एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत् ..

अभेदपरवत्प्रतीयमानागमानां गत्यन्तरकल्पनम्

श्रीमज्जयतीर्थटीका

ननु यथा मुक्तेश्वरभेदे वाक्यानि सन्ति । तथा तदभेदेऽपि ‘परेऽव्यये सर्व एकीभवन्ति’ ‘परं ब्रह्म वेद ब्रह्मैव भवति’ इत्यादीनि वाक्यानि सन्ति । तत्कथं निर्णय इत्यत आह-

मूल

एवं प्रत्यक्षानुमानागमविरुद्धत्वादभेदविषयवत्

प्रतीयमानान्यपि वाक्यानि सादृश्याद्यर्थान्येव योजनीयानि ।

आदिशब्देन स्थानैक्यमत्यैक्ये गृह्येते । सत्यम् । मुक्तेश्वरभेद इव तदभेदेऽपि सन्ति वाक्या-नीति । तथाऽपि तान्यर्थान्तरे योज्यानि । कुतः । भेदवाक्यानामुक्तरीत्या प्रत्यक्षाद्यनुसारित्वेन प्रबलतया तद्विरोधात् । बलवद्विरोधे  दुर्बलस्यार्थान्तरयोजनाया न्याय्यत्वादिति । न केवलमिदं न्यायप्राप्तं किन्तु पुराणसिद्धं चेत्याह-

मूल

‘विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।

तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यत ।।’ इति ब्राह्मवचनाच्च ।

पारमार्थिकविरोधे त्याज्यत्वमेव स्यात् । न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् । प्रागप्यभेदविषयवदिति । यदि तर्हीत्यर्थे यत्र तत्रेति निपातौ । दृष्टं प्रत्यक्षम् । ये आगमाः प्रत्यक्षानुकूलाः तदनुसारेणेतरेषामर्थो द्रष्टव्य इति यावत् । वचनाच्च भेदागमानुसारेणाभेदागमाः सादृश्याद्यर्थे योज्या इति गम्यत इति शेषः ।

श्रीविजयीन्द्रभिक्षु

ननु तथाऽपि न मुक्तेश्वरभेदः सिद्ध्यति । तद्भेदप्रतिपादकवाक्यानां तदभेदप्रतिपादक-वाक्यैः प्रतिबद्धत्वादिति शङ्कते-नन्विति ।। शङ्कोत्तरत्वेनावतारयति-अत आहेति ।। स्थानेति ।। ‘सायं गोष्ठे गाव एकीभवन्ति, सर्वे राजान एकीभूताः’ इत्यादौ स्थानैक्यमत्यैक्यतात्पर्येण गोषु राजसु चैक्यव्यवहारदर्शनादिति भावः । अभेदश्रुतिविरोधात् भेदश्रुतीनामेवार्थान्तरविषयत्वं किं न स्यादित्याशङ्क्य व्याचष्टे- सत्यमिति ।। यथा मुक्तेश्वरभेदप्रतिपादकत्वेन प्रतीयमानानि वाक्यानि सन्ति तथा तदभेदप्रतिपादकत्वेन प्रतीयमानान्यपि वाक्यानि सन्तीति सत्यमित्यर्थः । प्रबलत-येति ।। तथा च न वैपरीत्यशङ्कावकाश इति भावः । दुर्बलस्येति ।। प्रमाणवाक्यस्येति शेषः । पारमार्थिकविरोध इति ।। वस्तुतो विरोधसत्त्वे विरुद्धं यद्दुर्बलं तस्य त्याज्यत्वं प्रमाणत्वेनानङ्गी-कार्यत्वं स्यादित्यर्थः । प्रागपीति ।। एवं प्रत्यक्षानुमानागमविरुद्धत्वादिति वाक्येऽभेदविषय-वदित्युक्तमित्यर्थः ।

ननु वाक्यानां परस्परविरोधे येषां प्रत्यक्षानुकूल्यमस्ति तदनुसारेणैव तदानुकूल्यरहितानां वाक्यानामर्थो निर्णीयत इत्युक्तार्थे पुराणवाक्यं प्रमाणतयोक्तम् । तत्रायमर्थो न प्रतीयत इत्यतो व्याचष्टे- य इति ।। ब्राह्मवचनाच्चेत्यस्य साध्याकाङ्क्षां पूरयति- वचनाच्चेति ।।

श्रीवेदेशतीर्थ

स्थानैक्येत्यादि ।। ‘सायं गोष्ठे सर्वे गाव एकीभवन्ति, सर्वे राजान एकीभवन्ति’ इत्यादौ स्थानैक्यं मत्यैक्यं चाऽदाय गोषु राजसु चैक्यव्यवहारदर्शनादित्यर्थः । पारमार्थिकविरोध इति ।। वस्तुतो विरोधसत्त्वे विरुद्धं यद्दुर्बलं तस्य त्याज्यत्वम् । प्रमाणत्वेनानङ्गीकार्यत्वमेव स्यादित्यर्थः।

