विमतो भिन्नो मुक्तत्वात्..
प्रकारान्तरेण हेतुसाध्यपरिष्कारः
विमतो भिन्नो मुक्तत्वात्..
अथवा संसारसंसर्गाभावो मुक्तत्वं तथात्वे घटो दृष्टान्तः । परमात्मप्रतियोगिको वा भेदोऽत्र साध्यः । बन्धप्रध्वंसाधिकरणत्वं च मुक्तत्वमिति न परमात्मनि व्यभिचारः ।
श्रीविजयीन्द्रभिक्षु
मुक्तत्वहेतौ दूषणदानाय प्रकृत्यर्थं तावत् पृच्छति- ननु मुक्तत्वमिति ।। तत्संसर्गाभावो वेति ।। तत्संसर्गावच्छिन्नप्रतियोगिताकाभावो वेत्यर्थः । परमात्मनीति । मुक्तवत् परमात्मनोऽपि पक्षत्वाभ्युपगमादिति भावः । यद्यपि पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरनुमान-फलत्वमिति पक्षे न भागासिद्धिर्दोषः तथाऽपि पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेस्तत्फलत्वमिति पक्षे सा दोष एव । तदवच्छेदकावच्छेदेन साध्यसिद्धौ तदवच्छेदकावच्छेदेन हेतुज्ञानस्य कारणतया तस्यास्तद्विघटकत्वादिति ध्येयम् । निगडमुक्तादिदृष्टान्तस्येति ।। तस्य संसारित्वादिति भावः । अत एवेति । निगडमुक्तादिदृष्टान्तस्य साधनवैकल्यादेवेत्यर्थः । उक्तविकल्पे द्वितीयपक्ष एवाभिप्रेतः । किं तु प्रतियोगिदिशि संसारत्वनिगडत्वादिविशेषापुरस्कारेण तदुभयसाधारणबन्धत्व-सामान्यमात्रं विवक्षितमिति समाधत्ते- अविवेचितविशेषेति ।। अनुपात्तसंसारत्वनिगडत्वादि-विशेषेत्यर्थः । हेतुत्वादिति ।। हेतुशरीरप्रविष्टत्वादित्यर्थः । अन्यथा प्रसिद्धधूमाद्यनुमानस्यापि ‘किं पर्वतीयधूमो हेतुरुतापर्वतीयः । नाऽद्यः । दृष्टान्तस्य साधनवैकल्यात् । न द्वितीयः । असिद्धेः इत्यादि विकल्प्य दूषणप्रसङ्गेन दुष्टत्वं स्यादिति भावः । यद्यपि संसारनिगडादौ बन्धत्वं नैकं सम्भवति तथाऽपि लोकवेदयोः बन्धशब्दप्रयोगविषयत्वमनुगतं सम्भवतीति तदाश्रयप्रतियोगिक-संसर्गाभावस्य हेतुत्वे न कश्चिद्दोष इति ध्येयम् । उक्तरीत्या प्रकृत्यर्थपर्यालोचनया अधिकरणत्व-रूपक्तप्रत्ययार्थपर्यालोचनया च पर्यवसितहेतुशरीरवैयर्थ्यमाशङ्कते- ननु चात्रेति ।। बन्धाभावेति ।। बन्धसंसर्गाभावेत्यर्थः । वैयर्थ्यमुपपादयति- केवलान्वयित्वेनेति ।। केवलान्वयिसाध्यकत्वेन पर्यवसितहेतौ बन्धसंसर्गरूपविशेषणयोः व्यावर्त्याभावादित्यर्थः । प्रमेयत्वादीनामपीति ।। शब्दोऽभिधेयः प्रमेयत्वाद् ज्ञेयत्वात् प्रामाणिकत्वात् इत्यादिकेवलान्वयिसाध्यकहेतूनामप्युक्तरीत्या व्यर्थविशेषणत्वस्य सुवचत्वेन तेषां केवलान्वयिहेतुत्वभङ्गप्रसङ्गादित्यर्थः । किं प्रमाग्रहणेने-त्यादेरिति ।। अत्र प्रमापदं ज्ञानादीनामप्युपलक्षकम् । आदिपदेन विषयत्वं स्वरूपसम्बन्धविशेषः । तत्र स्वरूपत्वेनालम् । किं विशेषग्रहणेनेत्यादिदूषणपरिग्रहः ।
