विश्वं सत्यं...

अनृतादिशब्दानां प्रपञ्चानिर्वाच्यत्वबोधकत्वाभावे प्रपञ्चसत्यत्वस्य प्रमितत्वरूपकारणोक्तिः

श्रीमज्जयतीर्थटीका

कस्मादेवमनृतत्वाद्युक्तेरन्यार्थवर्णनम् । ब्रह्मवत्सत्यत्वेन प्रमितत्वादित्याह-

मूल

विश्वं सत्यं.............. ।

प्रमितमिति शेषः । न च सत्यत्वेऽपि परमात्मनोऽस्याविशेषः शङ्कनीयः । एतत्सत्ताया अपि तदधीनत्वादित्याह-

मूल

......... वशे विष्णोः ............. ।

तदधीनसत्ताकमपि तेन नोत्साद्यत इत्याह-

मूल

............... नित्यमेव .......... ।।

न च तथात्वे भागे प्रत्यक्षादिविरोधश्शङ्कनीय इत्याह-

मूल

.................. प्रवाहतः ।

प्रवाहतो नित्यत्वेऽपि नावान्तरवैचित्र्यमित्याह-

मूल

न क्वाप्यनीदृशं विश्वं.............. ।

क्वापि काले । तथात्वेऽपि न प्रलयाद्यागमविरोधश्शङ्कनीय इत्याह-

मूल

............तत्तत्कालानुसारतः ।।

यस्मिन् काले यादृशेन भवितव्यं तथाभावस्य न व्यत्यास इत्युक्तं भवति । यदि तर्हीत्थम्भूतं जगत् कथं केचिद्वैपरीत्येनाऽहुरित्यत आह-

मूल

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।

त आसुराः ................... ।१

अत्र ‘विश्वं सत्यं वशे विष्णोर्नित्यमेव प्रवाहतः’ इत्यस्यासत्यमनीश्वरमप्रतिष्ठमिति विपरीतोक्तिः । आसुरा इति मिथ्याज्ञानित्वे हेतुः । किमर्थं ते तथाऽहुरित्यत आह-

मूल

............. स्वयं नष्टा जगतःक्षयकारिणः । इत्यादि व्यासस्मृतौ ।

श्रीविजयीन्द्रभिक्षु

ननु विश्वं सत्यमिति वाक्ये प्रमितमित्यश्रवणात् कथं सत्यत्वेन प्रमितत्वं हेतूक्रियत इत्यत आह- प्रमितमिति ।। ‘सन् घटः’ इत्यादिप्रत्यक्षेण विश्वं सत्यमित्यादिश्रुत्या अर्थक्रिया-कारित्वादिलिङ्गेन च यतः प्रमितमत इत्यर्थः । अविशेष इति ।। स्वातन्त्र्यादिनेति शेषः । एतत्सत्ताया अपीति ।। जगत्सत्ताया इत्यर्थः ।

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ।।’

इत्यादेरिति भावः । तदधीनेति ।। यथेष्टविनियोगार्हेत्यर्थः । यद्यपि यदधीनसत्ताकं यत्तत्तेनोत्साद्यत इति नियमाभावो लोकत एव सिद्धः तथाऽपि परमात्मनि लोकवदेव कादाचित्कत्वप्रसक्तिरपि नास्तीति भावः । प्रत्यक्षादिविरोध इति ।। घटादीनां प्रत्यक्षादिना नाशदर्शनादिति भावः । प्रवाहेण नित्यत्वेऽपीति ।। सजातीयप्रागभावव्याप्यध्वंसप्रतियोगित्वेऽपीत्यर्थः । अवान्तरवैचित्र्यमिति ।। कल्पभेदेन घटादिपदार्थानां विलक्षणाकारत्वमित्यर्थः । अनीदृशमिति ।। ‘धाता यथापूर्व-मकल्पयत्’ इत्यादिश्रुतेश्चेत्यपि द्रष्टव्यम् । यादृशेनेति ।। यादृशावस्थाविशेषविशिष्टेनेत्यर्थः । इत्थम्भूतमिति ।। उक्तरीत्या सत्यत्वादिना प्रमाणसिद्धमित्यर्थः ।

श्रीवेदेशतीर्थ

ब्रह्मवदिति ।। अन्यथा ब्रह्मानृतत्वाभिधायकवाक्यस्याप्यर्थान्तरवर्णनं त्वया न क्रियेतेति भावः ।

