मय्यनन्तगुणेऽनन्ते..

ब्रह्मनिर्विशेषत्ववादे सत्यादिपदानां पर्यायत्वशङ्कानिरासपूर्वकं प्रतिवादिना प्रमाणोक्तिः

मय्यनन्तगुणेऽनन्ते

श्रीमज्जयतीर्थटीका

अथ मतं द्विविधा वेदान्तवाक्यप्रवृत्तिः । एका पदार्थपरा । अपरा तस्याऽत्मतादात्म्य-रूपवाक्यार्थपरा    तत्र तावत् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि पदार्थपरं वाक्यमखण्डार्थ-निष्ठम् । ‘ब्रह्मविदाप्नोति परम्’ इति प्रस्तुतब्रह्मस्वरूपमात्रजिज्ञासायां तल्लक्षणं हीदमुच्यते । यथा खलु ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रः’ इति चन्द्रस्वरूपमात्रप्रश्ने ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति तल्लक्षणाभिधायकं वचनम् । यथा च तत्र प्रकृष्टप्रकाशपदयोश्चन्द्रप्रातिपदिकार्थमात्रपरत्वेऽपि न पर्यायत्वम् । प्रकर्षादिगुणयोगाभिधानमुखेन लक्षणया तत्परत्वात् । तथा सत्यादिपदाना-मखण्डार्थनिष्ठत्वेऽपि१ परापरसामान्यवाचिनां शबले गृहीतसङ्गतीनां वा२ तेषां लक्षणया ब्रह्मस्वरूप-मात्रपरत्वान्न पर्यायत्वम् ।

न चैवं सति प्रतिपिपादयिषितार्थस्यैकेनैव पदेन लक्षितत्वात् पदान्तरवैयर्थ्यमिति वाच्यम् । लक्ष्यार्थभेदाभावेऽपि प्रतिपदमारोपितासत्यत्वाद्यनेकाकारव्यवच्छेदस्य प्रयोजनत्वात् । यथा नक्षत्रादिव्यवच्छेदप्रयोजनत्वेन न प्रकृष्टादिपदवैयर्थ्यम् ।

तदयं प्रयोगः । सत्यज्ञानादिवाक्यमखण्डार्थनिष्ठम् । लक्षणवाक्यत्वात् । प्रकृष्टप्रकाशश्चन्द्र इत्यादिवाक्यवत् । तथा सत्यज्ञानादिवाक्यं ब्रह्मस्वरूपमात्रपरम् । तत्प्रश्नोत्तरत्वात् । यद्यत् स्वरूपमात्रप्रश्नोत्तरं तत्तत्स्वरूपमात्रपरम् । यथोदाहृतं वाक्यम् । एवं तत्त्वमसीत्यादि-ब्रह्मात्मतादात्म्यपरमपि वाक्यमखण्डार्थनिष्ठम् । कोऽहमिति स्वरूपमात्रजिज्ञासायां ह्येतदुच्यते ।

किञ्च न तावदत्र देवदत्तस्य गौरितिवद्विशिष्टार्थता । समानाधिकरणत्वात् । नापि मृद्घटो नीलोत्पलमितिवत् । अकार्यकारणद्रव्यनिष्ठत्वात् । नाप्यभेदविशिष्टं बोध्यम् । स्वरूपाभेदस्य सिद्धत्वात् । तच्छब्दार्थेनाभेदस्य विरुद्धत्वेन बोधयितुमशक्यत्वात् । अतस्तत्र स्वार्थैकदेश-त्यागलक्षणया भेदभ्रमव्युदासद्वारेण स्वरूपमात्रपर्यवसानमेव । अत एव न पर्यायत्वेन व्यर्थता-प्रसङ्गः । यथा खलु ‘कोऽयम्’ इत्यपेक्षायामुक्ते ‘सोऽयं देवदत्तः’ इति वाक्ये पदत्रयस्य देवदत्तस्वरूपमात्रपर्यवसानेऽपि विशिष्टाभिधानद्वारेण भागत्यागलक्षणया प्रवृत्तेर्न पर्यायत्वम् भेदभ्रमव्युदासेन सार्थक्यञ्च । अत्रापि प्रयोगः । तत्त्वमसीत्यादिवाक्यमखण्डार्थनिष्ठम् । अकार्यकारणद्रव्यनिष्ठत्वे सति समानाधिकरणत्वात्  । सोऽयं देवदत्त इत्यादिवाक्यवत् । स्वरूपप्रश्नोत्तरत्वाच्च । पूर्ववत् प्रयोगः । अतः श्रुतीनामखण्डार्थत्वस्य प्रमितत्वादनुपपत्त्यभावाच्च कथं सगुणं ब्रह्म श्रुत्यभिप्रेतमिति ।

श्रीविजयीन्द्रभिक्षु

अपर्यायशब्दानामेकप्रातिपदिकार्थमात्रपरत्वं संसर्गासङ्गिसम्यग्धीहेतुत्वं वाऽखण्डार्थ-निष्ठत्वमभिप्रेत्य शङ्कते- अथेति ।। वक्ष्यमाणलक्षणवाक्यत्वरूपहेतोः भागासिद्धिवारणायानति-प्रसक्तपक्षतावच्छेदकविवक्षया वेदान्तवाक्यं विभजते- द्विविधेति ।। पदार्थपरेति ।। ‘तत्त्वमसि’ ‘अयमात्मा ब्रह्म’ इत्यादिमहावाक्यगततत्त्वमादिपदार्थपरेत्यर्थः । अपरेति ।। तत्त्वमसीत्यादि-महावाक्यप्रवृत्तिरित्यर्थः। तस्येति ।। त्वमादिपदार्थस्य ब्रह्माभेदरूपवाक्यार्थपरेत्यर्थः । तत्र ज्ञेयब्रह्मनिष्ठवेदान्तवाक्ये पदार्थनिष्ठवाक्यं दर्शयन् साध्यभूताखण्डार्थत्वस्य बाधपरिहाराय पक्षे सम्भावनां दर्शयति- तत्रेति ।। तत्पदार्थपरमित्यर्थः । अत्राऽदिपदेन ‘योऽयं विज्ञानमयः’ इत्यादित्वंपदार्थनिष्ठवाक्यपरिग्रहः । प्रस्तुतेति ।। स्वरूपमात्रे पृष्टे यत्प्रस्तुतं जिज्ञासितं तदेव वक्तुमुचितम् । प्रकृते च ब्रह्मस्वरूपमात्रमेव जिज्ञासितम् । लक्षणवाक्येनापि तदेव बोधनीयम् । न तु विशिष्टम् । अजिज्ञासितार्थबोधकत्वेनानवधेयवचनत्वप्रसङ्गादिति भावः । साध्याप्रसिद्धि-परिहाराय दृष्टान्तमुपपादयति- यथा खल्विति ।। वचनमिति ।। अखण्डार्थनिष्ठमित्यनुषज्यते । नन्वखण्डार्थत्वस्यैकप्रातिपदिकार्थमात्रनिष्ठत्वरूपत्वे संसर्गासङ्गिसम्यग्धीहेतुत्वरूपत्वे च लक्षण-वाक्येन स्वरूपमात्रमेव प्रतिपाद्यत इति स्यात् । तत्प्रतिपादनं तद्वाक्यगतेनैकेनैव पदेन कृतमिति व्यर्थं पदान्तरमित्याशङ्कां दृष्टान्तमुखेन निरस्यति- यथा चेति ।। नन्वेकप्रातिपदिकार्थमात्रनिष्ठत्वे पर्यायत्वं दुर्वारम् । घटकुरीरादिशब्दे तथा दर्शनात् । न च शक्यतावच्छेदकैक्य एव पर्यायत्वम् । न त्वेकप्रातिपदिकार्थमात्रनिष्ठत्व इति वाच्यम् । सामान्यरूपतया लघुत्वेनान्यूनानतिरिक्तार्थत्वस्यैव पर्यायत्वे तन्त्रत्वात् । नैयायिकादिभिः स्वरूपमात्रार्थकानामपि गगनाकाशादिपदानां पर्यायत्व-स्वीकाराच्चेत्यत आह- प्रकर्षादीति ।। तथा च मुख्यया वृत्त्यैव प्रातिपदिकार्थमात्रनिष्ठत्व एव पर्यायत्वम् । न तु लक्षणादिनाऽपि तन्निष्ठत्वे । अर्थवादगतपदानां लक्षणयैकप्राशस्त्य-निष्ठानामप्यपर्यायत्वदर्शनात् । न च मुख्यार्थानुपपत्त्यभावाल्लक्षणैव नोपपद्यत इति वाच्यम् । तात्पर्यानुपपत्त्या तदुपपत्तेः । अन्यथा ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यादौ लक्षणाऽभावप्रसङ्गादिति भावः ।

दार्ष्टान्तिकेऽपर्यायत्वमुपपादयति- तथेति ।। तथा न पर्यायत्वमिति सम्बन्धः । ननु सत्यादि-पदानां ब्रह्मस्वरूपलक्षकत्वमेवानुपपन्नम् । मुख्यार्थाभावेन तत्सम्बन्धरूपलक्षणाया एवायोगात् । न च सदादिकमेव तदर्थः । ब्रह्मस्वरूपातिरिक्तस्य सदाद्यर्थस्य त्वयाऽनभ्युपगमादित्यत आह- परापरेति ।। सत्त्वज्ञानत्वानन्दत्वादिरूपपरापरसामान्यविशिष्टसामान्यवाचिनामित्यर्थः । शबले इत्येतद्व्यक्तिस्थानीयघटादिसाधारण्येनोदाहरणप्रदर्शनार्थम् । गृहीतसङ्गतीनामित्येतत्सङ्गतिग्रहणं विना लक्षणाकल्पनमसम्भवीति ज्ञापनार्थमिति ज्ञातव्यमिति ।

नन्वस्तूक्तरीत्याऽपर्यायत्वम् । तथाऽपि पदान्तरवैयर्थ्यतादवस्थ्यम् । प्रतिपिपादयिषितब्रह्म-स्वरूपमात्रस्य प्रथमोपस्थितेनैकेनैव पदेन प्रतिपादनसम्भवादित्याशङ्क्य निराकरोति- न चैवमिति ।। शब्दस्य हि द्वयं प्रयोजनम् । स्वार्थप्रतिपत्तिः व्यावृत्तिज्ञापनञ्च । तत्राऽद्यस्यैकेन पदेन सिद्धावपि द्वितीयस्यासिद्धेरवैयर्थ्यमित्याह- लक्ष्येति ।। एतदेव दृष्टान्तमुखेनोपपादयति- यथा चेति ।। सदृष्टान्तं पक्षे साध्यसम्भावनामुपपाद्य तत्रानुमानं प्रयोगारूढं करोति- तदयमिति ।। अखण्डार्थनिष्ठमिति ।। अपर्यायत्वे सत्येकप्रातिपदिकार्थमात्रनिष्ठमित्यर्थः । ‘देवदत्तस्य दण्डः’ इत्यादौ व्यभिचारवारणाय लक्षणवाक्यत्वादित्यत्र लक्षणपदम् । ब्रह्मस्वरूपमात्रपरमिति ।। संसर्गासङ्गिब्रह्मस्वरूपमात्रप्रतीतिजनकमित्यर्थः। तत्प्रश्नोत्तरत्वादिति ।। तन्मात्रप्रश्नोत्तरत्वा-दित्यर्थः । यत्र स्वरूपं धर्मवैशिष्ट्यं च प्रश्नगोचरस्तत्प्रतिवचने व्यभिचारवारणाय मात्रपदम् ।