प्रमेयत्वादिहेतुषूक्तदूषणोद्धारं शङ्कते- यदिति ।। अत्र हेतुपदेन तदर्थो व्याप्यमुच्यते । तथा च यद्विशेषणं हेतुशरीरमात्रानन्तर्गतं सत्तद्दोषनिवारणार्थमुपादीयते तदेव तद्दोषपरिहारलक्षणमवेक्षते । यथा ‘शब्दोऽनित्यः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात्’ इत्यादौ सामान्यवत्त्वे सती-त्यादिविशेषणम् । न तु हेतुशरीरमात्रान्तर्गतं विशेषणमपि । प्रमा च प्रमाविषयत्वरूपहेतुशरीर-मात्रान्तर्गतैव । व्याप्तेः विशिष्टनिष्ठत्वात् । अत एव ‘यन्निरूपिता व्याप्तिः येन विशेषणेन विना न गृहीतुं शक्यते तदेव विशेषणं सार्थकम्’ इति वदन्तीति भावः । समं प्रकृतेऽपीति ।। प्रकृतहेतावपि व्याप्तेः विशिष्टनिष्ठत्वेन तद्गतबन्धादिविशेषणानामपि हेतुशरीरमात्रान्तर्गतत्वेन प्रयोजनान्तरापेक्षा-विरहात् समं समाधानमिति भावः । मुक्तत्वमिति ।। मुक्त्यधिकरणत्वरूपहेतुशरीरप्रविष्ट-मुक्तिपदार्थ इत्यर्थः । ननु संसारसंसर्गाभावाधिकरणत्वरूपहेतोर्निगडमुक्तादिदृष्टान्तेऽभावान्न तस्य दृष्टान्तत्वमित्यत आह- तथात्व इति ।। संसाररूपप्रतियोगिविशेषितसंसर्गाभावाधिकरणत्वस्य हेतुत्व इत्यर्थः । मुक्तपरमात्मनोः नियम्यनियामकभावोपयुक्तभेदविशेषस्यैवात्र साधनमुचितम् । न तु भेदमात्रस्येत्यनुशयवन्तं प्रत्याह- परमात्मप्रतियोगिको वेति ।। नन्वेवं बन्ध-संसर्गाभावाधिकरणत्वहेतोः परमात्मन्येव व्यभिचारः स्यादित्याशङ्क्याऽह- बन्धेति ।। अत्र बन्धत्वमुक्तरीत्या अनुगतं द्रष्टव्यम् । यद्यप्ययं पक्षः ‘प्रागवस्थायां येन’ इत्युक्तपक्षात् फलतो न भिद्यते तथाऽपि ‘पृथिवी इतरेभ्यो भिद्यते’ इतिवत् ‘अथ वा प्रागवस्थायां’ इत्युक्तपक्षस्यानेक-भेदसाधनरूपेण प्रवृत्तत्वाद् अस्य च ‘पृथिवी जलादिभिन्ना’ इतिवद् विशिष्य परमात्ममात्र-प्रतियोगिकभेदसाधनरूपेण प्रवृत्तत्वात् ततो भेद इति ध्येयम् ।
श्रीवेदेशतीर्थ
