असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः..

असतः अपरोक्षज्ञानाङ्गीकारे सर्वज्ञानेष्वनाश्वासशङ्का तन्निरासश्च

असतः प्रतीतिं विनाऽसद्वैलक्षण्यज्ञानानुपपत्तेः

श्रीमज्जयतीर्थटीका

किं निबन्धनश्चायमसतोऽपरोक्षप्रतीतिगोचरताऽनङ्गीकारः । क्वचिज्ज्ञानस्यानालम्ब-नत्वेऽन्यत्राप्यनाश्वासप्रसङ्ग इति चेत् तत्किं परोक्षप्रतीतेरसद्विषयत्वे नानाश्वासप्रसङ्गः । समानश्चायं प्रसङ्गः प्रातिभासिकविषयप्रत्ययाङ्गीकारेऽपि । बाधकाद्विवेक इति चेत् समं प्रकृतेऽपि ।

श्रीविजयीन्द्रभिक्षु

असतोऽपरोक्षप्रतीतौ साधकमुक्त्वा बाधकमपि निराकर्तुं पृच्छति-किंनिबन्धनश्चेति ।। अनालम्बनत्व इति ।। असद्विषयत्व इत्यर्थः । अनाश्वासेति ।। अप्रामाण्यशङ्केत्यर्थः । तथा च निष्कम्पप्रवृत्तिः क्वापि न स्यादिति भावः । असद्विषयकापरोक्षज्ञानाङ्गीकारेऽन्यत्राप्यनाश्वासः स्यादित्युक्तं तुल्यं परोक्षज्ञानेऽपीत्याह- तत्किमिति ।। असद्विषयत्वे अङ्गीकृते सतीत्यन्वयः । अनाश्वासप्रसङ्गः किं न । अनाश्वासप्रसङ्गोऽन्यत्रापि भवत्येवेत्यर्थः । किञ्चेदं रूप्यमिति ज्ञानस्य प्रातिभासिकविषयकत्वेऽप्यतिप्रसङ्गस्तुल्य इत्याह- समान इति ।। बाधकात् नेदं रूप्यमित्येवं-रूपात् । प्रकृतेऽपीति ।। असद्विषयकत्वेऽपीत्यर्थः ।

श्रीराघवेन्द्रतीर्थ

ननु तत्र प्रतीतं प्रातिभासिकवैलक्षण्यमप्यनिर्वचनीयमेव नासदित्यतः ‘तुष्यतु दुर्जनः’ इति भावेनापरोक्षज्ञानानङ्गीकारबीजान्याशङ्क्य निराह - किं निबन्धनश्चायमिति ।। तदिति । तत्किं नानाश्वासप्रसङ्गः इत्यन्वयः । वेदान्तादिशब्दजन्यपरोक्षज्ञानेऽप्यनाश्वासप्रसङ्गादसद्विषयपरोक्ष-धीरपि नाभ्युपेया स्यादिति भावः । एवं वदता प्रातिभासिकगोचरा भ्रान्तिरूपधीरपि नोपेया स्यादि-त्याह- समानश्चेति ।। अयम् १अप्रातिभासिकज्ञानेऽनाश्वासप्रसङ्ग इत्यर्थः । समं प्रकृतेऽपीति ।। असतोऽपरोक्षज्ञानाङ्गीकारेऽपि बाधके सत्यनाश्वासस्तदभावे त्वाश्वास इति बाधकादसद्विषया धीरिति विवेक इत्यर्थः ।तत्किमिति । अनाश्वासप्रसङ्गः किं नेत्यन्वयः । असतः परोक्षप्रतीतिविषयत्वाङ्गीकारे कदलीफलविषयकपरोक्षज्ञानेऽप्यसद्विषयत्वशङ्कापातेन तस्माज्ज्ञानान्निष्कम्पा प्रवृत्तिर्न स्यादि-त्यर्थः । समानश्चायमिति । इदं रजतमिति ज्ञानस्याप्रातिभासिकविषयत्वेऽयं घट इत्यादि-ज्ञानानामपि प्रातिभासिकविषयकत्वशङ्कयाऽनाश्वासप्रसङ्गेन निष्कम्पप्रवृत्तिस्तस्मान्न स्यादित्यर्थः । बाधकादिति । घटादिज्ञाने बाधकाभावाद्विश्वासः रजतज्ञाने तदभावादविश्वास इति विवेको युक्त इत्यर्थः । सममिति । इदं रजतमित्याद्यपरोक्षज्ञानस्यासद्विषयकत्वे घटादिविषयकापरोक्षज्ञानेऽपि तदाशङ्कयाऽनाश्वासप्रसङ्गो नास्ति । बाधकसद्भावासद्भावाभ्यां विश्वासाविश्वासरूपविवेको युक्त इत्यर्थः ।