दृष्टान्ते साध्यसाधनवैकल्यशङ्कावारणाय सामान्यव्याप्तिरेवात्राभिप्रेतेत्याह- यद्यदिति ।। उदाहृतमिति ।। प्रकृष्टप्रकाशादिवाक्यमित्यर्थः । पदार्थनिष्ठे अखण्डार्थत्वं प्रसाध्यं वाक्यार्थनिष्ठेऽपि तत्प्रसाधयितुं हेत्वसिद्धिशङ्कां निरस्यन् पक्षेऽनुमानप्रवृत्त्यनूकूलां साध्यसम्भावनां दर्शयति- एवमिति ।। साध्यसम्भावनाप्रकारमेवोपपादयति- किञ्चेति ।। समानाधिकरणत्वादिति ।। एकविभक्तियोग्यानेकशब्दत्वादित्यर्थः । समानाधिकरणत्वेऽपि ‘मृद्घटः नीलमुत्पलम्’ इत्यादौ मृत्त्वघटत्वयोः नीलत्वोत्पलत्वयोश्च सामानाधिकरण्यरूपसंसर्गबोधवत् ‘तत्त्वमसि’ इत्यत्रापि तत्त्वंपदार्थभूतयोः सर्वज्ञत्वकिञ्चिज्ज्ञत्वयोः सामानाधिकरण्यरूपसंसर्गबोधः किं न स्यादित्याशङ्क्य निराकरोति- नापीति ।। उत्पलवदित्यस्यानन्तरं विशिष्टार्थतेत्यस्यानुषङ्गः । मृद्घट इत्यादि-वद्विशिष्टार्थत्वाभावे हेतुमाह- अकार्येति ।। मृद्घट इत्यस्य कार्यकारणनिष्ठत्वात् नीलमुत्पलमित्यस्य द्रव्यमात्रनिष्ठत्वाभावात् तत्त्वमसीत्यादेश्चाकार्यकारणद्रव्यमात्रनिष्ठत्वान्न तद्वदस्य विशिष्टार्थता सम्भवतीति भावः ।

ननूक्तरीत्या सम्बन्धान्तरबोधासम्भवेऽपि अभेदरूपसम्बन्धस्तर्हि तत्त्वमसीत्यनेन बोध्यता-मित्यत आह- नापीति ।। अभेदो बोध्यतामिति वदन् प्रष्टव्यः । तत्किं तत्त्वंपदलक्ष्यचैतन्य-स्वरूपोऽभेदस्तेन बोध्यः किं वा तन्मुख्यार्थयोरिति । तत्र नाऽद्य इत्याह- स्वरूपाभेदस्येति ।। सिद्धत्वात् स्वप्रकाशत्वेन स्वतः सिद्धत्वादित्यर्थः । न द्वितीय इत्याह- तच्छब्दार्थेनेति ।। सार्वज्ञ्यादिविशिष्टेन तच्छब्दमुख्यार्थेन किञ्चिज्ज्ञत्वादिविशिष्टस्य त्वंपदार्थस्य विरोधेनाभेदेन बोधयितुमशक्यत्वादित्यर्थः । स्वार्थेकदेशत्यागलक्षणयेति ।। स्वार्थैकदेशभूतसर्वज्ञत्वासर्वज्ञत्वादि-विरुद्धांशमनन्तर्भाव्य विशेष्यभूतचिन्मात्रलक्षणयेत्यर्थः । भेदभ्रमव्युदासद्वारेणेति ।। भेदभ्रम-व्युदासरूपफलेन स्वरूपमात्रबोधनं सफलमिति भावः । अत एवेति ।। यतो वाच्यार्थभेदः भेदभ्रमनिरासरूपप्रयोजनञ्चास्ति अत एवेत्यर्थः ।

एतदेव दृष्टान्तमुखेन दृढयति-यथा खल्विति ।। पदत्रयस्येति ।। पदत्रयस्य प्रवृत्तेरित्यन्वयः । अत्रापि समानाधिकरणत्वाद् अकार्यकारणद्रव्यमात्रनिष्ठत्वाच्च ‘देवदत्तस्य गौः’ ‘मृद्घटः’ ‘नीलमुत्पलम्’ इतिवन्न विशिष्टार्थतेत्यवगन्तव्यम् । अकार्येति ।। अकार्यकारणद्रव्यमात्रनिष्ठत्वे सतीत्यर्थः । ‘मृद्घटः’ ‘नीलमुत्पलम्’ ‘देवदत्तस्य गौः’ इत्यादिवाक्ये व्यभिचारवारणाय क्रमेण विशेषणानि । तत्स्वरूपेति ।। ब्रह्मस्वरूपमात्रप्रश्नोत्तरत्वादित्यर्थ; । नन्वेवं दृष्टान्ते साध्यसाधनवैकल्यमित्यत आह- पूर्ववदिति ।। सामान्यव्याप्तिपुरस्कारेणेत्यर्थः । उपसंहरति- तत इति ।। श्रुतीनामिति ।। ज्ञेयब्रह्मनिष्ठवेदान्तभागानाम् अखण्डार्थत्वस्योक्तरीत्या द्विविधस्यापि प्रमाणसिद्धत्वादुपपत्तिविरोधाभावाच्च कथं सगुणं ब्रह्म श्रुत्यभिप्रेतम् । न कथमपि । किन्तु निर्गुणमेव ब्रह्म श्रुतितात्पर्यगोचर इत्यर्थः ।

श्रीवेदेशतीर्थ

श्रुतिसूत्रयोः १सावकाशत्वेनाखण्डार्थनिष्ठत्वासाधकत्वेऽप्यनुमानमेव तत्साधकं भविष्यती-त्याशयेन शङ्कते- अथेत्यादिना ।। वक्ष्यमाणलक्षणवाक्यत्वाकार्यकारणद्रव्येत्यादिहेत्वोर्भागा-सिद्धिवारणायानतिप्रसक्तपक्षतावच्छेदकविवक्षया१ वेदान्तवाक्यं विभजते । द्विविधेति ।। पदार्थ-परेति ।। तत्त्वमसीत्यादिमहावाक्यगततत्त्वमादिपदार्थपरेत्यर्थः । अपरेति ।। तत्त्वमसीत्यादिमहा-वाक्यप्रवृत्तिरित्यर्थः । तस्येति ।। त्वमादिपदार्थस्य ब्रह्माभेदरूपवाक्यार्थपरेत्यर्थः । तत्र पदार्थ-निष्ठवाक्यं दर्शयन् वक्ष्यमाणलक्षणवाक्यत्वहेतोः पक्षधर्मतानुकूलतर्काद्युपपादनाय च तावत्पक्षं निर्दिशति- तत्रेति ।। अन्यथा साध्यधर्मिण एवानुपस्थितौ तत्र हेतूपपादनस्य यदीदमखण्डार्थनिष्ठं न स्यात्तर्ह्यनवधेयवचनं स्यादिति वक्ष्यमाणतर्कसूचनस्य चासम्भवादिति भावः । अनेनानतिप्रसक्तं पदार्थपरवाक्यत्वं लक्षणवाक्यत्वहेतौ पक्षतावच्छेदकमप्युक्तं भवति । अत्राऽदिपदेन ‘योऽयं विज्ञानमयः’ इत्यादित्वम्पदार्थनिष्ठवाक्यपरिग्रहः । सत्यादिवाक्यं तु तत्पदार्थपरमिति भावः ।

इदानीं लक्षणवाक्यत्वहेतोः पक्षधर्मतां दर्शयति- ब्रह्मेति ।। ब्रह्मस्वरूपमात्रेति ।। अनेन स्वरूपमात्रमेव पृष्टं जिज्ञासितञ्च । अतस्तदेव सत्यज्ञानादिलक्षणवाक्येन वक्तुमुचितम् । न तु विशिष्टम् । अपृष्टाजिज्ञासितार्थबोधकत्वेनानवधेयवचनत्वप्रसङ्गादित्यप्रयोजकताऽपि परिहृतेति ज्ञातव्यम् । व्याप्त्युपपादनाय दृष्टान्ते साध्यवैकल्यशङ्कापरिहाराय साध्यमुपपादयन् साध्यहेतु-सहचारं दर्शयति- यथेति ।। वचनमिति ।। अखण्डार्थनिष्ठमित्यनुवर्तते । ननु निर्विशेषरूपा-खण्डार्थनिष्ठत्वे श्रौतपदजातस्य पर्यायत्वप्रसङ्गः । अतः प्रतिकूलतर्कपराहतिरनुमानस्येत्याशङ्कां दृष्टान्तमुखेन परिहरति- यथा चेति ।। प्रकर्षादीति ।। लक्ष्यार्थस्यैकत्वेऽपि वाच्यार्थभेदादपर्यायत्व-मिति भावः । परापरसामान्यवाचिनामिति ।। परसामान्यं सत्ता सत्यशब्दार्थः । अपरसामान्यं ज्ञानत्वादिर्ज्ञानादिशब्दार्थ इत्यर्थः । व्यवहारे भट्टमताश्रयणात्सामान्यवाचिनामित्युक्तम् । अत्रापि वाच्यार्थभेदाद् अपर्यायत्वमिति भावः ।

ननु सामान्यवाचिनामिति न युक्तम् । निर्विशेषे तदितरत्र च ज्ञानत्वाद्यसम्भवेन सङ्गतेरेव गृहीतुमशक्यत्वादित्यत आह- शबले गृहीतसङ्गतीनामिति ।। तथा च ज्ञानत्वादयः शबले सम्भवन्तीति शक्तिग्रहः सम्भवतीति भावः । यद्वा, सामान्यवाचिनामिति प्रवृत्तिनिमित्तस्यापि शब्दवाच्यत्वाभिप्रायेणोक्तम् । वस्तुतस्तु सामान्यविशिष्टव्यक्तिरेव वाच्या । तथा चात्र प्रवृत्तिनिमित्तभेदादपर्यायत्वमिति भावः ।

ननु ज्ञानत्वादिविशिष्टवस्तुन एवाभावात्कथं शक्तिग्रहः । शक्तिग्रहाभावे च कथं तन्मूला लक्षणाऽपीत्यत आह- शबल इति ।। एवं पक्षधर्मत्वादिकं प्रदर्श्य प्रतिकूलतर्कपराहतिं च परिहृत्येदानीमनुमानप्रकारं दर्शयति- तदयमिति ।। सत्यज्ञानेति ।। यद्यपि प्रतिज्ञा पूर्वमेव कृता तथाऽपि सा व्यवहितत्वान्न हेत्वाकाङ्क्षाजनकज्ञानजनिकाऽतः पुनरुक्तेति ध्येयम् । लक्षणेति ।। देवदत्तस्य गौरित्यादिवाक्येन व्यभिचारपरिहाराय- लक्षणेति ।। ब्रह्मस्वरूपमात्रपरमिति ।। अखण्डार्थत्वनिर्वचनमप्रयोजकताशङ्कापरिहारप्राकट्याय कृतमित्यवधेयम् । तत्प्रश्नोत्तरत्वादिति ।। तन्मात्रप्रश्नोत्तरत्वादित्यर्थः । अन्यथा विशिष्टप्रश्नोत्तरेषु व्यभिचारापत्तेः । एवं पदार्थनिष्ठवाक्य-स्याखण्डार्थनिष्ठत्वेऽनुमानमभिधायेदानीं वाक्यार्थनिष्ठस्यापि तत्त्वमस्यादिवाक्यस्याखण्डार्थ-निष्ठत्वेऽनुमानं वक्तुं वक्ष्यमाणहेतोः पूर्ववत्पक्षधर्मत्वाद्युपपादनाय तावत्पक्षं निर्दिशति- एवमिति ।। ब्रह्मात्मतादात्म्येति ।। अनेनैक्यरूपवाक्यार्थपरवाक्यत्वमनतिप्रसक्तमत्र पक्षतावच्छेदकमुक्त-मिति ध्येयम् ।

