न च भेदे विकल्पो युज्यते ..

विमतो भिन्न इत्यत्र भेदे पारमार्थिकत्वादिप्रश्नायोगसमर्थनम्

श्रीमज्जयतीर्थटीका

स्यादेतत् । किमनिर्वचनीयो भेदः साध्यते । किं वा पारमार्थिकः । नाऽद्यः । अपसिद्धान्तात् । न द्वितीयः । परं प्रति दृष्टान्तस्य साध्यवैकल्यादित्यत आह-

मूल

न च भेदे विकल्पो युज्यते

चशब्द एवार्थे विकल्प इत्यनेन सम्बद्ध्यते । समुच्चये वा । एतदाशङ्कानिराससमुच्चितस्यैवा-नुमानस्य साधकत्वात् । एकत्र धर्मिणि विरुद्धानेकाकारकल्पनं विकल्पः । संशय इति यावत् । तन्मूलः प्रश्नोऽत्र विकल्पपदेन लक्ष्यते । हेतुसूचनं लाक्षणिकपदप्रयोगे प्रयोजनम् ।

श्रीविजयीन्द्रभिक्षु

ननु विमतो भिन्नो मुक्तत्वादित्यनुमानेनैवोक्तरीत्या मुक्तपरमात्मनियम्यनियामक-भावोपयुक्तभेदसिद्धेः ‘न च भेदे विकल्पो युज्यते’ इत्याद्युत्तरग्रन्थसन्दर्भस्य वैयर्थ्यमित्याशङ्क्य तस्य शङ्कान्तरनिरासार्थत्वेन सार्थक्यं दर्शयितुं तदेव शङ्कान्तरं दर्शयति- स्यादेतदिति ।। अनिर्वचनीय इति ।। सत्त्वेनासत्त्वेन सदसत्त्वेन वा निर्वक्तुमशक्य इत्यर्थः । पारमार्थिक इति ।। स्वरूपेण त्रिकालसर्वदेशीयनिषेधाप्रतियोगीत्यर्थः । अपसिद्धान्तादिति ।। वादिना मुक्तपरमात्म-भेदः पारमार्थिक एवेत्यभ्युपगमादिति भावः । एतच्चोपलक्षणम् । मायावादिनं प्रत्यनिर्वचनीय-भेदसाधने सिद्धसाधनम् । अनिर्वचनीयभेदस्य मिथ्यात्वेन तस्य पारमार्थिकनियम्यनियामक-भावानुपयुक्ततया तादृशभेदसाधने अर्थान्तरञ्चेत्यपि द्रष्टव्यम् । साध्यवैकल्यादिति ।। परेण भेद-मात्रस्य पारमार्थिकत्वानभ्युपगमादिति भावः । नन्वत्र चशब्दसमुच्चेतव्यार्थस्य स्फुटमप्रतीतेः वैयर्थ्यमित्याशङ्क्य अन्वाचयेतरेतरसमाहाररूपार्थानां प्रकृतेऽसम्भवादव्ययानामनेकार्थत्वादव-धारणार्थपरत्वेन तं व्याचष्टे- चशब्द एवार्थ इति ।। वर्तमान १इत्यर्थः । ननु तथाऽपि नञा तस्यान्वये विवक्षिताधिकार्थालाभेन वैयर्थ्यतादवस्थ्यमित्यत आह- विकल्प इत्यनेनेति ।। २प्रसिद्धार्थ-परित्यागेनाप्रसिद्धावधारणार्थस्वीकारस्य नातिप्रयोजनतां मन्वान आह- समुच्चये वेति ।। प्रसिद्धार्थपरित्यागे समुच्चेतव्याभावेन समुच्चयार्थकत्वं कथमित्यत आह- एतदाशङ्केति ।। स्यादेतदित्यादिना प्रदर्शितप्रश्नेत्यर्थः । अनुमानस्येति ।। विमतो भिन्न इत्यस्येत्यर्थः । यद्यपि चशब्दस्य भेदे इत्यनेनान्वये साध्यभूते भेदे साधनभूते मुक्तत्वे निगडमुक्तादिदृष्टान्ते च विकल्पो न युज्यत इत्यपि समुच्चयार्थत्वं सम्भवति तथाऽपि तथा वाक्यार्थस्य न्यायसाम्येन लब्धुं शक्यतया न तथा वाक्यार्थाश्रयणं कृतमिति ध्येयम् ।

