यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’..
नासदासीदिति श्रुत्युक्तमूर्तामूर्तवैलक्षण्यं पञ्चभूतवैलक्षण्यमेवेति श्रुत्या समर्थनम्
श्रीमज्जयतीर्थटीका
नन्वसर्वगतपरिमाणं मूर्तं ततोऽन्यत्सर्वममूर्तम् । तथा च भावाभावात्मकस्य सर्वस्यापि मूर्तामूर्तान्तःपातित्वात्ततो विलक्षणत्वे ब्रह्मप्रकृत्योरनिर्वचनीयतातादवस्थ्यमिति चेत् । मैवम् । मूर्तशब्दस्य पृथिव्यप्तेजोविषयत्वेनामूर्तशब्दस्य च वाय्वाकाशपरत्वेन सर्वस्य तदन्तर्भावा-भावात् । ब्रह्मप्रकृत्योश्च पञ्चमहाभूतविलक्षणत्वस्योपपन्नत्वादिति भावेन सदसच्छब्दौ श्रुत्यन्तरेण व्याख्याति ।
मूल
‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’ इति माध्यन्दिनश्रुतिः१ ।
‘वायुरन्तरिक्षञ्चासत्’ इति श्रुतिशेषः ।
श्रीविजयीन्द्रभिक्षु
अनिर्वचनीयतातादवस्थ्यमिति ।।
यद्यपि ब्रह्मणः ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।’२
‘महान्तं विभुमात्मानम्’३ ।
इति श्रुत्या सर्वगतत्वोक्तेर्न स्यात्तस्यामूर्तविलक्षणत्वरूपानिर्वचनीयत्वतादवस्थ्यं तथाऽपि ‘मूर्तं सदिति सम्प्रोक्तम्’ इति श्रुतिगतब्रह्मशब्दार्थादन्यस्यैव तद्गतमूर्तामूर्तशब्दार्थस्य ग्राह्यत्वात्तादृश-सकलभावाभावविलक्षणतयाऽस्त्येव ब्रह्मणोऽप्यनिर्वचनीयतातादवस्थ्यम् । अन्यथा सर्वगत-परिमाणत्वपरश्रुतिविरोधेनोक्तार्थे पैङ्गिश्रुतेरप्रामाण्यापत्तेरिति शङ्काभिप्राय इति ध्येयम् ।
भवेदनिर्वचनीयतातादवस्थ्यं ब्रह्मप्रकृत्योः यदि पैङ्गिश्रुतिगतमूर्तामूर्तशब्दयोस्तद्गतब्रह्मशब्दार्थ-भूतप्रकृतिपरब्रह्मान्यत्सर्वमर्थः स्यात् । किं तु मूर्तशब्दस्य पृथिव्यादिभूतत्रयपरत्वेनामूर्तशब्दस्य वाय्वाकाशरूपभूतद्वयपरत्वेन तद्गतब्रह्मशब्दार्थयोः परब्रह्मप्रकृत्योः पञ्चमहाभूतविलक्षणत्वमेव पैङ्गिश्रुत्यर्थः । एवञ्च सर्वस्यापि भावाभावात्मकप्रपञ्चस्य पञ्चमहाभूतेष्वेवान्तर्भावाभावेन पराभिमतसर्वभावाभाववैलक्षण्यरूपानिर्वचनीयतातादवस्थ्यं कथमिति वक्तुं पैङ्गिश्रुतिगतमूर्तामूर्त-शब्दौ श्रुत्यन्तरानुरोधेन नासङ्कुचितार्थौ ग्राह्यौ । किं तु सङ्कुचितार्थौ । अन्यथा श्रुत्यन्तर-विरोधापत्तेरित्याचार्याभिप्रायं वक्तुमाह- मैवमिति ।। ननूक्तरीत्या सच्छब्दस्य भूतत्रयपरत्वेऽ-प्यसच्छब्दस्य तदतिरिक्तसर्वार्थकत्वेन ब्रह्मप्रकृत्योरनिर्वचनीयतातादवस्थ्यापरिहार इत्यतः तच्छ्रुतिशेषं पठति- वायुरन्तरिक्षञ्चेति ।।
श्रीवेदेशतीर्थ
भावाभावात्मकस्येति ।। असर्वगतपरिमाणं मूर्तं पृथिव्यादि । अन्यत्सर्वं सर्वगत-परिमाणमाकाशादि सर्वथा परिमाणशून्यं गुणादि अभावश्चामूर्तमित्यर्थः । ततो विलक्षणत्व इति ।। भावाभावविलक्षणत्वस्यैव प्राप्तेरित्यर्थः । सदसच्छब्दौ श्रुत्यन्तरेण व्याख्यातीति ।। नन्वनयैव श्रुत्या सदसच्छब्दार्थव्यवस्थापनसम्भवे किं प्राचीनश्रुत्युदाहरणेनेति चेन्न । अनया सदसच्छब्दार्थ-निर्णयेऽपि तद्वैलक्षण्येन निमित्तेन ब्रह्मादि सदसद्विलक्षणमित्युच्यत इत्यत्र प्रमाणान्तरस्य वक्तव्यत्वात् । अत एव- ‘मूर्तामूर्तेतरद् ब्रह्म न सत्तन्नासदुच्यते’ इति श्रुतिशेषोदाहरणमिति भावः ।
