न चानिर्वचनीये किञ्चिन्मानम् ..
अनिर्वचनीये प्रमाणाभावोक्तिः
श्रीमज्जयतीर्थटीका
कथमनिर्वचनीयस्य सर्वत्राप्रसिद्धत्वमित्यत आह-
मूल
न चानिर्वचनीये किञ्चिन्मानम् ।
श्रीविजयीन्द्रभिक्षु
एतावता प्रबन्धेन प्रकृतप्रश्नतन्मूलसंशययोरयोगे किं प्रमाणमुपन्यस्तमिति शिष्य-जिज्ञासायामाचार्यविवक्षागोचरं तद्दर्शयितुमाह- इदमुक्तं भवतीति ।। विमत इति ।। युक्तत्वा-युक्तत्वकोटिकविमतिविषयीभूत इत्यर्थः । न चात्रानुमानद्वयेऽपि पक्षीकृतप्रश्नसंशययोरसिद्धा-वाश्रयासिद्धिः । सिद्धौ वा अयुक्तत्वव्याघात इति वाच्यम् । वन्ध्यासुतो न वक्ता चेतनत्वादित्यादाविव निषेधसाधने आश्रयासिद्धेरदोषत्वादिति भावः । ‘भुजो अनवने’ इत्यादि-ज्ञापकाद्धातूनामनेकार्थत्वनिश्चयात्प्रकृते सम्भावितं धात्वर्थमाश्रित्य प्रकृतप्रतिज्ञाहेतू दूषयितुकामः पर आक्षिपति- ननु प्रश्नः संशयो वेति ।। कारणादिविमर्शवत इति ।। इदमेव तस्य कारणं नेदमिति तत्कारणाकारणे व्यावर्तकधर्मवत्तया अन्योन्यभिन्ने इति निश्चयवत इत्यर्थः । तत्रार्थ इति ।। शशविषाणं गोविषाणं बोध्यते१ इति प्रश्नः संशयो वा न युज्यत इत्यत्रेत्यर्थः । कारणविपर्यासा-दिति ।। अकारणे कारणत्वभ्रमादित्यर्थः । प्रेक्षावतामिति ।। तत्तदुपाय एव तत्तदुपायतावच्छेदक-रूपवत्तया निश्चयवतामित्यर्थः । प्रतिज्ञातार्थोपपत्तेरिति ।। विमतः प्रश्नः संशयो वा न युज्यत इति प्रतिज्ञार्थोपपत्तेरित्यर्थः । नन्वतत्कारणे तत्कारणत्वविभ्रममात्रान्न तत्कार्योपपत्तिः । अन्यथा गुञ्जापुञ्जादौ वह्नित्वादिभ्रमात्तदुपादाने प्रवृत्तस्य दाहादिकार्यप्रसङ्ग इत्यत आह - ज्ञानकार्ये-ष्विति ।। दाहादिलक्षणकार्येषु तथात्वादर्शनेऽपि ज्ञानरूपासाधारणकारणमात्रजन्येषु प्रश्नसंशय-लक्षणकार्येषु नोत्पत्त्यनुपपत्तिः । रज्ज्वादौ सर्पज्ञानाद् भयकम्पादिकार्योत्पत्तिदर्शनात् । अन्यथा तत्रापि तन्न स्यादिति भावः । ननु विमतः प्रश्नः संशयो वा न युज्यत इति प्रतिज्ञातार्थे हेतुदृष्टान्त-योरुक्तत्वेनानुमानशरीरनिष्पत्तेः न चानिर्वचनीये किञ्चिन्मानम् इत्यग्रिमवाक्यवैयर्थ्यमित्याशङ्क्य तस्यानुपलब्धारोप्यकोटित्वरूपहेत्वसिद्ध्युद्धारार्थत्वेन सार्थक्यं वक्तुं तन्निवर्त्याशङ्कां दर्शयति- कथमिति ।।
श्रीवेदेशतीर्थ
न च भेदे विकल्पो युज्यत इत्यादिवाक्यत्रयस्य लब्धार्थमाह- इदमुक्तं भवतीति ।। स्वरूपासिद्धिपरिहारायाऽऽह- विमतः संशयो न युज्यत इति ।। कारणविपर्यासादिति । कारणीभूतो विपर्यासः कारणविपर्यासः । विपर्यासरूपात् कारणादित्यर्थः । यथा शश-विषाणमस्तीति भ्रमवतः विषाणमस्तीत्युक्ते किं शशविषाणं गोविषाणं वेति संशयस्तथा अनिर्वचनीयभ्रमवतस्तद्रूपात्कारणादुत्पद्यतां नामेत्यर्थः । ननु ज्ञानजन्ये कार्ये प्रमाया एव जनकत्वात् कथमारोप्यमाणकोटिभ्रमात्संशयोत्पत्तिरित्यत आह- ज्ञानजन्येष्विति ।। न ज्ञानजन्यकार्येषु प्रमाया एव जनकत्वमिति नियमः । तथात्वे सर्पज्ञानजन्यभयादेः सर्प-प्रमामात्रसाध्यत्वापत्त्या तद्भ्रमात्तदुत्पत्तिरनुभवसिद्धा न स्यादिति भावः ।
