वाचारम्भणं विविधप्रकारः ..

वाचारम्भणमित्यादेः स्वाभिमतार्थसङ्कीर्तनम्

श्रीमज्जयतीर्थटीका

स्यादेवम् । यदि वाचारम्भणमित्यादिवाक्यमुक्तार्थं स्यात् । इदं त्वर्थान्तरपरमित्या-शयवान् व्याचष्टे-

मूल

वाचारम्भणं विविधप्रकारः ।

वाचा वागिन्द्रियेणाऽरम्भणमुत्पादनं यस्य तद्वाचारम्भणं साङ्केतिकनाम्नः सञ्ज्ञैषा । तद्विकारः विविधप्रकारः । प्रकारप्रकारिणोरभेदात् । विविधप्रकारवदिति । साङ्केतिकानि नामानि पुरुषमतिवैचित्र्येण विविधप्रकाराणि भवन्तीत्यनित्यानि । न हि नित्यं पुरुषोत्प्रेक्षयाऽनेकविधं भवतीत्युक्तं भवति ।

मूल

नाम धेयं नित्यं धार्यं नाम मृत्तिकेत्यादिवैदिकमेव

इतिशब्दो वैपरीत्ये वर्तते । ततश्च शब्दादर्थे सम्प्रत्यय इति मृत्तिकाशब्दात्तदर्थे प्राप्ते शब्द-पदार्थकं तमवस्थापयति । आदिशब्देन लोहमणिकार्ष्णायसशब्दयोर्ग्रहणम् । एतच्चोपलक्षणम् । उपलक्षणं च समानस्य भवतीत्यवच्छेदकमुक्तम्- वैदिकमिति ।। मृत्तिकेत्यादिवैदिकमेव धेयं नाम नित्यं धार्यं नाम सर्वदा ज्ञातव्यमित्यनेन संस्कृतनाम्नां नित्यत्वमभिप्रैति ।

मूल

इत्येतद्वचनं सत्यमिति श्रुत्यर्थः ।

सत्यमर्थाव्यभिचारि । एवं प्राकृतादिभाषाणामनित्यत्वं संस्कृतभाषायाश्च नित्यत्वमुक्तम् ।

ततः किं प्रकृत इत्यत आह-

मूल

अनित्यत्वात्साङ्केतिकं नामाप्रधानं नित्यत्वान्मृत्तिकादिनामैव प्रधानम् ।

नित्यं ह्यर्थेनौत्पत्तिकसम्बन्धवत्त्वात्परानपेक्षं प्रधानम् । अनित्यं तु काल्पनिकशक्तित्वात् तदपेक्षमप्रधानं भवति ।

अस्तु नित्यत्वानित्यत्वप्रतिपादनं प्राधान्याप्राधान्यज्ञापनार्थम् । प्राधान्यादिज्ञापनमपि कुत्रोप-युज्यत इत्यत आह-

मूल

प्रधानज्ञानादप्रधानमपि ज्ञातार्थमिव भवति ।

संस्कृतज्ञानात्प्राकृतादिकं ज्ञातार्थं भवतीत्येतत्प्रमाणविरुद्धमत उक्तं ज्ञातार्थमिवेति । तज्ज्ञानप्रयोजनलाभश्चोपमार्थः ।

श्रीविजयीन्द्रभिक्षु

मूलमवतारयति- स्यादेवमिति ।। विशब्दार्थो विविधेति । प्रकार इति कारप्रत्ययस्य व्याख्यानम् । वाचारम्भणमित्येकं पदम् । वाचाशब्दष्टाबन्तो वागिन्द्रियवाची ।

वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।

टापं चैव हलन्तानां यथा वाचा दिशा निशा ।।’

इति स्मरणात्  । आरम्भणशब्दो भावे ल्युडन्तः । तथा च वाचया आरम्भणं उत्पादनं यस्य तत्तथा । वाचा वागिन्द्रियेण इत्युक्तिस्तु यथाकथञ्चित्समासार्थप्रदर्शनपरा । ‘नासमानाधि-करणानां बहुव्रीहिरिष्यते’ इति वचनन्तु प्रायिकाभिप्रायमिति न तद्विरोधः । वाचया आरम्भणं यस्येति प्रदर्शनमुपलक्षणम् । आरम्भणमिति करणे ल्युडन्तम् । वाचा आरम्भणमुत्पादनं यस्येत्यपि द्रष्टव्यम् ।

वाचारम्भणं विकारः’ इति समानाधिकरणनिर्देशानुपपत्तिः । प्रत्युत तथात्वे वाचारम्भणो विकार इत्येव निर्देशापत्तिः । ‘छान्दसत्वेन लिङ्गव्यत्यय’ इति परिहारस्य चानन्यगतिकत्वादित्या-शङ्कापरिहारायाऽह- साङ्केतिकेति ।। नाम्नोऽन्यपदार्थत्वाद्विकारशब्दस्य नित्यपुल्लिङ्गत्वाच्च न सामानाधिकरण्यानुपपत्तिरिति भावः ।