ननु ‘न च भेदे विकल्पो युज्यते’ इति वाक्ये विकल्पशब्दितसंशयनिरास एव प्रतीयते । तत्कथमुच्यते प्रश्ननिराससमुच्चितस्यैवानुमानस्य साधकत्वादितीत्याशङ्क्य तत्र विकल्पशब्देन लक्षणया तत्कार्यभूतः प्रश्न एव गृह्यत इति वक्तुं लक्षणाया मुख्यार्थसम्बन्धरूपत्वात् तत्प्रदर्शनाय तन्मुख्यार्थं तावदाह- एकत्रेति ।। एकस्मिन् विशेष्ये भासमानविरोधकानेकधर्मवैशिष्ट्याव-गाहिज्ञानमित्यर्थः । घटपटाविति समूहालम्बने ३शुक्तिरूप्यमिति निश्चये द्रव्यं घट इति निश्चये चातिव्याप्तिवारणाय क्रमेण विशेषणानि । तन्मूलः प्रश्न इति ।। सः विकल्पो मूलं कारणं यस्य स तथोक्तः । संशयाकारप्रदर्शकवाक्यविशेषः प्रश्न इत्यर्थः । ननु प्रयोजनं विना लाक्षणिकप्रयोगो न न्याय्य इत्यत आह- हेतुसूचनमिति ।। विना संशयं प्रश्नादर्शनेन स्वात्मलाभान्यथानुपपत्त्या स्वहेतुभूतसंशयाक्षेपक इत्यर्थः ।

श्रीवेदेशतीर्थ

एकत्रेति ।। कल्पनं ज्ञानं विकल्प इत्युक्ते अयं घट इति ज्ञानेऽतिव्याप्तिरतोऽनेकाकारेति । तावत्युक्ते वृक्षः शिंशुपा चेति समुच्चयात्मकज्ञानेऽतिव्याप्तिरतो विरुद्धेति ।। घटपटाविति समूहा-लम्बनज्ञानेऽतिव्याप्तिपरिहाराय- एकत्र धर्मिणीति ।। नन्विदं रूप्यमिति भ्रमेऽतिव्याप्तिः । तत्रेदन्त्वरजतत्वयोर्विरुद्धत्वादिति चेन्न । विरोधे भासमानत्वस्यापि विवक्षितत्वात् । तथा चैकस्मिन् धर्मिणि भासमानविरोधकानेकधर्मवैशिष्ट्यावगाहिज्ञानं संशय इति पर्यवस्यतीति भावः । लक्षणायां शक्यसम्बन्धोपपादनार्थं तन्मूल इत्युक्तम् । सः विकल्पो मूलं कारणं यस्य स तथोक्तः । संशयाकार-प्रदर्शकवाक्यविशेषः प्रश्न इत्यर्थः । ननु भेदे प्रश्नो न युज्यत इत्यनुक्त्वाऽवाचकविकल्पपदोपादाने किं निमित्तमित्यत आह- हेतुसूचनमिति ।। यदि ‘न च भेदे प्रश्नो युज्यते’ इत्येवोच्येत तर्हि  ‘कुतः प्रश्नो न युज्यते’ इत्युक्ते पृथगुत्तरं वक्तव्यं स्यात् । लाक्षणिकपदोपादाने तु प्रश्नायोगे संशयमूलकत्वरूपहेतुः सूच्यत इत्यर्थः ।