गुरुराजीया

किञ्चासतो रजतस्यापरोक्षप्रतीतिविषयत्वे बाधकाभावेनाप्रयोजकतया यदसत् तन्नापरोक्षतया प्रतीयत इति व्याप्त्यसिद्ध्याऽसत्त्वेनापरोक्षप्रतीतिविषयत्वाभावापादनानुपपत्त्या नापरोक्षप्रतीतिविषयत्वेनासत्त्वाभावसिद्धिरित्याशयेनासतोऽपरोक्षप्रतीतिविषयत्वानङ्गीकारे निमित्तं पृच्छति- किंनिबन्धनश्चेति ।। इदं रजतमिति प्रतीतेः निरालम्बनत्वे अयं घट इत्यादिप्रतीतेरप्यविशेषेण निरालम्बनत्वापत्त्या तत्प्रसङ्गस्यैव विपक्षे बाधकत्वेनाप्रयोजकत्वाभावात् ‘यदसत् तन्नापरोक्षतया प्रतीयते’ इति व्याप्तिसिद्ध्या असत्त्वाभावसिद्धिरित्याशयः । तर्हि असतः परोक्षप्रतीतिविषयत्वेऽपि परोक्षज्ञानमात्रेऽसद्विषयकत्वशङ्काप्रसङ्गस्यैव विपक्षे बाधकत्वस्य वक्तुं शक्यत्वेनाप्रयोजकत्वानापत्त्या ‘यदसत् तन्न परोक्षतया प्रतीयते’ इति व्याप्तिसिद्ध्या तन्मूलकं परोक्षप्रतीतिविषयत्वस्याप्यनङ्गीकर्तव्यत्वापत्त्या परोक्षप्रतीत्यङ्गीकारेणासद्वैलक्षण्यज्ञानोपपाद-नानुपपत्तिप्रसङ्गादित्याशयेनाऽह- तत्किमिति ।।

किञ्चैवं प्रातिभासिकविषयत्वेऽयं घट इत्यादिप्रतीतेरपि तदापत्त्या तत्प्रसङ्गस्यैव विपक्षे बाधकत्वेन अप्रयोजकत्वाभावेन ‘यत्प्रातिभासिकं तदपरोक्षतया न प्रतीयते’ इति व्याप्तिसिद्ध्या रजतस्य प्रातिभासिकत्वेऽपरोक्षतया प्रतीतिविषयत्वाभावापादनोपपत्त्याऽपरोक्षप्रतीतिविषयत्वेन प्रातिभासिकत्वाभावसाधनस्य वक्तुं शक्यत्वेनापरोक्षप्रतीतेरसद्विषयत्वानङ्गीकारवत् प्रातिभासिक-विषयत्वस्याप्यनङ्गीकर्तव्यत्वेन प्रातिभासिकस्य तदङ्गीकारोऽप्यनुपपन्नः स्यादित्याशयेनाऽह- समानश्चेति ।। ननु चेदं रजतमिति प्रतीतेः प्रातिभासिकविषयत्वेऽपि न घटादिप्रतीतेः प्रातिभासिकविषयत्वं प्रसज्ज्यते । बाधकभावाभावाभ्यां विशेषेण तत्प्रसङ्गमूलभूताविशेषव्याप्त्य-सिद्धेः । ततश्च नापरोक्षप्रतीतिविषयत्वेनाप्रातिभासिकत्वसिद्धिरिति भावेन शङ्कते- बाधकाद्विवेक इति चेदिति१ ।। हन्त तर्हि बाधकभावाभावाभ्यां विशेषेण प्रसङ्गमूलभूताविशेषव्याप्त्यसिद्ध्या इदं रजतमिति प्रतीतेरसद्विषयत्वेऽपि घटादिप्रतीतेरसद्विषयकत्वप्रसङ्गानवकाशेनासतोऽपि रजतस्येदं रजतमित्यपरोक्षप्रतीतिविषयत्वोपपत्त्या नापरोक्षप्रतीतिविषयत्वेन शुक्तिरजतस्यासत्त्वाभाव-सिद्धिरिति सममेवेत्याशयेनाऽह- समं प्रकृतेपीति ।।

