प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम् ..

प्रत्यक्षस्य सत्त्वग्राहित्वनियमोपपादनम्

श्रीमज्जयतीर्थटीका

एवं प्रत्येकं निराकृतान्यनुमानानि साधारणदूषणेनापि दूषयति-

मूल

प्रत्यक्षबाधितञ्च जगन्मिथ्यात्वम् ।

अत्र जगन्मिथ्यात्वमित्युपलक्षणम् । आत्मभेदाभावश्चेत्यपि द्रष्टव्यम् ।

श्रीविजयीन्द्रभिक्षु

प्रत्यक्षबाधोद्भावनस्य सन्निहितपरिच्छिन्नत्वानुमानमात्रविषयत्वशङ्कां व्यावर्तयति- एवमिति ।। उपलक्षणमिति ।। यद्यपि जगच्छब्देन भेदोऽपि सङ्गृहीतस्तथाऽपि परेणाऽकार-भेदेनानुमानोपन्यासात्तदभिप्रायेणैवं व्याख्यानम् ।

श्रीराघवेन्द्रतीर्थ

एवमिति ।। आत्मनोऽपि दृश्यत्वादित्यादिप्रकारेणेत्यर्थः । साधारणेति ।। सर्वानुमानादि-साधारणदूषणेनेत्यर्थः । आत्मभेदाभावश्चेति । प्रत्यक्षबाधित इत्यन्वयः ।आत्मभेदाभावश्चेति ।।

अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ।

सर्वज्ञतादीशगुणविरुद्धाह्यनुभूतिगाः ।।’

इत्युक्तप्रकारेण प्रत्यक्षे धर्मिणि भेदकधर्मसाक्षात्कारस्य भेदसाक्षात्कारव्याप्तत्वेन जीवेषु परमात्म-प्रतियोगिकभेदस्यापि प्रत्यक्षसिद्धत्वेन ‘विमता आत्मानः परमात्मनस्तत्त्वतो न भिद्यन्ते’ इत्यनु-मानेन साध्यमानो भेदाभावः प्रत्यक्षबाधित इत्यर्थः ।

गुरुराजीया

मिथ्यात्वशब्दस्य मिथ्यात्वमात्रपरत्वे प्रत्यक्षबाधस्य मिथ्यात्वानुमानमात्रनिष्ठत्वापत्त्या भेदाभावसाधकानुमानागमसाधारण्यालाभात् तल्लाभायोपलक्षणतया मिथ्यात्वशब्दं व्याचष्टे- अत्रेति ।।

नारोपन्तीया

एतेनेत्यनेनातिदिष्टं वक्ष्यमाणं प्रत्यक्षबाधरूपं दोषमात्मत्वहेतौ योजयितुं उपलक्षणीय-माह- आत्मभेदाभावश्चेति ।। आत्मनि भेदाभावः आत्मभेदाभावः । तथा च- ‘विमतं मिथ्या दृश्यत्वात्’ इत्याद्यनुमानवत् ‘आत्मा न वस्तुतः परिच्छिन्नः आत्मत्वात्’ इत्येतदनुमानमपि कालात्ययापदिष्टमिति भावः ।

जनार्दनभट्टीया

मिथ्यात्वानुमानानां दृश्यत्वाद्यनुमानानां दृश्यत्वाद्यनुमानेष्वपि एत एव दोषाः । आत्मनोऽपि दृश्यत्वात् इत्यादिना सामान्यतो विशेषतश्च अनुमानानां निराकृतत्वात् पौनरुक्त्यमित्याशङ्कां परिहरन् ‘प्रत्यक्षबाधितं च’ इति वाक्यमवतारयति – एवं प्रत्येकमिति ।। आत्मभेदाभावश्चेत्यपि द्रष्टव्य-मिति ।। आत्मभेदाभावस्यापि ‘न च कयाऽपि युक्त्या’ इत्यादिना पूर्वप्रस्तुतत्वाद् उपलक्षण-मावश्यकमिति भावः । न सदित्येवमाकारेति ।। ‘शीघ्रम्’ इति शेषः ।

Load More