद्वैलक्षण्याङ्गीकारादित्यर्थः । तत्तल्लक्षणवत्त्वेति ।। चेतनादि-विधास्वन्तर्भावेऽपि ज्ञानाश्रयत्वविधिप्रत्ययविषयत्वादिचेतनभावाभावादिलक्षणवत्त्वापातेन निर्विशेषत्वभङ्गतत्तद्धर्मनिमित्ततत्तच्छब्दवाच्यत्वाद्यापत्तेरिति भावः ।
एवं चेतनाद्युक्तविधास्वन्तर्भवेदित्युक्तावापाद्यस्यानिष्टत्वं न च ब्रह्मेत्यादिनोपपाद्य विपर्यये पर्यवसानमाह- चेतनाद्युक्तविधेति ।। मूलवाक्यशेषं विवृण्वानः परमुखेन समाधिं शिक्षयित्वा तत्समं विशिष्टाकारदौर्घट्येऽपीत्याह- एवं तर्केणेति ।। पुरुषमतिवैरूप्यजन्मनेति बहुव्रीहिः । वैरूप्यं वैचित्र्यं विरुद्धार्थकत्वं वा । तत इति ।। तर्कस्याऽभासत्वादित्यर्थः । एतदिति ।। प्रमाणसिद्धं ब्रह्मेत्यर्थः । इत्यादीत्यादिपदेन सर्वविलक्षणस्वभावं सदेव तत्त्वं भविष्यतीत्यस्य ग्रहः। वक्तव्यमिति पूर्वेणान्वयः । अक्षादिमानत्रयसिद्धविशिष्टाकारान् क्रमेणोदाहरति- दण्डीत्यादिना ।। विशिष्टादीत्यादिपदेन विशेषणतद्भेदादेर्ग्रहः । नोक्तप्रकारेति । विशेषणविशेष्यतत्सम्बन्धेभ्योऽन्यत्वानन्यत्वादि-प्रकारेत्यर्थः । कश्चिन्निर्वाह इति । विशेष्येण सविशेषाभिन्नं विशिष्टमित्यादिरूपेणेति भावः ।
अनङ्गीकुर्वाणाः केचित् तार्किकादयः । तत्तल्लक्षणेति ।। चेतनादिलक्षणेत्यर्थः । पुरुष-मतिवैश्वरूप्यजन्मनेति । पुुरुषमतेः पुरुषबुद्धेः यत् वैश्वरूप्यं१ अनेकरूपत्वं विचित्रत्वं तज्जन्मना विचित्रपुरुषबुद्धिजनितेनेत्यर्थः । विचित्रबुद्धयः पुरुषाः स्वस्वबुद्ध्यनुसारेणानेकधा तर्कयन्तीति भावः । अन्यत् निर्विशेषत्वभङ्गानापादकम् । इत्यादिप्रमाणेति ।। प्रत्यक्षानुमानागमरूपप्रमाण इत्यर्थः । तेषामेव विकल्पपांसूनामेव ।
गुरुराजीया
सर्ववैलक्षण्याङ्गीकारादित्यंशं योजयितुमाह- अथेति ।। इत्यादीत्यादिपदेन ‘एके तु समवायेन सहोक्तानि, रूपविज्ञानवेदनासञ्ज्ञासंस्कारान् वा पञ्च’ इत्यादितत्वविवेकोक्त-मतान्तरपरिग्रहः । अन्यथेति ।। चेतनाद्युक्तविधान्तर्भाव इत्यर्थः । निर्विशेषत्वभङ्गाद्यापत्तेः इत्यत्राऽदिपदेन प्रकाशत्वभङ्गादिपरिग्रहः । अचेतनत्वस्याप्रकाशत्वरूपत्वादिति द्रष्टव्यम् । अनन्तर्भूतं च न तत्वमिति ।। अन्तर्भूतत्वस्य तत्वत्वव्यापकत्वादिति भावः । व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वादिति भावः ।२ उक्तविधास्वनन्तर्भूतस्यातत्वरूपत्वे दृष्टान्तमाह - यथेति ।। प्रमाणेति ।। ‘सदेव सोम्येदम्’ इत्यादिप्रमाणेत्यर्थः । पुरुषमतीति ।। विश्वरूपमेव वैश्वरूप्यमिति स्वार्थे ष्यञ्प्रत्ययः । विचित्रपुरुषोत्प्रेक्षामूलकेनेत्यर्थः । आभास इति ।। प्रमाणविरुद्धेऽर्थे प्रवर्तमानस्य विपर्ययापर्यवसायित्वादिति भावः । विधान्तरेणेति ।। तथा च कल्प्यमानविधान्तरघटितोक्तविधान्तर्भूतत्वस्यैव१ व्यापकत्वेनोक्तविधान्तर्भूतत्वमात्रस्य तदभावेन तद्व्यावृत्तिसिद्धावपि वस्तुतो व्यापकव्यावृत्त्यसिद्धेर्न तया तद्व्याप्यव्यावृत्तिरिति भावः । अन्तर्भावयिष्यत इति ।। ततश्चोक्तविधास्वन्तर्भावापादने इष्टापत्तिरिति भावः । आभासत्वा-दिति ।। विपर्ययापर्यवसायित्वेनेति शेषः । सत्यं भविष्यतीति ।। तथा च विधान्तरकल्पनायां तद्घटितस्यैव व्यापकत्वप्राप्त्या निर्दिष्टविधान्तर्भूतत्वमात्रस्य व्यापकत्वाभावात् तद्व्यावृत्तावपि न वस्तुतो विधान्तरघटितव्यापकव्यावृत्तिरिति न तया तद्व्याप्यव्यावृत्तिरिति भावः । निर्वाहः कल्पनीय इति ।। तथा च निर्दिष्टविधान्तर्भूतत्वस्यैव व्यापकत्वेऽपि निर्वाहकल्पनया न तद्व्यावृत्तिरिति न तद्व्याप्यव्यावृत्तिरिति भावः ।
गोविन्दीया
चेतनेति ।। चेतनाचेतनादीनां धर्मस्य परेण ब्रह्मण्यनङ्गीकारादित्यर्थः । इह हीति ।। ब्रह्मणि ते तु तर्कयन्तीति सम्बन्ध इत्यर्थः । इत्यादीति ।। आदिपदेन समवायमादाय पञ्चविधं विशेषमादाय षड्विधम् अभावमादाय, सप्तविधं सङ्गृहीतमित्यर्थः । अन्यथेति ।। वैलक्षण्यानङ्गीकारे इत्यर्थः । आभास इति ।। आभासो भवितुं युक्त इत्यर्थः । तत इति ।। तर्कस्याऽभासत्वादित्यर्थः। विधान्तरेणेति ।। स्वतन्त्रमस्वतन्त्रं चेति प्रकारान्तरेण ब्रह्मस्वतन्त्रतत्वं भविष्यति । अथवा अचेतनत्वविरोधीत्यादिचेतनादिलक्षणं वाऽन्यत्प्रकल्प्य चेतनादिष्वेवान्तर्भाव इष्यत इत्यर्थः । तथा च न निर्विशेषत्वभङ्ग इति भावः । तथेति ।। यथा ब्रह्मविषये समाधानं वक्तुं शक्यम्, तथा प्रकृतेऽपि विशिष्टविषयेऽपि वक्तुं शक्यत इत्यर्थः । इत्यादीति ।। इत्यादिप्रत्यक्षानुमानागमप्रमाणसिद्धं विशिष्टादि तदुक्तविकल्पपांसुभिस्तदुपलक्षितदुर्घटत्वापादकतर्कैः न शक्यमाच्छादयितुम् । तस्य सत्यत्वं चोपपादयिष्याम इति तावच्छब्दो वक्तीत्यर्थः । तेषामिति ।। तर्काणामित्यर्थः । प्रकारान्तरेणेति ।। भिन्नाभिन्नविलक्षणत्वेन सत्यं भविष्यति विशेषणविशेष्यतत्सम्बन्धेभ्योऽ-न्यदुत्पन्नं विशिष्टमिति व्यवह्रियत इति राद्धान्त इत्यर्थः । एतेष्विति ।। भिन्नत्वादिप्रकारेषु कश्चिन्निर्वाहकः कल्पनीयः । तथा हि- यदि विशिष्टं भिन्नं तर्हि भेदपरम्परयाऽनवस्थादोषदुष्टं स्यादिति प्रसङ्गः निराकृतः । भेदो यथा स्वाश्रयस्य भिन्नत्वव्यवहारहेतुस्तथा विशेषबलात् स्वस्यापीति भेदपरम्पराभावान्नानवस्थेत्यादिनेति ।। यद्यभिन्नं तर्ह्येकशेषं तथा चेदं विशेषणमिदं विशेष्यमिति व्यवहारो न स्यादिति प्रसङ्गस्य परिहारः । अभेदेऽपि भेदव्यवहारहेतुविशेषमादाय तथा वक्तुं शक्यत इति अयावद्द्रव्यभाविविशेषणमादाय भिन्नाभिन्नत्वपक्षोऽपि निर्वाह्य इत्यर्थः ।
जनार्दनभट्टीया
विधान्तरेण तत्वमिति ।। यथा ‘नीलं तमः’ इति अबाधितप्रतीत्या अन्धकारस्थद्रव्ये सिद्धे, तस्य गन्धाद्यनाश्रयत्वेन१ पृथिव्यादिबहिर्भावे सति दशमद्रव्यत्वम् अङ्गीकृतम् इति भावः । विधान्तरेणेति ।। तत्वद्वयवादिनं प्रति, त्रिविधमिति त्रैविध्यवादिनं प्रति चतुर्विधत्वेन विधान्तरेणे-त्यर्थः । प्रत्यक्षादिप्रमाणत्रयेणापि विशिष्टसिद्धिमुपपादयति– दण्डीत्यादिना ।।