न च मायावादिनो..

ब्रह्मनिर्विशेषत्ववादिमायावादिमतनिराकरणे सूत्रकारस्यापसिद्धान्तशङ्का

न च मायावादिनो

श्रीमज्जयतीर्थटीका

स्यादेतत् । यद्येवमखण्डत्वाद्ब्रह्मणः शून्यादविशेषाच्छून्यवादिनिरासेन मायावादि-निरासोऽपि भगवतः सूत्रकारस्याभिमतः स्यात् तदा तस्यापसिद्धान्तः प्रसज्येत । ब्रह्मणोऽखण्डत्वं खलु तस्य सिद्धान्तः । ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’१ इत्यादिना निर्विशेषं ब्रह्मेति सूत्रकृतोक्तत्वात् । किञ्चाखण्डमेव ब्रह्मेति सकलश्रुतीनामभिप्रेतम् । सर्वत्र हि ब्रह्मप्रतिपादनपरेषु वाक्येषु ‘अशब्दमस्पर्शम्’ इत्यादिष्वपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते । अतस्तद्विरोधोऽपि प्रसज्येत । तस्मान्नैतैः सूत्रैर्मायावादिमतनिरासः सूत्रकारस्याभिमत इत्यत आह-

श्रीविजयीन्द्रभिक्षु

इति सूत्रकृतोक्तत्वादिति ।। परस्य ब्रह्मणः स्थानतोऽपि उपाधितोऽपि नोभयलिङ्गं सविशेषत्वनिर्विशेषत्वोभयरूपम् । सर्वत्र श्रुत्यादिषु द्वैतापवादेन निर्विशेषत्वस्यैव प्रतिपादनादिति सूत्रकृतोक्तत्वादित्यर्थः । ब्रह्माखण्डत्वं न सूत्रकारसिद्धान्तः । येन तन्निराकरणेन तस्यापसिद्धान्तः स्यादित्यभिप्रायं दिदर्शयिषुः । शङ्कोत्तरत्वेन मूलमवतारयति- अत आहेति ।।

श्रीवेदेशतीर्थ

सूत्रकृतोक्तत्वादिति ।। ‘परस्य ब्रह्मणः स्थानतोऽपि उपाधितोऽपि नोभयलिङ्गं न सविशेषत्वनिर्विशेषत्वोभयलिङ्गम् । सर्वत्र श्रुत्यादिषु द्वैतापवादेन निर्विशेषत्वस्यैव प्रतिपादनात्’ इति सूत्रार्थप्रतीतेरिति भावः ।

श्रीराघवेन्द्रतीर्थ

स्यादेतदिति ।। एतन्मतयोरविशेषोपपादनं स्यात् । युक्तमिति शेषः । यद्वा एतद्वक्ष्यमाणं स्यादित्यर्थः । सूत्रकृतोक्तत्वादिति । ‘परस्य ब्रह्मणः स्थानतोऽपि उपाधिनाऽपि नोभयलिङ्गं १निर्विशेषत्वोभयरूपं सर्वत्र श्रुत्यादिषु द्वैतापवादेन निर्विशेषत्वस्यैव प्रतिपादनात्’ इति परग्रन्थे व्याख्यानात्सूत्रकृतोक्तत्वादित्युक्तम् । ‘सर्वत्र हि’ इति सूत्रखण्डमभिप्रायोक्तिपूर्वं व्याचष्टे - किञ्चेत्या-दिना ।। सर्वत्र हीत्यनुवादः । ब्रह्मेत्यादिव्याख्या । तद्विरोधोऽपि प्रसज्येत इति । यद्येवमखण्ड-त्वादित्याद्यापादकस्यानुषङ्गः ।