द्वैतद्युमणि
श्रुतिशेष इति ।। स्ववाक्यानन्तरं शेषभ्रान्तिवारणाय श्रुतीत्युक्तम् । ननु श्रुतौ कुतः शेषः । ‘यत्रानवसरोऽन्यत्र’ इत्याद्युक्तेरनुपपत्तिं विनाऽध्याहारायोगात् इति चेत् ।
अत्र केचित्- ‘यतोऽत्राप्यनुपपत्तिर्वर्तत एव । तथा हि, न तावदियं श्रुतिर्वाय्वन्तरिक्षभिन्नेषु सत्यतां विधातुमुपक्रान्ता । तत्सत्ताकथनस्यानुपयुक्तत्वात् । तन्मात्रसत्यत्वस्य श्रुत्यन्तरविरुद्ध-त्वात् । अतो ब्रह्मप्रकृत्यादिषु सदसदन्यत्वादिबोधकश्रुतिगतिप्रदर्शनाय तत्तद्वाक्यस्थसदसच्छब्द-व्याख्यानार्थमेव प्रवृत्तेति वाच्यम् । तत्र सच्छब्दमात्रव्याख्यातात्पर्यकत्वे न्यूनतैव । तथा च प्रतिपादकतया सदसच्छब्दयोर्बुद्धिस्थत्वे सति प्रतिपाद्यतयोपस्थितपञ्चमहाभूतानां मध्ये पृथिव्यादि-त्रयस्य वाय्वन्तरिक्षभिन्नत्वेनोपादानं कृत्वा असच्छब्दघटकनञर्थभेदप्रतियोगिसमर्पकसत्पद-वाच्यताकथनेन तयोरसत्पदबोध्यता स्फुटतया लभ्यत इति सिद्धवत्कृत्य कण्ठतः श्रुत्यनुक्तं तदभिप्रेतमेव वाक्यं शाब्दबोधनिर्वाहाय पूरणीयमेवेति न कश्चिद् दोष इति । यदि तु ‘इयमानुपूर्वी देशान्तरे क्वचिदुपलभ्यमाना भवेत् । अत एव औतसिद्धौ ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सद्वायु-रन्तरिक्षं चासत् इति श्रुतेश्च’ इत्युक्तम्’ इत्युच्यते तदा श्रुतिशेषः इत्यस्य श्रुत्यन्तभाग इत्यर्थ इति व्याख्यातुं शक्यते । तथाऽप्येतादृशानुपूर्वीसत्त्वे अवश्यवक्तव्यस्य तस्यानुदाहरणं किमर्थमाचार्यैः कृतमिति महान्तः प्रष्टव्याः’ इत्याहुः ।
अन्ये तु ‘श्रुतिशेषः’ इति प्रसिद्धमाध्यन्दिनश्रुतिशेष इत्यर्थः । यद्यपि ‘द्वे वाव ब्रह्मणो रूपे । मूर्तं चैवामूर्तं च । यच्च सच्च त्यच्च तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च । एतन्मर्त्यमेतत्स्थितमेतत् सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रस एष तपति सतो ह्येष रसः । अथामूर्तं वायुश्चान्तरिक्षं च । एतदमूर्तम् । एतद्यदेतत्त्यम् । तस्यैतस्यामूर्तस्यैतस्य यतः एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः तस्य ह्येष रस इत्यधिदैवतम्’ इत्येव प्रसिद्धमाध्यन्दिनश्रुतौ पाठः श्रूयते । तथाऽपि मूलमर्थग्राहकम् । टीकायामपि इत्यभिप्रायक श्रुतिशेष इत्यर्थः । मूलेऽपि इत्यर्थिका श्रुतिरित्यर्थः । न त्वेवम्प्रकारानुपूर्वीकेति । एतन्मर्त्यमेतत्स्थितमित्यनेन व्यवहितत्वादिति ध्येयम् । मूर्तं चामूर्तं चेति विभक्तयोर्मध्ये वाय्वन्तरिक्षान्यभूतत्रयस्य मूर्तपदार्थतया गृहीतस्य मर्त्यस्थितसदादि-रूपतायास्तत्तत्पदेन विधानात् तत्तच्छब्दवाच्यत्वसिद्धौ, अथामूर्तं च वायुश्चान्तरिक्षं चेति वाय्वन्तरिक्षयोर्भिन्नत्वेनामूर्तपदार्थत्वे