रजतज्ञानस्य सविषयत्वसमर्थनम्

रजतज्ञानस्य सविषयत्वसमर्थनम्

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

श्रीमज्जयतीर्थटीका

न च वयं शून्यवादिन इव रजतज्ञानं निरालम्बनं ब्रूमः । शुक्तिविषयताऽङ्गीकारात् । केवलं स्वविषयं शुक्तिकाशकलमत्यन्तासद्रजततया अवगाहत इत्यसद्विषयमुच्यते । रजतज्ञानस्य शुक्तिकाविषयत्वं संविद्विरुद्धमिति चेन्न । रजतज्ञानस्येति कोऽर्थः । यदि रजतविषयस्येति तदाऽसिद्धिः । यदि रजतमिति ज्ञानस्येति तदा परस्यैव संविद्विरोधः । यदिदं रजतमित्यमनिषि२ सा शुक्तिकैवेति प्रतीतेः । यदाकारं यद्विज्ञानं तत्तद्विषयमिति तु प्रमितिनिष्ठेयं व्यवस्था ।

एतेन ‘अपरोक्षज्ञानस्येन्द्रियसमुत्थत्वात्, इन्द्रियाणाञ्चार्थसन्निकृष्टानामेव ज्ञानहेतुत्वात्, असता च सन्निकर्षायोगान्नासद्विषयापरोक्षज्ञानम्’ इति परास्तम् । शुक्तिसन्निकृष्टेनेन्द्रियेण दोषवशाद् रजततया तज्ज्ञानजननाङ्गीकारात् ।

श्रीविजयीन्द्रभिक्षु

नन्वसद्विषयकज्ञानाभ्युपगमे शून्यवाद्यभिमतज्ञाननिरालम्बनत्वमनुमतं स्यादित्यत आह- न च वयमिति ।। शुक्तिविषयतेति ।। असन्मात्रविषयकज्ञानाभ्युपगम एव निरालम्बनतानुमतिरिति भावः । नन्वेवमसतः प्रतीतिर्नोपपादिता स्यात् । अधिष्ठानस्य यथार्थत्वादित्यत आह- केवल-मिति ।। स्वविषयं स्वविशेष्यम् । अत्यन्तेति ।। दोषवशादिति भावः । अवगाहत इति । रजतज्ञानमित्यनुषङ्गः । संविद्विरुद्धमिति ।। संवित्स्वभावविरुद्धमित्यर्थः । अन्यज्ञानस्यान्य-विषयकत्वायोगादिति भावः । असिद्धिरिति ।। रजतस्यासद्रूपतया भ्रमविषयत्वासम्भवादिति भावः। रजतमिति ज्ञानस्येति ।। रजताकारज्ञानस्येत्यर्थः । परस्य संविद्विरोधमुपपादयति- यदिदमिति ।। ननु यदि रजताकारं ज्ञानं तदा रजतविषयकत्वं दुर्वारम् । यदाकरं यज्ज्ञानं तत्तद्विषयमिति व्याप्तेरित्याह- यदाकारमिति ।। प्रमितीति ।। प्रमामात्रनिष्ठेत्यर्थः । एतेनेति ।। भ्रान्तेः शुक्ति-विषयकत्वकथनेनेत्यर्थः । अर्थसन्निकृष्टानामिति ।। यथावदर्थसन्निकृष्टानामित्यर्थः । ज्ञानहेतुत्वा-दिति ।। अपरोक्षज्ञानहेतुत्वादित्यर्थः । तज्ज्ञानेति ।। शुक्त्यपरोक्षज्ञानेत्यर्थः । तथा च विशेष्येन्द्रियसन्निकर्षः कारणम् । न तु विशेषणेन्द्रियसन्निकर्षोऽपि । न चैवमतिप्रसङ्गः । दोषस्य नियामकत्वादिति भावः ।

श्रीवेदेशतीर्थ

न च वयमिति ।। तथा च क्वचिज्ज्ञानस्यानालम्बनत्व इत्युक्तमसिद्धमिति भावः । केचित्तु नन्वसद्विषयज्ञानाभ्युपगमे शून्यवाद्यभ्युपगतज्ञाननिरालम्बनत्वमनुमतं स्यादित्याशङ्क्याऽह- न चेति ।। इत्याहुः । शुक्तेः सत्त्वात्तद्विषयकत्वे कथमसद्विषयकत्वमित्यत आह- केवलमिति ।। संविद्विरुद्धमिति ।। रजतज्ञानानुव्यवसायसंविद्विरुद्धमित्यर्थः । तेन ज्ञाने रजतविषयत्वस्यैव भानादिति भावः । संविद्विरुद्धं संवित्स्वभावविरुद्धमित्यप्याहुः । तदाऽसिद्धिरिति ।। रजतस्य यत्सन्निकृष्टेत्यादिरूपविषयत्वाभावेन ज्ञाने रजतविषयकत्वस्यैवाभावादिति भावः । रजतमिति ज्ञानस्येति ।। रजतोल्लेखिज्ञानस्येत्यर्थः । ननु यदाकारं यद्विज्ञानं तत्तद्विषयमिति व्याप्त्या रजतज्ञानस्यापि रजतोल्लेखित्वरूपतदाकारत्वे रजतविषयत्वं दुर्वारमिति नासिद्धिरित्यत आह- यदाकारमिति ।।

