तत्त्वमसीत्यादिवाक्ये..
तत्त्वमसीत्यादिवाक्ये गौणप्रयोगप्रयोजनसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु वक्त्रायत्ते शब्दप्रयोगे कस्माद्गौणप्रयोगः । अस्त्यत्र प्रयोजनम् । इह हि महत्त्वादि-गुणवन्तं स्वातन्त्र्येणाऽत्मानं मत्वा स्तब्धं श्वेतकेतुं निमित्तीकृत्य स्वातन्त्र्याभिमानिनो जीवजात-स्याहङ्कारशान्तये तत्त्वमसीत्युच्यते । तत्र यदि विज्ञान(नानन्द)घनस्त्वमसीति ब्रूयान्नास्याहङ्कार-शान्तिः स्यात् । अभेदोक्तौ तु प्रतिपत्तुर्मीमांसा जायते । न तावदत्र मुख्यार्थः सम्भवति । प्रमाणविरोधात् । अतः स इव त्वमसीत्यस्यार्थः । न चायमपि सम्भवति । अप्रसिद्धप्रतिपत्तये खलु प्रसिद्धमुपमानमुपादीयते । ‘यथा गौस्तथा गवयः’ इत्यादौ दृष्टत्वात् । न चैवं प्रकृते । उभयोरप्यप्रसिद्धत्वात् । अतो नास्योपमानमात्रे तात्पर्यमिति पश्यन् सूर्यसूर्यकयोरिवेश्वरस्य मम चास्ति सादृश्यविशेष इति प्रतिपद्यते । स च नियम्यनियामकभावोपेत इति पश्यन्नहङ्कारं जहाति । प्रतिबिम्बे चाऽत्मनि बिम्बसमानधर्माननिषिद्धान् सम्भावयतीत्यतो लाघवेन बहोरर्थस्य प्रतिपत्तये तत्त्वमसीत्युच्यते । पारतन्त्र्यमात्रोक्तौ च राजपुरुषादिवदेव प्रतिपत्तिः स्यादिति ।
श्रीविजयीन्द्रभिक्षु
वक्त्त्रायत्त इति ।। यद्यप्यपौरुषेये वेदे नायमनुयोगः सम्भवति तथाऽपि न्याय-नियन्त्रितत्वाभिप्रायेणाभिमानिविवक्षया वा तथोक्तमिति ध्येयम् । प्रयोजनवशाद्गौणप्रयोग इत्याह- अस्त्यत्रेति ।। गौणः प्रयोगः किमर्थ इति वदन् प्रष्टव्यः । किं विज्ञानानन्दघनस्त्वमसीति प्रतिवचनं कर्तव्यमिति, किं वा परमात्मपरतन्त्रस्त्वमिति । आद्य आह- तत्रेति ।। नास्येति ।। अपकर्षानुप-न्यासादिति भावः । अभेदोक्ताविति ।। तत्त्वमसीत्यभेदोक्तावित्यर्थः । मीमांसा जायत इति ।। निर्दोषवाक्यत्वेन प्रामाण्यनिश्चयादिति भावः । मीमांसाप्रकारमेव दर्शयति- न तावदिति ।। उभयोरपीति ।। यद्यपि जीवात्मा ‘अहं दुःखी’ इत्यादिप्रतीत्या सिद्धस्तथाऽपि श्रुत्युक्त-विज्ञानघनत्वादिना न प्रसिद्ध इत्यर्थः । मीमांसासिद्धमर्थं दर्शयति- सूर्येति ।। सूर्यप्रतिसूर्य-योरिवेत्यर्थः । स चेति ।। प्रतिबिम्बस्य बिम्बाधीनत्वादिति भावः । अहङ्कारशान्तिमात्रं न गौणप्रयोगस्य प्रयोजनम् । किन्तु प्रतिबिम्बभूते स्वात्मनि प्रमाणाबाधितबिम्बसमानधर्म-सम्भावनाऽपीत्याह- प्रतिबिम्बे चेति ।। लाघवेनेति ।। ‘तत्त्वमसि’ इत्युक्तिमात्रेणोक्तानेकार्थ-प्रतिपत्तेरिति भावः । परमात्मपरतन्त्रस्त्वमिति प्रतिवचनं कर्तव्यमिति द्वितीयपक्षे यद्यप्यहङ्कार-शान्तिर्भवति तथाऽपि बिम्बसमानधर्मसम्भावनारूपप्रयोजनालाभात्तथाऽनुक्तिरित्याह- पारतन्त्र्य-मात्रोक्ताविति ।। राजपुरुषोऽयमित्युक्ते राजाधीनोऽयमितिवत् परमात्मपरतन्त्रस्त्वमित्युक्ते परमात्माधीनत्वमात्रं प्रतीयात् । न त्वनिषिद्धपरमात्मधर्मसमानधर्मवत्त्वमित्यर्थः ।