इदानीं वक्ष्यमाणतत्स्वरूपमात्रप्रश्नोत्तरत्वहेतोः पक्षधर्मतामुपपादयति- कोऽहमिति ।। एतत् तत्त्वमसीत्यादिकम् । अन्यथा स्वरूपमात्रजिज्ञासायां स्वरूपमात्रे पृष्टे विशिष्टवचनेनानवधेय-वचनत्वप्रसङ्ग इति भावः । तत्त्वमस्यादिवाक्यस्याखण्डार्थतायां परिशेषमपि प्रमाणयितुं तावत् प्रसक्तप्रकारान् प्रतिषेधति- किञ्चेत्यादिना ।। समानाधिकरणत्वात् भिन्नप्रवृत्तिनिमित्तकैक-विभक्तिकशब्दत्वात् ।

ननु तर्हि समानाधिकरणत्वादभेदविशिष्टमेव बोध्यं स्यादित्यत आह- नापीति ।। किं चैतन्याभेदविशिष्टं बोध्यते किं वा तत्त्वंपदार्थाभेदविशिष्टमिति विकल्पं मनसि निधायाऽद्यं दूषयति- स्वरूपेति ।। द्वितीयं दूषयति- तच्छब्देति ।। अभेदस्येत्यनन्तरं त्वंपदार्थ इति शेषः । विरुद्धत्वेनेति ।। सार्वज्ञ्यादिविशिष्टेन तत्पदमुख्यार्थेन किञ्चिज्ज्ञत्वादिविशिष्टत्वंपदमुख्यार्थाभेदस्य विरुद्धत्वेने-त्यर्थः । एवं प्रसक्तप्रकारान् प्रतिषिध्य परिशिष्यमाणमाह- अत इति ।। स्वार्थैकदेशत्याग-लक्षणयेति ।। सर्वज्ञत्वासर्वज्ञत्वविशिष्टचैतन्यं हि तत्त्वंपदयोः स्वार्थः । तत्र सर्वज्ञत्वासर्वज्ञत्व-रूपस्वार्थैकदेशत्यागेनोभयत्र विशेष्यभूतचिन्मात्रलक्षणयेत्यर्थः । भेदभ्रम-व्युदासद्वारेणेति ।। भेदभ्रमव्युदासरूपप्रयोजनेनेत्यर्थः ।

प्रतिकूलतर्कपराहतिं परिहरति- अत एवेति ।। सर्वज्ञत्वादिविशिष्टरूपवाच्यार्थभेदाद्भेदभ्रम-व्युदासरूपप्रयोजनसद्भावाच्चेत्यर्थः । एतदेव दृष्टान्तमुखेनोपपादयति- यथेति ।। अनेन वक्ष्यमाणानुमाने दृष्टान्ते साध्यवैकल्यशङ्कापरिहारोऽपि सूचित इति मन्तव्यम् । देवदत्तस्वरूप-मात्रेति ।। अत्रापि तत्त्वमसीत्यत्रेव देवदत्तस्य गौः इत्यादिवद्विशिष्टार्थतासम्भवादिति भावः । विशिष्टेति ।। तत्तेदन्ताविशिष्टदेवदत्तस्वरूपाभिधानद्वारेणेत्यर्थः । भागत्यागेति ।। तत्तेदन्ता-विशिष्टरूपतदिदंपदमुख्यार्थैकदेशत्यागेन विशेष्यभूतदेवदत्तस्वरूपमात्रलक्षणयेत्यर्थः । परिशेष-स्याप्यनुमानत्वात्प्रयोगप्रकारं दर्शयति- अत्रापीति ।। अत्रापि प्रतिज्ञाया पूर्ववत्प्रयोजनमनुसन्धेयम् । अकार्यकारणेति ।। अकार्यकारणद्रव्यमात्रनिष्ठत्वे सतीत्यर्थः । ‘मृद्घटः’, ‘नीलमुत्पलं’, ‘देवदत्तस्य गौः’ इत्यादिवाक्येषु व्यभिचारवारणाय क्रमेण विशेषणानि ।

द्वैतद्युमणि

वेदान्तवाक्यप्रवृत्तिः ।। प्रवर्तमानं वेदान्तवाक्यमित्यर्थः । ‘कृदभिहितो भावो द्रव्यवत् प्रकाशते’ इति वचनमनुरुद्ध्य ‘निःश्रेयसम्’ इति गौरीकान्तीये व्याख्या कृता । तद्वत् प्रकृतेऽप्यनु-सन्धेयम् । १यद्वा प्रवृत्तिः शक्तिः । पदार्थपरा वाक्यार्थपरेत्यस्य तद्बोधनिर्वाहिकेत्यर्थः । वेदान्तेति प्रकृताभिप्रायकम् । लोकेऽपि तथाविधवाक्यद्वयस्य सत्त्वात् । तस्यापि वक्ष्यमाणरीत्या अखण्डार्थ-त्वाच्च- पदार्थेति ।। यन्महावाक्यीयपदार्थयोर्भेदबुद्ध्या विरोधित्वे सति तन्महावाक्यीयपदार्थ-रूपाखण्डार्थकं यत् तत् तन्महावाक्यीयपदार्थनिष्ठम् । यन्महावाक्यार्थबोधोपयोगिपदार्थबाध-पर्यवसायि यत् तत् तन्महावाक्यीयपदार्थपरमिति यावत् । तस्यात्मतादात्म्यरूपेति पदार्थयोर्भेदा-भावोपलक्षितस्वरूपेत्यर्थः । वाक्यार्थेति ।। यन्महावाक्यीयपदार्थयोर्भेदबुद्धिविरोधि तत्तन्महा-वाक्यार्थरूपाखण्डार्थकं तन्महावाक्यार्थपरम् । अखण्डार्थबोधान्तराननुकूलाखण्डार्थबोध-तात्पर्यकमिति यावत् । तत्त्वमसीति महावाक्यम् । तद्घटकतत्पदार्थभूतब्रह्मस्वरूपपरं ‘सत्यं ज्ञानमनन्तम्’ इत्यादि वाक्यम् । त्वम्पदार्थभूतजीवस्वरूपपरं च ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यादिवाक्यं बोध्यम् । महावाक्यस्याखण्डार्थकत्वं पश्चात् साधयिष्यत इत्याशयेन तावदिति ।।

तत्परत्वात् ।। शुद्धस्वरूपमात्रबोधे परमतात्पर्यशालित्वात् । अयमभिप्रायः । अज्ञातचन्द्र-स्वरूपमात्रः पुरुषः स्वरूपमात्रजिज्ञासया कश्चन्द्र इति पृच्छति । तं प्रति वक्त्रा अज्ञान-निवर्तकतत्स्वरूपमात्रबोधाय वाक्यं प्रयोक्तव्यम् । अधिकविषयबोधतात्पर्ये वाक्यस्य पुरुषस्य जिज्ञासिताभिधायकत्वाभिधातृत्वरूपौ दोषौ प्रसज्ज्येयाताम् । तादृशफलीभूतबोधो यादृशवाक्यं विना न निर्वहति तावत् पदघटितमेव प्रयोक्तव्यम् । केवलं चन्द्र इत्येतावन्मात्रे प्रयुक्ते चन्द्रे प्रकृष्टप्रकाशाश्रयत्वाभावसन्देहविपर्ययनिवृत्तिर्न जायते । स्वरूपविषयकाज्ञानस्यानिवृत्तत्वात् । अतः प्रकृष्टप्रकाशादिरूपलक्षणबोधकं वाक्यं प्रयोक्तव्यम् । तेन च चन्द्रे प्रकृष्टप्रकाशादि-तादात्म्यबोधानन्तरं ‘अस्य वाक्यस्य नैतावन्मात्रे तात्पर्यम् । आप्तस्य मदजिज्ञासिताभि-धायकत्वापत्तेः । किन्तु मज्जिज्ञासितस्वरूपमात्रबोधे तात्पर्यम्’ इति प्रतिसन्धानेन चन्द्रादि-पदलक्षणया स्वरूपमात्रशाब्दो जायते । तस्य स्वरूपविषयकाज्ञाननिवर्तकत्वं युज्यते । तादृशतादात्म्यधीद्वारकस्वरूपमात्रबोधत्वेनैवाज्ञाननिवर्तकत्वात् । तथा च तादृशवाक्यघटकपदयोर्न सहप्रयोगार्हत्वरूपपर्यायत्वप्रसक्तिरिति ।।

इत्थं हि परेषां प्रक्रिया । ‘सत्यं ज्ञानम्’ इति वाक्येन ब्रह्मविशेष्यकसत्यत्वादिधर्मोपहित-तादात्म्यावगाहिनी धीर्जायते । ततो लक्षणवाक्यस्य लक्ष्यस्वरूपमात्रतात्पर्यकत्वनिश्चयबलेन तद्वाक्यघटकसत्यादिपदलक्षणया वा स्वबोध्यसम्बन्धस्यैव लक्षणत्वाङ्गीकाराद् वाक्यलक्षणया वा सत्यत्वज्ञानत्वाद्युपलक्षितस्वरूपमात्रावगाहिशाब्दबोधान्तरं जायते । न च काकेनोपलक्षणेन देवदत्तगृहवृत्त्युत्तृणत्वादिरूपोपलक्ष्यतावच्छेदकधर्मान्तरोपस्थापनावश्यकत्वे कथं स बोधः शुद्ध-स्वरूपमात्रावगाहीति साम्प्रतम् । धर्मोपलक्षकस्य तथात्वेऽपि स्वरूपोपलक्षकस्य स्वरूप-मात्रबोधजनकत्वाभ्युपगमात् । प्रकृष्टप्रकाशादिवाक्ये तथा दृष्टत्वात् । तथा च ब्रह्मपद-लक्षणाजन्यान्तःकरणवृत्तिविषयीभूतं चिन्मात्रं तादृशवृत्त्युपहितं लक्ष्यम् । सत्यादिपद-लक्षणाजन्मचिन्मात्रविषयकान्तःकरणवृत्त्युपहिता चित् स्वरूपलक्षणम् । लक्ष्यात्यन्ताभिन्नस्यैव स्वरूपलक्षणत्वम् । तद्भिन्नं सल्लक्ष्यव्यावर्तकं यत् तत्तटस्थलक्षणमित्यभ्युपगमात् । लक्ष्यलक्षणाव-गाहिन्यखण्डस्वरूपविषयकबोधेऽप्येकस्यैव ज्ञातत्वेनोद्देश्यत्वम् अज्ञाननिवर्तकवृत्तिविषयत्वेन विधेयताऽपि सङ्गच्छते । ब्रह्मत्वाद्यवच्छिन्नविशेष्यकसत्यत्वादिवैशिष्ट्यविषयकशाब्दधीद्वारा तादृश-वाक्यजन्यस्वरूपमात्रविषयकशाब्दत्वावच्छिन्नस्यैव स्वरूपमात्रविषयकाज्ञाननिवृत्तिहेतुत्वात् । अखण्डार्थबोधस्याज्ञाननिवर्तकत्वात् । उद्देश्यताविधेयत्वे च परस्परं निरूप्यनिरूपकभावपन्ने द्वे । एकस्या  एव  वा  तस्या  रूपभेदेन  निरूप्यनिरूपकभावः    सर्वथा सांसार्गिकविषयता परं नास्ति । अत्यन्ताभिन्नस्वरूपे संसर्गभानायोगात् ।

