अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च..

श्रुतिपुराणादिगतानिर्वाच्यादिशब्दानामनिर्वाच्यबोधकत्वाभावस्य स्मृत्या समर्थनम्

श्रीमज्जयतीर्थटीका

ननु श्रुतिपुराणादिषु प्रपञ्चस्यानिर्वचनीयत्वमुच्यते । अचिन्त्यत्वमतर्क्यत्वमज्ञेयत्वञ्च । न च तत्र चिन्ताद्यविषयत्वमेवार्थः। तथा सति प्रमाणानां निर्विषयत्वापत्तेः । अतस्सदादिप्रकारै-रचिन्त्यत्वाद्येव तदर्थः । किं च प्रपञ्चोऽनृतोऽसन्न सत्य इत्यपि सन्ति वाक्यानि । न चासत्त्वमेव तदर्थः । तथात्वे प्रतीतिविरोधात् । अतस्तान्यनिर्वचनीयवचनानि । तत्कथमनिर्वचनीयं नाऽगमो वक्तीति द्वितीयपक्षनिरासाय तद्वचनार्थं सोपपत्तिकया स्मृत्यैव दर्शयति-

मूल

अद्भुतत्वादनिर्वाच्यं ब्रह्म चिच्चेत्यमेव च ।

अद्भुतत्वादाश्चर्यत्वादेव चेत्यमनिर्वाच्यमुच्यते । न तु सदादिप्रकारैर्निर्वक्तुमशक्यत्वात्    कुतः । न केवलं चेत्यमनिर्वाच्यमुच्यते । किं तु, ब्रह्म तदितरचेतनञ्च । न च ब्रह्मादेरनिर्वाच्यताऽङ्गीकारार्हा । अतस्तत्र यथाऽद्भुतत्वादेव सा व्याख्येया तथा चेत्यस्यापि । प्रकरणात् ।

मूल

अचिन्त्यं तत एवैतत् ............. ।

एतत् ब्रह्म चिच्चेत्यं च । ततः अद्भुतत्वादेव । अचिन्त्यमुच्यते । न तु सदादिप्रकारैर्मनोवृत्त्यविषयत्वात् ।

मूल

................ अतर्क्याज्ञेयमेव च ।

ततः इति वर्तते । तेन एवकारस्य सम्बन्धः । अतर्क्यं च तदज्ञेयं च अतर्क्याज्ञेयं ततः अद्भुतत्वादेव । न तु सदादिप्रकारैरनुमातुं प्रत्यक्षेण वा ज्ञातुमशक्यत्वात् । मनोवृत्तेः प्रत्यक्षत्वेऽपि बाह्यान्तरत्वभेदेन पृथगुपादानम् ।