श्रीवेदेशतीर्थ
अभेदोक्ताविति ।। तत्त्वमसीत्यभेदोक्तावित्यर्थः । उभयोरपीति ।। दृष्टान्तदार्ष्टान्तिक-योरित्यर्थः । यद्यपि जीवात्मा प्रसिद्धस्तथाऽपि श्रुतिप्रतिपाद्यज्ञानानन्दघनत्वादिना प्रसिद्ध इत्यर्थः । उपमान मात्र इति ।। नियम्यनियामकभावशून्यगोगवयादिसाधारणसादृश्य इत्यर्थः । सूर्य-सूर्यकयोरिवेति ।। सूर्यप्रतिसूर्ययोरिवेत्यर्थः । सादृश्यविशेष इति ।। बिम्बप्रतिबिम्बभाव इत्यर्थः । तदधीनत्वे सति तत्सदृशत्वस्यैव तत्प्रतिबिम्बत्वादिति भावः । मीमांसया प्रतिबिम्बत्वज्ञापनाय गौणप्रयोग इत्युक्तम् । तज्ज्ञापनेनापि किं प्रयोजनमित्यपेक्षायां प्रतिबिम्बत्वान्तर्गततदधीनत्व-तत्सादृश्ययोर्ज्ञापनप्रयोजनं क्रमेणाऽह- स चेत्यादिना ।। स च सादृश्यविशेषोऽपि । इति पश्यन्नित्यन्वयः । लाघवेनेति ।। तत्त्वमसीत्युक्तिमात्रेणोक्तानेकार्थप्रतीतेरिति भावः । ननु ‘तस्य त्वमसि’ इति मुख्य एव प्रयोगः कस्मान्न कृतः । अहङ्कारशान्तिरूपप्रयोजनस्यैवं सति झडिति लाभादित्यत आह- पारतन्त्र्यमात्रोक्ताविति ।। सत्यमेवमहङ्कारशान्तिर्भवतीति । तथाऽपि तत्र बिम्बसमानधर्मसम्भावनारूपप्रयोजनान्तरालाभान्न तथा प्रयोग इति भावः ।
द्वैतद्युमणि
वक्त्रायत्त इति ।। अपौरुषेयस्यापि वेदस्य पुरुषाभिप्रायनिवेशेनैव प्रवृत्तत्वाद् उक्त-पर्यनुयोगसङ्गतिः ।
श्रीराघवेन्द्रतीर्थ
अपौरुषेये वक्तुरभावेन शङ्कानुदयेऽपि लोकन्यायमनुसृत्य शङ्कते- नन्विति ।। इह हीति ।। छन्दोगोपनिषदीत्यर्थः । इत्युच्यत इत्यन्वयः । स्तब्धम् अगममित्यर्थः । इति ब्रूयादिति ।। मुख्यार्थवचनोक्तिपक्षे एवंरूपवचनेन भाव्यमिति भावः । नास्येति ।। अपकर्षानुक्तेरिति भावः । तत्त्वमसीत्यैक्योक्तावहङ्कारशान्तिप्रकारं व्यनक्ति - अभेदोक्ताविति ।। स इवेति ।। अस्य तत्त्वमसीतिवाक्यस्य स इव त्वमसीत्यर्थ इति योजना । उभयोरपीति ।। जीवात्मनोऽहमिति प्रसिद्धत्वेऽपि पराधीनत्वज्ञानानन्दात्मकत्वादिना न प्रसिद्ध इति भावः । मीमांसितार्थमाह- सूर्येति ।। सादृश्यविशेष इति ।। ज्ञानसुखरूप इत्यर्थः । स चेति ।। प्रतिबिम्बस्य बिम्बाधीनत्वादिति भावः । बहोरर्थस्येति ।। तत्प्रतिबिम्बत्वस्य तन्नियम्यत्वस्यानिषिद्धकिञ्चिज्ज्ञानसुखसादृश्य-विशेषस्येत्येवंरूपबह्वर्थस्येत्यर्थः । पारतन्त्र्येति ।। तदधीनोऽसीत्युक्तौ त्वित्यर्थः । राजेति ।। राजपुरुष इत्युक्ते राजाधीनत्वमिव पराधीनतैव प्रतीयते । न सादृश्यविशेषादीत्यर्थः ।
द्वैतद्युमणि
वक्त्रायत्त इति ।। अपौरुषेयस्यापि वेदस्य पुरुषाभिप्रायनिवेशेनैव प्रवृत्तत्वाद् उक्त-पर्यनुयोगसङ्गतिः ।