तदयं प्रयोग इति ।। तत् तस्मात् सत्यज्ञानादिवाक्यस्याखण्डार्थकत्वे पर्यायत्वापत्तिरूप-प्रतिकूलतर्कानुत्थितेरित्यर्थः । अयं प्रयोगः सम्भावित इति शेषः । लक्षणवाक्यत्वात् इतर-व्यावृत्तिधीपरवाक्यत्वात् । अखण्डार्थनिष्ठं स्वघटकपदस्मारितान्याविषयकप्रमाजनकम् । यद्यन्निष्ठ-स्येतरभेदस्य ज्ञानपरं तत्तत् स्वरूपान्याविषयकप्रमाहेतुरिति सामान्यमुखव्याप्तेः पर्यवसानम् । तत्प्रश्नोत्तरत्वादिति ।। तन्मात्रविषयकबुभुत्सानिवर्तकधीमात्रपरवाक्यत्वादित्यर्थः । एवं ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इति त्वम्पदार्थशोधवाक्यं पक्षीकृत्य जीवस्वरूपमात्रपरत्वं तत्स्वरूपमात्रप्रश्नोत्तरत्वहेतुना साधनीयम् । एतन्न्यायेन सुज्ञानत्वादत्र न प्रदर्शितम् । विशिष्टार्थ-तेति ।। अभेदातिरिक्तसम्बन्धेन प्रातिपदिकार्थप्रकारकबोधजनकत्वम् । विभक्त्यर्थः संसर्गतया भासत इति मतेनेदम् । समानाधिकरणत्वात् स्वोत्तरविभक्तिविरुद्धविभक्तिरहितं वा स्वसमान-विभक्तिकं वा यन्नामपदं तत्समभिव्याहृतनामपदत्वादित्यर्थः । नामार्थद्वयस्य विभक्त्यर्थाद्वारा भेदेनान्वयस्याव्युत्पनन्नत्वादित्यर्थः । नापीति ।। इतिवदिति ।। तादात्म्यसंसर्गेणैकस्मिन्नपर-प्रकारकमिति शेषः । विशिष्टार्थतेत्यस्यैवोक्तार्थपरतयाऽनुषङ्गो वा  अकार्यकारणद्रव्येति ।। उपादानोपादेयभावापन्नद्रव्यपरं यत् तदन्यत्वे सति द्रव्यमात्रबोधकपदद्वयघटितत्वादित्यर्थः । मृद्घट इत्यत्र सत्यन्तदलेन नीलमुत्पलमित्यत्र विशेष्यदलेन न व्यभिचार इति भावः । नीलादिपदानां गुणवाचकत्वमेवेति हृदयम् ।

भेदभ्रमेति ।। तत्तेदन्त्वोपलक्षितस्वरूपभेदभ्रमनिरासरूपप्रयोजनसत्त्वेनेत्यर्थः । सार्थकञ्चेति ।। पदत्रयमपीति शेषः । सार्थक्यमिति पाठो युक्ततरः । अखण्डार्थस्तु समानविभक्तिकपदद्वयसमभि-व्याहारस्थले चतुर्धा बोधो जायते । पदार्थयोर्विशेष्यविशेषणभावावगाही एकः । यथा नीलो घट इत्यत्र नीलरूपघटयोः । विशेषणविशेष्यभावो नाम व्यवहारिकतादात्म्यम्  । अपरस्त्वध्यासाव-गाही । अध्यासः प्रातिभासिकतादात्म्यम् । यथा शुक्तितात्पर्यमिदं रजतमिति ज्ञानमिदं रजतमिति वाक्यम् । अन्यो बाधावगाही यः पुरुषः स स्थाणुरिति वाक्याज्जायमानः पुरोवर्तिन्यध्यस्तपुरुष-भेदावगाही । यः पुरुषत्वेन ज्ञातः स न पुरुषः किन्तु स्थाणुरिति तद्वाक्यार्थः । क्वचित्स्वरूपैक्ये । यथा सोऽयं देवदत्त इति वाक्याज्जायमानः । तद्वाक्येन हि तद्देशकालविशिष्टरूपतत्पदार्थेतद्देश-कालविशिष्टैतत्पदार्थयोर्न तादात्म्यान्वयधीः । विशिष्टयोः परस्परतादात्म्ये विशषणयोः परस्पर-तादाम्यापातेन लोके कयोरपि विशिष्टयोस्तादात्म्याभावेन युगपन्मिलनराहित्यरूपविरोधशालि-तदेतद्देशकालरूपविशेषणविशिष्टयोः सुतरामभावेन वाक्याप्रमाण्यापत्तेः । तदुक्तं सङ्क्षेशारीरके

अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टयोर्द्वयोः ।

घटते न यदैकता तदा न तरां तद्विपरीतरूपयोः ।।१ इति ।

नाप्युपहितयोस्तादात्म्यधीः । अविरुद्धोपाधिद्वयस्थले तदुपहितयोरभेदसम्भवेऽपि प्रकृते विरुद्धोपाधिद्वयोपहितयोस्तादात्म्यासम्भवात् वस्तुतोऽविरुद्धोपाधिद्वयस्थलेऽप्युपहितयोर्भेद एव ।

श्रीराघवेन्द्रतीर्थ

यदुक्तं श्रुतीनां निर्विशेषब्रह्मपरत्वे श्रौतपदानां पर्यायत्वं स्यादिति तन्न । प्रतिपाद्ये विशेषाभावेऽपि द्वारभूतधर्माणां भेदेनापर्यायत्वात् । तत्राऽरोपितान्यान्यधर्मव्यावर्तकतया पदानां सफलत्वेन २पर्यायत्वाभावाच्चेति सदृष्टान्तमुपपादयन् शङ्कते- अथ मतमित्यादिना ।। अखण्डार्थ-निष्ठमिति ।। ३निर्धर्मकब्रह्मप्रातिपदिकार्थनिष्ठमित्यर्थः । इदमिति । सत्यं ज्ञानमित्यादिकमुच्यत इत्यर्थः । वचनमिति ।। चन्द्रप्रातिपदिकार्थमात्रनिष्ठमिति योज्यम् । प्रकर्षादीत्यादिपदेन प्रकाश-ग्रहः । लक्ष्यार्थाभेदेऽपि प्रकृष्टत्वप्रकाशत्वाख्यद्वारभूतगुणयोः भेदेन यथा न पर्यायत्वमित्यर्थः । क्वचिन्मुख्यस्यैवान्यत्र लक्षणादृष्टेराह- परापरेति ।। सत्यत्वं परशब्दितव्यापकजातिः । ज्ञानत्वादि अपरशब्दितव्याप्यजातिः । शबल इति ।। मायाविशिष्टब्रह्मणीत्यर्थः । तस्य सत्यत्वज्ञानत्वादि-धर्मयुक्तत्वादिति भावः । प्रतिपदमिति ।। व्यवच्छेदस्य प्रयोजनत्वादित्यन्वयः ।

लक्ष्यार्थभेदाभावेऽपि व्यवच्छेद्यविभेदतः । 

विज्ञानानन्दपदयोः पर्यायव्यर्थते कुतः ।।’१

इत्युक्तेरिति भावः । सदृष्टान्तं पक्षे साध्यसम्भावनां हेतोः पक्षधर्मताञ्चोपपाद्य तत्रानुमानप्रयोगौ चाऽह- तदयमिति ।। तत्तस्माद् दृष्टान्तेन पक्षे साध्यस्य सम्भावितत्वात् हेतोरुक्तदिशा पक्षधर्मत्वा-दित्यर्थः । अखण्डार्थनिष्ठमिति ।। ब्रह्मस्वरूपमात्रपरमित्यर्थः । देवदत्तस्य दण्ड इत्यादावव्यभि-चाराय लक्षणवाक्यत्वादिति वाक्यविशेषणं लक्षणेति ।  उदाहृतमिति ।। प्रकृष्टेत्यादिवाक्यमि-त्यर्थः । ब्रह्मात्मेति ।। ब्रह्मजीवैक्यपरमित्यर्थः । अखण्डार्थनिष्ठमिति ।। अभेदरूपसंसर्गागोचर-चित्स्वरूपमात्रगोचरसम्यग्ज्ञानजनकम् । कोऽहमितीति ।। श्वेतकेतोः कोऽहमिति स्वरूपमात्र-जिज्ञासायामुद्दालकेन तत्त्वमसीत्युच्यते । हि यस्मात् स्वरूपमात्रप्रश्नं प्रत्युच्यमानत्वादिति यावत् । एतेन वक्ष्यमाणद्वितीयहेतोः पक्षधर्मतोक्ता । व्याप्तिस्तु यद्यत्-स्वरूपमात्रप्रश्नोत्तरमिति प्रागेवोक्तेति भावः । वक्ष्यति च पूर्ववत्प्रयोग इति ।। प्रयोगान्तरं विवक्षुर्वक्ष्यमाणहेतोः पक्षधर्मतादि व्युत्पादयति- किञ्चेत्यादिना ।।