ननु तथाऽपि वाचारम्भणं विकार इति निर्देशानुपपत्तितादवस्थ्यम् । न हि वाचारम्भण-शब्दार्थभूतं साङ्केतिकं नाम विविधप्रकारो भवति । किन्तु विविधप्रकारवदेव । न च विकारशब्दे विविध आकारः प्रकारो यस्येति बहुव्रीह्याश्रयणं युक्तम् । तथा सति विकारमिति निर्देशापत्तेः । इत्याशङ्कापरिहारायाऽह- प्रकारप्रकारिणोरिति ।। तद्विकार इति ।। तत् वाचारम्भणम् । साङ्केतिकनाम्नां विविधप्रकारत्वमुपपादयन् तदुक्तेः फलं दर्शयति- साङ्केतिकानीति ।। इत्यनित्यानीति ।। इतिशब्दो हेतौ । विविधप्रकारत्वादनित्यानीत्युक्तं भवतीत्यर्थः ।

ननु श्रुतौ विविधप्रकारोक्तिमात्रेण कथमनित्यत्वावगतिरित्यत आह- न हीति ।। नाम धेयमित्येतत्पदद्वयमित्यभिप्रायेण व्याचष्टे- नित्यं धार्यं नामेति ।। धारणार्थाद्दधातेः ‘अचो यत्’१ इति कर्मणि यत्प्रत्यये ‘ईद्यति’२ इति धात्वर्थाकारस्य ईकारे गुणे च धेयमिति भवतीत्याशयेन धार्यमिति व्याख्यानम् । धेयमिति विधेः कालविशेषानुक्तेः सङ्कोचायोगाच्च नित्यमित्युक्तमिति मूलार्थः ।‘शब्दादर्थे सम्प्रत्यय’ इति न्यायेन श्रुतिगतेतिशब्दतः उपात्तार्थग्रहणमेवोचितम् । न तु मृत्तिकाशब्दग्रहणम् । मानाभावादित्यत आह- इतिशब्द इति ।। अर्थप्रकरणे पठित इतिशब्दः वैपरीत्ये स्वाभिधेयप्रच्यावनेन स्वरूपार्थकत्वे वर्तते । यथा ‘न वेति विभाषा’३ इत्यत्र इतिशब्द इति ज्ञातव्यम् । व्यवस्थापयतीति ।। इतिशब्द इत्यनुषङ्गः । मृत्तिकेत्यादीत्यादिपदस्यार्थमाह- आदिशब्देनेति ।।

ननु  श्रुतौ मृत्तिकापदस्यैव श्रवणाद् आदिपदाभावेन एवं व्याख्यानमयुक्तमित्यत आह- एतच्चेति ।। मृत्तिकाशब्दग्रहणमित्यर्थः । ननु यद्युपलक्षणतया व्याख्यायते तदा शब्दमात्र-ग्रहणापत्तिः । न च वैदिकशब्दत्वस्योपलक्ष्यतावच्छेदकत्वान्नैवमिति वाच्यम् । सामान्यरूपतया शब्दत्वस्यैव तदवच्छेदकत्वसम्भवादित्यत आह- उपलक्षणं चेति ।। वैदिकशब्दत्वमेवोप-लक्ष्यतावच्छेदकम् । न तु शब्दत्वम् । न च विनिगमनाविरहः । बाधकं विना स्वसमानजातीयत्वस्यैव विनिगमकत्वात् । न ह्युपलक्षणाभिप्रायेण देवदत्तमामन्त्रयेत्युक्ते शूद्रस्याऽमन्त्रणं प्रसज्यत इति भावः ।

वैदिकनाम्नां धारणं दण्डादेरिवासम्भवीति व्याचष्टे- नाम सर्वदा ज्ञातव्यमिति ।। संस्कृत-नाम्नामिति । साधुशब्दानामित्यर्थः । यद्यपि वैदिकशब्दत्वमेव पूर्वमुपलक्ष्यतावच्छेदकमुक्तम् । तथाऽपि वैदिकशब्देनापि साधुशब्दत्वमेवावच्छेदकीकृतमित्यविरोधः । सदा धार्यत्वव्युत्पादनस्य फलमाह- नित्यत्वमभिप्रैतीति ।। मूले श्रौतसत्यपदं न व्याख्यातमिति स्वयं व्याचष्टे- इत्येतद्वचनमिति ।। सन्निधानाद्वाचारम्भणमित्येतद्वचनमित्यर्थः । नित्यत्वानित्यत्वयोः प्राधान्या-प्राधान्ययोः हेतुत्वं मूलोक्तमुपपादयति- नित्यं हीति ।। औत्पत्तिकेति ।। अनादीत्यर्थः । ‘औत्प-त्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति जैमिन्युक्तेरिति भावः । काल्पनिकशक्तित्वादिति ।। एतस्माच्छब्दादयमर्थो बोध्यत इति पुरुषबुद्धिकल्पितशक्तित्वादित्यर्थः । प्रमाणविरुद्धमिति ।। संस्कृतज्ञानसद्भावेऽपि भाषाशब्दापरिज्ञानानुभवबाधित इत्यर्थः ।

