वस्तुतः..
वस्तुतः परिच्छिन्नत्वहेतोरनैकान्तिकतोपपादनम्
श्रीमज्जयतीर्थटीका
तृतीयं निराचष्टे-
मूल
वस्तुतः परिच्छिन्नत्वमात्मनोऽपि भेदाङ्गीकारादनैकान्तिकम् ।
वस्तुतः परिच्छिन्नत्वं हि वस्त्वन्तराद्व्यवच्छेदो भेद इति यावत् । विपक्षभूतस्याऽत्मनस्तत्व-वादिना भेदोऽङ्गीक्रियत इति मिथ्यात्वे साध्ये वस्तुतः परिच्छिन्नत्वमनैकान्तिकं भवति । न च प्रतियोगिभूतप्रपञ्चस्य मिथ्यात्वादात्मनो भेदानुपपत्तिरिति वाच्यम् । प्रपञ्चमिथ्यात्वसिद्धौ वस्तुतः परिच्छिन्नत्वस्य हेतुत्वसिद्धिः । तत्सिद्धौ च प्रपञ्चमिथ्यात्वसिद्धिरितीतरेतराश्रयप्रसङ्गात् । भेद-मिथ्यात्वानुमानादीनां चोक्तवक्ष्यमाणदोषग्रस्तत्वात् ।
श्रीविजयीन्द्रभिक्षु
हेतुत्वसिद्धिरिति ।। ब्रह्मणि व्यभिचाराभावेनेति शेषः । इतरेतरेति ।। एतच्चोपलक्षणम् । प्रपञ्चप्रतियोगिकभेदस्य प्रपञ्चवन्मिथ्यात्वेऽपि व्यावहारिकस्य वस्तुतः परिच्छिन्नत्वस्य ब्रह्मणि सत्त्वेन व्यभिचाराच्चेत्यपि द्रष्टव्यम् । ननु भेदमिथ्यात्वं न जगन्मिथ्यात्वसिद्ध्यधीनं येनेतरेतराश्रयः स्यात् । किं तु ‘विगीतो भेदो मिथ्या भेदत्वात् चन्द्रभेदवत्’ इत्यनुमानात् ‘ज्ञाते द्वैतं न विद्यते’१ ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुतेश्च तत्सिद्धिरित्याशङ्क्याऽह- भेदमिथ्यात्वेति ।। मिथ्ये-त्यनिर्वचनीयमिति वक्तुं न शक्यम् । अप्रसिद्धेः । नाप्यसदिति । अपसिद्धान्तात् । ब्रह्म-निष्ठासद्वैलक्षण्ये व्यभिचाराच्च । न च तदपि मिथ्या । ब्रह्मणोऽसद्रूपत्वप्रसङ्गात् । ‘ज्ञाते द्वैतम्’ इत्युदाहृतश्रुतेश्च स्वस्वरूपग्राहितया शक्तिग्रहोपयुक्तपदार्थग्राहितया निषेध्यसमर्पकतया चोप-जीव्यबलवत्प्रत्यक्षविरोधेन भेदरूपहेतुनिषेधकत्वासम्भवादित्युक्तवक्ष्यमाणदोषग्रस्तत्वादित्यर्थः ।
श्रीवेदेशतीर्थ
हेतुत्वसिद्धिरिति ।। ब्रह्मणि व्यभिचाराभावेनेति शेषः । नन्वात्मनि भेदमिथ्यात्वं न जगन्मिथ्यात्वाधीनम् । येनेतरेतराश्रयप्रसङ्गः स्यात् । किन्तु विमतो भेदो मिथ्या भेदत्वाच्चन्द्रभेद-वदित्याद्यनुमानेन ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यागमाच्च तत्सिद्धिरित्याशङ्ख्याऽह-भेदमिथ्यात्वेति ।। अत्र मिथ्यापदेन नासत्त्वमभिप्रेतम् । अपसिद्धान्तात् । किन्त्वनिर्वचनीयत्वमेवेति वक्तव्यम् । तथात्वे च न चानिर्वचनीये किञ्चिन्मानम् इत्याद्युक्तदोषैः प्रत्यक्षबाधितं च इत्यादिवक्ष्यमाणदोषैश्च ग्रस्तत्वमिति भावः ।
श्रीराघवेन्द्रतीर्थ