द्वैतद्युमणि

एवं विपक्षे बाधकेनासतोऽपरोक्षप्रतीतिं समर्थ्य अप्रयोजकत्वादपि असत्त्वमपरोक्ष-प्रतीतिविषयत्वाभावव्याप्यम् । सत्त्वमसद्विलक्षरत्वं सत्तादात्म्यपर्यवसन्नं वा अपरोक्षप्रतीति-विषयताव्यापकमिति च पक्षं निराकुरुते- किन्निबन्धन इति ।। अनाश्वास इति ।। इदं रजतमित्यपरोक्षज्ञाने असद्रजतस्य विषयत्वाङ्गीकारे निर्विषयकत्वमेवाऽगतम् । विषयो नास्तीत्य-स्यासद्विषयकत्वमित्यस्याभिन्नार्थकत्वात् । तथा चापरोक्षज्ञानत्वस्य निर्विषयकत्वसामानाधिकरण्ये घटादिप्रत्यक्षेष्वपि तादृशसाधारणधर्मदर्शनेन विशेषादर्शनेन च निर्विषयकत्वसन्देहेन तद्विषयासिद्ध्या घटादिगोचरप्रवृत्त्यादिकार्यविलयापात इति अनुकूलतर्कसत्त्वान्नाप्रयोजकतेति भावः । न च रजतस्यासत्त्वेऽपि शुक्तेरेव विषयीभूतायाः सत्त्वात् कथं तादृशज्ञानस्य निर्विषयत्वप्रसक्तिरिति वाच्यम् । विशष्टैकार्थविषयकैकज्ञाने एकस्य सत्त्वमेकस्यासत्त्वं न वक्तुं शक्यम् । सदसदुपरागाभावेन सदसदुभयघटितविशिष्टायोगात् । अत एकस्य प्रकारीभूतरजतस्यासत्त्वे तदुपरक्तं सर्वमसदेवेति प्राप्तमिति पराभिधानात् । तमेव ‘न च वयम्’ इत्यादिनाऽनुपदमेव निराकरिष्यति ।

परमुखेनैव समाधिं वाचयितुं प्रतिबन्दीं सूचयन् उत्तरयति- तत् किमिति ।। अनाश्वासप्रसङ्गो न इति यत् तत् किं केनोपपाद्यं तदेवाऽलोचयेत्यर्थः । बाधकाद् विवेक इत्यादि त्वयोच्यमानं ममापि सममिति हृदयम् । असतः परोक्षप्रतीतेः प्राक् व्यवस्थापितत्वान्न कश्चित् क्षुद्रोदप्रवः । अपरोक्षस्थल इव परोक्षस्थलेऽपि अनिर्वचनीयस्यैव भानमिति व्यधिकरणप्रकारकत्वमेव परोक्षज्ञानस्येति वा आग्रहकरणेऽप्याह- समानश्चेति ।। प्रत्ययेति ।। अपरोक्षप्रत्यक्षेत्यर्थः । तस्यैव प्रक्रान्तत्वात् ।

रजतमिति ज्ञानस्येति ।। तादृशव्यवहारानुकूलशक्तिमज्ज्ञानस्येत्यर्थः । यदिदमिति ।। इदंविषयकरजतशब्दोल्लेखादिप्रयोजकविषयिताश्रयज्ञानवानहमित्यर्थः । सेति विधेयापेक्षया स्त्रीलिङ्गः । यदिदमित्यत्र तु सामान्यापेक्षया नपुंसकता । अभिलापकवाक्ये इदंपदार्थविषयकत्वं तत्सन्निकर्षजन्यत्वं यदि प्रतीयते तदा तदन्वयव्यतिरेकज्ञानं तत् । यदि च तत्प्रयोज्या विषयतैव तदा तज्ज्ञानं भ्रमानुव्यवसायात्मकमेवेति विवेकः ।

