मुक्तामुक्तयोर्भेदाभावे मुक्तस्य ..

मुक्तत्वानुमानस्य विपक्षे बाधकोक्तिः

श्रीमज्जयतीर्थटीका

नन्वस्तु मुक्तत्वं, भेदस्तु मा भूत् किं बाधकम् । तथा च विपक्षे बाधकाभावादप्रयोजको मुक्तत्वहेतुर्भिन्नत्वस्येति तत्राऽह-

मूल

मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो मुक्तत्वं वा स्यात् ।

यदि मुक्तस्य भेदो न स्यात्तदा संसारिणोऽपि तादात्म्यमुक्तं स्यात्ततश्च मुक्तस्य संसारिणैकीभूतस्य तद्गतः संसारः प्रसज्येत । तथा च मुक्तत्वमेव न स्यात् । अथवा मुक्तेनैकी-भूतस्य संसारिणो मुक्तत्वं स्यात् । तथा च मुक्तामुक्तव्यवस्थाभावः  प्रसज्येत । न हि स एव तदैव मुक्तोऽमुक्तश्चेति युज्यते । अतः कथं विपक्षे बाधकाभावः ।

ननु मुक्तस्य संसारः स्यादिति किं संसाराधिकरणस्वरूपैक्यमापाद्यते उत संसारानुभवः । नाऽद्यः । इष्टापादनात् । आपाद्याऽपादकयोर्भेदाभावाच्च । न द्वितीयः । अनुभवस्यान्तः-करणादिसापेक्षत्वात् । अन्तःकरणादेश्चाज्ञानकृतत्वात् निवृत्ताविद्यस्य च तदन्वयायोगात् । एवं संसारिणो मुक्तत्वं स्यादिति कोऽर्थः । किं संसाराधिकरणस्वरूपस्यैव मुक्तत्वं स्यादिति । किं वा संसारिण एव सतो मुक्तत्वानुभवः स्यादिति । न तावत्प्रथमः। पूर्ववदिष्टापादनादिप्रसङ्गात् । न द्वितीयः । संसारिणो मुक्ताद्भेदसद्भावात् । मुक्तस्य संसारिणो भेदाभावे कथं संसारिणो मुक्ताद्भेद इति चेत् । स्यादप्येषा अनुपपत्तिः । यद्ययं भेदो वास्तवः स्यात् । अज्ञानकृतो हि मुक्तात्संसारिणो भेदः । सोऽज्ञानिनः संसारिणः प्रतीयते । न निवृत्ताज्ञानस्य मुक्तस्य । अतः काऽनुपपत्तिरित्याशङ्क्याऽह-

मूल

यद्यज्ञानकृतो भेदस्तर्हीश्वरस्याज्ञानाभावात्संसारिणैक्यं तेनानुभूयेत ।

अत्र भिद्यत इति भेदोऽन्तःकरणादिकमुच्यते । यद्यनुभवनिमित्तमन्तःकरणादिकमज्ञान-कृतमिति निवृत्ताज्ञानस्य तदभावात् संसारानुभवो न प्राप्नोति । यदि वाऽज्ञानकृतो भेदो मुक्तात्संसारिणोऽस्तीति न तस्य मुक्तत्वानुभवप्रसङ्गः । तथाऽपीश्वरेण संसारिणैक्यमनुभूयेतेति विपक्षे बाधकमस्त्येव । कुतः । ईश्वरस्याज्ञानाच्छादनाभावाद् विक्षेपसद्भावाभ्युपगमाच्च ।

नन्विदमसङ्गतम् । मुक्तस्य भेदाभावे बाधकमुपक्रान्तम् । ईश्वरस्य संसारिणैक्यानुभवस्त्वा-पाद्यते । मैवम् । मुक्तशब्देनेश्वरस्याप्यत्र सङ्ग्रहणादिति    उक्तं चैतत् प्राक् ‘ईश्वरोऽपि विमतपदेन गृह्यते’ इति । ‘यदुक्तं मुक्तस्यान्तःकरणाद्यभावान्न संसारानुभवप्राप्तिरिति । तदसत् । निर्विशेषैकरसे चैतन्ये अन्तःकरणसंसर्गभावाभावयोरप्ययोगात्    अज्ञानसदसद्भावाभ्यामिति चेत्  । एतदपि तादृगेव । एवं संसारिणोऽज्ञानकल्पितभेदसद्भावोऽपि परास्तः । मुक्तस्यापि प्रसङ्गात् । बिम्बप्रतिबिम्बयोरिवावदातत्वमलिनत्वे मुक्तामुक्तयोर्व्यवस्था किं न स्यादिति चेत् न । विप्रतिपत्तेः’ इति यद्यपि पूर्वोक्तावतिप्रसङ्गौ शक्योपपादनौ । तथाऽपि शिष्यैरेव तदूह्यता-मित्यतिप्रसङ्गान्तरमेतदुक्तमिति ज्ञातव्यम् । अन्यथा नावक्ष्यदेवेति ।