श्रीवेदेशतीर्थ

आरम्भणशब्दस्य भावे ल्युडन्तत्वमलुक्समासत्वं चाभिप्रेत्याऽह- वाचेति ।। गमक-त्वाद्व्यधिकरणो बहुव्रीहिः । वाचारम्भरणशब्दादेव विकारशब्दार्थलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह- साङ्केतिकेति ।। इदमुक्तं भवति । वाचारम्भणशब्देन साङ्केतिकनामैव वाच्यं स्यात् । अवयवार्थकथनन्तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शन-करणत्वे चक्षुषा पश्यतीति नोक्तार्थता । तस्यां दशायामवयवार्थस्याविवक्षितत्वात्तथा वाचारम्भण-शब्दोऽपि साङ्केतिकपर्याय इत्यस्यां दशायां तदवयवार्थोऽविवक्षित एवातो न पौनरुक्त्यमिति । वि-शब्दार्थो विविधेति, कारशब्दव्याख्यानं  प्रकार  इति, इत्यभिप्रेत्य मूले विविधप्रकार इत्युक्तम् । तद्व्याख्येयेन श्रौतपदेन सङ्गमयति- तद्विकार इति ।।

ननु तथाऽपि वाचारम्भणं विकार इति सामानाधिकरण्येन निर्देशानुपपत्तिः । न हि वाचारम्भण-शब्दार्थभूतं साङ्केतिकं नाम विविधप्रकारो भवतीत्यत आह- प्रकारप्रकारिणोरिति ।। साङ्केतिकनामि्न विविधप्रकारत्वमुपपादयंस्तदुक्तेः फलञ्च दर्शयति- साङ्केतिकानीति ।। इत्यनित्यानीत्यत्रेतिशब्दो हेतौ । तथा च विविधप्रकारत्वादनित्यानीत्युक्तं भवतीत्यर्थः    अत्राप्रयोजकतां परिहरति- न हीति ।। नाम धेयं मृत्तिकेत्येव सत्यमिति श्रुत्यंशं व्याख्यातुं नाम धेयमित्यनुवादः । नित्यमिति सत्यपदार्थकथनम् । तच्च नैरन्तर्यवाचि, न नामविशेषणम् ।

नाम धेयमित्यनूदितपदद्वये धेयमित्यस्यार्थं वदन्नन्वयमाह- धार्यं नामेति ।। दधातेः ‘अचो यत्’ इति कर्मणि यत्प्रत्यये ‘ईद्यति’ इति धात्वाकारस्येकारे गुणे च सति धेयमिति रूपस्य निष्पन्न-त्वात् । अत्र मृत्तिकेत्यादि वैदिकमेव नामेति श्रौतमृत्तिकादिशब्दानां शब्दपदार्थकत्वमुक्तम् । तदुप-पादयितुम् आह- इतिशब्द इति ।। मृत्तिकेत्येवेति श्रौत इतिशब्द इत्यर्थः । वैपरीत्य इति ।। प्रसक्तार्थपदार्थकत्ववैपरीत्ये शब्दपदार्थकत्व इत्यर्थः । एतदेवोपपादयति- ततश्चेति ।। गौरित्ययमाहेत्यादाविवेति भावः । एतच्चेति ।। श्रौतशब्दत्रयमित्यर्थः । समानस्य एक-धर्मावच्छिन्नस्य दध्युपघातकत्वादिरूपैकधर्मावच्छिन्नस्य काकादिपदोपलक्ष्यत्वादिति भावः ।

मूलेऽन्वयं दर्शयन्नेव न दण्डादेरिव नाम्नो धारणं सम्भवतीत्याशङ्कामप्यपाकुर्वन् फलितमाह- मृत्तिकेत्यादीति ।। इतिशब्दसत्यशब्दयोरावृत्त्यभिप्रायेणार्थान्तरमाह- इत्येतद्वचनमिति ।। तत्र श्रौतेतिशब्दार्थ एतद्वचनमिति । वाचारम्भणमित्यादिनोक्तं मदीयं वचनं सत्यमर्थाव्यभिचारीति वेदपुरुषवचनमिदं इति श्रुत्यर्थ इत्याचार्याणां श्रुत्यर्थकथनोपसंहारवाक्यमिति विवेको द्रष्टव्यः । सत्यपदस्यैतद्व्याख्यानुगुणमर्थं दर्शयति- सत्यमिति ।। नित्यत्वानित्यत्वयोः प्राधान्याप्राधान्य-योर्हेतुत्वं मूलोक्तमुपपादयति- नित्यं हीति ।। औत्पत्तिकेति ।। अनादीत्यर्थः । ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति जैमिन्युक्तेरिति भावः । काल्पनिकशक्तित्वादिति ।। एतस्माच्छब्दाद् अयमर्थो बोद्धव्य इति पुरुषबुद्धिकल्पितशक्तिकत्वादित्यर्थः ।