गोविन्दीया

क्वचिदिति ।। शशविषाणाद्यसज्ज्ञानस्य अनालम्बनत्वे आश्रयराहित्ये सर्वत्र घटपटादिज्ञाने अनाश्वासप्रसङ्ग इति  चेदिति सामान्यतः शङ्केत्यर्थः । शशविषाणादेरत्यन्तासत्त्वेन तदपरोक्षप्रतीतेरेवाभावादिति । बहिरेव परिहृत्य तत्परोक्षप्रतीतिमादाय इयं शङ्केति विशेषनिष्ठतया शङ्काभिप्रायमाह- तत्किमिति ।। शशविषाणपदात् जायमानपरोक्षप्रतीतेरसद्विषयत्वेन तत्र यथाऽनाश्वासः तद्वद् घटपटादिपदाद् जायमानपरोक्षप्रतीतेः परोक्षत्वाविशेषाद् असद्विषयत्वेन तत्राप्यानाश्वासः स्यादिति प्रसङ्ग इत्यर्थः ।

उत्तरमाह- समानश्चेति ।। प्रातिभासिकरजतविषयापरोक्षप्रत्ययाङ्गीकारेऽपि अयं प्रसङ्गः समानः । तथा हि प्रातिभासिकरजतस्यात्यन्तासत्त्वेन तदपरोक्षप्रतीतौ यथाऽनाश्वासः अपरोक्षत्वाविशेषाद् घटपटाद्यपरोक्षज्ञानेऽपि असद्विषयत्वेन अनाश्वासः स्यादित्यर्थः । पुनरपि शङ्कते- बाधकादिति ।। नेदं रजतमिति बाधकज्ञानात् प्रातिभासिकरजतविषयापरोक्षप्रत्ययेऽनाश्वासः नायं घटपटादिरिति बाधकज्ञानाभावात् तद्विषयापरोक्षज्ञाने विश्वास इति विवेक इति चेदित्यर्थः    उत्तरमाह- सम-मिति ।। प्रकृतेऽपि शशविषाणप्रतीतावपि समं समाधानम् । तथा हि शशविषाणं नास्तीति पदात् जायमानं बाधकपरोक्षज्ञानात् शशविषाणमस्तीति पदात् जाते परोक्षज्ञानेऽनाश्वासः घटादिकं नास्तीति पदप्रयोगाभावेन तज्जनितबाधकज्ञानाभावाद् घटोऽस्तीति पदात् जाते तत्परोक्षज्ञाने विश्वास इति विवेक इत्यर्थः ।

जनार्दनभट्टीया

‘साकारवादाद् असतो नभानात् संविद्विरोधाद् अथ हेत्वभावात् ।

धियामनाश्वासभयाच्च नेष्टा यतोऽन्यथाख्यातिरतो यथार्था ।’१

नभानात्’ इत्येतत् नसमासत्वात् समस्तमेकं पदम् । भानाभावादित्यर्थः । इति असदपरोक्षज्ञानाङ्गीकारे पञ्च बाधकानि । तत्र क्रममविवक्षयित्वा शङ्कते- क्वचिद् ज्ञानस्येति ।। अनालम्बनत्व इति ।। असद्विषयत्वे इत्यर्थः । अनाश्वासेति ।। अप्रामाण्यसंशयेत्यर्थः ।