मुक्तत्वहेतौ दूषणदानाय प्रकृत्यर्थं तावत् पृच्छति- नन्विति ।। तत्संर्गाभावो वेति ।। तत्संसर्गावच्छिन्नप्रतियोगिकाभावो वेत्यर्थः । परमात्मन्यसिद्धेरिति ।। ध्वंसस्य प्रतियोगि-समानाधिकरणत्वेन संसारध्वंससत्त्वे संसारस्यापि प्राप्तेरित्यर्थः । अत एवेति ।। साधनवैकल्या-देवेत्यर्थः । अविवक्षितविशेषेति ।। अविवक्षितविशेषश्चासौ बन्धश्चेति विग्रहः । बन्धसंसर्गाभावे-त्युक्त्या कथमुक्तदोषपरिहार इत्यत इदमुक्तम् । निगडबन्धस्यापि बन्धत्वात् तन्मुक्ते बन्धसंसर्गा-भावोऽस्तीति न दृष्टान्तः साधनविकल इति भावः । हेतुत्वादिति ।। हेतुशरीरप्रविष्टत्वादित्यर्थः । अधिकरणार्थकक्तप्रत्ययपर्यालोचनयाऽपि पर्यवसितहेतुशरीरे वैयर्थ्यमाशङ्कते- नन्विति ।। केवलान्वयित्वेनेति ।। साध्यस्य केवलान्वयित्वेनाभावाधिकरणत्वमात्रस्य व्यभिचाराभावाद् बन्ध-विशेषणव्यावर्त्याभाव इत्यर्थः ।। कारकं कारणविशेष इति ।। ‘क्रियां कुर्वद्धि कारकम्’ इति क्रियारूपकार्यविशेषजनकस्यैव कारकत्वादिति भावः । क्रियारूपफलजनकं कारकम् । कारणं च क्रियाफलोपधानाभावेऽपि १स्वरूपयोग्यस्य साधारणमिति कारकं कारणविशेष इत्यर्थः । केवलान्वयित्वभङ्गप्रसङ्गादिति ।। केवलान्वयिसाध्यकानुमानभङ्गप्रसङ्गादित्यर्थः । विषयत्वेना-लमिति ।। तावन्मात्रस्य अभिधेयत्वेन व्यभिचाराभावादिति भावः । इत्यादेरित्यादिपदेन विषयत्वं स्वरूपसम्बन्धविशेषः । तत्र स्वरूपत्वेनालं किं विशेषग्रहणेनेत्यादिपरिग्रहः । यद्धेतुव्यावर्तक-त्वेनेति ।। यथा सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वादित्यादौ सत्यन्तं न हेतुशरीर-मात्रान्तर्गतम् । प्रमा च प्रमाविषयत्वरूपहेतुशरीरान्तर्गतैव । तस्याखण्डोपाधित्वेनाभि-धेयत्वनिरूपितव्याप्तेर्विशिष्टनिष्ठत्वात् । अत एव यन्निरूपितव्याप्तिर्येन विशेषणेन विना न गृह्यते तदेव विशेषणं सार्थकमिति वदन्तीत्यर्थः । मुक्तत्वमिति ।। मुक्त्यधिकरणत्वरूपहेतुप्रविष्ट-मुक्तिपदार्थ इत्यर्थः । नन्वेवं निगडमुक्तदृष्टान्तः साधनविकल इत्यत आह- तथात्व इति ।। परमात्मप्रतियोगिको वेति ।। ननु परमात्मनोऽपि पक्षत्वेनांशे बाध इति चेन्न । अस्मिन् पक्षे परमात्मनो विपक्षत्वेनाङ्गीकारात् । अत एव तत्र बन्धसंसर्गाभावस्य संसारसंसर्गाभावस्य वा हेतोर्व्यभिचारमाशङ्क्य दूषयति- बन्धेति ।। अस्मिन् पक्षे मुक्तामुक्तयोरित्यादिकमेव विपक्षे बाधकमिति ज्ञेयम् ।
द्वैतद्युमणि