अनैकान्तिकत्वाभिव्यक्त्यर्थमात्मन इत्येतद्विशिनष्टि- विपक्षभूतस्येति ।। हेतुत्वसिद्धि-रिति ।। अनैकान्त्याभावादिति भावः । तत्सिद्धौ चेत्यनन्तरं तेन हेतुनेति योज्यम् । नन्वात्मनि गतोऽपि भेदरूपो वस्तुतः परिच्छिन्नत्वहेतुः मिथ्येति चेन्न । मानाभावात् । २भेदो मिथ्या भेदत्वादित्याद्यनुमानादीनां भावादित्यत आह - भेदेति ।। वक्ष्यमाणेति । प्रत्यक्षबाधितं चेत्यादिना वक्ष्यमाणबाधादीत्यर्थः । यद्वा यत्प्रागुक्तमविद्याविलसितो जीवेश्वरजडरूपो भेदप्रपञ्चो न परमार्थ इति तन्निराह- भेदमिथ्यात्वेति ।। आत्मनो भेदानुपपत्तिरिति । मिथ्याभूतप्रपञ्चप्रतियोगिकभेदस्यापि मिथ्यात्वादित्यर्थः । तथा च नानैकान्त्यमिति भावः । प्रपञ्चमिथ्यात्वसिद्धावित्यनन्तरं आत्मनि तत्प्रतियोगिकभेदस्यापि मिथ्यात्वप्राप्त्या व्यभिचाराभावेन वस्तुतः परिच्छिन्नत्वस्य हेतुत्वसिद्धिरित्यर्थः ।
गुरुराजीया
हेतुत्वसिद्धिरिति ।। आत्मनि व्यभिचारपरिहारेणेति शेषः । नन्वात्मभेदमिथ्यात्वं न जगन्मिथ्यात्वाधीनम् । येनेतरेतराश्रयप्रसङ्गः स्यात् । ‘विमतो भेदो मिथ्या भेदत्वात् चन्द्रभेदवत्’ इत्याद्यनुमानेन ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिश्रुत्या च तत्सिद्धिरित्यत आह- भेदमिथ्यात्वेति ।। उक्तवक्ष्यमाणेति ।। न चानिर्वचनीये किञ्चिन्मानम्’ ‘प्रत्यक्षबाधितं च जगन्मिथ्यात्वम्’ इत्याद्युक्तवक्ष्यमाणेत्यर्थः ।
गोविन्दीया
भेदेति ।। ‘विमतो भेदः मिथ्या, भेदत्वाच्चन्द्रभेदवत्’ इत्याद्यनुमानादीनामप्रसिद्ध-विशेषणत्वाद् उक्तवक्ष्यमाणदोषग्रस्तत्वादित्यर्थः ।
नारोपन्तीया
ननु यद्यपि वस्तुतः परिच्छिन्नत्वं नाम, वस्तुप्रतियोगिकभेदवत्त्वम् । तथापि नात्मन्य-नैकान्तिकता । आश्रयसमसत्ताकभेदस्य विवक्षितत्वात् । पक्षे आश्रयसमसत्ताकमिथ्याभूतस्य भेदस्य सत्त्वेऽपि विपक्षभूतस्यात्मनः पारमार्थिकत्वात्तत्र तथाविधभेदाभावेन हेतोरेवागमनात् पराभ्युपगतभेदस्य च, विमतो भेदो मिथ्या भेदत्वात् चन्द्रभेदवदिति मिथ्यात्वानुमानादित्यत आह- भेदमिथ्यात्वानुमानादीनामिति ।।
जनार्दनभट्टीया
परिच्छिन्नशब्दस्य मूर्तपरत्वे१ मूले ‘वस्तुतः’ इति तसेरनुपपत्तिरित्यत आह – वस्तुतः परिच्छिन्नत्वं हीति ।। ‘आत्मनोऽपि’इति ‘अपि’शब्दस्य स्वारस्यमाह – विपक्षेति ।।
मिथ्यात्ववादिभिः भेदानङ्गीकारादाह – तत्ववादिनेति ।। आत्मनि हेत्वभावात् न अनैकान्त्यमिति शङ्कते – न चेति ।। तथा च भेदव्यापकप्रतियोग्यभावात् तद्व्याप्यभेदोऽपि आत्मनि नास्तीति न आत्मनि व्यभिचार इति भावः । हेतुत्वसिद्धिरिति ।। आत्मनि व्यभिचाराभावादिति भावः ।
ननु न प्रतियोगिभूतप्रपञ्चमिथ्यात्वेन भेदमिथ्यात्वं साध्यते येन अन्योन्याश्रयः स्यात् । किं नाम ‘भेदो मिथ्या, दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्’ इत्यनुमानेन ‘नान्योऽतोऽस्ति द्रष्टा’ इत्याद्यागमेन च । अतो न अन्योन्याश्रय इत्यत आह – भेदेति ।। वक्ष्यमाणेति ।। अनिर्वचनीयासिद्धेरेव अनुमानस्यापि असिद्धिरित्यादिना ईश्वरेणापि भेदस्यैव अनुभूयमानत्वाच्च इत्यादिना च वक्ष्यमाणदोषग्रस्तत्वादित्यर्थः ।