श्रीविजयीन्द्रभिक्षु

संसारिणोऽपीति ।। संसारिणोऽपि मुक्तेनैक्यमङ्गीकृतं स्यादित्यर्थः । ‘संसारिणो मुक्तत्वं वेति’ मूलावयवं व्याचष्टे- अथवेति ।। आपाद्यत इति ।। मुक्तस्य यदि भेदो न स्यात्तदा संसाराधिकरणचैतन्यस्वरूपैक्यं स्यादित्यापाद्यत इत्यर्थः । आपाद्यापादकयोरिति ।। भेदाभाव-स्यैवैक्यरूपत्वादित्यर्थः । संसाराधिकरणेति ।। संसारोपलक्षितेत्यर्थः । संसारिण एवेति ।। संसारसहितस्येत्यर्थः । भेदसद्भावादिति ।। उपाधेर्भेदकत्वादिति भावः । अज्ञानकृत इति ।। अविद्योपाधिक इत्यर्थः । ‘यद्यज्ञानकृतो भेदः’ इति वाक्यैकदेशप्रदर्शितं तर्हीत्यादिमूल-निवर्त्याशङ्काद्वयस्वरूपं दर्शयन्नेव तच्छङ्कानिवर्तकपरतया तर्हीत्याद्यंशं व्याचष्टे- अत्रेत्यादिना ।।

नन्वीश्वरस्यान्तःकरणाभावे कथं संसार्यैक्यानुभवापादनमित्यत आह- विक्षेपेति ।। तथा चेश्वरस्यान्तःकरणाभावेऽपि अविद्यावृत्तिसद्भावात् संसार्यैक्यानुभवापत्तिरिति भावः । प्रागिति ।। विमतो भिन्नो मुक्तत्वादित्यनुमानोपन्यासावसर इत्यर्थः। अयोगादिति ।। अवच्छेदकभेदं विना भावाभावयोरेकत्र विरोधादित्यर्थः ।

नन्वज्ञानतदभावावच्छेदकसत्त्वान्न विरोध इति शङ्कते- अज्ञानेति ।। निर्विशेषचैतन्ये अवच्छेदकभेदं विनाऽज्ञानसदसद्भावावप्ययुक्तावित्याह- एतदपीति ।।

यदप्युक्तं ‘संसारिणो न मुक्तत्वानुभवः । तस्य मुक्तादज्ञानकल्पितस्य भेदस्य सत्त्वादिति ।’ तदप्यसत् । कल्पितभेदस्याकिञ्चित्करत्वेन मुक्ते संसारानुभवस्य संसारिणि मुक्तत्वानुभवस्य च प्रसङ्गादित्याशयेनाऽह- एवमिति ।। ननु कल्पितभेदोऽपि व्यवस्थादिहेतुः । बिम्बप्रतिबिम्बयोर्भेदस्य कल्पितत्वेऽप्यवदातत्वमलिनत्वयोर्व्यवस्थादर्शनादित्याशयेन शङ्कते- बिम्बप्रतिबिम्बयोरिवेति ।। बिम्बप्रतिबिम्बभेदस्य कल्पितत्वासिद्धेरित्यर्थः । अन्यथेति ।। शिष्यैरूहितुमशक्यत्व इत्यर्थः ।

श्रीवेदेशतीर्थ

ननु भेदस्तु मा भूदिति भेदाभावमात्रमाक्षिप्तम् । एवं च यदि मुक्ते भेदो न स्यात्तर्हीदं स्यादिति वक्तव्यम् । मुक्तामुक्तयोर्भेदाभाव इत्यादिकं तु क्वोपयुज्यते ? अतोऽसङ्गतमेतदित्यत आह- यदि मुक्तस्येति ।। आपाद्यापादकयोरिति ।। यदि मुक्तस्य संसारिणोऽपि तादात्म्यं स्यात्तर्हि संसाराधिकरणस्वरूपेणैक्यं स्यादित्यापाद्यापादकयोरित्यर्थः । यद्यज्ञानकृतो भेदः इति मूले द्वितीयतर्कपरिहारानुवाद एव प्रतीयते, नाद्यतर्कपरिहारानुवादोऽप्यत आह- अत्रेति ।। यद्यज्ञानकृतो भेद इत्यस्योक्तपरिहारद्वयानुवादरूपत्वं विशदयन् वाक्यार्थमाह- यदीत्यादिना ।।

नन्वीश्वरस्यान्तःकरणाद्यभावात् कथमनुभव आपाद्यत इत्यत आह- विक्षेप इति ।। तथा चान्तःकरणाद्यभावेऽतदाकारप्रतिभासरूपविक्षेपोऽपि न स्यादिति भावः । अयोगादिति ।। अवच्छेदकभेदं विना भावाभावयोरेकत्र विरोधात् । प्रकृते चैतन्यस्य निर्विशेषत्वेनावच्छेदक-भेदासम्भवादिति भावः ।