द्वैतद्युमणि

एतदाशङ्केति ।। अनुमानस्य मुक्तत्वहेतोः । साधकत्वात् पक्षे साध्यानुमितिनिर्वाहक-त्वात् । तथा च प्रकृतानुमितिजननरूपैकक्रियान्वयित्वमुभयोरिति समुच्चयनिर्वाहः । जननरूपक्रिया च जन्यज्ञानविषयत्वरूपपञ्चम्यर्थधटिकेति भावः । तथा च ‘मुक्तत्वहेतुर्वर्तते । उक्तशङ्काऽप्ययुक्त-त्वान्न दूषणम् । अतो विमतो भिन्नः’ इति पर्यवसितोऽर्थः । भेदे विकल्पो न युज्यते इत्ययुक्तम् । विकल्पपदस्य विविधधर्मपरत्वे भेदे भेदत्वघटप्रतियोगिकत्वादिनानाधर्माणां सत्त्वात् तन्निषेधा-नुपपत्तिः प्रकृतानुपयोगश्चेत्यतो विकल्पपदं प्रश्नपरतया व्याख्यातुमुपयुक्तमाह- एकत्रेत्यादिना ।। कल्पनं ज्ञानम् । अक्षरार्थमुक्त्वाऽनेन कस्य लाभ इत्यत आह- संशय इति ।।

श्रीराघवेन्द्रतीर्थ

समुच्चये वेत्युक्तं व्यनक्ति- एतदाशङ्केति ।। यावद्भेदविषयकविकल्पनिरासो न क्रियते तावदुक्तदूषणाक्रान्तं मुक्तत्वादित्यनुमानं न भेदगोचरानुमितिं जनयति । तन्निराससमुच्चितं तु करोतीति मुक्तत्वाद्भेदे विकल्पायोगाच्च विमतो भिन्न इति समुच्चयार्थश्चशब्द इत्यर्थः । एवमग्रेऽपि ध्येयमिति भावः । लक्षणायां शक्यसंबन्धमाह - तन्मूल इति ।। तन्मूलकस्तज्जन्य इत्यर्थः । ननु ‘न च भेदे प्रश्नो युज्यते’ इत्यनभिधाय, अवाचकविकल्पपदोपादने किं निमित्तमित्यत आह-१ हेतुसूचनमिति ।। यदि ‘न च भेदे प्रश्नो युज्यते’ इत्येवोच्येत, तर्हि कुतः प्रश्नो न युज्यत इत्युक्ते पृथगुत्तरं वक्तव्यं स्यात् । लाक्षणिकपदोपादाने संशयमूलकत्वादिरूपो हेतुः सूच्यत इत्यर्थः ।२

गुरुराजीया

एकत्र धर्मिणीति ।। एकस्मिन् धर्मिणि भासमानविरुद्धनानाकोटिकज्ञानमित्यर्थः । अत्र च घटपटाविति समूहालम्बने दैवाद् विरोधभानदशायामतिप्रसङ्गवारणायोक्तमेकस्मिन् धर्मिणीति । घटोऽयमिति निश्चयेऽतिप्रसङ्गवारणायोक्तमनेकाकारेति । द्रव्यं घटश्चेत्यत्रातिप्रसङ्गवारणाय विरुद्धेत्युक्तम् । स्थाणुः पुरुषश्चेति विपर्ययेऽतिप्रसङ्गपरिहाराय भासमानतया विरोधो विशेषितः ।