द्वैतद्युमणि

परोक्तार्थानुसरणे वाचारम्भणमिति वाक्यस्यैव मूलत्वात् तदेव मूलकारैर्व्याख्यायत इत्याशयेनाऽह - स्यादेवमिति ।। वाचेत्यादि ।। बहुव्रीहिसमासे तृतीयालोपाभावश्छान्दस इति हृदयम् । वाचया आरम्भणमुत्पादनं यस्येति बहुव्रीहिः । वाचाशब्दस्तु टाबन्तः ।

टापं चापि हलन्तानां यथा वाचा निशा दिशा ।’

इति वचनादिति प्रकारान्तरमपि सुधायामेवोक्तम् ।

तद्विकार इति ।। तदिति छेदः । साङ्केतिकनामेत्यर्थः । मौलपदव्याख्येयं श्रौतपदमनुवदति विकार इति ।। ‘णेरणा’विति सूत्रस्थमहाभाष्ये क्वचिदुद्देश्यलिङ्गाः क्वचिद्विधेयलिङ्गाश्च भवन्तीत्युक्त-त्वेनोभयथाऽपि प्रयोगे बाधकाभावाच्छ्रौतवाचारम्भणशब्दार्थपरामर्शत्वस्य स्फुटप्रतिपत्तये तदिति नपुंसकनिर्देश एव कृतो न तु विधेयसमर्पकीभूतविकारशब्दानुसारेण पुल्लिङ्गनिर्देशः कृत इत्यवधेयम् । अभेदादिति ।। न चैवं घटत्वं घट इति वाक्यस्य प्रामाण्यापत्तिः । एतन्मते तस्येष्टत्वात् । न च विविधः कारः प्रकारः यस्येति बहुव्रीहिः कुतो नाश्रितः । सर्वमतसाधारण्यादिति वाच्यम् । तथात्वे तस्य नियतलिङ्गत्वाभावेन विशेष्यनिघ्नत्वान्नपुंसकलिङ्गत्वापत्तेः ।

ननु संस्कृतनाम्नामप्यनेकविधत्वात् किं विशेष्योच्यते साङ्केतिकनाम्नामनेकप्रकारोपेतत्वमित्यत आह- साङ्केतिकेति ।। उक्तं भवतीति ।। पर्यवसितं भवतीत्यर्थः । वाचारम्भणपदस्य योगरूढ-त्वादवयवशक्त्या वागिन्द्रियजन्यत्वं लभ्यते । वाक्यस्योत्पत्तिमात्ररूपं जन्यत्वं न लौकिकवैदिक-व्यवहारेषु प्रतीयते । वेदस्यापि पुरुषोच्चारणजन्यत्वेन पौरुषेयत्वव्यवहारापत्तेः । अपौरुषेयत्व-बोधक‘वाचा विरूप नित्यया’ इत्यादिवाक्याप्रामाण्याऽपत्तेश्च । लोकेऽप्यन्यप्रणीतवाक्यस्यो-च्चारणकर्तरि ‘अयमस्य प्रणेता’ इति व्यवहारप्रसङ्गाच्च । तदुच्चारणजन्यस्य तज्जन्यत्वानपायात् । अतः स्वसजातीयानुपूर्वीज्ञानाधीनज्ञानजन्यत्वमेव प्रतीयते । वाचा जन्यत्वं मनसा सङ्कल्पपूर्वकं वागिन्द्रियेणोत्पद्यमानत्वम् । तत्सूचनायैव वाचेति पदमपि श्रुतौ सार्थकम् ।

मनसा वाऽग्रे सङ्गल्पयत्यथ वाचा व्यवहरति’