अप्रसिद्धत्वादिति ।। अप्रत्यक्षत्वादित्यर्थः । यद्यपि जीवात्मा प्रत्यक्षसिद्धस्तथाऽपि निरूपणीय-विज्ञानस्वभावत्वप्रयोजकधर्मादिनेदानीं न प्रत्यक्षविषय इत्यर्थः । अयं भावः । गवयपदवाच्यत्वादि-प्रतिपत्त्यर्थं तत्प्रतिपत्तिप्रयोजकग्रहविषयीभूतगोसादृश्यस्य लिङ्गतया प्रतिपत्त्यर्थं ‘गोसदृशो गवय-पदवाच्यः’ इत्युपदिशति । तमुक्तसादृश्यवत्तया पश्यन् गवयपदवाच्यत्वादिना निश्चिनोति । तथा जीवस्वभावभूतविज्ञानघनत्वादिप्रतिपत्त्यर्थं परमात्मनिरूपितं जीवनिष्ठसादृश्यमुपदेष्टुमयुक्तम् । प्रमेयत्वादिना तत्सादृश्यस्याव्यावर्तकत्वात् । आकारविशेषेण सादृश्यस्य तु न प्रतिपत्तिसम्भवः । परमात्मनः सर्वथा प्रत्यक्षत्वाभावात्, जीवस्य त्वाकारविशेषादिना प्रत्यक्षत्वाभावात् । लिङ्गविधया सादृश्यबोधनमात्रे न तात्पर्यम् । किन्तु प्रतिबिम्बताघटकसादृश्यविशेषे तात्पर्यमवगच्छतीति । वक्त्रायत्ते इति वक्त्रधीन इत्यर्थः । अधीनो निघ्न आयत्त इत्यमरः । कस्मादिति ।। तत्सदृशोऽसीति स्पष्टमेव कस्मान्नोक्तमित्यर्थः । स्तब्धम् आर्येष्वनतम् । उभयोरपीति ।। अहमिति जीवस्य प्रसिद्धत्वेऽपि व्यासज्यवृत्तिप्रतियोगिकाभावाभिप्रायेणेदम् । एकसत्त्वे द्वयमिह नास्तीति-वत् । सामान्यतः प्रसिद्धत्वेऽपि विशेषतो अप्रसिद्धत्वादिति वा व्याख्येयम् । उपमानं दृष्टान्तः । उपमानमात्र इति ।। नियम्यनियामकभावरहितगोगवयादिसाधारणसादृश्यमात्र इत्यर्थः । तदधीनत्वरहितसादृश्यमात्र इति यावत् । सूर्यसूर्यकयोरिव सूर्यतत्प्रतिबिम्बयोरिव सादृश्यविशेष इति ।। नोक्तरीत्या सादृश्यमात्रम् । किन्तु बिम्बप्रतिबिम्बभावरूपस्सादृश्यविशेष इत्यर्थः । स चेति ।। सादृश्यविशेष इत्यर्थः । नियम्येति ।। तदधीनत्वसहित इत्यर्थः । पश्यन्निति ।। तदधीनत्वे सति तत्सदृशत्वरूपप्रतिबिम्बत्वं पश्यन्नित्यर्थः । बिम्बभूतेश्वरनिष्ठाऽपरिच्छिन्नत्वादिधर्मसम्भा-वनाया अयोगादनिषिद्धानित्युक्तम् । अविरुद्धानित्यर्थः । तर्हि तदधीनत्वे सति तत्सदृशोऽसीत्येवं कस्मान्नोक्तमित्यत उक्तम् ।। लाघवेनेति ।। १शब्दलाघवेनेत्यर्थः । बहोरिति ।। बह्वित्यनेक-त्वोपलक्षणम् । तदधीनत्वे सति तत्सदृशत्वरूपानेकार्थस्येत्यर्थः । ननु तथाऽपि तत्त्वमसीति गौणप्रयोगमकृत्वा तस्य त्वमसीति मुख्यप्रयोग एव कस्मान्न कृतः । त्वं तस्याधीनोऽसीति हि तदर्थः । एवमुक्ते अहङ्कारशान्तिरूपप्रयोजनस्य झडिति लाभादित्यत आह- पारतन्त्र्यमात्रोक्ता-विति ।। सत्यमेवमप्यहङ्कारशान्तिर्भवतीति तथाऽपि, यथा राज्ञः पुरुष इत्युक्ते पुरुषस्य भृत्यस्य राजाधीनत्वमेव लभ्यते न तु तत्सादृश्यरूपं प्रतिबिम्बत्वं तद्वत् तदधीनत्वरूपपारतन्त्र्यप्रतीतिरेव स्यान्न तु तत्सादृश्यरूपं प्रतिबिम्बत्वं तद्वत् तदधीनत्वरूपपारतन्त्र्यप्रतीतिरेव स्यान्न तु तत्सादृश्यरूपप्रतिबिम्बत्वप्रतीतिरतस्तल्लाभाय तत्त्वमसीति गौणप्रयोगः कृत इति भावः ।