श्रीविजयीन्द्रभिक्षु

प्रतीतिविरोधादिति ।। अपरोक्षप्रतीतिविषयस्य सत्वनियमादिति भावः । अनिर्वचनीय-वचनानीति ।। अङ्गीकार्याणीति शेषः । द्वितीयपक्षनिरासायेति ।। उतानिर्वचनीयमेतदित्यादिरूप इति द्वितीयपक्षनिरासायेत्यर्थः । सोपपत्तिकयेति ।। अद्भुतत्वोपपत्तिसहितयेत्यर्थः । स्मृत्यैवेति इत्येवकारेणाऽधुनिकास्मदाद्युदितव्याख्यानवदनादरणीयतां निराचष्टे- आश्चर्यत्वादेवेति ।। प्रमाणानुभवाभ्यां प्रागपरिचिताशेषवत्तया विशिष्याऽख्यातुमशक्यत्वादेवेत्यर्थः । ननु स्मृत्याऽप्यनिर्वचनीयत्वेऽद्भुतत्वस्य हेतूकरणात् कथं तस्यानिर्वाच्यशब्दव्याख्यानरूपत्वमित्यत आह- अनिर्वचनीयमुच्यत इति ।। न चास्याः स्मृतेरनिर्वचनीयशब्दव्याख्यानरूपत्वेऽपि किं मानमिति वाच्यम् । अद्भुतत्वरूपधर्मस्य ब्रह्मचित्साधारण्येनोपपादनस्यैव मानत्वादिति भावः । तथा च श्रुतिपुराणाऽदिगतानिर्वाच्यशब्दस्य ब्रह्मणि चिति चेत्ये च प्रवृत्तावद्भुतत्वमेव प्रवृत्तिनिमित्तम् । न तु पररीत्या सत्त्वादिप्रकारैर्दुर्वचत्वम् । मानाभावात् । किञ्च सत्त्वादि-धर्मखण्डनद्वारा अनिर्वाच्यत्वस्य ब्रह्मचित्साधारणतया चेत्यमेवानिर्वचनीयमिति पराभिप्रेतार्था-सिद्धिप्रसङ्ग इति भावः । न त्विति ।। प्रतिषिद्धमेवार्थं विवरीतुमाकाङ्क्षामुत्थापयति- कुत इति ।। अत्र यत इति शेषः । न चेति ।। न च ब्रह्मणोऽपि सदादिप्रकारैर्निर्वक्तुमशक्यत्वेना-निर्वाच्यत्वाङ्गीकारे परस्य किमनिष्टमिति वाच्यम् । परेणैवंविधप्रपञ्चानिर्वचनीयत्वस्य कुल-धर्मत्वेनाङ्गीकृतस्य बाध्यत्वव्याप्यत्वेनैवाङ्गीकृतत्वात्तादृशानिर्वाच्यत्वस्याबाध्ये ब्रह्मणि स्वीकर्तु-मशक्यत्वादिति भावः । अत इति ।। यत उक्तरीत्या ब्रह्मणि श्रुता अनिर्वाच्यता सत्त्वादि-प्रकारैर्निर्वक्तुमशक्यत्वरूपा असम्भाविनी अत इत्यर्थः । यद्यपि श्रुतिपुराणादिबलाच्चेत्यस्यैव परोऽनिर्वाच्यत्वं वदतीति तद्विघटनाय तत्रैवानिर्वाच्यशब्दप्रवृत्तौ निमित्तकथनार्थं स्मृतिरुदाहर्तव्या तथाऽपि ब्रह्मचित्साधारण्येन तदुदाहरणं परस्यात्यन्तानिष्टप्रसङ्गज्ञापनायेति ध्येयम् । ब्रह्मचितोऽ-निर्वाच्यशब्दस्याद्भुतत्वपुरस्कारेण प्रवृत्तावपि तस्य चेत्ये प्रवृत्तिः सदादिप्रकारैर्निर्वक्तुमशक्यत्व-पुस्कारेणेति किं न स्यादित्यत आह- प्रकरणादिति ।। ब्रह्मचित्साधारणानिर्वाच्यशब्दार्थ-निरूपणपरैकश्रुत्युपात्तानिर्वचनीयशब्दस्य भिन्नार्थत्वाश्रयणायोगात् ‘चिच्चेत्यमेव च’ इति चशब्दानुपपत्तेश्चेति भावः । नन्वतर्क्याज्ञेयमिति विशिष्टशब्दस्याद्भुतत्वं प्रवृत्तिनिमित्ततयोच्यत इति भ्रान्तिनिरासायाऽह- अतर्क्यं च तदज्ञेयं चेति ।। यद्यपि ‘विशेषणं विशेष्येण बहुलम्’१ इति विशेषणवाचिशब्दस्य विशेष्यवाचिशब्देनैव समास उच्यते तथाऽपि बहुलग्रहणाद्विशेषण-वाचिनोरपि समासोपपत्तिरिति ध्येयम् । अत्र तर्कशब्देनानुमानमभिप्रेत्याऽह- अनुमातुमिति ।। ननु चिन्ताज्ञानयोरुभयोरपि प्रत्यक्षत्वादज्ञेयमित्यनेनैव विवक्षितार्थलाभात् स्मृतावचिन्त्य-मज्ञेयमिति पृथगुपादानं कथमित्यत आह- मनोवृत्तेरिति ।। चिन्ताख्यमनःपरिणामस्येत्यर्थः । बाह्यान्तरत्वभेदेनेति ।। बाह्यान्तरकरणजन्यत्वरूपविशेषेणेत्यर्थः । यद्यपि हरिं चिन्तयामि, हरिं स्मरामि, इत्यनुभवाच्चिन्ताया न साक्षात्कारत्वं तथाऽपि संस्कारप्रत्यासत्तिकमनोरूपेन्द्रियजन्यत्वेन सामान्यलक्षणादिजन्यज्ञानवत्साक्षात्कारत्वं दुर्वारम् । अन्यथा यथार्थचिन्तायाः क्लृप्तप्रमाण-फलत्वाभावेन तत्कारणस्य प्रमाणान्तरत्वापत्तिः । साक्षात्कारत्वाननुभवस्तु ज्ञानलक्षणादि-प्रत्यासत्तिजन्यज्ञान इवोपपन्न इति भावः ।