गुरुराजीया

प्रतिज्ञातमपसिद्धान्तमुपपादयति- ब्रह्मणोऽखण्डत्वं खल्विति ।। तत्कुतो विज्ञायत इत्यतः सूत्रकृद्वाक्यादेवेति भावेन तद्वाक्यं पठति- नेति ।। ‘द्विरूपं ब्रह्म श्रूयते । सर्वकर्मा सर्वकाम इत्यादौ सविशेषम् । ‘अस्थूलमनणु’ इत्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यं उतान्यतररूपम् । यदाऽप्यन्यतररूपं तदा किं सविशेषं उत निर्विशेषं इति संशये द्विविध-श्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्त इदमुच्यते । न तावत्स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति । विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथा करोति । किन्तु अविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । ततश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविशेषमेव ‘‘ब्रह्म प्रतिपत्तव्यम् । सर्वत्र ब्रह्मपरवाक्येष्वशब्दमस्पर्शमित्यपास्तसमस्त-विशेषमेव’’१ ब्रह्मोपदिश्यतेइत्युदाहृतसूत्रार्थः ।

गोविन्दीया

स्यादेतदिति ।। यद्येवमभिमतः स्यात् तदा एतत्सिद्धान्तविरोधाभावः स्यात् । न च ब्रह्मणोऽखण्डत्वनिरासस्तस्य सिद्धान्तः    अतोऽपसिद्धान्तः प्रसज्यत इत्यर्थः । न स्थानतोऽ-पीति ।। ओम् ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ ओम् ।।२ परस्य ब्रह्मणः स्थानतोऽपि उपाधितोऽपि निर्विशेषत्वसविशेषत्वोभयलिङ्गं सर्वत्र श्रुत्यादिषु न प्रतिपादितम् । किन्तु निर्विशेषत्वैकरूपमेव लिङ्गं प्रतिपादितं हि निर्विशेषत्वस्यैवाखण्डलक्षणत्वादिति सूत्रार्थः । तद्विरोधोऽपीति ।। श्रुतिविरोधोऽपीत्यर्थः ।

जनार्दनभट्टीया

 ननु ब्रह्मणो निर्विशेषत्वं३ न एतत्सूत्रार्थः । ब्रह्मणो निर्गुणत्वप्रतिपादक-निर्णेयश्रुतेरभावादित्याशङ्क्य सामान्यतो विशेषतश्च निर्गुणत्वप्रतिपादकनिर्णेयश्रुतिरस्तीत्याह – किञ्चेति ।। कर्मकाण्डव्यावृत्यर्थं ब्रह्मप्रतिपादनपरेष्वित्युक्तम् । विशेषतः निर्गुणत्वप्रतिपादकश्रुतिलाभाय ‘अशब्दमस्पर्शम्’ इत्यादिषु चेति चशब्दोऽध्याहार्यः । तथा चायमर्थः सम्पन्नो भवति  ‘द्विविधं ब्रह्मप्रतिपादकं वाक्यम् । गुणप्रतिषेधोपेतम्, तात्पर्यावसितं चेति४ । तत्र ‘अशब्दमस्पर्शम्’ इत्यादिकम् आद्यम् । तत्र गुणप्रतिषेधः स्फुट एव । द्वितीयं तु ‘सत्यं ज्ञानम्’ इत्यादि ब्रह्मादिपदघटितम् । तत्र च ब्रह्मशब्द एव गुणनिषेधपर्यवसायी । तथा हि बृहि= वृद्धौ इति धातोः ब्रह्मशब्दः निष्पन्नः । ब्रह्मणो वृद्धिश्च न तावत् अवयवोपचयः  । निरवयवत्वाद् ब्रह्मणः । नापि सकलपदार्थसंयोगः । अद्रव्य-त्वात् । नापि प्रमेयत्वादिवत् सर्वत्र वृत्तिः । असङ्गस्य आधाराधेयभावाभावात् । तस्माद् ब्रह्मव्यतिरेकेण कस्यापि अभाव एव ब्रह्मणो वृद्धिः । एवञ्च ब्रह्मशब्द एव निर्गुणत्वविषये प्रमाणमिति । तदेतदाह –  अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यत इति५ ।। एतच्छङ्कानिराकरणपरतया ‘मय्यनन्त’ इति प्रमाणमवतारयति– इत्यत आहेति ।।