नन्वज्ञानतदभावरूपादवच्छेदकभेदसम्भवान्न विरोध इत्याशङ्कते- अज्ञानेति ।। निर्विशेषचैतन्ये अवच्छेदकभेदाभावेऽज्ञानतदभावावप्ययुक्तावित्याह- एतदपीति ।। यदप्युक्तं संसारिणो न मुक्तत्वानुभवः । तस्य मुक्तादज्ञानकल्पितभेदवत्त्वादिति । तदप्यतिदेशेन दूषयति- एवमिति ।। निर्विशेषचैतन्येऽवच्छेदकभेदं विना भेदतदभावयोरज्ञानतदभावयोर्वाऽयोगादिति भावः । एतदेव दर्शयति- मुक्तस्यापीति ।। संसारिणो भेदसत्त्वे मुक्तस्यापि भेदः स्यात् । न तु भेदाभावः । निर्विशेषेऽवच्छेदकभेदाभावादिति भावः ।

ननु यथा बिम्बप्रतिबिम्बयोरैक्येऽपि तत्रावच्छेदकभेदं विनाऽवदातत्वमलिनत्वे उपाधि-सम्बन्धतदभावौ वा वर्तेते । एवमवच्छेदकभेदाभावेऽपि मुक्तामुक्तयोर्भेदतदभावौ वा अज्ञान-तदभावौ वा स्यातामित्याशयेन शङ्कते- बिम्बप्रतिबिम्बयोरिति ।। अवदातत्वमलिनत्वे इवेति सम्बन्धः । विप्रतिपत्तेरितीति ।। बिम्बप्रतिबिम्बयोरैक्यस्यैवासम्मतेर्नेदमुदाहरणमिति भावः ।

द्वैतद्युमणि

अज्ञानाच्छादनाभावादिति ।। आवरणशक्तिविशिष्टाज्ञानसम्बन्धाभावात् जैवदुःखादे-रीश्वरं प्रत्यनावृतत्वात् चिदैक्याच्चेति भावः । ननु चिदैक्येऽप्यनुभवप्रयोजकमायासम्बन्धाभावात् स्वतो निर्विशेषत्वान्नानुभवापादनं युक्तमित्यत आह- विक्षेपेति ।। ईश्वरस्य स्वरूपज्ञानेन वाऽविद्यावृत्त्या वा जगज्ज्ञानतदनुकूलेच्छाकृत्यादिनिर्वाहाय आवरणशक्तिविशिष्टाविद्या-सम्बन्धाभावेऽपि विक्षेपशक्तिविशिष्टाविद्यासम्बन्धस्य तत्राङ्गीकृतत्वादिति भावः । भास्करमतेऽ-पीश्वरस्य नित्यमुक्तत्वसर्वज्ञत्वादीनामङ्गीकृतत्वात् तं प्रत्यप्युक्तापादनं युक्तमेवेति द्रष्टव्यम् ।।

नन्वीश्वरस्य यदि जीवगतदुःखादिप्रत्यक्षमापद्यते तदेष्टापत्तिः । यदि च तत्रत्यताग्रह आपाद्यते तदाऽज्ञानरूपाच्छादनस्य तत्र हेतुत्वात् तदभावादेव तदापादनायोगः । असत्यतया अन्यधर्मत्वेन दुःखादिप्रत्यक्षस्य तदनुभवरूपत्वाभावात् । सत्यतया स्वधर्मत्वेन दुःखादिप्रत्यक्षस्यैव तदनुभव-रूपत्वाच्च । अन्यथा ईश्वरस्य सर्वज्ञत्वेन जैवदुःखादेः सत्त्वेन प्रत्यक्षस्यावर्जनीयतया त्वन्मतेऽ-प्यवगतेरिति चेन्न । जीवप्रतियोगिकभेदाभावस्य भेदसामान्याभावेनैव व्याप्त्या आच्छादनस्याप्य-वर्जनीयतया सत्यत्वेन स्वधर्मतया तद्ग्रहस्य बलादापत्तेः । विक्षेपशक्तेरविद्यमानाकार-प्रतिभासकत्वाच्च सुखदुःखादौ सत्यताभानस्यावर्जनीयत्वाच्च ।

श्रीराघवेन्द्रतीर्थ

मुक्तत्वानुमाने हेतुरस्तु साध्यं मास्त्वित्यप्रयोजकशङ्कानिरासकत्वेन मूलमवतार्य व्यवस्था-रूपविपक्षबाधकोक्तिपरत्वेन व्याचष्टे- नन्वस्तु मुक्तत्वमित्यादिना ।। अथवेत्यनन्तरं यदि मुक्तस्य भेदो न स्यादित्यापादकानुकर्षः । विपक्षे बाधकतयोक्तमुक्तामुक्तव्यवस्थाभावरूपतर्कस्याभासता-माशङ्क्य तन्निरासकतया मूलमवतारयति- ननु मुक्तस्येत्यादिना ।। आपाद्यापादकयोरिति ।। यदि भेदो न स्यात्तहि मुक्तामुक्तयोरैक्यं स्यादित्यापादकापाद्याभिप्रायेणेयमुक्तिः । ‘तादात्म्यमुक्तं स्यात्’ इति प्रागुक्तदिशैक्योक्त्याऽऽपादनपक्षे तु नायं दोष इति ज्ञेयम् ।