अत्रेति ।। तत्त्वमसीति वाक्य इत्यर्थः । २विशिष्टार्थतेति ।। व्यावृत्तार्थतेत्यर्थः । समानाधिकरण-त्वादिति । समानविभक्तिकपदोपेतत्वादिति वा भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्तिपदोपेत-त्वादिति वाऽर्थः । इतिवदिति ।। विशिष्टार्थतयेत्यनुषङ्गः । अभेदरूपविशिष्टार्थतयेत्यर्थः । द्रव्येत्यनेन नीलमुत्पलमिति गुणनिष्ठवाक्यव्यावृत्तिः । तच्छब्दार्थेनेति । तच्छब्दमुख्यार्थेन सार्वज्ञ्यादिविशिष्टेनेत्यर्थः । नाप्यभेदेत्यादिना विपक्षे बाधकतर्कस्योपन्यासो भवति । पक्षे साध्य-मुपसंहरति- अत इति ।। विशिष्टार्थकत्वासम्भवादित्यर्थः । स्वार्थैकदेशेति ।। सर्वज्ञत्वाल्पज्ञत्वादि-रूपतत्त्वंपदार्थैकदेशेत्यर्थः। पर्यवसानमेवेति । अत्र तत्त्वमस्यादिवाक्य इत्यनुषङ्गः। अत एवेति ।। विशिष्टाभिधानमुखेन भेदभ्रमनिरासद्वारेण स्वार्थैकदेशत्यागलक्षणया प्रवृत्तत्वादित्यर्थः । भेदभ्रम-निरासरूपफलवत्त्वान्न व्यर्थत्वं वाच्यार्थभेदसत्त्वान्न पर्यायत्वमित्यर्थः । भागत्यागेति ।। अतीतवर्तमानकालवैशिष्ट्यादिरूपभागत्यागेत्यर्थः । देवदत्तस्य गौरित्यत्राव्यभिचाराय विशेष्यम् । मृद्घट इत्यादावव्यभिचाराय- अकार्यकारणेति ।। नीलमुत्पलमित्यादावव्यभिचाराय- द्रव्येति ।। व्याप्तिदृष्टान्तयोः ज्ञानायाऽह- पूर्ववत्प्रयोग इति ।। अत इत्यस्य विवरणम्- श्रुतीनामित्यादि ।। अनुपपत्तीति ।। पर्यायत्वादिरूपेत्यर्थः । पदार्थेति ।। तत्त्वं पदार्थेत्यर्थः । तस्येति ।। जीवस्य सत्यादिपदार्थेन ब्रह्मणा यत्तादात्म्यं तत्परेत्यर्थः । ब्रह्मणा जीवस्य यत्तादात्म्यं तस्यैव तत्त्वमसीति वाक्यार्थत्वादिति भावः । चन्द्र-प्रातिपदिकार्थेति ।। चन्द्रस्वरूपमात्रेत्यर्थः । वाच्यार्थभेदसद्भावादित्याह–  प्रकर्षादिगुणयोगे-त्यादि ।। आदौ मुख्यार्थभूतं प्रकर्षादिगुणसम्बन्धप्रतिपाद्यप्रश्नोत्तरयोर्वैयधिकरण्यरूपबाधकेन तं परित्यज्य लक्षणया चन्द्ररूपमात्रपरत्वादित्यर्थः । अखण्डार्थनिष्ठत्वेऽपि१ न पर्यायत्वं वाच्यार्थ-भेदसद्भावादित्याह । परापरेति ।। परसामान्यं व्यापकसामान्यं सत्ताजातिः सत्यशब्दमुख्यार्थः । अपरसामान्यं ज्ञानत्वादि । तस्य सत्ताव्याप्यगुणत्वव्याप्यत्वात् । तच्च ज्ञानशब्दार्थः । नन्वेषां शब्दानां कुत्र शक्तिग्रहः । ब्रह्मस्वरूपस्य निर्धर्मकत्वेन तत्र शक्तिग्रहायोगादित्यत उक्तम् । शबल इति ।। विशिष्टस्य सधर्मकत्वेन तत्र युक्तः सत्यादिपदानां शक्तिग्रह इति भावः । लक्षणयेति ।। प्रश्नोत्तरयोर्वैयधिकरण्यरूपबाधकेन मुख्यार्थं परित्यज्येत्यर्थः । प्रतिपिपादयिषितस्य अधिकारिणं प्रति सत्यादिपदैः प्रतिपादयितुमिष्टस्य ब्रह्मस्वरूपस्य । एकेनैव ब्रह्मपदेनैव । पदं पदं प्रति प्रति-पदम् । नक्षत्रादीति ।। नक्षत्रादिवच्चन्द्रोऽपि अप्रकृष्टप्रकाश इत्येवमारोपिताप्रकृष्टप्रकाशत्वव्यव-च्छेदेत्यर्थः । वैयर्थ्यं विगतप्रयोजनत्वम् । अखण्डार्थनिष्ठं स्वरूपमात्रप्रतिपादकम् । ब्रह्मात्मेति ।। ब्रह्मणा आत्मनो जीवस्य तादात्म्यपरमित्यर्थः । जिज्ञासायां ‘श्वेतकेतोर्जातायां सत्याम्’ । तथा च स्वरूपमात्रे पृष्टे स्वरूपमात्रस्यैव वक्तव्यत्वेन विशिष्टैक्यवचने प्रश्नोत्तरयोर्वैयधिकरण्यप्रसङ्ग इति भावः  । परिशेषेणापि तत्त्वमस्यादिवाक्यस्याखण्डार्थत्वं साधयितुं २प्रसक्तान् सखण्डार्थत्वप्रकारान् प्रतिषेधति । किञ्चेति  ।। विशिष्टार्थतेति ।। सखण्डार्थतेत्यर्थः । अत्र गवि देवदत्तसम्बन्धित्व-प्रतिपादनेन स्वरूपमात्रप्रतिपादकत्वाभावात्सखण्डार्थत्वमित्यर्थः । समानाधिकरणत्वादिति ।। एकविभक्त्यन्तपदवाच्यवस्तुप्रतिपादकत्वादित्यर्थः । तत्त्वमित्यनयोरेकविभक्तिकत्वेन तदन्तपद-वाच्यवस्तुप्रतिपादकत्वं सत्यज्ञानादिवाक्यस्यास्तीति भावः । देवदत्तस्य गौरित्यत्र तदभावा-न्नाखण्डार्थत्वमिति भावः । इतिवत् विशिष्टार्थतेति सम्बन्धः । मृद्घट इत्यत्र मृद्घटयोः कार्यकारणभावसम्बन्धप्रतिपादनात् नीलमुत्पलमित्यत्रोत्पलनैल्यरूपधर्मसंसर्गप्रतिपादनेन स्वरूप-मात्रपरत्वाभावात्सखण्डार्थत्वमिति भावः ।  अकार्यकारणेति ।। अत्र मात्रपदं बोध्यम् । कार्य-कारणभावरहितद्रव्यमात्रप्रतिपादकत्वादित्यर्थः । जीवब्रह्मचैतन्ययोर्नित्यत्वेन कार्यकारणभावा-भावात् । कार्यकारणभावरहितद्रव्यप्रतिपादकत्वं तत्त्वमस्यादिवाक्यस्यास्ति अतोऽखण्डार्थत्वम् । मृद्घटयोस्तु कार्यकारणभावसद्भावेन मृद्घट इति वाक्यं न कार्यकारणभावरहितद्रव्यप्रतिपादकमिति सखण्डार्थं नीलोत्पलयोर्गुणगुणिनोरभेदेन तार्किकाभिमतात्यन्तभेदगर्भकार्यकारणभावाभावेन नीलमुत्पलमिति वाक्यस्य कार्यकारणभावशून्यवस्तुप्रतिपादकत्वेऽपि द्रव्यप्रतिपादकत्वाभावात् । उत्पलरूपद्रव्यप्रतिपादकत्वेऽपि नैल्यरूपगुणस्यापि प्रतिपादनेन द्रव्यमात्रप्रतिपादकत्वाभावात् सखण्डार्थत्वमिति भावः । अभेदविशिष्टमिति ।। तत्त्वमस्यादिवाक्येऽभेदविशिष्टजीवब्रह्मस्वरूप-प्रतिपादनात्सखण्डार्थत्वमित्यर्थः । अत्र किं तत्त्वंपदलक्ष्यचैतन्याभेदविशिष्टं वस्तु तत्त्वमसीति वाक्येन बोध्यं, उत सार्वज्ञादिविशिष्टेन तत्पदार्थेन किञ्चिज्ज्ञत्वादिविशिष्टस्य योऽभेदस्तद्विशिष्टं बोध्यमिति विकल्प्याऽद्यं निराचष्टे- स्वरूपेति ।। चैतन्यचैतन्याभेदस्य सिद्धत्वेनाबोध्यत्वादित्यर्थः । द्वितीयं दूषयति- तच्छब्दार्थेनेति ।। सार्वज्ञादिविशिष्टेनेत्यर्थः । किञ्चिज्ज्ञत्वादिविशिष्टस्य त्वंपदार्थस्येति शेषः । विरुद्धत्वेनेति ।। विशिष्टैक्यस्य जलानलवद्विरुद्धत्वेन बाधितत्वादित्यर्थः । अत इति ।। मुख्यार्थस्य बाधितत्वादित्यर्थः । स्वार्थैकदेशेति ।। सर्वज्ञत्वासर्वज्ञत्वविशिष्टो यस्स्वार्थः तत्त्वंपदमुख्यार्थस्तस्य य एकशः सर्वज्ञत्वासर्वज्ञत्वरूपस्तत्त्यागेन चैतन्यमात्रलक्षणयेत्यर्थः । अभेदबोधने प्रयोजनमाह- भेदभ्रमेति ।। जीवेश्वरयोरित्यर्थः । ननु स्वरूपमात्रप्रतिपादकत्वे तत्त्वंपदयोः पर्यायत्वं स्यात् । स्वरूपमात्रस्य एकेनैव पदेन बोधितत्वात् । पदान्तरवैयर्थ्यं च स्यादित्यत आह- अत एवेति ।। सर्वज्ञत्वासर्वज्ञत्वविशिष्टरूपवाच्यार्थभेदान्न पर्यायत्वं भेदभ्रम-निरासरूपप्रयोजनसद्भावान्न पदान्तरवैयर्थ्यमित्यर्थः । तर्हि पर्यायत्वं स्यादित्यतो वाच्यार्थभेद-सद्भावान्न पर्यायत्वमित्याह- विशिष्टाभिधानेति ।। तद्देशकालविशिष्टः स इति तच्छब्दमुख्यार्थः । एतद्देशकालविशिष्टः अयमितीदंशब्दमुख्यार्थः । तयोरैक्यस्य बाधितत्वेन तद्देशकालैतद्देशकालरूपो यो भागः विशेषणरूपैकदेशस्तत्त्यागेन देवदत्तस्वरूपमात्रलक्षणया प्रवृत्तेरित्यर्थः । भेदभ्रमेति ।। तद्देशकालविशिष्टैतद्देशकालविशिष्टयोरित्यर्थः । अखण्डार्थनिष्ठम् स्वरूपमात्रपरमित्यर्थः । द्रव्येति ।। द्रव्यमात्रेत्यर्थः । निष्ठत्वं  प्रतिपादकत्वम् । समानाधिकरणत्वादिति ।। एकविभक्त्यन्तपदवाच्य-वस्तुप्रतिपादकत्वादित्यर्थः । सोऽयं देत्तदत्त इति ।। अत्र तद्देशकालविशिष्टैतद्देशकालविशिष्टयोः कार्यकारणभावाभावादुभयोरपि द्रव्यत्वात्समानाधिकरणत्वाच्च सोऽयं देवदत्त इति वाक्ये हेतुरस्तीति द्रष्टव्यम् । अत्र समानाधिकरणत्वादित्येवोक्ते मृद्घट इति वाक्ये एकविभक्त्यन्तपदवाच्यमृद्घट-रूपवस्तुप्रतिपादकत्वेन सामानाधिकरण्ये विद्यमानेऽपि कार्यकारणभावप्रतिपादकत्वेन स्वरूपमात्र-परत्वरूपाखण्डार्थत्वाभावेन व्यभिचारवारणाय अकार्यकारणेत्युक्तम् । तथा च मृद्घट इति वाक्ये कार्यकारणभावरहितवस्तुप्रतिपादकत्वाभावान्न व्यभिचारः । तावत्युक्ते नीलमुत्पलमिति वाक्ये १नीलोत्पलयोर्भेदेन कार्यकारणभावरहितवस्तुप्रतिपादकत्वे समानाधिकरणत्वे च सत्यपि उत्पले नैल्यरूपधर्मसंसर्गप्रतिपादकत्वेन स्वरूपमात्रपरत्वरूपाखण्डार्थताभावेन व्यभिचारवारणाय द्रव्ये-त्युक्तम् । उत्पलरूपद्रव्यप्रतिपादकत्वेन पुनर्व्यभिचारः स्यादतो द्रव्यमात्रेत्युक्तम् । तत्र गुणस्यापि प्रतिपादनेन द्रव्यमात्रप्रतिपादकत्वाभावान्न व्यभिचारः । समानाधिकरणपदत्यागे देवदत्तस्य गौरिति वाक्ये देवदत्तस्य गोश्च, कार्यकारणभावाभावादुभयोरपि द्रव्यत्वादकार्यकारणद्रव्यमात्रनिष्ठत्वे सत्यपि गवि देवदत्तसम्बन्धित्वप्रतिपादनेन स्वरूपमात्रपरत्वरूपाखण्डार्थत्वाभावेन व्यभिचार-वारणाय समानाधिकरणत्वादित्युक्तम् । तत्र च निरुक्तसमानाधिकारणत्वाभावान्न व्यभिचार इति द्रष्टव्यम् । पूर्ववदिति ।। तत्त्वमस्यादिवाक्यं, ब्रह्मस्वरूपमात्रपरत्वेनाखण्डार्थनिष्ठं, तन्मात्र-प्रश्नोत्तरत्वात् । यद्यत्स्वरूपमात्रप्रश्नोत्तरं तत्तत्स्वरूपमात्रपरं, यथा सोऽयं देवदत्त इत्यादिवाक्य-मिति पूर्ववदनुमानप्रयोगो द्रष्टव्य इत्यर्थः । अनुपपत्तीति ।। अखण्डार्थत्वाङ्गीकारे इति शेषः ।