केचित्तु- कारणविपर्यासादिति ।। अकारणे कारणत्वभ्रमादित्यर्थः । प्रेक्षावतामिति ।। तत्तदुपाय एव तत्तदुपायतावच्छेदकरूपवत्तया निश्चयवतामित्यर्थः । नन्वतत्कारणे तत्कारणत्वभ्रमान्न तत्कार्योत्पत्तिः। अन्यथा गुञ्जापुञ्जादौ वह्नित्वादिभ्रमात्तदुपादाने प्रवृत्तस्य दाहादिप्रसङ्ग इत्यत आह- ज्ञानजन्येष्विति ।। दाहादिलक्षणकार्येषु तथात्वादर्शनेऽपि ज्ञानरूपासाधारणकारण-मात्रजन्येषु प्रश्नसंशयलक्षणकार्येषु नोत्पत्त्यनुपपत्तिः । रज्ज्वादौ सर्पज्ञानाद्भयकम्पादि-कार्योत्पत्तिदर्शनात् । अन्यथा तत्रापि तन्न स्यादित्याहुः ।
तच्चिन्त्यम् । भयादौ न स्वरूपतः सर्पस्य कारणत्वं व्यभिचारात् । किं तु सर्पज्ञानस्यैव । एवं च कारणविपर्यासात्कार्योदय इत्यत्र रज्ज्वादौ सर्पभ्रमस्योदाहरणत्वेनोपादानमयुक्तम् । सर्पस्याकारणत्वेनास्य भ्रमस्याकारणे कारणत्वभ्रमत्वाभावादिति ।
द्वैतद्युमणि
कारणविपर्यासात् कारणीभूतात् भ्रमादित्यर्थः । यद्वा कारणे साधारणधर्मज्ञाने कोट्यनुभवादौ । विपर्यासात् प्रामाण्यभ्रमादित्यर्थः । निश्चितप्रामाण्यकसाधारणधर्मादि-ज्ञानस्यैवानाहार्यसंशयकारणत्वात् साधारणधर्मदर्शनादौ प्रामाण्यनिश्चयस्यापि संशयप्रयोजकत्व-मिति भावः । ननु कथं भ्रमात् कार्याङ्गीकारः । तथात्वे रजतभ्रमोत्तरप्रवृत्त्यादिना रजतनिष्पत्तिपूर्वकं कटकादिसिद्धिः स्यादित्यत आह- ज्ञानजन्येष्विति ।। प्रमात्वघटितरूपानवच्छिन्न-ज्ञाननिष्ठकारणताकेष्वित्यर्थः । कारणविपर्यासादिति ।। पूर्ववदर्थद्वयमपि द्रष्टव्यम् ।
श्रीराघवेन्द्रतीर्थ
दृष्टान्तोक्त्या सूचितमर्थमाह - इदमुक्तं भवतीति ।। हेतोरसिद्धिं निराह - विमतः संशय इति ।। परमुखेन समाधिं वाचयित्वा समं प्रकृत इत्याह- कारणादीति ।। आदिपदेन बाधकग्रहः । प्रेक्षावतां कारणादिविमर्शवताम् । ज्ञानेति ।। ज्ञानजन्येषु१ कारणविपर्यासात् कारण-भ्रमाज्जन्मोपपत्तिः । यथा सर्पभ्रमाद्भयकम्पादिः । तथा कारणभ्रमात्संशयादिरस्त्वित्यर्थः । कारणादिविमर्शवत इति । शशविषाणस्यैवाप्रसिद्धत्वादित्यादिनोक्तरीत्येत्यर्थः ।
गुरुराजीया
कारणादिविमर्शवत इति ।। प्रेक्षावत इत्यर्थः । अयं भावः । विकल्पः प्रश्नो हि सन्देह-मूलक इत्युपपादितमधस्तात् । सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवतीति तावदविवादम् । ततश्च समानधर्माद्यभावे निर्णायकसद्भावे वा यः सन्दिग्धे, विकल्पांश्च पृच्छति स नूनमविद्यमानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च निर्णायकसद्भावमित्यनुमीयत इति । न हि कार्यमकारणं भवितुमर्हति । ननु समानधर्मादिकार्यस्य संशयस्य कथं तदभावेऽपि भ्रमरूपज्ञानमात्रेणोत्पादः