द्वैतद्युमणि

न्यायप्रदर्शनपूर्वकं व्याख्यानार्थं स्मृतेः प्रवृत्तत्वात् तल्लाभायाऽह- प्रमितमितीति ।। अविशेष इति ।। तथा च ‘तस्योपनिषत्सत्यस्य सत्यम्’ इति वचनविरोधप्रसङ्गः स्यात् । तत्परिहारायोक्तवचनमवान्तरसत्यत्वपरमेवेति भावः । तदधीनत्वादिति ।। इत्थं च सत्यस्य सत्यताप्रदमिति श्रुत्यर्थः ।

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।।’

इति स्मृत्यनुगृहीतत्वेनास्यैवार्थस्य प्रामाणिकत्वादितरस्य त्वौत्प्रेक्षिकत्वादिति भावः । न तेनोत्सा-द्यत इति ।। स्वरूपसत्त्वापहारो न क्रियत इत्यर्थः । न सन्ति यदुपेक्षयेति वाक्यस्यार्थवादत्वपरिहाराय कारणकार्यादिसमस्तरूपैः प्रपञ्चोच्छेदो वक्तव्यः । अन्यथा पूर्वभागस्याप्यर्थवादत्वप्राप्त्या तदुक्त-रीत्या भवदभिप्रेतः श्रुत्यर्थोऽपि न स्यादिति शङ्काभावान्न निर्दलशङ्कानिराकारकमिदमिति ज्ञात-व्यम् । मूले नित्यमेवेति सर्वथा सत्त्वापहाररूपबाध्यत्वरहितमेवेत्यर्थः । न सन्ति यदुपेक्षयेति भगवच्छक्तेर्दुर्घटकारित्वतात्पर्यकम् । भाग इति ।। लोकव्यवहारगोचर इत्यर्थः । प्रत्यक्षादीति ।। चक्षुरादिनाशोऽनुमानसिद्ध इत्याशयेन आदीति । शङ्कनीय इति ।। घटादिरूपेणासत्त्वस्यानुभव-सिद्धत्वात् कारणरूपेणापि सत्ताकल्पने मानाभावात् सर्वात्मना स्वरूपोच्छदे एवेति शङ्काभावः । मूले प्रवाहतः इत्यनेन कारणस्वरूपस्यापि बाधे जगत्प्रवाहोच्छेदापत्त्या ‘अनाद्यनन्तं जगदेतदीदृक् प्रवर्तते’ इति श्रुतिविरोधापत्त्या कारणोच्छेदो न युक्त इति युक्तिः सूचिता भवतीत्याशयः ।

नन्विदानीं जातस्य वसिष्ठादेरुत्तरकल्पे सत्तायाः भवदनङ्गीकारादनाद्यनन्तमिति श्रुतिरुप-चरितार्थैवावश्यं वक्तव्येति न तदनुरोधेन कारणसत्ता कल्पनीयेत्याशयेनाऽशङ्क्य निषेधति- प्रवाहत इति ।। नित्यत्वेऽपि नित्यत्वाङ्गीकारपक्षेऽपि । अवान्तरवैचित्र्यम् उत्तरकल्पे वसिष्ठाद्यसत्त्वं भवदङ्गीकृतमित्यर्थः । तथा च ‘अनाद्यनन्तम्’ इति श्रुतिरमुख्यानन्तत्वपरेति हृदयम् । मूले अनीदृशं वसिष्ठादिरहितमित्यर्थः । तथा च वसिष्ठाद्यसत्त्वमसिद्धमिति न तदनुरोधेन श्रुतिरुपचरितार्थेति भावः। प्रलयादीति ।। महदादीनां प्रलये नाशाद् वसिष्ठादीनामपि मुक्तत्वात् तदभाव इत्याद्यर्थकश्रुतीत्यर्थः। तथाभावस्य न व्यत्यास इति ।। तादृशविश्वभवनस्येत्यर्थः । तथा च ‘एतदीदृक्’ इति श्रुतौ जगदन्तरस्य तत्सादृश्यमेवोच्यते । तच्च महदादिकान्तरं, वसिष्ठाद्यन्तरं चाऽदायोपपद्यत एवेति न श्रुतिरूपचरितार्था । निरुपादानोत्पत्त्यभावात् पुनस्तत्सजातीयोत्पत्त्याद्यर्थं च कारणादिसत्ता आवश्यकीति भावः । केचिद् वैपरीत्येनेति ।। तद्वाक्यानामप्यागमत्वाविशेषेण प्रामाण्यात् तद्विरुद्धभवदुदाहृतश्रुतीनामनिर्णायकत्वं वा तस्य व्याख्यानरूपतया प्राबल्ये तदनुरोधेन नेयत्वं वेति भावः । अप्रतिष्ठमिति ।। ज्ञानोच्छेद्यमित्यर्थः । तथा च प्रवाहतो नित्यत्वविरुद्धार्थकत्वलाभः । ननु ‘य एवमाहुस्ते असुराः’ इति तत्स्वरूपकथनेऽपि तद्वाक्यप्रामाण्याभावे पूर्वोक्तदोषो न परिहार्यः इत्यत आह- आसुरा इति ।। असुराणां मिथ्याज्ञानित्वं प्रसिद्धमेवेति तदुक्त्या मिथ्याज्ञानमूलकत्वात् तद्वाक्यप्रामाण्यमुपपादितमेव भवति । मिथ्याज्ञानिन इत्युक्तौ तु तत्रापि कारणशङ्का स्यादेवेति मूलकारणमेवोक्तमिति भावः । ननु परप्रयोजनं विना तदुक्तेः प्रयोजनान्तराभावात् तत्साफल्यस्य ज्ञानद्वारैव वक्तव्यतया मन्वादिवाक्यवत् प्रामाण्यमेवेत्याशयेन पृच्छति- किमर्थमिति ।। मूले स्वयं नष्टाः स्वभावतो ज्ञानादिगुणविरुद्धधर्मवन्तः । जगतः क्षयकारिणः मिथ्याज्ञानजननद्वारा तमोरूपार्थसम्पादका इत्यर्थः ।

अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिः .... ।’१

इत्याद्युक्तेः । तथा च प्रयोजनभ्रमेण तैस्तथाऽभिधानेऽपि वस्तुतो निष्प्रयोजनत्वान्न तद्वाक्यप्रामाण्यमिति भावः ।

श्रीराघवेन्द्रतीर्थ

कस्माद् इति प्रश्नस्योत्तरमाह - ब्रह्मवदिति ।। इति शेष इति ।। सत्यतया प्रमितमिति तदर्थ इति भावः । भाग इति ।। अनित्यवस्तुभाग इत्यर्थः। प्रलयेति ।। यत्प्रयन्तीत्याद्यागमेत्यर्थः।

गोविन्दीया

अविशेष इति ।। साम्यमित्यर्थः । भागे इति ।। कार्यात्मकजगद्भागे अनित्यत्वेन प्रत्यक्षादिविरोध इत्यर्थः । तथात्वेऽपीति ।। सर्वकाले ईदृशत्वे सृष्टिकाले यादृग्विधं तादृक् स्थितिकाले न भवति । तथाविधं च प्रलयकाले न भवतीति प्रलयादिविधायकागमविरोध इत्यर्थः । अप्रतिष्ठमिति ।। ज्ञानबाध्यं प्रवाहतोऽनित्यमित्यर्थः । असुरा इति ।। ‘असत्यमप्रतिष्ठं ते’ इत्यादिवाक्ये मिथ्याज्ञानिन इत्यध्याहृतस्य ते इति प्रथमोक्तेनान्वयः ।

जनार्दनभट्टीया

ननु ‘विश्वं सत्यम्’ इत्यत्र प्रमितपदाश्रवणाद् ब्रह्मवत् सत्यत्वेन प्रमितत्वादिति कथमवतारिकायामुक्तमित्याशङ्क्याऽह– प्रमितमिति शेष इति ।। भाग इति ।। जगदेकदेशिनि विनाशिनि घटादौ नित्यत्वस्य प्रत्यक्षविरोध इत्यर्थः । आदिशब्दस्य स्वर्गाद्यनित्यताप्रतिपादकेन ‘एवं लोकं परं विन्द्यात् नश्वरं कर्मनिर्मितम्’ इत्यागमेन विरोध इत्यर्थः । ‘प्रवाहतः’ इति तसेः सार्वविभक्तिकत्वात् तृतीयार्थकत्वं प्रकृते विवक्षितमिति अनुवादव्याजेन आविष्करोति – प्रवाहत इति१ ।। नावान्तरवैचित्र्यमिति ।। कस्मिंश्चित् कल्पे पौर्णमासी अन्यस्मिन्नेत्येवंरूपम् अवान्तर-वैचित्र्यमित्यर्थः । ‘न च भावाभावविलक्षणं क्वचिदागमो वक्ति’ इत्यत्र क्वचिदित्यस्येव क्वापीत्यस्य प्रदेशपरत्वं वारयति – क्वापि काल इति ।। तथात्वेऽपीति ।। प्रवाहेणानादित्वेऽपीत्यर्थः । यस्मिन् काल इति ।। नहि प्रलयाद्यागमः प्रवाहस्यापि नाशमाह । किन्तु प्रवाहिणामिति भावः । इत्थम्भूत-मिति ।। प्रवाहेणानादीत्यर्थः ।