गुरुराजीया

२अखण्डार्थनिष्ठत्वं न निर्भेदार्थनिष्ठत्वं नापि निर्विशेषार्थनिष्ठत्वम् । येन तत्पक्षोक्तदोषः स्यात् । किन्तु अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वं तेषामेकप्रातिपदिकार्थमात्रनिष्ठत्वं वेत्यभिप्रेत्य न श्रुतीनां पूर्वोक्तं सगुणब्रह्मनिष्ठत्वं युक्तमिति मन्वानो विवरणकारः शङ्कते- अथ मतमिति ।। किमत्र प्रमाणमित्यत एकोदाहरणाभावेन  ३वेदान्तमात्रस्यैकेनैवानुमानेनाखण्डार्थता-साधनायोगादनुमानभेदेन तत्सिषाधयिषुस्तदर्थतया वेदान्तवाक्यद्वैविध्यमाह- द्विविधेति ।। पदार्थपरेति ।। तत्त्वमसीति महावाक्यस्थतत्त्वंपदार्थविषयेत्यर्थः । तस्याऽत्मतादात्म्यरूपेति ।। तत्पदार्थस्य ब्रह्मणस्त्वंपदार्थभूतजीवतादात्म्यरूपवाक्यार्थविषयेत्यर्थः ।

यत्तु ‘तत्त्वमादिपदार्थस्य ब्रह्माभेदरूपवाक्यार्थपरा’ इति केषाञ्चिदेतदर्थवर्णनं तदसत् । तत्त्वंपदार्थयोरैक्यस्यैव तत्त्वमस्यादिमहावाक्यार्थत्वेन तत्त्वमादिपदार्थस्य ब्रह्माभेदस्य तदर्थत्वा-योगात् ।

किं तत्पदार्थपरं वाक्यमित्यतस्तदुदाहरति- तत्रेति ।। वेदान्तेष्वित्यर्थः । आदिपदेन ‘योऽयं विज्ञानमयः’ इत्यादित्वंपदार्थपरवाक्यपरिग्रहः । करिष्यमाणानुमाने आभासानुद्धरन् हेतुद्वयासिद्धिं परिहरति- ब्रह्मेति ।।

यत्तु लक्षणवाक्यत्वहेतोः पक्षधर्मतोपदर्शकत्वेन प्रवृत्त्युपवर्णनं तदसत् । ‘तल्लक्षणं हीदमुच्यते’ इत्येतावता लक्षणवाक्यत्वहेतोः पक्षधर्मतोपदर्शनसिद्ध्या शेषवैयर्थ्यापातात् । न च स्वरूपमात्रमेव पृष्टं जिज्ञासितञ्च । अतस्तदेव सत्यज्ञानादिवाक्येऽपि वक्तुमुचितम् । न तु विशिष्टम् । तथा सत्यपृष्टाजिज्ञासितार्थबोधकत्वेनानवधेयवचनत्वप्रसङ्गादित्यप्रयोजकत्वशङ्कापरिहारार्थत्वाद्ब्रह्मेत्यादिशेषग्रन्थस्य न वैयर्थ्यमिति वाच्यम् । अप्रयोजकत्वशङ्कापरिहारस्योत्तरत्राकर एव स्पष्टत्वेन ब्रह्मेत्याद्यंशस्य तस्य तत्पर्यन्तत्वाश्रयणायोगात् । तत्स्वरूपमात्रप्रश्नोत्तरत्वरूपद्वितीयहेत्वसिद्धिपरिहारकतया स्फुटं प्रतीयमानस्यास्य ग्रन्थस्य तत्परतयैव योजनीयत्वात् ‘न च द्वितीयहेतोरसिद्धिः । ‘ब्रह्मविदाप्नोति परम्’ इत्युक्तब्रह्मप्रातिपदिकार्थे बुभुत्सिते अस्य प्रवृत्तेः’ इति द्वितीयहेत्वसिद्धिपरिहारकत्वेनैव योजनीयत्वाच्चाप्रयोजकत्वशङ्कापरिहारकत्वाश्रयणानुपपत्तेश्च ।

एवमसिद्धिं परिहृत्य दृष्टान्तोपदर्शनेन व्याप्त्यसिद्धिं परिहरति- यथेति ।। ननु न सत्यज्ञानादिपदानामखण्डार्थत्वं ब्रह्मप्रातिपदिकार्थमात्रनिष्ठत्वं युक्तम् । तथा सत्येकार्थतया पर्यायत्वप्रसङ्गेन सहप्रयोगाभावप्रसङ्गादित्यतो लक्ष्यार्थभेदाभावेऽपि वाच्यार्थभेदान्न पर्यायत्वप्रसङ्ग इति भावेन तत्रानुरूपं दृष्टान्तमाह- यथा चेति ।। प्रकर्षादिगुणयोगाभिधानमुखेनेति ।। आदिपदेन प्रकाशत्वपरिग्रहः । गुणग्रहणं सामान्यस्याप्युपलक्षणम् । ततश्च प्रकृष्टशब्दस्य प्रकर्षलक्षण-गुणयोगाभिधानमुखेन प्रकाशशब्दस्य प्रकाशत्वरूपसामान्ययोगाभिधानमुखेनेत्यर्थः  । लक्षण-येति ।। जहल्लक्षणयेत्यर्थः । प्रकृष्टप्रकाशपदयोः गुणसामान्यरूपस्वार्थपरित्यागादिति भावः । ततश्च लक्ष्यार्थभेदाभावेऽपि गुणसामान्यरूपवाच्यार्थभेदान्न पर्यायत्वमिति भावः ।

परापरसामान्यवाचिनामिति ।। कुम्भाद्यनुगतसत्तासामान्यं परजातिः । अन्तःकरणवृत्त्युपधान-भेदलब्धचिदानन्दविशेषानुगते ज्ञानत्वानन्दत्वे चापरजाती । एवं च सत्यज्ञानादिशब्दानां लक्ष्यार्थाभेदेऽपि क्रमेणोक्तजातिवाचित्वेन वाच्यार्थभेदसद्भाभावान्न पर्यायत्वमित्यर्थः । एवं कल्पतरूक्तरीत्या पर्यायतां परिहृत्य रीत्यन्तरेणापि परिहरति- शबले गृहीतसङ्गतिकानां वेति ।। ततश्च सत्यत्वज्ञानत्वादिविशिष्टभिन्नभिन्नार्थवाचित्वान्न पर्यायत्वमित्यर्थः ।

ननु ब्रह्मणोऽन्यस्य सत्यत्वादिविशिष्टस्य परेणानङ्गीकारात् सत्यादिपदसङ्गतिग्रहणविषयत्वा-भावेन ब्रह्मण एव तद्विषयता वाच्या । ततश्च ब्रह्मणो वाच्यत्वाल्लक्ष्यत्वहानिरित्याशङ्क्य लक्ष्यत्वेनाभिमताच्छुद्धब्रह्मणोऽन्यस्य शबलरूपसगुणब्रह्मण एव सङ्गतिग्रहणविषयत्वाभ्युपगमेन शुद्धस्य तदभावान्न लक्ष्यत्वहानिरिति भावेनोक्तम्- शबले गृहीतसङ्गतिकानामिति ।।

अत्र वाशब्दयुक्त एव पाठः स्वरसः । मूलकोशेषु दर्शनात् । ‘परापरसामान्यवाचिनां सगुणब्रह्म-वाचिनां वा’ इत्यादिसुधानुसारात् । ‘न च कुम्भाद्यनुगतसत्ता परजातिः । अन्तःकरणवृत्त्युप-धानलब्धभेदचिदानन्दविशेषानुगते ज्ञानत्वानन्दत्वे अपरजाती । एवञ्च सत्यज्ञानानन्दशब्दानां लक्ष्यार्थाभेदेऽपि क्रमेणोक्तजातिवाचित्वान्न पर्यायता’ इति कल्पतरूक्तमयुक्तम्, इत्यादिना परापरसामान्यवाचित्वपक्षं निराकृत्य ‘एतेन सत्यत्वादिविशिष्टशबलब्रह्मवाचिनां सत्यादिशब्दानां शुद्धब्रह्मणि लक्षणेति न पर्यायत्वमिति निरस्तम्’ इत्यादिना न्यायामृते सत्यत्वादिविशिष्टशबल-ब्रह्मवाचित्वपक्षस्य पृथगतिदेशेन निरासाच्च । ‘सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते’ इत्यादेः ‘शबले गृहीतसङ्गतिकानां तदुपपत्तेः’ इत्यन्तस्याहिकुण्डलाधि-करणीयसुधाग्रन्थस्य च ‘सगुणब्रह्मवाचिनां वा’ इति जन्माधिकरणोक्तसत्यत्वादिविशिष्ट-शबलब्रह्मवाचित्वपक्षमात्राभिप्रायकत्वेन परापरसामान्यवाचित्वपक्षाभिप्रायकत्वाभावान्न तद्विरोधः । अत एव तत्र परापरसामान्यवाचिनीत्यनुक्त्वा सत्यत्वादिपृथगर्थवाचीनीत्येवोक्तमिति द्रष्टव्यम् ।

यत्तु ‘परसामान्यं सत्ता सत्यशब्दार्थः । अपरसामान्यं ज्ञानत्वादि ज्ञानानन्दशब्दार्थः । व्यवहारे भट्टनय इति परैरङ्गीकारात्’ इति परापरसामान्यवाचिनामित्यस्यार्थमभिधाय ‘परापरसामान्य-वाचिनामिति न युक्तम् । निर्विशेषे तदितरत्र च सत्ताज्ञानत्वानन्दत्वानामसम्भवेन सङ्गतेरेव गृहीतु-मशक्यत्वात्’ इत्याशङ्कानिवर्तकतया ‘शबले गृहीतसङ्गतिकानामित्येव तात्पर्यम् । उक्तधर्माणां शबले सम्भवान्न सङ्गतिग्रहणाननुपपत्तिः’ इत्येकपक्षोपदर्शकतया एतद्ग्रन्थार्थकथनं तदसत् । ‘शबले गृहीतसङ्गतिकानां वा’ इति एतद्ग्रन्थीयचिरन्तनमूलकोशस्थवाशब्दयुक्तपाठानुसाराद् एतद्ग्रन्थव्याख्यानरूपपरापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वेति जन्माधिकरणीयसुधानुसारात् परापरसामान्यवाचित्वसत्यत्वादिधर्मविशिष्टसगुणब्रह्मवाचित्वपक्षयोः पृथङ्निरासकतयोदाहृत-न्यायामृतग्रन्थानुरोधाच्चोक्तपक्षद्वयप्रदर्शनपरतया स्फुटं प्रतीयमानस्यास्य ग्रन्थस्य परापरसामान्य-वाचित्वरूपैकपक्षोपदर्शकत्वाश्रयणस्य वाशब्दविरुद्धत्वेनायुक्तत्वात् । घटादेस्तद्वाचकघटादि-शब्दसङ्गतिग्रहणविषयत्ववत् कुम्भाद्यनुगतसत्तारूपपरसामान्यस्यान्तःकरणवृत्त्युपधानलब्धभेद-चिदानन्दविशेषानुगतज्ञानत्वाऽनन्दत्वरूपापरसामान्यस्य च सत्यज्ञानानन्दपदसङ्गतिग्रहण-विषयत्वसम्भवेन तदाक्षेपस्य निर्दलत्वेन तत्परिहारकतया ‘शबले गृहीतसङ्गतिकानाम्’ इत्येतदंशा-वतारस्यात्यन्तानुपयुक्तत्वाच्च । सत्यज्ञानादिपदानां शबले गृहीतसङ्गतिकत्वस्य शबल-वाचित्वोपपादकत्वेऽपि सत्तादिरूपपरापरसामान्यवाचित्वानुपपादकत्वेन तदाक्षेपानिवर्तकतया तन्निवर्तकत्वेनैतत्प्रवृत्त्युपवर्णनायोगाच्चेत्यास्तां तावत् ।

