न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम् ...

जगतः अज्ञानजन्यत्वेन तत्प्रत्यक्षस्यापटुत्वशङ्का तत्र मानाभावेन तन्निरासश्च

श्रीमज्जयतीर्थटीका

ननु यथा मायाजन्यैन्द्रजालिकार्थस्याविद्याजन्यमरीचिकोदकस्य च प्रत्यक्षमपटूत्पद्यते तथाऽम्बरादिकं दुःखादिकं च मायाऽविद्यालक्षणाज्ञानजन्यमिति तत्प्रत्यक्षेणाप्यपटुना भवित-व्यम् । यद्यप्यज्ञानजन्यत्वानुसन्धानविधुराणां तत्पटूत्पद्यते तथाऽपि तदनुसन्धानवतां जायमानेन कथमपटुना    भाव्यम्    तस्मिंश्चानुमानाऽगमाभ्यामपहस्तितेऽन्यदपि तत्स्वार्थप्रच्युतं भवि-ष्यति । तत्कथं जगत्प्रत्यक्षस्यापटुत्वे मानाभाव इति चेत् ।

स्यादपीदम् यदि जगतोऽज्ञानजन्यत्वे मानं स्यात् । न चैतदस्तीत्याह-

मूल

न च जगतोऽज्ञानजन्यत्वे किञ्चिन्मानम् ।

श्रीविजयीन्द्रभिक्षु

ननु जगत्प्रत्यक्षमपटु आविद्यकविषयकत्वात् मायिकविषयकत्वाच्च ऐन्द्रजालिकार्थ-प्रत्यक्षवत् मरीचिकोदकप्रत्यक्षवच्चेति प्रमाणं शङ्कते- नन्विति ।। मायाविद्यालक्षणेति ।। विक्षेप-शक्तिमदज्ञानं माया आवरणशक्तिमदज्ञानमविद्येति भावेनोभयोपादानम् । नन्वाविद्यकविषयकत्व-मात्रेणापटुत्वं न सिद्ध्यति । तथाविधशुक्तिरजतादिज्ञानस्यापि पाटवदर्शनादिति शङ्कते-यद्यपीति ।। इदमुपलक्षणम्  । उक्तरीत्या जगत्प्रत्यक्षमात्रस्यापटुत्वनिश्चये परस्य प्रवृत्तिनिवृत्ती क्वापि न स्याताम् । अन्यथा मायिकत्वनिश्चयवतामैन्द्रजालिकपदार्थादावपि तदापत्तिरित्याद्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

तदनुसन्धानवतामिति ।। अज्ञानजन्यत्वानुसन्धानवतामित्यर्थः । तथा च चन्द्र-प्रादेशत्वादिप्रत्यक्षवत्प्रागेव दोषनिश्चयेनेदमप्यपट्विति भावः । तस्मिन्निति ।। तदनुसन्धानवतां प्रत्यक्ष इत्यर्थः । अन्यदपि ।। तदनुसन्धानरहितानां प्रत्यक्षमपि । स्वार्थप्रच्युतं भविष्यतीति ।। अनुमानागमबाध्यं भविष्यतीत्यर्थः । तदनुसन्धानवत्प्रत्यक्षदृष्टान्तेनाम्बरादिविषयकप्रत्यक्ष-त्वादिति हेतुनेति शेषः । तत्कथमिति ।। अम्बरादिप्रत्यक्षमपटु मायाकल्पितार्थविषयकप्रत्यक्ष-त्वादैन्द्रजालिकार्थप्रत्यक्षवदिति दुःखादिप्रत्यक्षमपटु आविद्यकार्थविषयकप्रत्यक्षत्वान्मरीचि-कोदकप्रत्यक्षवदिति चानुमानस्य सत्त्वात्कथं जगत्प्रत्यक्षस्यापटुत्वे मानाभाव इत्यर्थः । यदि जगत इति ।। जगत अम्बरादेर्दुःखादेश्च । अज्ञानजन्यत्व इति ।। मायाऽविद्यालक्षणाज्ञानजन्यत्व इत्यर्थः । तथा चोक्तानुमानद्वयेऽसिद्धिरिति भावः ।