ननूत्पन्नानां घटादिज्ञानानां ‘इदं घटस्य ज्ञानं न पटस्य’ ‘पटस्य ज्ञानं न घटस्य’ इति व्यवस्थायै यन्निरूपितोल्लेखाकारापरपर्यायविषयितावद् यज्ज्ञानं तत् तन्निष्ठस्वजनकसन्निकर्षाश्रयत्वविषयता-निरूपकमिति व्याप्तिरङ्गीकर्तव्या । तथा च घटशब्दादिव्यवहारानुकूलतादृशविषयितानिवेशबलाद् घटाद्यनुयोगिकस्वकरणसन्निकर्षज्यन्यत्वमनुमाय ‘घटस्य ज्ञानम्’ इत्यादि व्यवहरतीति वक्तव्यम् । तच्चेदानीं न घटते । रजातेल्लेखिज्ञानस्य रजतसन्निकर्षाजन्यत्वेन व्यभिचारादित्यत आह- यदाकारमिति ।। प्रमितीति ।। तथा चाबाधितनिरूपितविषयितैव हेतुरित्यर्थः ।

श्रीराघवेन्द्रतीर्थ

क्वचिज्ज्ञानस्यानालम्बनत्व इति यत्परेणाऽपादकमुक्तं तदसिद्धमित्याह- न वयमित्या-दिना ।। ‘यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषयः’ इति लक्षणमुपेत्याऽह-शुक्ति-विषयतयेति ।। तर्ह्यसद्विषयत्ववादो रिक्तः स्यादित्यत आह- केवलमिति ।। इतरासहायं स्वविषयमेवेत्यर्थः । शुक्तिज्ञानमन्यद् रजतज्ञानं चान्यदिति ज्ञानद्वैविध्यनिरासायैतदुक्तिः । केवलं रजततयाऽवगाहते न तु रजतमपीति वा रजतसन्निकृष्टकरणेन जायत इति वाऽर्थः । संविद्विरुद्ध-मिति ।। रजतसंविदिति न स्यात् शुक्तिसंविदित्येव स्यादिति १शुक्तिकासंवित्त्वं रजतसंवित्त्व-विरुद्धमापद्यत इत्यर्थः। असिद्धिरिति ।। उक्तविषयत्वस्य२ तत्राभावादिति भावः । अमनिषमिति ।। ज्ञानवानभूवमित्यर्थः । नन्विदं रजतमिति रजतोल्लेखितया रजताकारत्वाद् रजतविषयं स्यादेव । ‘यद्यदाकारं तत्तद्विषयं’ इति व्याप्तेरित्यत आह- यदाकारमिति ।। विरुद्धमिति । तथा च रजतज्ञानं शुक्तिविषयकं न भवति रजतज्ञानत्वादि-त्यनुमानमनेनोक्तं भवति । प्रमितिनिष्ठेति । यद्विज्ञानं यदुल्लेखि तत् तद्विषयमिति व्यवस्था प्रमितिनिष्ठैव, भ्रमे त्वन्योल्लेखित्वेऽप्यन्यविषयकत्वसम्भवेन रजतोल्लेखित्वेऽप्यन्यविषयकत्वं सम्भवतीत्यर्थः ।

गुरुराजीया

एवं प्रसङ्गमूलभूतविशेषव्याप्तेरभावाद् बाधकभावाभावाभ्यां विशेषेणाविशेष-व्याप्तेरप्यसिद्धेः घटादिप्रतीतेरसद्विषयत्वशङ्काप्रसङ्गं३ निरस्य इदं रजतमितिप्रतीतेः निरालम्बनत्वा-भावेनाऽपादकस्यैवासिद्धेर्न घटादिप्रतीतेस्तत्प्रसङ्गावकाश इत्याशयेनाऽह- न च वयमिति ।। यावद्धि अस्मिन् प्रत्यये भासते तस्य सर्वस्याप्यसत्त्वे निरालम्बनत्वं स्यात् । न चैवमङ्गीक्रियत इत्यर्थः । तत्कथमित्यत आह- शुक्तीति ।। तस्याश्च सत्त्वादिति भावः । तर्हि कथमिदं रजतमिति प्रतीतेरसद्विषयत्वमित्यत आह- केवलमिति ।। संविद्विरुद्धमिति ।। भासमानत्वाति-रिक्तालम्बनत्वाभावाद् अन्यावभासिज्ञाने अन्यावभासनं संविद्विरुद्धमित्यर्थः । एतच्च४ संविद्विरुद्धत्वस्वरूपं नयवीथ्यां स्पष्टम्-