परमुखेनैव समाधिं वाचयितुं प्रतिबन्दीं गृह्णाति- प्रमेयत्वादेरिति ।। केवलान्वयित्वेति ।। केवलान्वयिसाध्यकसद्धेतुत्व इत्यर्थः । भङ्गेति ।। व्यर्थविशेषणघटितत्वेन दुष्टत्व-प्रसङ्गादित्यर्थः । वाच्यं ज्ञेयत्वादित्यादिहेतुप्रयोगस्य मण्यादिन्यायग्रन्थेषु पदार्थत्वादित्यादिहेतूनाम् औतसिद्धि-भेदधिक्काराद्यद्वैतग्रन्थेषु बहुलमुपलम्भात् तत्रेष्टापत्तिकरणं साहसमात्रमिति भावः । गूढाभिसन्धिः समाधानमाशङ्कते- यद्धेतुव्यवच्छेदकत्वेनेति ।। हेतुपदं पञ्चम्यर्थे साक्षाद्विशेषणतापन्नवस्तुपरम् । तद्व्यवच्छेदकत्वेन तदर्थस्येतरव्यावृत्त्यादीच्छया । १विशेषणं तत्र प्रकारीभूतो धर्मः । पृथगुपादीयते तत्प्रतिपादकातिरिक्तप्रातिपदिकेन बोध्यते । तदेव विशेषणं प्रयोजनान्तरमपेक्षते व्यभिचार-वारणादिप्रयोजनमपेक्षते । स्वोपरक्तहेतुबोधे हेतौ स्वाभाविककोटिकसंशयनिवृत्तिरूपप्रयोजनस्य सिद्धत्वादन्तरपदम् । यथा ‘गुणकर्मान्यत्वे सति सत्त्वात्, आर्द्रेन्धनप्रभववह्नेः’ इत्यादौ । तत्र विशेष्यांश-प्रतिपादकसत्तावह्न्यादिप्रातिपदिकातिरिक्तप्रातिपदिकेन विशेषणोपादानात् । तन्मात्रान्तर्गतं विशेष्यांशप्रतिपादकप्रातिपदिकवृत्तिमहिम्नैव यत् विशेषणतया तत्र भासते, यथा विशेष्यांशरूप-विषयत्वबोधकप्रमेयत्वप्रातिपदिकेनैव प्रमाया अपि भानम् । केवलत्वप्रत्ययस्याबोधकतया प्रकृति-साहित्येन भासकत्वात् प्रमाविनिर्मोकेण भानासम्भवात् । तत् नोक्तप्रयोजनान्तरमपेक्षत इत्यर्थः । एवंवादी भवान् यथा नीलधूमादित्यादीनां प्रयोगानर्हत्वं प्रमेयत्वादीनां च प्रयोगार्हत्वं मनुते तत्प्रकारोऽत्राविशिष्ट इत्याशयेनाह- समं प्रकृतेऽपीति ।।
अयं भावः । नीलधूमत्वादेर्व्यर्थविशेषणघटितस्य गुरुतया व्याप्यतानवच्छेदकतया तदवच्छिन्न-हेतुप्रतिपादकं वचनमसाध्वेव । द्रव्यत्वेन धूमप्रतिपादकवाक्यवत् । द्रव्यत्वनीलधूमत्वयोर्व्याप्यता-नवच्छेदकत्वे विशेषाभावात् । प्रमानिरूपितविषयतात्वमपि न व्याप्यतावच्छेदकं व्यर्थविशेषण-त्वात् । तथापि प्रमेयत्वादिति हेतुवाक्यं साध्वेव । प्रमात्वरूपजात्यवच्छिन्नस्य ज्ञानत्वावच्छिन्नस्य वा विषयतासम्बन्धेन व्याप्यत्वबोधतात्पर्येण तादृशन्यायप्रयोगस्य सम्प्रदायप्राप्तत्वात् । विषयतया प्रमाया इति प्रयोगे पदद्वयमयोगाधिक्यप्रयुक्तगौरवप्रसङ्गेनैकपदस्यैवोक्ततात्पर्येण