इति श्रुतेः । तथा च स्वोत्प्रेक्षामात्रेणार्थबोधनार्थं सजातीयानुपूर्वीज्ञानानधीनज्ञानजन्यत्व-मित्यवयवशक्त्या लभ्यते । रूढिनिरूपकतावच्छेदकं शक्तिरहितत्वे सति सङ्केतमात्रेणार्थबोधक-शब्दत्वात् । अपभ्रष्टानां शक्तेरनङ्गीकारात् । एतादृशशब्दानां चानेकविधत्वमेव । एतत्कल्पे मृत्तिकाबोधनार्थं ‘मण्णू, माति’ इति शब्दः सङ्केतितः । कल्पान्तरे तु पुरुषविशेषैस्तत्रान्यादृश्या एवानुपूर्व्याः सङ्केतसम्भवात्    प्रतिकल्पमेकजातीयशब्दोच्चारे  मानाभावात् संस्कृताविशेष-प्रसङ्गाच्च । संस्कृतानां तु नैतादृशमनेकत्वमिति भावः ।

श्रीराघवेन्द्रतीर्थ

व्याचष्टे- वाचा वागिन्द्रियेणेति ।। अलुक्समासोऽयम् ।

केचित्तु   ‘विग्रहप्रदर्शनमात्रमेतत् ।

टापं चैव हलन्तानां यथा वाचा दिशा निशा ।’

इत्युक्तेर्वाचयाऽऽरम्भणं यस्य तद्वाचारम्भणमित्येव समासो ध्येयः। तथैव न्यायामृतोक्तेः’ इत्याहुः । ‘समानाधिकरणानां बहुव्रीहिरिष्यते’ इत्यस्य प्रायिकत्वादिति भावः । कोऽन्यपदार्थ इत्यतो भाषा-शब्द इति भावेनाऽह- साङ्केतिकेति ।। तथा च कोऽर्थ इत्यत आह- तदिति ।। वाचारम्भणशब्दितं साङ्केतिकनामेत्यर्थः । फलितार्थमाह- साङ्केतिकानीति ।। मृत्तिकेत्यस्य नामपदसामानाधिकरण्य-लाभप्रकारं दर्शयन् मूलवाक्यं व्याचष्टे- इतिशब्द इत्यादिना ।। प्रकरणप्राप्तार्थप्रच्यावनेनार्थान्तर-परत्वसम्पादनेऽर्थे  वर्तत  इत्यर्थः । इति मृत्तिकाशब्दादिति । इति न्यायान्मृत्तिकाशब्दान्मृद्रूपेऽर्थे प्रतीते इत्यर्थः । तमिति ।। मृत्तिकाशब्दमित्यर्थः । लोहमणीति । मृत्पिण्डदृष्टान्तवाक्यादुत्तर-दृष्टान्तवाक्यद्वयगतशब्दयोरित्यर्थः । एतच्चेति ।। आदिपदगृहीतशब्दद्वयमित्यर्थः ।

कस्येत्याकाङ्क्षायामाह- उपलक्षणं चेति ।। समानस्य समानजातीयस्येत्यर्थः । वैदिकमेवेति ।। संस्कृतमेवेत्यर्थः । मूलशेषमुदाहृत्य तत्र सत्यशब्दार्थमाह-इत्येतद्वचनं सत्यमिति श्रुत्यर्थ इति ।। नित्यत्वानित्यत्वयोः प्राधान्याद्युपपादकत्वं मूलोक्तं व्यनक्ति- नित्यं हीति ।। औत्पत्तिकेति ।। स्वाभाविकसम्बन्धवत्त्वादित्यर्थः ।  तदपेक्षमिति ।। कल्पकपुरुषापेक्षमित्यर्थः । प्राधान्याप्राधा-न्येति ।। वैदिकावैदिकशब्दानामिति योज्यम् । इवेति कस्मादुक्तं मूल इत्यतः प्रधानाप्रधानपदार्थ-विवृतिपूर्वं तत्कृत्यमाह- संस्कृतेति ।। उपमार्थ इति ।। प्राकृतभाषाशब्दादिज्ञानाद्यत्फलं तत्फलं संस्कृतशब्दज्ञानाद् भवतीत्येषोऽर्थ इवेत्यनेनाभिहित इत्यर्थः ।विविधप्रकाराणीति । मण्णु-माति-गवि-गाव्यादिरूपेणानेकप्रकाराणीत्यर्थः । मूले नाम धेयमिति पदद्वयं मन्तव्यम् । वैपरीत्य इति ।। अर्थप्रकरणे पठित इतिशब्दः प्रसक्तमर्थपदार्थकत्वं निवार्य शब्दपदार्थत्वं व्यवस्थापयति । यथा गौरित्ययमाहेति । गोशब्दमुच्चारयतीत्यर्थः । शब्द-प्रकरणे पठितस्त्वितिशब्दः प्रसक्तं शब्दपदार्थकत्वं निवार्यार्थपदार्थकत्वं व्यवस्थापयति । यथा न वेति विभाषेति । न वेत्यर्थकाः ये शब्दाः अथवा यद्वेत्यादयस्ते सर्वे विभाषासञ्ज्ञाः स्युरित्यर्थः । अन्यथा न वेत्यस्यैव विभाषासञ्ज्ञाप्राप्त्या यद्वेत्यादीनां सा न स्यादित्येवं वैपरीत्ये वर्तत इत्यर्थः । तदर्थे प्राप्त इति ।। अस्याप्यर्थप्रकरणत्वेन मृत्तिकाशब्दवाच्यमृत्तिकारूपार्थे प्राप्ते सतीत्यर्थः । अर्थ-पदार्थकत्वं निवार्येति शेषः । तं मृत्तिकाशब्दम् । सजातीयस्येति ।। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदं दध्युपघातकद्रव्यरूपमार्जारादेरेवोपलक्षकं न तु विजातीयघटादेरित्यर्थः । इतीत्यस्याऽवृत्तिमभिप्रेत्य मूले इत्येतद्वचनमित्युक्तमिति मन्तव्यम् । औत्पत्तिकेति ।। स्वाभाविक-भूतवाच्यवाचकभावरूपसम्बन्धवत्त्वादित्यर्थः ।