द्वितीये यदि भेदो न स्यादित्युक्तापादकस्याप्रयोजकत्वमाह- न द्वितीय इत्यादिना ।। पूर्ववदिष्टापादनादीति । आपाद्यापादकयोरविशेष आदिपदार्थः । अत्राप्यापादकस्याप्रयोजकत्व-माह- न द्वितीय इत्यादिना ।। यद्यज्ञानकृतो भेद इत्यंशं पूर्वोक्तापादनद्वयोद्धारानुवादपरत्वेन द्वेधा व्याचष्टे- अत्र भिद्यत इत्यादिना ।। ‘भिद्लृ - विदारणे’ इत्यतः कर्मणि घञ्प्रत्यये ‘पुगन्त-लघूपधस्य च’१ इति गुणे, भेदेति २रूपसिद्धेः । प्रतिजीवं भिद्यमानमित्यर्थः । आदिपदेन ३शरीरेन्द्रियग्रहः ।

भावसाधनभेदशब्दमुपेत्याऽह - यदि वाऽज्ञानकृतो भेद इति ।। अन्तिमांशं व्याचष्टे- तथा-पीति ।। ईश्वरस्येत्यादिहेत्वंशमवतार्य व्याचष्टे- कुत इत्यादि ।। नन्वीश्वरस्यान्तःकरणाभावात् कथं संसारिणैक्यं तेनानुभूयेतेत्युक्तिरित्यत आह- विक्षेपेति ।। अन्तःकरणाभावेऽत्रापि परव्यामोहन-करशक्तिरूपविक्षेपसत्त्वाभ्युपगमात् स्यादेवानुभव इत्यर्थः । प्रागिति ।। विमतो भिन्न इत्यनुमान-परिष्कारप्रस्ताव इत्यर्थः । मुक्तामुक्तयोर्भेदाभाव इत्यादिनोक्तातिप्रसङ्गद्वयस्य परेण ननु मुक्तस्ये-त्यादिनोद्धारे शङ्किते ४तमनिरस्य ‘यद्यज्ञानकृत’ इत्यादिना ५तमनूद्य ‘संसारिणैक्यं तेनानुभूयते’ इत्यतिप्रसङ्गान्तरोक्त्या तयोः प्रसङ्गयोरशक्यसमर्थनत्वं प्रतीयते । तां प्रतीतिं स्वयं निराह- यदुक्तमित्यादिना ।। इति ज्ञातव्यमित्यन्तेन । संसर्गेति । संसारिजीवेऽन्तःकरणसंसर्गभावो, मुक्ते तदभाव इत्यस्य विरोधेनायोगादित्यर्थः ।

अधिकरणचित एकत्वेऽपि निर्विशेषतयाऽवच्छेदकान्तराभावेऽप्यज्ञानतदभावावच्छेदेनोपपन्नौ भावाभावावित्याशङ्क्य निराह- अज्ञानेति ।। तादृगेवेति ।। ऐक्यविरोधादयुक्तमेवेत्यर्थः । मुक्तस्या-पीति ।। दर्पणोपाधिकृतभेदस्य प्रतिमुख इव मुखेऽपि सत्त्वे तदज्ञानकृतभेदस्य संसारिणीव मुक्तेऽपि प्रसङ्गादिति वा अज्ञानकार्यसंसारप्रसङ्गादिति वार्थः । अज्ञानाश्रयचैतन्यस्यैकत्वादिति भावः ।