श्रीराघवेन्द्रतीर्थ

चन्द्रप्रादेशिकत्वादिप्रत्यक्षं दूरस्थत्वादिदोषयुक्तत्वादपट्वित्युच्यते । तथा जगत्प्रत्यक्ष-मप्यपटु अज्ञानोपादानकार्थविषयकत्वरूपदोषयुक्तत्वादैन्द्रजालिकगन्धर्वनगरादिप्रत्यक्षवदित्यनु-मानात् । तथा च न किञ्चिन्मानमित्यसिद्धमेवेति १शङ्कते- ननु यथेति ।। अज्ञानं द्विविधं माया अविद्या चेति । परव्यामोहनकरी माया । आश्रयभ्रान्तिकरी चाविद्येति विवेकः । अर्थस्येत्यादिषष्ठी कर्मणीति ज्ञेयम् । तत्प्रत्यक्षेणापीति । बाह्यान्तरजगत्सत्ताग्राहिप्रत्यक्षेणापीत्यर्थः । अज्ञानोपा-दानकत्वरूपदोषयुक्तार्थसत्ताग्राहित्वादिति भावः । दूरस्थपरिमाणबुद्धेरिव जगत्सत्यताबुद्धेरपटुत्व-धीर्न विश्वजनीनेत्यत आह- यद्यपीति ।। यद्वाऽऽविद्यकविषयकशुक्तिरूप्यबुद्धेः प्रवृत्तिक्षमत्वरूप-पटुत्वमस्तीति ज्ञानापटुत्वे तदप्रयोजकमित्यत आह-  यद्यपीति ।। अथ वा यदि स्तम्भकुम्भादि-ज्ञानमपटु तर्हि कस्यापि कुत्रापि प्रवृत्तिर्न स्यादित्यत आह- यद्यपीति ।। तस्मिंश्चेति । अम्बरादि-प्रत्यक्षेऽज्ञानोपादानकत्वनिश्चयसहकृतेन साक्षिणा तदप्रामाण्ये निश्चिते तेन दत्तावसराभ्यां मिथ्यात्वानुमानागमाभ्यामपहस्तिते बाधित इव जाते सति । अन्यदपि स्तम्भकुम्भादि-प्रत्यक्षमित्यर्थः । अर्थं वदन्नेव मूलमवतारयति- स्यादपीति ।। अज्ञानजन्यत्वेति ।। मायाविद्याभेदभिन्नाज्ञानरूपदोषजन्यत्वानुसन्धानविधुराणा-मित्यर्थः । तत् अम्बरादिप्रत्यक्षं दुःखादिप्रत्यक्षं च । तस्मिन् अज्ञानजन्यत्वानुसन्धानवतां प्रत्यक्षे दूरस्थत्वादिदोषानुसन्धानवतां चन्द्रप्रादेशत्वादिप्रत्यक्षवदिति शेषः । अपहस्तित इति ।। ‘मिथ्यात्वानुमानवाचारम्भणादिश्रुतिभ्यां बाधिते सति’ इत्यर्थः । ‘अन्यदपि तत्’ अनुसन्धान-विधुराणां प्रत्यक्षमपि । स्वार्थप्रच्युतमिति ।। अनुमानागमबाध्यं भविष्यतीत्यर्थः । तथा चाज्ञान-रूपदोषजन्यत्वानुसन्धानविधुराणामम्बरादिविषयकं प्रत्यक्षं अनुमानागमबाध्यं अम्बरादिविषयक-प्रत्यक्षत्वात् अज्ञानरूपदोषानुसन्धानवतां प्रत्यक्षवदित्यनुमानमुक्तं भवति ।

गुरुराजीया

तदनुसन्धानवतामिति ।। अज्ञानजन्यत्वानुसन्धानवतामित्यर्थः । तथा च चन्द्र-प्रादेशत्वादिप्रत्यक्षवत् प्रागेव दोषनिश्चयेनास्यापटुत्वमिति भावः । तस्मिन्निति ।। तदनुसन्धानवतां प्रत्यक्ष इत्यर्थः । अन्यदपीति ।। तदनुसन्धानरहितानां जायमानं प्रत्यक्षमपीत्यर्थः । स्वार्थात्प्रच्युतं भविष्यतीति ।। अनुमानागमबाध्यं भविष्यतीत्यर्थः । तत्कथमिति ।। वियदादिप्रत्यक्षम् अपटु मायाकल्पितार्थविषयकप्रत्यक्षत्वाद् ऐन्द्रजालिकमायाकल्पितविषयकप्रत्यक्षवदिति, दुःखादि-प्रत्यक्षम् अपटु आविद्यकार्थप्रत्यक्षत्वाद् इत्यनुमानस्यैव मानत्वान्न मानाभाव इत्यर्थः । अज्ञानजन्यत्वे मायाविद्यालक्षणाज्ञानजन्यत्वे । तथा चोक्तानुमानद्वयेऽसिद्धिरिति भावः ।

जनार्दनभट्टीया

ननु ‘अम्बरदुःखादिप्रत्यक्षम् अपटु अज्ञानकार्यप्रत्यक्षत्वात् । ऐन्द्रजालिकादिप्रत्यक्षवत्’ इत्यनुमानमेव जगत्प्रत्यक्षस्य अपटुत्वे प्रमाणमिति शङ्कते – नन्विति ।। ‘मायाजन्य’ इत्यत्र मायाशब्देन परव्यामोहकम् अज्ञानम्, ‘अविद्याजन्य’ इति अविद्याशब्देन स्वाश्रयव्यामोहकमज्ञानं विवक्षितमिति मायाऽविद्ययोः भेदो बोध्यः । अनुमानागमाभ्यामिति ।। प्रपञ्चमिथ्यात्वानुमानागमाभ्यामित्यर्थः । अपहस्तिते= बाधितेत्यर्थः । अन्यदपीति ।। अज्ञानजन्यत्वप्रतिसन्धानवता जायमानं जगत्प्रत्यक्षमित्यर्थः । यदि जगत इति ।। तथा च अज्ञानकार्यप्रत्यक्षत्वहेतोः असिद्धिरिति भावः ।