स्यादिति चेन्न । सत्यपि समानधर्मादौ तदज्ञानात् संशयानुदयादसत्यपि तस्मिंस्तज्ज्ञानमात्रेण संशयोदयादन्वयव्यतिरेकाभ्यां समानधर्मज्ञानस्यैव तत्कारणत्वावधारणेन समानधर्मादेः संशयकारणत्वाभावात्तस्य च भ्रमप्रमासाधारणत्वात् साधारणधर्मादिप्रमयेव तद्भ्रमेणापि संशयोत्पादस्याविरुद्धत्वादित्याशयेनाऽह - ज्ञानजन्येष्विति ।। ज्ञानत्वावच्छिन्न-कारणताकेष्वित्यर्थः । ‘दृश्यते हि सर्पभ्रमादिना भयकम्पादिकार्योत्पादः’ इति सुधाया अप्ययमेवाभिप्रायः ।
यत्तु कारणविपर्यासादित्यस्याकारणे कारणत्वभ्रमादित्यर्थमभिधाय ‘ननु ज्ञानजन्यकार्ये प्रमाया एव जनकत्वात् कथमारोप्यमाणकोटिभ्रमात् संशयोत्पत्तिः’ इत्याशङ्कापरिहारकतया ज्ञानजन्येष्विति वाक्यमवतार्य ‘न ज्ञानजन्ये कार्ये प्रमाया एव जनकत्वमिति नियमः । तथात्वे सर्पज्ञानजन्यभयादेः प्रमासाध्यत्वापत्त्या तद्भ्रमात् तदुत्पत्तिरनुभवसिद्धा न स्यात्’ इति तात्पर्यमाचक्षते । तत्तु स्वपरदर्शनापरिशीलनमूलकमेवेति स्पष्टमेवेत्ययुक्तत्वादुपेक्ष्यम् ।
गोविन्दीया
तदेति ।। साक्षिप्रत्यक्षबाध इत्यर्थः । कार्यत्वादिति ।। कार्यत्वादिति हेतुना कारणस्य साधनादित्यर्थः । अथेति ।। उत्पन्नोऽप्यतत्कारणोत्पन्न इत्युक्ते उत्पन्न इत्यनेन तत्कारणत्वोत्पन्न इत्युच्यते । पुनः तत्कारणत्वोत्पन्नो न भवतीत्युच्यमाने स्ववचनव्याघात इत्यर्थः । कारण-विपर्यासादिति ।। कारणीभूतविपर्यासाद् भ्रमज्ञानरूपकारणादित्यर्थः । ज्ञानजन्येष्विति ।। ज्ञानजन्येषु कार्येषु प्रमाया इव भ्रमज्ञानादपि जन्मोपपत्तिः । सर्पप्रमाया इव सर्पभ्रमादपि भयादिजन्मोत्पत्तिदर्शनादित्यर्थः । नतु अर्थजन्यकार्येष्वयं नियमः । तथात्वे अग्नेर्दाहोत्पत्तिरिव अग्निभ्रमविषयगुञ्जापुञ्जादपि दाहः स्यादिति भावः ।
कारणादिविमर्शवत इति । आदिशब्दात् प्रमाणम् । कारणप्रमाणविषयकविचारनिपुणस्य प्रश्नो न सम्भवतीत्यर्थः । अयमाशयः- प्रश्नस्तावत्सन्देहमूलकः । सन्देहश्च कोट्युपस्थितिजन्यः । कोटी चात्र गोशृङ्गत्वशशशृङ्गत्वे । तत्र द्वितीयकोट्युपस्थित्यर्थं तदनुभवोऽवश्यं वाच्यः । स च तावत्प्रत्यक्षेण न सम्भवति । असन्निकृष्टत्वात् । नापि शुक्तिरजतज्ञानवत्प्रत्यक्षाभासेन तस्यापि रजतज्ञानसापेक्षत्वात् । रजतस्य च देशान्तरे सत्त्वात् । अत एव च नानुमानावतारोऽपि । तत्प्रतिबद्धलिङ्गाभावात् । अनुमानाभासस्तूक्तन्यायेनैव निरस्तः । अत एव व्युत्पत्त्यधीन-त्वाच्छब्दोऽपि न सम्भवति । तस्माच्छृङ्गित्वं गवादिनिष्ठकारणतानिरूपितकार्यताया एवावच्छेद-कम् । शृङ्गशशयोः कार्यकारणभाव एव नास्ति । न च तन्नित्यमेव शृङ्गमस्त्विति वाच्यम् । तस्य तत्त्वे प्रमाणाभावात् । शृङ्गत्वेन पशुत्वेन कार्यकारणभावं कल्पयित्वाऽतीन्द्रियस्य शृङ्गादेरभ्युप-गमेऽतिप्रसङ्गेन बहुविप्लवः प्रसज्येत । इत्यादिविमर्शशून्यस्य शशकर्णादौ दूरस्थत्वादिदोषवशात् प्रत्यक्षाभासेन वा, शशः शृङ्गी पशुत्वाद् इत्याद्यनुमानाभासेन वा विप्रलम्भकवाक्येन वा, शशशृङ्गमस्तीति ज्ञानवतः कोट्युपस्थितौ संशयप्रश्नादि युज्यत इति भावः ।