ननु दर्पणाद्युपाधेः प्रतिबिम्बपक्षपातित्वेन प्रतिमुखे स्वगतमालिन्यादिधर्माऽसञ्जकत्वमिव बिम्बे मुखे तदासञ्जकत्वाभावेन १अवदातत्ववदज्ञानरूपोपाधिः स्वकार्यभेदं संसारिण्येवाऽसञ्जयति न मुक्त इति भावेनाशङ्क्य निराह- २प्रतिबिम्बेति ।। विप्रतिपत्तेरिति ।। दर्पणाद्युपाधिरेव मुखादिसन्निधाने प्रतिमुखादिरूपवस्त्वन्तरात्मना परिणमत इत्यङ्गीकारेण त्वदुक्तप्रक्रियाया असम्मतेरित्यर्थः । शक्योपपादनाविति ।। ३यदुक्तमित्यादिना स्वोक्तरीत्येति भावः । इति शक्योपपादनौ पूर्वोक्ताति-प्रसङ्गौ यद्यपि तथापीति योजना । तदिति ।। शक्योपपादनत्वमित्यर्थः । अन्यथेति ।। शक्योप-पादनत्वानभिप्राये मुक्तामुक्तयोः भेदाभाव इत्यादिप्रसङ्गौ नावक्ष्यदेवेत्यर्थः । भिन्नत्वस्य साधको मुक्तत्वहेतुरित्यन्वयः । भेदाभावादिति ।। यदि मुक्तामुक्तयोर्भेदो न स्यादैक्यं स्यादिति यावत् । तर्हि मुक्तस्य संसाराधिकरणामुक्तस्वरूपेणैक्यं स्यादित्यापादनं न युक्तम् । आपाद्यापादकय•ेर्भेदाभावादित्यर्थः । तदन्वयेति ।। अज्ञानकार्यान्तःकरणसम्बन्धायोगादित्यर्थः । संसारः दुःखम् । इष्टापादनादीत्यादि-पदेनाऽपाद्यापादकयोर्भेदाभावसङ्ग्रहः । अज्ञानिन इति ।। अज्ञानसम्बन्धवत इत्यर्थः । भिद्यत इत्यनन्तरं अनेनेति शेषः । उपक्रान्तमिति ।। तथा च यद्यज्ञानकृतो भेदस्तर्हि मुक्तस्याज्ञानाभावात् संसारिणैक्यं तेनानुभूयेतेत्यापादनीयं न त्वीश्वरस्येतीति भावः । ननु मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः, संसारिणो मुक्तत्वं वा स्यादिति प्रसङ्गद्वयमाचार्यैरभिहितं, तत्राऽद्यतर्के मुक्तस्य संसारानुभवो नास्ति अन्तःकरणाद्यभावादिति दूषणेऽभिहिते, द्वितीयतर्के संसारिणो मुक्ताद्भेदसद्भावात्संसारिणो मुक्तत्वानुभवो नास्तीति च दूषणेऽभिहिते, दूषणद्वयेन प्रसङ्गद्वयस्य दुष्टत्वमङ्गीकृत्य यद्यज्ञानकृत इत्यादिना प्रसङ्गान्तरमुच्यते । तदयुक्तम् । दुष्टस्य प्रसङ्गद्वयस्य भगवत्पादैरवक्तव्यत्वाद् इति चेत् । सत्यम् । दूषणद्वयपरिहारेण पूर्वोक्तावेवातिप्रसङ्गौ शक्योपपादनौ इति शिष्यैरेवोह्यतामित्यभि-प्रेत्यातिप्रसङ्गान्तरमुक्तम् । तत्रोक्तदूषणपरिहारेण कथं शिष्यैः पूर्वोक्तातिप्रसङ्गौ शक्योप-पादनावित्यतस्तं प्रकारं स्वयं दर्शयति - यदुक्तमित्यादिना ।। भावाभावयोरिति ।। संसारिणोऽन्तः-करणसम्बन्धभावः, मुक्तस्य तदभाव इत्यर्थः ।  अयोगादिति ।। उभयचैतन्यस्यापि निर्विशेषैक-रसत्वादित्यर्थः । अज्ञानेति । संसारिणोऽज्ञानसद्भावश्चैतन्यस्य तदभाव इत्यर्थः । एतदपीति ।। अज्ञानसंसर्गसत्त्वमसत्त्वं च । तादृगेव निर्विशेषचैतन्येऽन्तःकरणसंसर्गभावाभाववद् अयुक्तमेवे-त्यर्थः । ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेः । द्वितीयप्रसङ्गे दूषणं परिहरति- एवमिति ।। भेदसद्भावः मुक्ताद्भेदसद्भावः । मुक्तस्यापीति ।। संसारिणो मुक्ताद्भेदसद्भावे मुक्तस्यापि संसारिणः सकाशादज्ञानकल्पितभेदसद्भावप्रसङ्गादित्यर्थः । ननु यथा बिम्बप्रतिबिम्बयोरैक्येऽपि बिम्बे अवदातत्वं प्रतिबिम्बे च मलिनत्वं च व्यवस्थयाऽस्ति । उपाधेः प्रतिबिम्बपक्षपातित्वात् । एवं मुक्तामुक्तयोर्भेदाभावेऽप्यज्ञानतदभावौ च व्यवस्थया स्याताम् । तथा हि । मुक्तस्य निर्विशेष-चैतन्यस्वरूपत्वेन बिम्बतयाऽन्तःकरणसंसर्गाभावेनाज्ञानसम्बन्धाभावेऽप्यमुक्तस्य तत्प्रतिबिम्बस्य युज्यत इत्यत आह- बिम्बेति ।। अवदातत्वमलिनत्वे इवेति सम्बन्धः । विप्रत्तिपत्तेरिति ।। बिम्बप्रतिबिम्बयोरैक्यस्यैवासम्मतत्वान्नायं दृष्टान्तो युक्त इत्यर्थः । अन्यथेति । पूर्वोक्तदूषण-परिहारेण प्रसङ्गद्वयस्य शक्योपपादनत्वं शिष्यैरेवोह्यतामित्यभिप्रायाभावे दुष्टं प्रसङ्गद्वयं भगवानाचार्यो नावक्ष्यदेवेत्यर्थः ।