ननु प्रत्यक्षानुसारेणाऽगमस्यान्यार्थकल्पना कार्येति स्वोक्तार्थे सम्मतित्वेनेदं पुराणवचनमुदा-हृतम् । तत्र च दृष्टानुसारेणेत्यनेन दृष्टिविषयानुसारेणेत्युच्यते । तत्प्रकृतानुपयुक्तमित्यत आह- दृष्टं प्रत्यक्षमिति ।। भावे क्तप्रत्यय इति भावः ।

ननु मूले यद्यागमा मिथो विरुद्धवत्प्रतीयन्ते तर्हि तेषां विरुद्धार्थकोभयवाक्यानामपि प्रत्यक्षानु-सारेणार्थो वर्णनीय इति भाति । न चैतद्युक्तम् । एकस्यैवान्यार्थकल्पनया विरोधपरिहारे उभयोरन्यार्थकल्पनाया असङ्गतत्वादित्यतोऽभिप्रायमाह- ये आगमा इति ।। ब्राह्मवचनाच्चेत्यस्य साध्याकाङ्क्षां पूरयति- वचनाच्चेति ।।

श्रीराघवेन्द्रतीर्थ

प्रत्यक्षेति ।। ईश्वरप्रत्यक्षेत्यर्थः । स्थानेति ।। एकस्थानगतत्वैकार्थविषयकमतिमत्त्वरूप-स्थानैक्यमत्यैक्ये इत्यर्थः । व्याचष्टे- सत्यमित्यादिना ।। वाक्यानीतीत्यनेनान्वयः । मूले प्रत्यक्षानुमानागमविरुद्धत्वादित्युक्तावप्यग्रे ‘विरुद्धवत्प्रतीयन्ते आगमाः’ इत्यागमानामेव मिथो विरोधोक्तेस्तदनुसारायात्राप्यागमविरुद्धत्वमेवान्यार्थयोजने प्रधानहेतुः । प्रत्यक्षानुमानयोरुक्ति-रैक्यागमविरोधिभेदागमसहायार्थेति भावेन हेत्वंशं तात्पर्यतो व्याचष्टे- भेदवाक्यानामिति ।। ‘तान्यहं वेद सर्वाणि’ इत्यादिनोक्तरीत्येत्यर्थः । प्रागपीति ।। पूर्ववाक्येऽप्यभेदविषयवदित्युक्त-मित्यर्थः । वचनाच्चेत्यनुवादेन शेषमाह- वचनाच्च भेदेत्यादि ।। स्थानैक्येति ।। अह्नीतस्ततस्स्थिताः गावः सायं गोष्ठे एकीभवन्तीत्यत्र यथा स्थानैक्यनिमित्त ऐक्यव्यपदेशः एकस्थाने स्थिता भवन्तीति यावत् । एवं संसारे भूरादिषु स्थिताः मुक्तौ भगवता सह क्षीराब्ध्यादिरूपैकस्मिन् स्थाने स्थिता भवन्तीत्यर्थः । मत्यैक्येति ।। प्राग्विरुद्धा ब्राह्मणा इदानीमेकीभूता इत्यत्र यथा एकविषयकमतित्वेनैक्यव्यपदेश एवं संसारे भगवद्विरुद्धमतयो मुक्तौ भगवन्मत्यनुकूलमतिमन्तो जाता इत्येवं मत्यैक्यनिमित्त ऐक्यव्यपदेश इत्यर्थः । त्याज्यत्वमेव अप्रामाण्यमेव । दृष्टानुसारेण प्रत्यक्षदृष्टपदार्थानुसारेणेत्यर्थस्यासङ्गतत्वाद्भावे क्तप्रत्यय इत्यभिप्रेत्य व्याचष्टे ।। दृष्टं प्रत्यक्षमिति ।

गुरुराजीया

पारमार्थिकविरोध इति ।। वस्तुतो विरुद्धत्वे विरुद्धस्य प्रमाणत्वेनानङ्गीकर्तव्यतया अन्यार्थत्वेनावर्णनीयत्वादित्यर्थः । ज्ञापकश्चायमर्थो न कारक इति भावेनानुरूपं शेषं पूरयति- भेदागमानुसारेणेत्यादिना ।।

गोविन्दीया

मुक्तभेदवचनेभ्य इति मुक्तस्येश्वरेण भेदप्रतिपादकवाक्येभ्य इत्यर्थः ।

इदमिति ।। अर्थान्तरमित्यर्थः । पारमार्थिकेति ।। प्रत्यक्षानुकूलागमेनेतरागमानां पारमार्थिकविरोधे सत्यप्रामाण्यात् त्याज्यत्वमेव न तु व्याख्येयत्वमित्यर्थः । सादृश्याद्यर्थे इति ।। सादृश्यस्थानैक्य-मत्यैक्यरूपार्थ इत्यर्थः ।