गुरुराजीया
स्वायत्तन्यायविरोधमाशङ्कते- नन्विति ।। शान्तिः स्यादिति ।। २एवमुक्तेऽनुपपत्त्य-प्रतिभासेन वक्ष्यमाणप्रकारेण बहोरर्थस्य सूचनाऽलाभादिति भावः । अभेदोक्तावपि कथमहङ्कार-शान्तिरित्यतस्तं प्रकारं दर्शयति- अभेदोक्ताविति ।। अनुपपत्तिप्रतिभासादिति शेषः । प्रतिपत्तुर्मीमांसा जायत इत्युक्तम् । मीमांसाप्रकारमेव दर्शयति- न तावदिति ।। प्रमाणविरोधा-दिति ।। तद्बाधितस्यापि वाक्यमुख्यार्थत्वे यजमानप्रस्तराद्यैक्यस्यापि तथात्वापत्त्या ‘यजमानः प्रस्तरः’ इत्यादेरपि गौणत्वाभावप्रसङ्गादिति भावः । उभयोः जीवब्रह्मणोः । न च जीवस्य ‘अहम्’ इति प्रत्यक्षसिद्धत्वान्नाप्रसिद्धत्वमिति उभयोरप्यप्रसिद्धत्वोक्त्यनुपपत्तिरिति वाच्यम् । स्वरूपेण प्रसिद्धत्वेऽपि ज्ञानानन्दघनत्वेनाप्रसिद्धतया तथोक्त्युपपत्तेः । उपमामात्र इति ।। नियम्यनियामक-भावशून्यगोगवयादिसाधारणसादृश्य इत्यर्थः । सूर्यसूर्यकयोरिवेति ।। सूर्यस्य प्रतिकृतिः सूर्यकः । ‘इवे प्रतिकृतौ’३ इति कप्रत्ययः । सूर्यतत्प्रतिबिम्बयोरित्यर्थः । नियम्यनियामकभावेति ।। यदत्र वक्तव्यं तत्प्रागेवोक्तं तत एव प्रतिपत्तव्यम् । तदधीनत्वे सति तत्सदृशत्वस्यैव तत्प्रतिबिम्बत्वादिति भावः । लक्ष्मीपतित्वाद्यसाधारणधर्माणामपि सम्भावनीयत्वशङ्कानिरासायाऽह- अनिषिद्धा-निति ।। लाघवेनेति ।। तत्त्वमसीति शब्दलाघवेनेत्यर्थः । ननु तस्य त्वमसीति निर्देशेन पारतन्त्र्य-लाभादहङ्कारशान्तिः सम्भवतीति तथैव किं नोक्तमित्यत आह- पारतन्त्र्यमात्रोक्ताविति ।। तथा निर्देशानिषिद्धबिम्बसमानधर्मसम्भावनारूपप्रयोजनान्तरालाभात् तल्लाभाय गौणनिर्देश इति भावः ।
गोविन्दीया
नन्विति ।। शब्दप्रमायोगे वक्त्रभिप्रेतार्थाधीने सति कस्मात् सादृश्यगुणानादाय तत्वमसीत्यमुख्यप्रयोग इत्यर्थः । स्तब्धमिति ।। मूढमित्यर्थः । सूर्यसूर्यकयोरिति सूर्यसूर्यप्रतिबिम्ब-योरित्यर्थः । लाघवेनेति ।। शब्दलाघवेनेत्यर्थः । पारतन्त्र्येति ।। तदधीनस्त्वमसीति पारतन्त्र्य-मात्रोक्तौ च राजपुरुषादिवदेव प्रतिपत्तिः स्यात् । न तु सादृश्यविशिष्टार्थलाभ इत्यर्थः ।
नारोपन्तीया
सूर्यसूर्यकयोरिवेति । सूर्यस्य प्रतिकृतिः सूर्यकः । ‘इवे प्रतिकृतौ’ इति कप्रत्ययः ।
जनार्दनभट्टीया
ननु ‘तत्त्वमसि’ इति अभेदोक्तौ श्वेतकेतोः सुतराम् अहङ्कारशान्तिः न स्यादित्यत आह– अभेदोक्ताविति ।। प्रतिपत्तुः श्वेतकेतोः विवेकित्वादिति भावः । उभयोरिति ।। श्वेतकेतुपरमात्मनोरुभयोः विशिष्य अज्ञातत्वादिति भावः । ननु गोगवययोरिव श्वेतकेतुपरमात्मनोः सादृश्यज्ञानमात्रेण कथं श्वेतकेतौ अहङ्कारशान्तिः स्यादित्यत आह – स चेति ।। सादृश्यविशेष इत्यर्थः ।