यच्च ‘सामान्यवाचिनामिति प्रवृत्तिनिमित्तस्यापि शब्दवाच्यत्वाभिप्रायेणोक्तम् । वस्तुतस्तु सामान्यविशिष्टा व्यक्तिरेव वाच्या । तथा च प्रवृत्तिनिमित्तभेदादपर्यायत्वम्’ इति परापरसामान्य-वाचिनामित्यस्याभिप्रायमभिधाय ‘सत्यत्वज्ञानत्वानन्दत्वविशिष्टवस्तुन एवाभावात् कथं शक्ति-ग्रहः । तदभावे च कथं लक्षणा’ इत्याक्षेपपरिहारकतया अस्य ग्रन्थस्यैकपक्षोपदर्शकतामङ्गीकृत्य प्रवृत्त्युपवर्णनं तदप्यसत् । उदाहृतज्ञापकबलेन स्फुटं पक्षद्वयोपदर्शकतया निश्चितस्यास्य ग्रन्थस्य सामान्यविशिष्टव्यक्तिवाचकत्वरूपैकपक्षमात्राभिप्रायकत्वस्यायुक्तत्वात् । परापरसामान्यवाचिना-मित्यस्य परापरसामान्यविशिष्टव्यक्तिवाचिनामित्यर्थवर्णनस्यैतद्ग्रन्थव्याख्यानरूपपरःसहस्रानेक-चित्सुखादिग्रन्थाननुसारित्वेन तथा व्याख्यानस्यानुपपन्नत्वाच्च । सत्ताविशिष्टस्य कुम्भादेर्ज्ञानत्वा-नन्दत्वविशिष्टन्तःकरणवृत्त्युपधानलब्धभेदचिदानन्दविशेषस्य च सत्त्वेन तत्रैव सत्यज्ञानादिशब्द-सङ्गतिग्रहणोपपत्त्या तन्मूललक्षणायाः सम्भवेन तदाक्षेपस्याज्ञानमात्रमूलकत्वाच्चेत्यास्तां तावत् ।

एतद्ग्रन्थस्यैकपक्षाभिप्रायविषयकत्वदीयभ्रान्तिमूलभूताहिकुण्डलाधिकरणीययद्वेत्यादिसुधाग्रन्थस्य  चार्थान्तरपरत्वेनैतद्ग्रन्थस्य त्वदभिमतैकपक्षाभिप्रायकत्वानुपोद्बलकत्वाच्च । तत्कथमिति चेत्तर्ह्युपा-स्यन्तां भवतां गुरव इत्यास्तां तावत् ।

नक्षत्रादीत्यादिपदेन सन्तमसपरिग्रहः । ततश्च प्रतिपदमारोपिताप्रकृष्टत्वाप्रकाशत्वाद्यनेकाकार-व्यवच्छेदप्रयोजनकत्वान्न प्रकृष्टादिपदवैयर्थ्यमिति भावः । एवमुपोद्घातेनाऽभासानुद्धृत्य सिद्धमनु-मानप्रयोगं दर्शयति- तदयमिति ।। यद्यपि द्विविधपदार्थपरवाक्यानामपि अखण्डार्थत्वप्रतिज्ञानु-सारेण तत्पदार्थपरसत्यज्ञानादिवाक्यानामिव त्वंपदार्थपर योऽयं विज्ञानमय इत्यादिवाक्यानामपि अखण्डार्थत्वस्योपोद्घातेनोपपादितस्यावश्यं साधनीयत्वमिति तत्परित्यागेन सत्यज्ञानादि-वाक्यानामेव तत्साधनमनुचितं तथाऽपि एकस्य तत्साधनप्रकारेणापरस्यापि अखण्डार्थपरतायाः साधितप्रायत्वात् किं पृथक्पृथक्साधनप्रयासेनेत्यभिप्रेत्यैकस्यैव तत्साधनमिति ज्ञेयम् ।

यद्यपि त्वंपदार्थपरवाक्यानामखण्डार्थत्वसाधनेन तत्पदार्थपरवाक्यानामपि तत्सिद्धिरविशिष्टैवेति तेषामेव तत्साधनं निर्निबन्धनमित्याभाति तथाऽपि तत्त्वमसीति वाक्ये तत्पदस्य पूर्वं त्वंपदस्य च पश्चाच्छ्रवणेनासति प्रथमश्रुतपरित्यागे कारणे श्रुतमहावाक्यक्रमोल्लङ्घनायोगात् महावाक्ये प्रथमश्रुततत्पदार्थपरसत्यज्ञानादिवाक्यानामेव तत्साधनमित्यवधेयम् ।

अखण्डार्थनिष्ठमिति ।। संसर्गागोचरप्रमाजनकमित्यर्थः । लक्षणवाक्यत्वादिति ।। संसृष्टार्थपर-वाक्येऽनैकान्तिकतापरिहाराय लक्षणविशेषणम् । प्रकृष्टादिवाक्यवदिति ।। न च हेतुद्वयेऽपि दृष्टान्तः साध्यविकल इति वाच्यम् । प्रकृष्टादिवाक्यं चन्द्रप्रातिपदिकार्थमात्रनिष्ठं तन्मात्रप्रश्नोत्तर-त्वात्सम्मतवदित्यनुमानेन तत्सिद्धेः । न हि ‘कश्चन्द्रः’ इति चन्द्रस्वरूपमात्रे पृष्टे अन्यद्वक्तु-मुचितमिति भावः । अतस्तत्रेति । अत्र हि स्वार्थेत्यतः पूर्वं विशिष्टार्थाभिधानद्वारेणेति पूरणीयम् ।  १सर्वज्ञत्वाज्ञत्वादिविशिष्टचैतन्यरूपवाच्यार्थाभिधानमुखेनेत्यर्थः ।

गङ्गापदलक्षितस्य तीरस्यागङ्गात्ववत् सर्वज्ञत्वादिविशिष्टचैतन्यवाचितत्त्वंपदलक्ष्यस्य ब्रह्मणोऽ-चेतनत्वप्रसङ्ग इत्यतो गङ्गापदस्य जहल्लक्षणया तीरपरत्वात्तस्यागङ्गात्वेऽपि तत्त्वंपदयोः जहल्लक्षणया ब्रह्मपरत्वाभावान्न तस्याचैतन्यप्रसङ्ग इत्याशयेनाऽह- स्वार्थैकदेशत्यागलक्षणयेति ।। जहदजहल्लक्षणयेत्यर्थः । सर्वज्ञत्वाज्ञत्वादिविशिष्टचैतन्यरूपवाच्यार्थैकदेशस्य सर्वज्ञत्वादि-विशेषणांशस्य त्यागेन चैतन्यरूपविशेष्यांशस्योपादानादिति भावः । भेदभ्रमव्युदासद्वारेणेति ।। तदिति वचने त्वमिति वा वचने भेदभ्रमनिरासायोगात् तन्निरासेन चैतन्यस्वरूपप्रतिपादनेनेत्यर्थः । अत एवेति । लक्ष्यार्थभेदाभावेऽपि सर्वज्ञत्वाज्ञत्वादिविशिष्टचैतन्यरूपवाच्यार्थभेदान्न तत्त्वंपदयोः पर्यायत्वम् । भेदभ्रमव्युदासरूपप्रयोजनवत्त्वान्न वैयर्थ्यमित्यर्थः । विशिष्टाभिधानद्वारेणेति ।। तत्तेदन्ताविशिष्टदेवदत्तस्वरूपलक्षणतदिदंपदवाच्यार्थैकदेशस्य तदेतद्देशकालवैशिष्ट्यरूपस्य परित्यागेन देवदत्तस्वरूपलक्षणविशेष्यांशस्योपादानादिति भावः । ततश्च लक्ष्यार्थाभेदेऽपि तदिदंशब्दवाच्यतत्तेदन्ताविशिष्टदेवदत्तस्वरूपलक्षणवाच्यार्थभेदादपर्यायत्वमित्यर्थः ।

भेदभ्रमव्युदासेनेति ।। स इत्येवोक्ते अयमित्येव वोक्ते भेदभ्रमनिरासायोगात्तन्निरासेन देवदत्तस्वरूपप्रतिपादनेनेत्यर्थः । ततश्च भेदभ्रमव्युदासरूपप्रयोजनवत्त्वान्न वैयर्थ्यमिति भावः । अकार्यकारणेति ।। अत्र समानाधिकरणत्वं मृद्घट इत्यादौ व्यभिचारि । अकार्यकारण-निष्ठत्वविशेषितमपि गुणगुणिनोरभेदपक्षे नीलमुत्पलं नीलो घट इत्यादौ व्यभिचारि । गुण-गुणिभेदपक्षे च कार्यकारणनिष्ठतया आद्यविशेषणेनैव तद्व्यावृत्तावपि गौः शाबलेय इत्याकृति-व्यक्तिसामानाधिकरण्यस्थले१ व्यभिचारीति तन्निरासाय द्रव्यमात्रनिष्ठत्वे सतीति विशेषणम् । अकार्यकारणनिष्ठत्वस्य द्रव्यमात्रवृत्तित्वविशेषितस्य देवदत्तस्य गौः इत्यादौ व्यभिचारनिरासाय समानाधिकरणत्वादितीति सर्वं सार्थकम् ।

यत्तु नीलमुत्पलमित्यादौ व्यभिचारपरिहाराय द्रव्यमात्रनिष्ठत्वे सतीति विशेषणमिति तदसत् । गुणगुणिनोर्भेदेन कार्यकारणनिष्ठतया आद्यविशेषणेनैव तन्निरासस्य सिद्धत्वेन तस्य द्वितीय-विशेषणप्रयोजनत्वासम्भवात् । न च गुणगुणिनोरभेदपक्षेऽकार्यकारणनिष्ठत्वस्यापि सत्त्वान्न तेन निरासः सम्भवतीति वाच्यम् । तथा सति गुणगुणिनोरभेदपक्षे तदवैयर्थ्यसिद्धावपि तद्भेदपक्षे तद्वैयर्थ्यानिस्तारात् ।