गुरुराजीया

ननु मुक्तत्वमस्तु भेदो मास्त्विति भेदमात्रस्याक्षिप्तत्वात् मुक्तभेदाभावे इदं स्यादित्येव पक्षे बाधकतया वक्तव्यम् । मुक्तामुक्तयोरित्यादेस्तु क्वोपयोगः ? इत्यसङ्गतिमाशङ्क्याऽह- यदि मुक्तस्येति ।। इष्टेति ।। मुक्तस्य संसाराधिकरणस्वरूपेणैक्यस्य मयाऽङ्गीकृतत्वादिति भावः । आपाद्यापदकयोरिति ।। मुक्तस्य संसारिणा तादात्म्यस्याऽपादकस्य, आपाद्यस्य संसाराधिकरण-स्वरूपेणैक्यस्य चाभिन्नतया भेदसापेक्षापाद्यापादकभावानुपपत्तेरित्यर्थः । इष्टापादनादीत्यादि-पदेनाऽपाद्यापादकयोरभेदपरिग्रहः । यद्यज्ञानकृतो भेद इति मूलस्य द्वितीयतर्कानुवादत्वप्रतीतावपि प्रथमतर्कपरिहारानुवादत्वाप्रतीत्याशङ्कयाऽश्लिष्टत्वमाशङ्क्य तर्कद्वयपरिहारानुवादत्वलाभाय तदनु-गुणतया भेदशब्दं व्याख्याति- अत्रेति ।। तर्कद्वयपरिहारानुवादत्वं विशदयन्नेव मूलं योजयति- यदीत्यादिना ।।

नन्वीश्वरस्य कथमैक्यानुभवापादनम् ? इत्यतस्तदनुभवाभावः किं संसारिवदज्ञानावरणाच्छादन-निमित्तो वा स्याज्जडवदनुभवशक्तिवैकल्यनिमित्तो वा स्यादिति विकल्पद्वयं मनसि निधायाऽ-द्यमसिद्ध्या दूषयति- ईश्वरस्येति ।। द्वितीयमप्यसिद्ध्या दूषयति- विक्षेपेति ।। अतदाकार-प्रतिभासरूपविक्षेपस्याङ्गीकृतत्वादित्यर्थः । पूर्वोक्तातिप्रसङ्गद्वयस्य दूषितत्वात् तत्परित्यागेन मूलकारीयं बाधकान्तरप्रदर्शनमिति भ्रान्तिनिरासाय स्वयं प्रागुक्तं प्रसङ्गद्वयमुपपादयति- यदुक्तमित्यादिना ।। अयोगादिति ।। भावाभावयोर्विरुद्धतयैकत्रावस्थानासम्भवाद् अवच्छेदक-भेदेनैव तदवस्थानं वाच्यम् । न च तत्सम्भवति । चैतन्यस्य निर्विशेषत्वेन तत्रावच्छेदकभेदस्या-योगादिति भावः१ ।

नन्वज्ञानावच्छेदेनान्तःकरणसंसर्गस्याज्ञानाभावावच्छेदेनान्तःकरणसंसर्गाभावस्य चोपपन्नत्वात् कथमन्तःकरणसंसर्गतदभावयोर्विरोध इति शङ्कते- अज्ञानेति ।। यद्यज्ञानभावाभावौ उपपन्नौ स्याताम् । न च तौ सम्भवतः । तयोरपि स्वतो विरुद्धतयाऽन्तःकरणसंसर्गाभावाभाव-योरिवावच्छेदकभेदेनैव व्युत्पाद्यतया निर्विशेषचैतन्ये चावच्छेदकभेदाभावेन वृत्त्यनुपपत्तेरित्याशयेन परिहरति- एतदपि तादृगेवेति ।। एवमाद्यं प्रसङ्गमुपपाद्य द्वितीयमप्युपपादयति- एवमिति ।। परास्त इति ।। निर्विशेषचैतन्ये कल्पितभेदभावाभावयोरज्ञानभावाभावयोश्च विरुद्धतयाऽनुपपन्नत्वेना-वच्छेदकभेदेनैव ग्राह्यतयाऽसति तस्मिन्नयोगादिति भावः । एतदेव प्रपञ्चयति- मुक्तस्यापीति ।।

ननु सत्यपि बिम्बप्रतिबिम्बयोरैक्ये तत्रावच्छेदकभेदं विनाऽवदातत्वमलिनत्वयोरुपाधि-सम्बन्धतदभावयोश्च व्यवस्थावत् मुक्तामुक्तयोरवच्छेदकभेदं विनाऽपि भेदतदभावयोरज्ञानतदभाव-योर्व्यवस्था किं न स्यादिति शङ्कते- बिम्बप्रतिबिम्बयोरिति ।। विप्रतिपत्तेरिति ।। साधक-प्रमाणाभावबाधकप्रमाणसद्भावव्युत्पादनेन तत्वनिर्णयादौ तयोरभेदस्य दूषितत्वेन तदैक्यस्य विप्रतिपन्नत्वादिति भावः । यदुक्तमित्यादिनोक्तं प्रसङ्गद्वयोपपादनमुपसंहरति- इतीति ।। तर्हि प्रागुक्ताभ्यामेव प्रसङ्गाभ्यामप्रयोजकताशङ्कापरिहारसिद्धेर्मूलकारीयम् अतिप्रसङ्गान्तराभिधान-मनर्थकमित्यतः तदभिप्रायमाह- तथापीति ।। किमभिप्रायान्तरकल्पनया ? दुष्टत्वाभिप्रायकत्वमेव किं न स्यादित्यत आह- अन्यथेति ।।