गुरुराजीया

वाक्शब्दार्थस्य इन्द्रियस्य करणत्वेन कर्तृत्वकर्मत्वयोरभावान्न षष्ठीप्रसङ्गः । ‘ओजस्सहोम्भस्तमसस्तृतीयायाः’१ इत्यत्राञ्जसा कृतमित्यभियुक्तप्रयोगसंरक्षणायाञ्जस्शब्दस्येव वाक्शब्दस्यापि उपसङ्ख्यानात् ततः परस्याः तृतीयाया अलुक् । भागुरिवचनादाबन्त एव वा वाचाशब्दः । ततश्च वाचयेति तृतीयाया लुक् । आरम्भः आरम्भणमिति आरम्भणशब्दो भावे ल्युडन्तः । गमकत्वाद्व्यधिकरणो बहुव्रीहिश्च समास इत्यभिप्रेत्य वाचारम्भणशब्दं व्याख्याति- वाचेति ।। वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादित्यतः  २साङ्केत्यनाम स्यादित्यनुव्याख्यानानुसारेण तात्पर्यमाह- साङ्केतिकनाम्नः सञ्ज्ञैषेति ।। इदमुक्तं भवति । वाचारम्भणशब्देन साङ्केतिकनामैव वाच्यं  स्यात् । अवयवार्थकथनं तु वैशद्यार्थमेव । यथा चष्टेऽनेनेति चक्षुरिति निर्वचनलभ्येऽपि दर्शनकरणत्वे चक्षुषा पश्यतीति नोक्तार्थता । तस्यां दशायामवयवार्थस्याविवक्षितत्वात् । तथा वाचारम्भणशब्दोऽपि साङ्केतिकपर्याय इति ।

वि इत्यस्य व्याख्यानम्- विविध इति ।। कारशब्दस्य व्याख्यानं प्रकार इत्यभिप्रेत्य मूले विविधः प्रकार इत्युक्तम् । तद्व्याख्येयेन श्रौतपदेन सङ्गमयति- तद्विकार इति ।। ननु वाचारम्भणशब्दार्थस्य साङ्केतिकनाम्नः विविधप्रकारवत्त्वेऽपि विविधप्रकारत्वाभावात् कथं वाचारम्भणं विकार इति सामानाधिकरण्यमित्यतस्तदुपपादयति- प्रकारप्रकारिणोरिति ।। साङ्केतिकनाम्नां विविधप्रकारवत्त्वं निमित्तोक्त्या उपपादयन् तदुक्तेः फलं च दर्शयति- साङ्केतिकानीति ।। विविधप्रकाराणीति ।। हेत्वर्थ इतिशब्दः  । तथा च३ विविधप्रकारवत्त्वादनित्यानीत्यर्थः । अप्रयोजकत्वं परिहरति- न हीति ।। नाम धेयं मृतिकेत्येव सत्यमिति श्रुत्यंशव्याख्यानपरं नाम धेयमित्यादि । मूले४ नित्यमिति सत्यशब्दार्थकथनम् ।

सदातनं सत्यमिति नित्यमेवोच्यते बुधैः’५

इत्यनुव्याख्यानोक्तेः । धेयमित्यस्यार्थकथनम्- धार्यमिति ।। दधातेः ‘अचो यत्’ इति कर्मणि यत्प्रत्यये ‘ईद्यति’ इति धात्वाकारस्य ईकारे गुणे च सति धेयशब्दस्य निष्पन्नत्वात् । श्रौत-मृत्तिकादिशब्दानामुक्तं शब्दपदार्थकत्वं उपपादयितुमाह- इतिशब्द इति ।। मृत्तिकेत्येवेत्यादिश्रौत इतिशब्द इत्यर्थः । वैपरीत्य इति ।। गौरित्ययमाहेत्यादाविव प्रसक्तार्थपदार्थकत्ववैपरीत्ये शब्दार्थकत्वे६ इति यावत् । तस्यैवोपपादनम्- ततश्चेति ।। समानस्येति ।। समानस्य एकधर्मावच्छिन्नस्येत्यर्थः । दध्युपघातकत्वादिरूपैकधर्मावच्छिन्नस्य काकादिपदोपलक्ष्यत्वादिति भावः ।