स्थिते सदन्यार्थाकासत्पदाभिधेयत्वस्यापि श्रुत्यभिप्रेतत्व-प्राप्तेः । न च मूर्तभिन्नत्वं तदन्यसर्वसाधारणम् । अतः कथं वाय्वन्तरिक्षयोरेव तत्पदव्यवहार्यतेति वाच्यम् । अब्राह्मणमानयेत्यादौ ब्राह्मणभिन्नत्वेन क्षत्रियादिमनुष्यस्यैव ग्रहणनियमेन सजातीय-ग्राहकतास्वाभाव्यस्य शब्दे सत्त्वेनैवोपपत्तेः । अत एव यदन्यद्वायोरित्यत्राप्यन्यपदेनावशिष्टभूत-त्रयस्यैव ग्रहणम् । अस्माद् गोरन्योऽन्वेष्टव्य इतिवत् । न तु तद्भिन्नसामान्यस्य । तथात्वे उत्तरत्राऽदित्यस्य तद्रसत्वोक्त्यसङ्गत्यापत्तेः । आदित्यस्य वाय्वन्तरिक्षभिन्नत्वेन (मूर्तत्वेन) मूर्तत्वप्राप्त्या स्वं प्रति स्वस्य रसत्वायोगात् । विना निरवकाशबाधकं सामान्यग्रहणस्यौत्सर्गिकत्वेन सङ्कोचायोगात् । एवं न्यायामृतस्थं ‘यदन्यद् वायोश्चान्तारिक्षाच्चैतत् सदिति वायुरन्तरिक्षं चासदिति श्रुतेः’ इति वाक्यमपि ‘इत्यभिप्रायकश्रुतेश्च’ इत्यर्थकतया योज्यम् । अत एव पृथक् ‘इति’शब्दः । निरन्तरवाक्यत्वे तद्वैयर्थ्यापत्तेः । औतसिद्धिकृता तु मध्यस्थेतिशब्दोऽधिकः पठित इति भ्रमेण श्रुतिपाठमेव तथा भ्रान्त्वा मध्यस्थेतिशब्दं विहायानुवादः कृतः । मूले काण्वश्रुतिव्याख्ययैव माध्यन्दिनस्यापि व्याख्येयत्वाभिप्रायेणोपलक्षणतयेयमेवोदाहृता । अतोऽत्र न तदुपेक्षाविचारावसर इत्यवधेयम् इति वदन्ति ।
परे तु अप्रसिद्धशाखान्तरपाठ एवायम् । अत एव माध्यन्दिनश्रुतिरित्यनुक्त्वा माध्यन्दिनायन-श्रुतिरिति नामान्तरग्रहणं कृतम् । अन्यथैतत्समानभूतव्याख्यानकाण्वश्रुतिपरित्यागे बीजाभाव-प्रसङ्गात् । श्रुतिशेष इति टीकाऽपि ‘इत्यानुपूर्वीरूपः श्रुतेः शिष्टो भागः’ इत्यर्थिका । टीकाकृतामपि सर्वज्ञकल्पत्वादेवमुक्तिर्युज्यते । न्यायामृते तु मध्ये किञ्चिदानुपूर्वीव्यवधानमपि सम्भावित-मित्याशयेन वा उक्तरूपनिरन्तरानुपूर्वीसत्त्वेऽवश्यमुदाहर्तव्यस्य तद्भागस्य मूलेऽनुदाहरणे बीजा-भावः स्यात् । अतो नेयं निरन्तरानुपूर्वीति निश्चित्यैव वा मध्ये इतिशब्दं पठित्वा श्रुतिद्वयं व्यवच्छिद्य पठितम् । टीकायां शेष इत्यस्याध्याहारार्थकत्वे न्यायामृते श्रुतित्वेन तत्समकक्षतया मध्ये इतिशब्दं प्रक्षिप्य पाठाभावप्रसङ्गात् । अस्या अपि श्रुतेः शाब्दमर्यादयैव स्फुटं स्वाभिमतार्थाबोधकत्वे मूलकृतां प्रसिद्धकाण्वमाध्यन्दिनश्रुतिपरित्यागे बीजाभावप्रसङ्गाच्च । प्रसिद्धश्रुतौ मूलोक्तानुपूर्व्यभावेन टीकायां तच्छेषपूरणानुपपत्तेश्च इति प्राहुः ।
गोविन्दीया
नन्विति ।। असर्वगतपरिमाणं यस्य परिमाणं सर्वत्र न विद्यते तत्तथा । पृथिव्यादित्रयं मूर्तम् । यस्य परिमाणं सर्वत्र वर्तते तत् सर्वगतपरिमाणम् । आकाशादिद्वयम् अमूर्तम् । सर्वथा परिमाणशून्यं गुणादिपञ्चकमभावश्च अमूर्तम् इत्यर्थः ।
जनार्दनभट्टीया
ननु ‘यदन्यद्वायोः’ इति श्रुत्या सच्छब्दार्थनिर्णयेऽपि असच्छब्दार्थः क इत्यत आह – वायुरन्तरिक्षं चेति ।।