गोविन्दीया

अप्रयोजक इति ।। भिन्नत्वस्य साधक इत्यर्थः । मुक्तामुक्तव्यवस्थाभाव इति ।। मुक्तामुक्तमर्यादाभाव इत्यर्थः । न हीति ।। स एव पुरुषः । तदैव एकस्मिन्नेव काले मुक्तोऽमुक्तश्चेति न हि युज्यत इत्यर्थः । इष्टापादनादिति ।। संसाराधिकरणस्वरूपेण मुक्तस्यैक्यमिष्टमेव तदापादनरूपस्येष्टापादनरूपत्वादित्यर्थः । आपाद्यापादकयोरिति ।। यदि मुक्तस्य संसारिणो ऐक्यं स्यात्तदा संसाराधिकरणस्वरूपेण मुक्तस्यैक्यं स्यादित्याद्यापादकयोर्भेदाभावाच्चेति दूषणान्तर-मित्यर्थः । तदन्वयेति ।। अन्तःकरणसम्बन्धायोगादित्यर्थः । पूर्ववदिति ।। मुक्तस्य संसारापादने यथा दोषः तद्वत् संसारिणो मुक्तत्वापादने इष्टापादनमापाद्यापादकायोर्भेदाभावश्चेति दोषद्वयप्रसङ्गादित्यर्थः । संसारिण इति ।। मुक्तात् संसारिणो भेदसद्भावात् । तस्य संसारित्वानुभव एव वर्तते न तु मुक्तत्वानुभव इत्यर्थः । तथापीति ।। मुक्तसंसारिणो क्रमात् संसारानुभव-मुक्तत्वानुभवयोरभावेऽपि ईश्वरेण संसारिणैक्यमनुभूयेत । तस्य भेदकारणाज्ञानाच्छादनाभावात् । तथा च यदि मुक्तस्य भेदो न स्यात्तर्हि ईश्वरेण संसारिण्यैक्यं स्यादिति विपक्षे बाधकमस्त्येवे-त्यर्थः । विपक्षेति ।। ईश्वरस्याज्ञानाच्छादनाभावेन तत्कृतान्तःकरणस्याभावात् कथमैक्यानुभव इत्याशङ्क्य तस्याज्ञानाभावेऽपि अतदाकारप्रतिभासरूपविक्षेपस्य स्वस्य संसारित्वारोपरूप-विक्षेपस्येति यावत् । सद्भावाभ्युपगमान्न शङ्कावकाश इत्यर्थः । मुक्तस्येति ।। मुक्तस्य भेदाभावे बाधकमुपक्रान्तं तदनुसारेण तस्यैव संसारिण्यैक्यानुभवापादानं वक्तव्यम् ईश्वरस्य संसारिण्यैक्या-नुभवस्तु कथमापाद्यत इत्यर्थः । निर्विशेषेति ।। निर्विशेषैकरसे चैतन्ये यथाऽन्तःकरणसंसर्गस्यायोगः तथा तदभावस्याप्ययोगादित्यर्थः । अज्ञानेति ।। अज्ञानसदसद्भावाभ्यामुभौ संसर्गतदभावौ स्यातामिति चेदित्यर्थः । एतदपि तादृगेवेति । निर्विशेषचैतन्येऽज्ञानतदभावयोरयोगात् । एतदपि चोद्यमसदित्यर्थः । एवमिति ।। यथा मुक्तस्य संसारानुभवप्राप्त्यभावः परास्तः, एवं यदि मुक्तात् संसारिणो भेदः स्यात्तर्हि संसारिणः सकाशान्मुक्तस्यापि भेदप्रसङ्गात् संसारिणोऽज्ञानकल्पित-भेदसद्भावोऽपि परास्त इत्यर्थः । उभयोरैक्यान्मुक्तस्य भेदाभावः संसारिणस्तु भेद इति धर्म-द्वयाङ्गीकारो नोचित इति भावः । बिम्बेति ।। बिम्बप्रतिबिम्बयोरैक्येऽपि अवदातत्वमलिनत्वे यथावस्थापके तथा मुक्तामुक्तयोरैक्येऽपि भेदाभावभेदौ अज्ञानाभावाज्ञानेऽप्यवस्थापकौ किं न स्यातामिति चेदित्यर्थः । विप्रतिपत्तेरिति ।। बिम्बप्रतिबिम्बयोरैक्यस्यैवासम्मतेस्तद्दृष्टान्तेन मुक्तामुक्तयोरैक्येन अवस्थापकधर्माङ्गीकारः शक्योपपादनः स्यादित्यर्थः । पूर्वोक्तावतिप्रसङ्गौ ।। अज्ञानकृतो हि मुक्तात् संसारिणो भेदः । सो ज्ञानिनः संसारिणः प्रतीयते न तु निवृत्ताज्ञानस्य मुक्तस्येति काऽनुपपत्तिरिति शङ्कायां यदि मुक्तस्य संसारिणः सकाशाद् भेदो न स्यात्तर्हि संसारिगतसंसारः प्रसज्येतेति । यदि संसारिणो मुक्ताद् भेदः स्यात्तर्हि मुक्तस्यापि भेदः स्यादिति पूर्वोक्तावपि प्रसङ्गौ शक्योपपादनौ । तथापि शिष्यैरेव तदूह्यतामिति यद्यज्ञानकृतो भेद इत्यादिना वाक्येनेश्वरस्याज्ञानाभावात् संसारिण्यैक्यं स्यादित्येतत् प्रसङ्गान्तरमाचार्येणोक्तमिति ज्ञातव्य-मित्यर्थः । अन्यथा ।। तयोः प्रसङ्गयोः शिष्यैरूहनाभावे स्वयमेवावक्ष्यत् । प्रसङ्गान्तरं नावक्ष्यदेवेत्यर्थः ।