मूलेऽन्वयप्रदर्शनपूर्वकं फलमाह- मृत्तिकेत्यादीति ।। इतिशब्दसत्यशब्दयोरावृत्तिमभि-प्रेत्यार्थान्तरमाह- इत्येतद्वचनमिति ।। अत्र श्रौतेतिशब्दार्थकथनम्- इत्येतद्वचनमिति ।। वाचारम्भणमित्यादिनोक्तं मदीयं वचनं सत्यम् अर्थाव्यभिचारीति १वेदपुरुषवचनमिदमिति श्रुत्यर्थ इत्याचार्याणां  श्रुत्यर्थकथनोपसंहारः    सत्यशब्दार्थकथनमर्थाव्यभिचारीति । ततः किं प्रकृत इतीति ।। तावता प्रकृते किं लब्धं न किमपि येन तदुक्तिरर्थवती स्यादित्यर्थः । साङ्केतिक-नाम्नामुत्पत्तिनाशवत्त्वकथनस्य संस्कृतनाम्नामनादिनित्यत्वकथनस्य च परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञानेऽवान्तरप्रकृतेऽस्माकमिव दृष्टान्ते वा उपयोगाभावात्तदभिधानमनर्थकमिति भावः ।

साक्षान्नित्यत्वाद्यभिधानस्य२ प्रकृतानुपयोगेऽपि प्राधान्याप्राधान्यज्ञापनद्वारा तदुपयोगित्वान्न तदानर्थक्यमिति भावेन अप्रयोजकताशङ्कापरिहारपूर्वकं प्राधान्यादिज्ञापकतामुपपादयति- औत्पत्तिकेति ।। अनादिवाच्यवाचकभावसम्बन्धवत्त्वादित्यर्थः । ‘औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति जैमिन्युक्तेरिति भावः । काल्पनिकशक्तिमत्त्वादिति३ ।। ‘एतस्माच्छब्दादयमर्थो बोध्यः’ इति पुरुषबुद्धिकल्पितशक्तिकत्वादित्यर्थः ।

भवेत् प्राधान्यादिज्ञापनद्वारा नित्यत्वादिकथनस्य प्रकृतोपयोगित्वम् । यदि प्राधान्यादिज्ञापनस्य प्रकृतोपयोगित्वं स्यात् । न च तदस्ति । नित्यत्वादिकथनस्येव प्राधान्यकथनस्यापि परम-प्रकृतेऽवान्तरप्रकृते चोपयोगाभावेन तद्द्वाराऽपि नित्यत्वादिकथनस्य तदुपयोगित्वकथनस्या-युक्तत्वादित्याशयेन शङ्कते- अस्त्विति ।।

गोविन्दीया

स्यादेवमिति ।। यदि वाचारम्भणमित्यादिवाक्यमुक्तार्थं कार्यं सत्त्वपरं स्यात् । तर्ह्येवं यथा सौम्येत्यादिदृष्टान्तवाक्यानां कार्यसत्त्वे तात्पर्यं स्यादित्यर्थः । इदं त्विति ।। वाचारम्भण-मित्यादिवाक्यं त्वित्यर्थः । उत्पादनमिति ।। जननमित्यर्थः । नित्यमिति ।। नित्यं नामेत्यर्थः । वैपरीत्येति ।। अर्थवैपरीत्ये इत्यर्थः । शब्दादिति ।। शब्दादर्थे अर्थरूपपदार्थे सम्प्रत्ययः ज्ञानमिति प्रमाणात् मृत्तिकाशब्दान्मृत्तिकारूपार्थे प्राप्ते इतिशब्दस्तं मृत्तिकाशब्दं शब्दपदार्थकं नाम-रूपशब्दपदार्थकमवस्थापयतीत्यर्थः । तच्चेति१ ।। श्रुतिश्च । मृत्तिकापदमुपलक्षणम् जहल्लक्षणं स्वार्थान्यार्थोपलक्षकमित्यर्थः । उपलक्षणं चेति ।। अजहल्लक्षणं पदं केनचिद्धर्मेण समानस्यार्थस्योप-लक्षकं भवतीत्यवच्छेदकम् । वैदिकत्वरूपधर्मः वैदिकमिति पदेनोक्तमित्यर्थः । किं तत इति ।। उभयोर्भाषयोर्नित्यत्वानित्यत्वकथनेन प्रकृतजगतो सत्त्वविषये किमायातमित्यर्थः । औत्पत्तिक-सम्बन्धवत्त्वादिति ।। स्वाभाविकसम्बन्धवत्त्वादित्यर्थः । तदपेक्षमिति ।। परापेक्षं नामाप्रधानमि-त्यर्थः । प्रमाणविरुद्धमिति ।। प्राकृतनाम्नामपरिज्ञाने तदर्थज्ञानमपि दुःशकमतो ज्ञातार्थं भवती-त्येतत्प्रमाणविरुद्धमित्यर्थः । उपमार्थ इति ।। इवेत्युपमाशब्दस्यार्थः । प्राकृतनामज्ञानप्रयोजनलाभ इत्यर्थः ।