अत्र ब्रूमो य एवार्थो यस्यां संविदि भासते ।

 वेद्यः स एव नान्यः स्याद्वेद्यं१ वेद्यस्य लक्षणम् ।। १ ।।

 इदं रजतमित्यत्र रजतञ्चावभासते ।

 तदेव तेन वेद्यं स्यान्न च शुक्तिरवेदनात् ।। २ ।।

 तेनान्यस्यान्यथा भानं प्रतीत्यैव पराहतम् ।

 परस्मिन् भासमाने हि न परं भासते यतः ।। ३ ।।’ इति

यच्च संविद्विरुद्धमित्यस्य तदनुव्यवसायरूपसंविद्विरुद्धमित्यर्थकथनं तत्तु संविद्विरुद्धस्वरूपोप-दर्शकोदाहृतनयवीथ्यदर्शनमूलकत्वेनायुक्तत्वादुपेक्ष्यम् । असिद्धिरिति ।। शुक्तिसन्निकृष्टकरण-जन्यत्वेन शुक्तिविषयत्वस्यैव सिद्ध्या रजतसन्निकृष्टकरणाजन्यत्वेन रजतविषयत्वाभावसिद्धेरिति भावः ।

ननु ‘यदाकारं यद्विज्ञानं तत्तद्विषयम्’ इति व्याप्त्या रजतज्ञानस्य रजताकारत्वेन तद्विषयत्वसिद्धेः नासिद्धिरित्यतः ‘यदाकारा या प्रमितिः सा तद्विषया’ इत्येव व्याप्तौ रजताकारत्वेन रजतप्रमितेस्तद्विषयत्वसिद्धावपि तद्भ्रमस्य रजताकारत्वेन तद्विषयत्वासिद्ध्या असिद्धिरेवेत्याशयेनाऽह- यदाकारमिति ।।

गोविन्दीया

संविद्विरुद्धमिति ।। ज्ञानविषये अनेकाकारत्वाभावात् शुक्तिकाविषयत्वं संविद्विरुद्धमित्यर्थः । यदीति ।। रजतविषयस्य ज्ञानस्येत्यर्थः स्यात् तदा रजतस्यैवाभावेन विषयाभावात् तद्विषयज्ञानस्यासिद्धिरित्यर्थः । यदीति ।। रजतमिति ज्ञानस्येत्यर्थः स्यात् तदाऽस्माकं शुक्तिकाविषयत्वं न विरुद्धम्, ज्ञानस्य भ्रमरूपत्वात् । रजतविषयत्वमङ्गीकर्तुः परस्यैवोत्तरत्र जायमानेन  यदिदं  रजतमिति अमनिषि सा शुक्तिकैवेत्येवंरूपेण ज्ञानेन विरोध इत्यर्थः । यदाऽऽकारमिति ।। इयं व्यवस्था मर्यादा प्रमितिनिष्ठा यथार्थज्ञाननिष्ठा न तु भ्रमनिष्ठे-त्यर्थः । एतेनेति ।। उपपादनेनेत्यर्थः ।

नारोपन्तीया

तदाऽसिद्धिरिति ।। जनकीभूतयत्प्रतियोगिकसन्निकर्षवता यद्ज्ञानं जन्यते स तद्विषय इत्यङ्गीकारात् । आकाशसन्निकृष्टेन चक्षुषा जायमानघटज्ञानं प्रत्याकाशस्य विषयता माप्राङ्क्षी-दित्यादिमविशेषणम् । आकाशसन्निकर्षस्यावर्जनीयसन्निधेर्घटज्ञानं प्रत्यजनकत्वान्न प्रसङ्गः । अनुमितौ शाब्दे च ज्ञाने करणीभूतधूमादेः शब्दस्य च वह्निनिरूपितव्याप्तिरूपस्यार्थ-निरूपितशास्त्राख्यस्य सन्निकर्षस्य विद्यमानत्वान्नातिव्याप्तिरिति भावः। रजतमिति ज्ञानस्येति ।। रजतत्वप्रकारकज्ञानस्येत्यर्थः । यदाकारमिति । यत्प्रकारकमित्यर्थः ।

जनार्दनभट्टीया

असतो न भानादिति बाधकं परिहरति– न च वयमिति ।। निरालम्बनमिति ।। असन्मात्रविषयमित्यर्थः ।

ननु रजतभ्रमस्य शुक्तिविषयत्वे तस्याः सत्वेन कथं भ्रमत्वम्? इत्यत आह – केवलमिति ।। संविद्विरोधं बाधकं शङ्कते– रजतेति ।। संविद्विरुद्धमिति ।। १अन्यज्ञानं नान्यविषयमिति संविद्-विरुद्धमित्यर्थः ।  तदाऽसिद्धिरिति ।।  रजतसन्निकृष्टकरणजन्यत्वाभावेन रजतादिविषयकत्वादि-त्यर्थः । सा शुक्तिकैवेतीति ।। इतिशब्देन तथाऽवगमादिति भावः । साकारवादं परिहरति– प्रमिति-निष्ठेति ।। न भ्रमनिष्टेत्यर्थः । तथा च भ्रमस्य असद्विषयकत्वेन स बाधक इति भावः । हेत्वभावलक्षणं बाधकं परिहरति – एतेनेति ।। वक्ष्यमाणेनेत्यर्थः ।