श्रीवेदेशतीर्थ

तान्यनिर्वचनीयवचनानीति ।। अनृतः ऋतविविक्तः असन् सद्विविक्तः असत्यः सत्यविविक्त इत्यर्थः । द्वितीयपक्षनिरासायेति ।। उतानिर्वचनीयमेतदित्यादिरूप इति द्वितीय-पक्षनिरासायेत्यर्थः । अनिर्वाच्यताऽङ्गीकारार्हेति ।। अपसिद्धान्तादिति भावः । मनोवृत्त्यविषय-त्वादिति ।। मनःकरणकवृत्त्यविषयत्वादित्यर्थः । नन्वज्ञेयमित्युक्त्याऽचिन्त्यमित्येतद्गतार्थमित्यत आह- मनोवृत्तेरिति ।।

श्रीराघवेन्द्रतीर्थ

द्वितीयपक्षेति ।। उतानिर्वचनीयमेतदिति प्राग्विकल्पितपक्षेत्यर्थः । अचिन्त्यमित्यनेना-ज्ञेयमित्यस्य गतार्थत्वमाशङ्क्य निराह- मनोवृत्तेरिति ।।

गुरुराजीया

द्वितीयपक्षनिरासायेति ।। उतानिर्वचनीयमिति सावकाशागम इति द्वितीयपक्षेत्यर्थः । अनिर्वचनीयताऽङ्गीकारार्हेति ।। तथा सति तस्य परमार्थत्वेनाङ्गीकृतत्वेनापसिद्धान्त इति भावः । ननु अज्ञेयम् इत्यनेन प्रत्यक्षाज्ञेयत्वे उक्ते तदन्तर्गतमनोवृत्त्यविषयत्वस्यापि लब्धत्वेन अचिन्त्यम् इति पृथक्तदुक्तिरयुक्तेत्यतः पृथक्तदुक्तिमुपपादयति- मनोवृत्तेरिति ।।

गोविन्दीया

तथा सतीति ।। अचिन्त्यत्वादिपदानां चिन्ताद्यविषयत्वमेवार्थः स्यात्, तर्हि प्रपञ्च-ग्राहकप्रमाणानां प्रत्यक्षानुमानागमानां निर्विषयत्वापत्तेरित्यर्थः । प्रतीतिविरोधादिति ।। असच्चेन्न प्रतीयेतेति असत्त्वप्रतीतेरनङ्गीकारात् प्रपञ्चस्य तु प्रतीतिरस्ति तया विरोधादित्यर्थः    द्वितीय-पक्षेति ।। अनिर्वचनीयमेतद् इत्यागमोऽस्तीति वेति द्वितीयपक्षनिरासायेत्यर्थः । कुत इति ।। अद्भुतत्वं कुत इत्याशङ्क्येत्यर्थः । नेति ।। न केवलमित्याद्युत्तरम् । प्रकरणादिति ।। एकप्रकरणादित्यर्थः । न त्विति ।। सदादिप्रकारैः मनोवृत्त्यविषयत्वात् सदसद्विलक्षणत्वेन तद्विषयत्वात् अचिन्त्यमिति नोच्यते । अपि तु अद्भुतत्वादेवेत्यर्थः । अचिन्त्याज्ञेयशब्दयोः प्रत्यक्षेण ज्ञातुमशक्यत्वरूपैकार्थत्वेन पौनरुक्त्यमाशङ्क्य परिहरति- मनोवृत्तेरिति ।। मनोवृत्तेः प्रत्यक्षत्वेऽपि आन्तरत्वात् तदविषयम् अचिन्त्यं बाह्यज्ञानेन्द्रियाणां बाह्यप्रत्यक्षत्वेन तदविषयमज्ञेयमिति मनसः इन्द्रियाणां बाह्यान्तरत्वभेदेन तदविषययोरचिन्त्यत्वेनाज्ञेयत्वेन च पृथगुपादानमित्यर्थः ।

जनार्दनभट्टीया

प्रतीतिविरोधादिति ।। घटादिसत्वप्रतीतिविरोधादित्यर्थः । द्वितीयपक्षेति ।। उत अनिर्वचनीयमेतदित्यादिरूप इति द्वितीयपक्षनिरासायेत्यर्थः । ‘अतर्क्याज्ञेयम्’ इत्यत्र यदि द्वन्द्वः द्विवचनानुपपत्तिरित्यत आह – अतर्क्यं च तदिति ।। ननु चिन्ताज्ञानशब्दयोरुभयोरपि प्रत्यक्षज्ञानवाचित्वात्  स्मृतौ अचिन्त्याज्ञेयपदयोरन्यतरस्य वैय्यर्थ्यमित्यत आह – मनोवृत्तेरिति ।। बाह्यकरणजन्यवृत्तेः ज्ञानस्य आन्तरकरणजन्यतापत्तिः चिन्ताशब्दितेत्यर्थः । पृथगुपादानमिति ।। ‘अचिन्त्यं तत एवैतत्’ इति स्मृताविति शेषः ।