नारोपन्तीया

औत्पत्तिकसम्बन्धवत्त्वादिति । अनादिवाच्यवाचकभावरूपसम्बन्धवत्त्वादित्यर्थः । अत एव जैमिनिसूत्रमपि- ‘औत्पत्तिकश्चार्थेन सम्बन्धः’२ इत्यादि ।

जनार्दनभट्टीया

‘वाचारम्भणं विकारो नामधेयम्’ इति श्रुतौ (वाचारम्भणमिति) समास इत्यभिप्रेत्य प्रकृते ‘वाचारम्भणं विविधप्रकारः’ इति मूले ‘वाचा’ इत्यस्यार्थमाह – वाचा वागिन्द्रियेणेति ।।

ननु वागिन्द्रियेण उच्चारणापरपर्यायम् आरम्भणं वैदिकमृत्तिकादिनामसाधारणमित्याशङ्क्य न केवलं साङ्केतिकनामि्न यौगिको वाचारम्भणशब्दः । येन वैदिकनामि्न अतिप्रसङ्गः । किन्तु रूढोऽपीत्याह– साङ्केतिकेति ।। ‘मृत्तिका’ इत्यादिमूले इत्यादिशब्देन मृदादिरूपार्थस्य वैदिकत्वं प्रतीयते । अर्थप्रकरणबलात् । अतः ‘इति’शब्दं व्याख्याति – इतिशब्द इति ।। ‘मृत्तिकेत्येव’ इति श्रुतौ विद्यमान इतिशब्दः स्वशिरस्कस्य मृत्तिकाशब्दस्य अर्थप्रकरणवशान्मृदादिरूपार्थे प्राप्ते तं परिहृत्य मृत्तिकाशब्दपरत्वं व्यवस्थापयति । प्रकृते अर्थान्तरस्यासम्भवात् । इदमेव वैपरीत्ये वर्तनमित्यर्थः । तथाहि क्वचित् शब्दप्रकरणे इतिशब्दः प्रकरणप्राप्तं शब्दपदार्थकत्वं परिहृत्य अर्थपदार्थकत्वं व्यवस्थापयति स्वशिरस्कपदस्य । यथा ‘न वेति विभाषा’३ इत्यादौ । अर्थप्रकरणे तु प्राप्तम् (प्रसक्तम्) अर्थपदार्थकत्वं निवार्य शब्दपदार्थकत्वं व्यवस्थापयति । यथा ‘गौः शुक्लः’ इत्यर्थप्रकरणे ‘गौरित्यय-माह’ इत्यनुवादकवाक्य इति भावः । इतिशब्दव्याख्यानबीजं स्वयमेवाऽह – ततश्चेत्यादि ।। १शब्दपदार्थकं व्यवस्थापयतीति ।। तं = मृत्तिकाशब्दम्,  शब्दपदार्थकं व्यवस्थापयतीत्यर्थः । एतच्चेति ।। मृत्तिकापदमित्यर्थः । समानस्येति ।। एकोपलक्ष्यतावच्छेदकेन क्रोढीकृतस्येत्यर्थः । नाम धेयं मृत्तिका इति त्रयाणां पदानां एकान्वयस्य दर्शितत्वात् श्रुतौ सत्यपदमात्रम् उर्वरितम्२ । तस्य च पदान्तराभावेनान्वयाप्रतीतौ वचनपदाध्याहारेण ‘इत्येतद् वचनम्’ इति मूलेऽन्वयो दर्शितः । तत्र सत्यपदेन पारमार्थिकमित्यन्यथाप्रतीतेराह- सत्यमर्थाव्यभिचारीति ।। अयथार्थप्रतिपादनं न भवती-त्यर्थः । नित्यत्वानित्यत्वयोः नामधेयप्राधान्याप्राधान्यहेतुत्वम् उपपादयति – नित्यं हीत्यादिना ।। प्राधान्यादिति ।।

प्राधान्यात् तत्परिज्ञानात् इति पञ्चमी व्यधिकरणे । तत्परिज्ञानात् = संस्कृतनामपरिज्ञानात् । प्राकृताज्ञः, आन्ध्रादिभाषानभिज्ञः ।