यत्तु ‘उक्तरूपविशिष्टज्ञानं समानसामग्रीजन्यत्वेन अनाहार्यत्वेन वा अवश्यं विशेषणीयम् । तेन धूमांशे चक्षुरादिजन्यतया धूमाभावांशे आपादकप्रत्ययजन्यतया भिन्नसामग्रीजन्ये आहार्ये च ‘धूमवानयं पर्वतो यदि निर्वह्निः स्यात् तर्हि धूमोऽपि न स्यात्’ इति तर्के एकत्र पर्वते धूमतदभावावगाहिनि नातिव्याप्तिः’ इति केषाञ्चिद्व्युत्पादनं तदसत् । तर्कस्यैककोटिकत्वेनोक्त-लक्षणस्य तत्राभावात् । तथा हि, अनेककोटिकत्वं स्वमतेन किं वा परमतेन । नाऽद्यः । निरग्निकत्वं प्रति निर्धूमत्वस्य व्यापकत्वं लिङ्गम् । तज्ज्ञानं करणम् । निरग्निकत्वाभावं प्रति निर्धूमत्वाभावस्य व्याप्यत्वं लिङ्गम् । तज्ज्ञानं फलमिति पक्षे, आपादकरूपं निरग्निकत्वं लिङ्गं तस्य पक्षेऽभ्युपेतत्वमेव पक्षसम्बन्धः निर्धूमत्वमेव लिङ्गि । तस्य पक्षेऽभ्युपगमनीयत्वमेव पक्षसम्बन्ध इति पक्षे, निरग्निकत्वेनाङ्गीकृतत्वं लिङ्गं निर्धूमत्वेनाङ्गीकर्तव्यत्वं च लिङ्गीति पक्षे वा करणांशे वा फलांशे वा स्वमते अनेककोटिकत्वाभावात् । नान्त्यः । तन्मते ‘निर्धूमः स्यात्’ इत्येतावन्मात्रस्यैव तर्कस्वरूपत्वेन तत्रोक्तलक्षणागमनान्नातिव्याप्तिः । फले करणविशेषे उक्ताकारत्वेऽपि वा तत्र धूमतदभावयोः विरोधाभानेन विरोधभानघटितलक्षणाभावेन, कथञ्चित्तदुपपादनेऽपि वा तस्य संशयत्वेन लक्ष्यतया तत्रातिव्याप्तिशङ्कानुदयात् । स्वमते तर्कस्यानाहार्यत्वेन तेन तत्रातिव्याप्ति-परिहारासम्भवात् । स्वकीयलक्षणव्याख्यानावसरे पररीत्या अतिव्याप्तिशङ्कापरिहारयोरत्यन्ता-सङ्गतत्वाच्चेत्यन्यत्र विस्तरः ।

गोविन्दीया

समुच्चये वेति ।। सन्देहो न युज्यते, प्रश्नश्च न युज्यत इत्यर्थः । कुतो न युज्यते ? इत्याक्षिप्य हेतुमाह- एतदिति ।। एतदाशङ्कानिरासानुमानेन समुच्चितस्यैव पूर्वानुमानस्य भेदसाधकत्वादित्यर्थः ।

नारोपन्तीया

एकस्मिन् धर्मिणि विरुद्धानेकाकारकल्पनमिति । घटपटाविति समूहालम्बनेऽति-व्याप्तिवारणायोक्तम्- एकस्मिन् धर्मिणीति ।। घटोऽयमिति निश्चयेऽतिव्याप्तिवारणायोक्तम्- अनेकाकारेति ।। द्रव्यं घटश्चेत्यत्रातिप्रसङ्गनिरासार्थमुक्तम्- विरुद्धेति ।। विरोधश्चात्र न स्वरूपेण विवक्षितः । किन्तु भासमानतया । तेनायं ब्राह्मणो वा परिव्राजको वेत्यत्र संशये नातिव्याप्तिः । स्थाणुः पुरुषश्चेति विपर्ययेऽपि नातिव्याप्तिरिति ध्येयम् । तादृशं चोक्तरूपं विशिष्टज्ञानं समान-सामग्रीजन्यत्वेनापि विशेषणीयम् । तेन धूमवानयं पर्वतो यदि निर्वह्निकः स्यात् तर्हि निर्धूमोऽपि स्यादिति तर्के धूमतदभावावगाहिनि नातिव्याप्तिः । तत्र धूमांशे चक्षुरादेः, धूमाभावांशे चाऽपादक-प्रत्ययस्य जनकत्वात् । न चैवमसम्भवः । स्थाणुर्वा पुरुषो वेत्यादिसंशयेऽपि तत्तत्कोटिस्मरण-रूपासमानसामग्रीजन्यत्वादिति वाच्यम् । साधारणधर्मदर्शनजन्यकोटिस्मरणत्वेनानुगमात् तवापि समानाया एव सामग््रयाः सत्त्वात् । अथवाऽनाहार्यत्वेन तादृशज्ञानविशेषणान्न कोऽपि दोषः । तथाचैकस्मिन् धर्मिणि भासमानविरोधाऽनेकाकारावगाह्यनाहार्यज्ञानं संशय इत्यर्थः ।

जनार्दनभट्टीया

हेतुसूचनमिति ।। कुतः प्रश्नो न युज्यते? इत्युक्ते कारणीभूतसंशयाभावात् इति हेतुसूचनमित्यर्थः ।