प्रयोगस्य न्याय-प्राप्तत्वात् । संयोगेन धूमादिति प्रयोगे गौरवप्रसङ्गेन मतुबर्थतया हेतुतावच्छेदकसम्बन्धबोधतात्पर्येण धूमवत्त्वादिति प्रयोगवत् । नीलधूमादित्यादावुक्तरीतेरभावादसाध्वेवेति यद्यभिप्रायः स च समः प्रकृतेऽपि । अत्रापि विशेष्यांशप्रतिपादकमुक्तत्वप्रातिपदिकमहिम्नैव विशिष्टस्यैव प्रतिपादनात् । स्वसंसर्गाभावाधिकरणतासम्बन्धेन बन्धस्यैव हेतुत्वे उक्तवाक्यस्य तात्पर्यात् ।
श्रीराघवेन्द्रतीर्थ
एवं प्रतिज्ञां परिष्कृत्य हेतुं शङ्कापूर्वं परिष्करोति- नन्वित्यादिना न परमात्मनि व्यभिचार इत्यन्तेन ।। अत एवेति ।। साधनवैकल्यादेवेत्यर्थः । अविवक्षितेति । अविवक्षितो विशेषो निगड-संसारादिरूपो यस्य बन्धस्य तत्संसर्गाभाव इत्यर्थः । परमात्मनि बन्धमात्रसंसर्गाभावमादाय मुक्ते संसारसंसर्गध्वंसमादाय दृष्टान्ते च निगडध्वंसमादाय हेतुसिद्धिरिति भावः । तत्संसर्गाभाव एव तदभाव इत्युपेत्याऽह- बन्धाभावाधिकरणत्वं हीति ।। केवलान्वयित्वेनेति ।। केवलान्वयि-साध्यकत्वेन विपक्षशून्यतया अनैकान्त्यशङ्कायोगेन१ बन्धेति विशेषणकृत्याभावादित्यर्थः । कारकविशेष इति ।। कर्तृकर्मकरणसम्प्रदानापादानाधिकरणरूपषट्कारकेषु कारकान्तराणीवेदमपि कारकविशेषः क्रियाहेतुविशेष इत्यर्थः । प्रमेयत्वेति । शब्दोऽभिधेयः प्रमेयत्वाज्ज्ञेयत्वादि-त्यादीनामित्यर्थः । विषयत्वमात्रेणालमिति ।। तावन्मात्रस्याभिधेयत्वेन व्यभिचाराभावादित्यर्थः२ । तर्हि कीदृशविशेषणस्य कृत्यापेक्षेत्यतः परमुखेनोत्तरं वाचयित्वा सममित्याह- यद्धेतुव्यव-च्छेदकत्वेनेति ।। हेतौ व्यावर्तकत्वेनेत्यर्थः । निगडमुक्ते साधनवैकल्यादाह- तथात्व इति ।। पूर्वं परमात्मनोऽपि पक्षकोटितोक्ता । अधुना मुक्तमात्रमेव पक्ष इति भावेनाऽह- परमात्मेति ।। न व्यभिचार इति । तत्र हेतोरेवाभावादिति भावः। निगडमुक्ते साध्यसाधनहीनता च नेत्यपि ध्येयम् ।
गोविन्दीया
परमात्मनीति ।। मुक्ते विद्यमानेऽपि परमात्मनोऽपि पक्षत्वेन तत्र संसार एव नास्ति तद्ध्वंसस्तु दूरोपास्त इति भागासिद्धेरित्यर्थः । अत एवेति ।। संसारबन्ध एव नास्ति तदभावस्तु दूरोत्सादित इति परमात्मन्येव भागासिद्धेः दृष्टान्तस्य साधनवैकल्यापत्तेश्चैवेत्यर्थः । अविवक्षितेति ।। बन्धसंसर्गयोरभावस्येत्यर्थः । केवलेति ।। अस्यानुमानस्य केवलान्वयित्वेन पक्षव्यतिरिक्तसर्वस्यापि साध्यवत्तया सपक्षत्वेन विपक्षाभावाद् विशेषणेन व्यावर्त्यव्यभिचारस्थलाभावादित्यर्थः । एवमिति ।। ‘क्रियां कुर्वद्धि कारकम्’ इति कारकं कारणविशेष इत्यर्थः । इत्यादेरिति ।। विषयत्वं स्वरूपसम्बन्धविशेषः, स्वरूपसम्बन्धमात्रेणालम्, किं विशेषेणेति इत्यादिपदार्थः । यदिति ।। यद्विशेषणं हेतौ व्यभिचारस्थलाद् व्यावर्तकत्वेन पृथग् उपादीयते तदेव विशेषणं प्रयोजनान्तरं व्यभिचाराभावलक्षणम् अपेक्षते । न पुनस्तन्मात्रान्तर्गतं हेतुशरीरान्तर्गतं विशेषणं नापेक्षत इति चेदित्यर्थः । सममिति ।। प्रकृतेऽपि अस्मदीयानुमानेऽपि इदमेवोत्तरं सममित्यर्थः । विवक्षितविशेषबन्धसंसर्गाभावस्य हेतुत्वमभ्युपेत्याऽह- अथवेत्यादिना ।। संसारेति ।। मुक्तत्वं संसारसंसर्गाभाव एव । तथात्वे निगडमुक्ते दृष्टान्ते साधनवैकल्येन, घटो दृष्टान्त इत्यर्थः । परमात्मेति ।। अपि च मुक्तमात्र एव पक्षः । परमात्मप्रतियोगिको वा भेदोऽत्र साध्यः । अस्तु तर्हि परमात्मनो विपक्षत्वेन तत्र संसर्गाभावलक्षणहेतोः सत्त्वाद् व्यभिचार इति तत्साधकत्वेन बन्धध्वंसाधिकरणत्वं न व्यभिचारीत्यर्थः ।
जनार्दनभट्टीया
बन्धसंसर्गाभावस्य हेतुत्वादिति ।। बन्धसंसर्गाभावश्च परमात्मनि अत्यन्ताभावमादाय, मुक्तजीवे ध्वंसमादाय, निगडमुक्ते तु निगडबन्धध्वंसमादाय अनुगत इति भावः । केवलान्वयित्वे-नेति ।। सर्वत्रापि यत्किञ्चित् बन्धसंसर्गाभावस्य सत्वादिति भावः । व्यावर्त्याभावादिति ।। बन्ध-विशेषणव्यावर्त्याभावादित्यर्थः । किं प्रमाग्रहणेनेत्यादेरिति ।। एवं विषयत्वं ‘सप्तम्यधिकरणे च’ १ इति सूत्रोक्तकारकविशेषः । तत्र कारकत्वमात्रेणालम् । किं विशेषग्रहणेन? किञ्च कारकं कारण-विशेषः । तत्र कारणत्वमात्रेणालम् । किञ्च कारणत्वम् अनन्यथासिद्धनियतपूर्ववृत्तित्वम् । तत्र वृत्तित्वेनैवालम् । किमितरेणेत्यादेरित्यर्थः । प्राक् विकल्प्य दूषितं मुक्तत्वं प्रकारान्तरेण निरुच्य १दृष्टान्तान्तरदानेन निर्वक्ति – अथवेति ।।
ननु निगडमुक्ते दृष्टान्ते संसारस्य अनादित्वेन तत्प्रागभावाभावात् संसारित्वेनैव तद्ध्वंस-तदत्यन्ताभावयोरभावात् साधनवैकल्यं तदवस्थमेवेत्यत आह – तथात्व इति ।। घटदृष्टान्ते च संसारात्यन्ताभावमादाय साधनं सुसम्पाद्यमिति भावः ।