जनार्दनभट्टीया

तदन्वयेति ।। अन्तःकरणसम्बन्धेत्यर्थः । संसारिण इति ।।  एवं च सति मुक्तसंसारिणोः मुक्तत्वसंसारित्वानुभवाननुभवावुपपादयति – अज्ञानकृतो हीत्यादिना ।। यदि अज्ञानेति वाक्ये पूर्वोक्तप्रसङ्गे बाधकोद्धारपुरःसरं प्रसङ्गान्तरपरतया योजयितुं भेदशब्दम् अर्थान्तरपरतया व्याचष्टे – अत्रेति ।। अथवा ‘यदि अज्ञानकृतः’ इति मूले भेदशब्दस्य अन्योन्याभावपरत्वे अन्तःकरणादेश्च अज्ञानकृतत्वादिति प्राप्तशङ्कानुवादरूपतानुपपत्तिं ‘यद्यज्ञानकृत’ इति मूलस्येत्यत आह–अत्रेति ।। स्वव्याख्यानानुसारेण पूर्वोक्तप्रसङ्गे बाधकमुद्धरति – यदीत्यादिना ।। प्रसङ्गान्तरमाह – तथाऽपीत्या-दिना ।।

ननु उत्तरत्र ‘भेदाद्यनुभवस्य भ्रान्तित्वाङ्गीकारे’ इति वाक्यावतारिकासमये ‘तथाऽपि विक्षेप-सद्भावात्’ इति वाक्ये ईश्वरेऽपि विक्षेपाख्यशक्त्यभ्युपगमात् तस्याश्च स्वाश्रयीभूताज्ञानमन्तरेण निराश्रयाया अवस्थानायोगात् ‘अज्ञानकृत’ इति मूले कथमज्ञानाभावादित्युक्तम्? इत्यत आह – अज्ञानाच्छादनाभावादिति ।। परैः तथा अभ्युपगमाद्् इति भावः । अज्ञानस्य आवरणं विक्षेपश्चेति शक्तिद्वयम् । तत्र विद्यमानस्य प्रतिभासप्रतिबन्धिका आवरणशक्तिः । तस्य अभावात् संसारिणा ऐक्यम् अनुभूयेत इति भावः । इतोऽप्यवश्यं संसारिणैक्यमीश्वरेणानुभूयत इत्याह- विक्षेपेति ।। अस्येश्वरेण संसारिणैक्यमनुभूयत इति पूर्वेण सम्बन्धः । चैतन्यमात्रैक्यस्य परमते पारमार्थिकत्वेऽपि संसारावच्छिन्नेन साकमैक्यस्य कल्पितत्वाद् विक्षेपस्य च कल्पितानुभवानुकूलत्वरूपं संसारिणैक्य-मनुभूयत इति भावः । असङ्गतिमुपपादयति – मुक्तस्येति ।। प्रागिति ।। ‘विमतो भिन्नः मुक्तत्वात्’ इत्यादिवाक्यव्याख्यानावसर इति भावः । एतदपीति ।। अज्ञानस्य सदसद्भावकथनमपि निर्विशेषैकरसे चैतन्ये विरुद्धमेवेत्यर्थः। परास्त इति ।। अज्ञानाभावादेवेति भावः । दूषणान्तरमाह–मुक्तस्यापीति ।। ईश्वरस्यापीत्यर्थः । विप्रतिपत्तेरिति ।। ईश्वरजीवयोः बिम्बप्रतिबिम्बभाव एव आवयोः विवादादिति भावः । पूर्वोक्ताविति ।। ‘मुक्तामुक्तयोः’ इति वाक्योक्तावित्यर्थः । शक्योपपादनाविति१ ।। आश्रयाभावाद् विषयाभावाच्च परमते अज्ञानस्यैव अभावेन मुक्तसंसारिणोराविद्यकभेदस्यापि वक्तुमशक्यत्वात् शक्यप्रतिपादनाविति भावः । एतदिति ।। ईश्वरेणैक्यम् अनुभूयते एतदित्यर्थः । अन्यथेति ।। अशक्यप्रतिपादनत्व इत्यर्थः । आचार्यः, पूर्वोक्तावतिप्रसङ्गाविति च शेषः ।