तर्ह्यत्रापि कारणविपर्यासादिति । कारणं कोट्युपस्थितिरूपा या प्रमा तस्या विपर्यासः व्यत्यासः अन्यथाभावः । प्रमाणाभास इत्यर्थः । यद्वा संशयकारणकोटिप्रमा, तद्विपर्यासः कोटिभ्रम इत्यर्थः । ननु यदि प्रमाणकार्यं प्रमाणाभासादुत्पद्येत तर्हि वह्न्यादिकार्यदाहाद्यपि वह्न्याभासादुत्पद्येतेत्यत आह - ज्ञानजन्येष्विति । यथा सर्पादिज्ञानत्वेन भयत्वेन कार्यकारणभावो न तु सर्पादिप्रमात्वेन । भ्रमादपि तद्दर्शनात् । एवं संशयत्वेन कोटिज्ञानत्वेनैव कार्यकारणभावो न तु कोटिप्रमात्वेनेति भावः । नन्वेवं खण्डनस्य शब्दो नित्योऽनित्यो वेत्यादिप्रश्नेऽपि सत्त्वात् प्रश्नमात्रोच्छेदः स्यात् । न हि शब्दे नित्यत्वमेव वाऽनित्यत्वमेव वेत्यादिविमर्शवानीदृशं प्रष्टुमर्हति । प्रश्नमात्रस्य विमर्श-विकलकर्तृकत्वात् । अन्यथा प्रश्नोत्थानायोगादिति चेत् । भ्रान्तोऽसि । न हि वयं पक्षविमर्शवतः प्रश्नो न सम्भवतीति वदामः । प्रश्नविषयीभूते धर्मिणि अन्यतरकोट्यनिर्णयस्य प्रश्नहेतुत्वात् । किन्तु यो हि– शब्दो नित्योऽनित्यो वेति पृच्छति स केवलं शब्द एव नित्यत्वानित्यत्वयोः सन्दिग्धे । अन्यत्र गगनघटादौ तु नित्यत्वानित्यत्वप्रमितिमानेव । त्वं तु सर्वत्र भ्रान्त इति परस्यात्यन्त-हृदयशून्यतावेदने प्रघट्टतात्पर्यात् । तदिदमाह- न पुनः प्रेक्षावतामुत्पद्यत इति प्रतिज्ञार्थोपपत्तेरिति ।। विमर्शविकलं त्वां प्रति विमतः प्रश्न न युज्यते । विमतः संशयो न युज्यत इति प्रतिज्ञार्थ उपपन्न इत्यर्थः ।
जनार्दनभट्टीया
ननु ‘अनिर्वचनीयत्वादिविषयः प्रश्नः संशयो वा न युज्यते अनिर्वचनीयत्वस्य अप्रसिद्धत्वात्, शशविषाणं गोविषाणं वोच्यत इतिवत्’ इति दृष्टान्तो न युक्तः । प्रकृतसाध्यहेत्वोः तत्र व्याप्त्यग्रहादित्यत आह – इदमुक्तमिति ।। असन्दिग्धेति ।। तथा च ‘यत्र असन्दिग्धविषयप्रश्नत्वं तत्र अयुक्तत्वम्’ इति सामान्यव्याप्तावेव शशविषाणमित्यस्य दृष्टान्तत्वमतो नासङ्गतिरिति भावः । कारणविपर्यासा-दिति ।। वस्तुविषययथार्थज्ञानं हि कारणम् । तथैवोत्सर्गतो दर्शनात् । तद्विपर्यासात्= तद्विपरीतरूपकारणादित्यर्थः ।
ननु कारणविपर्यासात् कथं कार्यस्य जन्म? तथा सति शुक्तौ रजतारोपात् कटकनूपुराद्यापत्तेरित्यत आह–ज्ञानजन्येष्विति ।। कटकनूपुरादिकं तु रजतादिकार्यमेव न ज्ञानकार्यमिति भावः । भयादाविति ।। रज्जौ सर्पज्ञानात् असर्पविषयादपि भयदर्शनादित्यर्थः । दृष्टानुसारित्वात् कल्पनायाः सर्वत्र कारणविपर्यासात् कार्योत्पत्त्यभावेऽपि ज्ञानजन्यकार्येषु तथास्तु । भयादौ ज्ञानजन्यकार्ये तथा दर्शनादिति भावः ।