गोविन्दीया

श्रौतपदजातस्य लक्षणयैकार्थत्वेऽपि वचनवृत्त्या भिन्नार्थत्वान्न पर्यायत्वमिति परिहारं वक्तुमारभते पूर्वपक्षी- अथ मतमिति ।। तथेति ।। सत्यादिपदानां लक्षणयाऽखण्डार्थनिष्ठत्वेऽपीति वचनवृत्त्या शबले गृहीतवाच्यवाचकभावसम्बन्धत्वेन सत्तासत्यत्वादिपरापरसामान्यविशिष्टभिन्न-व्यक्तिनिष्ठत्वान्न पर्यायत्वमित्यर्थः । प्रतिपदमिति ।। एकैकस्मिन् पदेऽसत्यत्वाद्यनेकाकार-व्यावृत्तिरूपप्रयोजनसद्भावात् , लक्ष्यार्थस्यैकत्वेऽपि न पदान्तरवैयर्थ्यमित्यर्थः । लक्षणवाक्यत्वा-दिति ।। ब्रह्मलक्षणप्रतिपादकवाक्यत्वादित्यर्थः । तत्प्रश्नोत्तरत्वादिति ।। ब्रह्मस्वरूपमात्रप्रश्नोत्तरत्वादि-त्यर्थः । प्रतिपदं पदार्थनिष्ठवाक्यस्याखण्डार्थनिष्ठत्वेऽनुमानद्वयमभिधाय पदसमूहार्थनिष्ठवाक्य-स्याखण्डार्थनिष्ठत्वेऽनुमानमाह- एवमिति ।। सत्यज्ञानादिवाक्यवत् तत्त्वमस्यादिवाक्यमित्यर्थः । किञ्चेति ।। देवदत्तस्य गौरितिवद् अत्र तत्त्वमस्यादिवाक्ये तस्य सम्बन्धित्वमस्तीति विशिष्टार्थता न समानाधिकरणत्वात् । एकविभक्तिकत्वादित्यर्थः । नापीति ।। मृज्जन्यो घटो मृद्घट इतिवत् तत्त्वमस्यादिवाक्ये तेन जन्यस्त्वमसीति जन्यार्थता न, अकार्यद्रव्यनिष्ठत्वात् । नीलमुत्पलमितिवत् तच्च तत् त्वं चेति तत्ता कारणार्थता न अकारणद्रव्यनिष्ठत्वादित्यर्थः । समानाधिकरणत्वादिति हेतुना तत्त्वमस्यादिवाक्यस्य वाच्यार्थत्वेन ब्रह्मात्माभेदो न बोध्य इत्याह- नापीति ।। ब्रह्मात्मनोः स्वरूपाभेदस्य सिद्धत्वेन हेतोः सिद्धसाधनता । तच्छब्दार्थेन तत्ताधर्मेण त्वंशब्दार्थस्य युष्मत्ताधर्मस्याभेदस्य विरुद्धत्वेन बोधयितुमशक्यत्वादित्यर्थः । अत इति ।। अनुपपत्तिसद्भावात् । तत्र तत्त्वमस्यादिवाक्ये तच्छब्दस्य तत्ताविशिष्टब्रह्मस्वरूपमर्थः । त्वंशब्दस्य युष्मत्ताविशिष्टात्म-स्वरूपमर्थः । अनयोः पदयोः स्वार्थैकदेशत्यागलक्षणया तत्तांशत्यागेन लक्षणव्यावृत्त्या भेदभ्रम-व्युदासद्वारेण स्वरूपमात्रपर्यवसानमेवेत्यर्थः । अत एवेति ।। भेदभ्रमव्युदासप्रयोजनादेव पर्यायेण पदयोर्व्यर्थत्वप्रसङ्गो नास्तीत्यर्थः । तत्त्वमस्यादिवाक्यस्य ब्रह्मात्मतादात्म्यनिष्ठत्वमखण्डार्थनिष्ठत्वं च लक्षणयेति भावः । ‘सोऽयं देवदत्तः’ इति तत्तेदंताविशिष्टाभिधानद्वारेण तत्तेदंतारूपभागत्यागेन लक्षणया  वृत्त्या  सोऽयमिति  पदयोः  प्रवृत्तेर्न  पर्यायत्वम्,  भेदभ्रमव्युदासेन सार्थक्यं चेत्यर्थः । अकार्येति ।। कार्यद्रव्यनिष्ठत्वाभावकारणद्रव्यनिष्ठत्वाभावसमानाधिकरणत्वरूपविशेषणत्रयाणां क्रमेण मृद्घटः, नीलमुत्पलम्, देवदत्तस्य गौरिति वाक्यत्रये व्यभिचारनिरासेन सार्थक्यमिति भावः ।

नारोपन्तीया

पदार्थपरेति । यद्यपि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति वाक्येऽपि सत्यज्ञानादिपदानां विशेष्य-भूतब्रह्मपदार्थेन, परस्परं चारुणैकहायनीन्यायेन संसर्गबोधोऽस्त्येव । पदार्थसंसर्गश्च वाक्यार्थः । तथा च ‘तत्त्वमसि’ इति वाक्यार्थनिष्ठवाक्यापेक्षयाऽस्य नातिवैलक्षण्यम् । तथाऽपि- ‘सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता ।’ इति मतमवलम्ब्य सुप्तिङन्तपदसमुदायरूपात्वाभावादियं पदार्थ-निष्ठा । तथाविधत्वादपरा वाक्यार्थनिष्ठेति ध्येयम् । उभयत्रापि निर्विशेषब्रह्मस्वरूपरूपाखण्डार्थ-ब्रह्मनिष्ठत्वन्त्वविशिष्टमेव ।

देवदत्तस्य गौरितिवदिति ।। इदमुक्तं भवति । द्विविधस्तावत्संसर्गबोधः । वैयधिकरण्येन सामानाधिकरण्येन चेति । तत्राऽद्यो देवदत्तस्य गौरित्यादौ विरुद्धविभक्त्यविरुद्धत्वात् । द्वितीयस्तु नीलं सरोजं, दण्डी देवदत्त इत्यादौ नानार्थयोर्गुणगुणिनोः तदतिरिक्तयोर्वा पदार्थयोरभेदावगाही । विरुद्धविभक्त्यविरुद्धत्वात् । ‘तत्त्वमसि’ इत्यत्र तु तत्त्वंपदार्थयोरुपादानोपादेयभावाभावात्, मृद्घट इत्यादितुल्यतो वा पदार्थद्वयस्यापि द्रव्यप्रतिपादकत्वान्नीलोत्पलमित्यादितुल्यता च नास्ति । उपलक्षणं चैतत् । चलति घट इत्यादिवत् क्रियाक्रियावद्भावोऽपि नास्तीत्यपि बोध्यम् । तदिदमाह ।  द्रव्यनिष्ठत्वादिति ।। तस्माद्दण्डी कुण्डलीत्यादिवद् अभेदमात्रं बोधनीयमिति तृतीयः प्रकारोऽव-शिष्यते । तत्र च प्रकृते विशिष्टद्वयैक्यस्य बाधितत्वात् स्वरूपमात्राभेदो भागत्यागलक्षणया भवतीत्यवश्यं वक्तव्यमेवेति ।

जनार्दनभट्टीया

वाक्यप्रवृत्तिरिति ।। वाक्यरीतिरित्यर्थः । पदार्थेति ।। ‘तत्त्वमसि’ इति वाक्यस्थपदेत्यर्थः । अखण्डार्थनिष्ठमिति ।। स्वरूपमात्रपरमित्यर्थः । स्वरूपमात्रपरत्वे हेतुमुपपादयति– ब्रह्मविदिति ।।

ननु स्वरूपमात्रे पृष्टे लक्षणाभिधायकमुत्तरं क्वापि न दृष्टचरम्’ इत्यतः तद्दर्शयति–यथा खल्विति ।। ननु प्रकृष्टादिपदानां चन्द्रादिस्वरूपमात्रपरत्वे पर्यायत्वापत्तिः । तद्भिया१ प्रकर्षादिविशिष्टाभिधायकत्वे अखण्डार्थताभङ्गः स्यादित्यत आह – गुणयोगाभिधानमुखेनेति ।। न हि द्वारतया विशिष्टार्थपरत्वं द्वारिणो अखन्डार्थत्वस्य विरोधीत्यर्थः । तथा च शक्यतावच्छेदकभेदस्य विद्यमानत्वाद् अपर्यायत्वं, लक्ष्यार्थस्य स्वरूपमात्रत्वात् अखण्डार्थत्वमपि युज्यते२ इति भावः । परापरेति ।। व्यापकव्याप्ये-त्यर्थः । शबल इति ।।  मायाशबले = विशिष्टब्रह्मणीत्यर्थः । न पर्यायत्वमिति ।। शक्यतावच्छेदक-सत्यत्वादीनां भिन्नत्वादिति भावः३ ।

इत्थमुपपादितमनुमानं प्रयोगरीत्या दर्शयितुं प्रतिजानीते – तदयमिति ।। ‘सम्पन्नः’ इति शेषः । पूर्वोक्तमेव साध्यं हेत्वन्तरेण साधयति – तथेति ।। अथवा पूर्वानुमाने हेतोः पक्षधर्मताबलात् सामान्यस्य साध्यस्य विशिष्टब्रह्मस्वरूपमात्रपरत्वे परिशेष इति कुसृष्टिं मनसि निधाय, मुखत एव ब्रह्मस्वरूपमात्रपरत्वं साधयति – तथेति ।। ब्रह्मस्वरूपमात्रप्रश्नोत्तरवाक्यस्य सर्वस्यापि पक्षत्वेन निर्दिष्टहेतुसाध्ययोः व्याप्तिग्रहणस्थलाभावात् सामान्यव्याप्तिमाह – यदीत्यादिना ।। ऐक्यपरवाक्यस्यापि परिशेषेणाप्यखण्डर्थतामुपपादयति – किञ्चेत्यादिना ।। समानाधिकरणत्वादिति ।। भिन्नप्रवृत्ति-निमित्तकत्वे सति एकविशेष्याभिधायकत्वादित्यर्थः । तच्छब्दार्थेनेति ।। तस्य सर्वज्ञत्वादि-विशिष्टाभिधायकत्वाद् इत्यर्थः । स्वार्थैकदेशत्यागलक्षणयेति ।। स्वस्य तत्पदादेः योऽर्थः सर्वज्ञत्वादि-विशिष्टं चैतन्यं तस्यैकदेशः सर्वज्ञत्वादिकं तत्त्यागपूर्वकतया चैतन्यमात्रे लक्षणेत्यर्थः ।

नन्वेवं ‘तत्त्वमसि’इत्यत्र पदान्तरवैय्यर्थ्यमित्यत आह – भेदभ्रमेति ।। ‘तत् त्वंपदतात्पर्यविषययोः’ इति शेषः । अत एवेति ।। भिन्नविशेषणविशिष्टाभिधायकत्वादेव इत्यर्थः । समानाधिकरणत्वादित्येवोक्ते ‘मधुरो रसः’ इति वाक्ये व्यभिचारः । तत्परिहारार्थम् ‘द्रव्य’ इति । द्रव्यनिष्ठत्वे सति समानाधिकरणत्वादित्येवोक्ते ‘मृद्घटः’ इति वाक्ये व्यभिचारः, तत्परिहाराय अकार्यकारणेति ।। अकार्यकारणद्रव्यनिष्ठत्वात् इत्येवोक्ते ‘घटः पटश्च’ इत्यत्र तथैव ‘देवदत्तस्य कम्बलम्’ इत्यत्र च व्यभिचारः । तन्निवृत्त्यर्थं – ‘समानाधिकरणत्वात्’ इत्युक्तमिति ज्ञातव्यम् । प्रमितत्वादिति ।। ‘उक्तानुमानद्वयेन’ इति शेषः ।