यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’..

विनापि श्रुत्यन्तरोदाहरणं पञ्चभूतवैलक्षण्यरूपार्थलाभे तदुदाहरणवैयर्थ्यशङ्का तन्निरासश्च

यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्’

श्रीमज्जयतीर्थटीका

ननु  प्रतीतार्थे बाधितेऽर्थान्तरमावश्यकमेव । तत्किं श्रुत्युदाहरणेन । मैवम् । बाधकेनार्थान्तरमेव लभ्यते । न तु तद्विशेषोऽपीति तत्राश्रयणीयमेव श्रुत्यन्तरम् ।

श्रीविजयीन्द्रभिक्षु

पूर्त्यर्थकात् पॄ इत्यतो ‘ऋदोरप्’१ इति कर्मण्यप्प्रत्यये परशब्दनिष्पत्तेर्योग्यतया परिमाणेन पूर्णमित्यर्थो लभ्यत इति परं सर्वगतम् इत्युक्तम् । यद्वा परम् उत्कृष्टमित्यर्थः । उत्कर्षश्च परिमाणकृत एव प्रकृत इत्यभिप्रेत्य सर्वगतम् इत्युक्तम् । अव्याकृतम् अपरिणतमानमित्यर्थः । न चैवंविधाकाशे मानाभावः । ‘आकाशवत्सर्वगतश्च नित्यः’ ‘स यथाऽनन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः’ इत्यादिश्रुतेरेव मानत्वादिति भावः । नन्वेवंविधस्याऽकाशस्य सर्वदा सर्वत्र सत्त्वात् ‘नासदासीत्’ इति कथमसत्त्वप्रतिपादनमित्यत आह- मूर्तसम्बन्धाभावादिति ।। यद्यपि प्रलये पारिभाषिकमूर्तसम्बन्धाभाववत्तथाविधामूर्तसम्बन्धाभावोऽप्यस्ति तथाऽपि लाघवान्मूर्त-सम्बन्धाभावस्यैव तदसत्त्वोपपादकत्वमभिप्रेत्य तथोक्तमिति ध्येयम् । यद्यपि चान्याभावोऽन्या-सत्त्वव्यवहारे न हेतुः । अतिप्रसङ्गात् । न हि व्योमशब्दो मूर्तसम्बन्धपरः येन तथा स्यात् । तथाऽपि परो व्योमेतिशब्दमहिम्ना सर्वसम्बद्धव्योमलाभात्तन्निषेधे अलङ्कृतपूर्वश्चैत्रो नास्तीतिवद्विशिष्टनिषेधो विशेषणनिषेधप्रयुक्त उपपद्यत इति भावः ।

ननु ‘नासदासीन्नो सदासीत्तदानीम्’ इत्येतावदेव प्रागुदाहर्तव्यम् । तावतैव प्रकृतार्थ-सिद्धेरित्याशङ्क्याधिकांशोदाहाणस्य सदसच्छब्दयोः पररीत्या भावाभावपरत्वे प्रसिद्धमूर्तामूर्तपरत्वे वा सर्वस्य तदन्तर्भावात्पुना रजःप्रभृतिप्रतिषेधानर्थक्यरूपानिष्टान्तरसूचकत्वेन सार्थक्यं वक्तुमाह- सदसच्छब्दयोरिति ।। ननु नित्यनिर्दोषतया वेदस्य प्रामाण्यावधारणात्तन्निर्वाहाय प्रतीतार्थ-बाधेऽर्थान्तरपरत्वमावश्यकम् । अन्यथा तत्प्रामाण्यानिर्वाहात् । तथा चार्थान्तरपरत्वसिद्ध्यर्थं श्रुत्युदाहरणं व्यर्थमिति शङ्कते- ननु प्रतीतार्थ इति ।। सामान्यतोऽर्थान्तरपरत्वनिर्णयसम्भवेऽपि अर्थविशेषनिष्ठत्वज्ञापकश्रुत्युदाहणं विना तद्विशेषपरत्वनिश्चयासम्भवात्तदुदाहरणमावश्यकमिति परिहरति- बाधकेनेति ।। तत्रेत्यतः प्राक् अत इति शेषः ।

श्रीवेदेशतीर्थ

अर्थान्तरमावश्यकमेवेति ।। अपौरुषेयत्वेनाप्रामाण्यासम्भवादिति भावः । तत्रेत्यतः प्रागत इति शेषः ।

द्वैतद्युमणि

ततश्चेति ।। एतद्वाक्यपूर्ववाक्ययोर्विसंवादपरिहाराय सामर्थ्यात् पञ्चभूतविलक्षणत्वं नासदासीदिति श्रुत्यर्थ इति उक्तश्रुतिद्वयेन लब्धे सतीत्यर्थः । भवति पर्यवासिता भवति । मूर्तसम्बन्धाभावादिति ।। अत्र मूर्तशब्दः प्रसिद्धार्थक एव । न तु तेजोबन्नमात्रपरः । मूर्तसम्बन्धाभाव एवाव्याकृतस्य लय इत्यर्थः । अनर्थक इति ।। विशेषहेत्वभावादिति भावः ।

श्रीराघवेन्द्रतीर्थ

श्रुतिद्वयेन सिद्धमर्थमाह- ततश्चायं श्रुत्यर्थ इति ।। प्रसिद्धमूर्तामूर्तेति ।। प्रागुक्तसर्वगत-परिमाणादिरूपेत्यर्थः । अधिकांशेति । परो यदित्यन्तोदाहरणमित्यर्थः । प्रतीतार्थ इति । पराभिमतरूप इत्यर्थः । श्रुतीति । मूर्तं सदिति श्रुत्युदाहरणेनेत्यर्थः । बाधकेनेति । प्रतीतार्थ इत्यनुकर्षः ।

गुरुराजीया

अर्थान्तरमावश्यकमेवेति ।। अपौरुषेयत्वेन निर्दोषतया सर्वथा निर्विषयत्वलक्षणा-प्रामाण्यस्य वक्तुमशक्यत्वादिति भावः । तत्रेत्यतः पूर्वमत इति शेषः ।

गोविन्दीया

तच्चेति ।। अव्याकृतं व्योम मूर्तसम्बन्धाभावात् नो आसीदित्यर्थः । यावता वाक्येन सदसद्वैलक्षण्यं प्रतिपाद्यते ‘नासदासीत् नो सदासीत् तदानीं तम आसीत्’ इत्येतावद्वाक्य-मुदाहरणीयम् । रजःप्रभृतिप्रतिषेधपराधिकांशोदाहरणं किमर्थमित्याशङ्क्य तदधिकोदाहरणं सदसच्छब्दयोः पञ्चमहाभूतपरत्वं ज्ञापयतीत्याह- सदसच्छब्दयोरिति ।।

जनार्दनभट्टीया

‘परो व्योमे’ति श्रुतौ लिङ्गव्यत्ययः छान्दसः इति मनसि निधाय व्याख्याति–  परः पर-मिति ।। ननु अव्याकृताकाशस्य अनादित्वात् तदानीं तत्कथं नो असीत्? इत्यत आह–मूर्तेति ।। सम्बन्धेति ।। सदसच्छब्दयोरिति नासदासीदिति वाक्य इति शेषः । प्रसिद्धेति ।। परिच्छिन्नपरिमाणवत् मूर्तम् । अपरिच्छिन्नपरिमाणवदमूर्तमिति तार्किकमतप्रसिद्धेरिति अर्थः । किं श्रुत्युदाहरणेनेति ।। ‘मूर्तं सदिति सम्प्रोक्तम्’ ‘यदन्यद् वायोश्च’ इति श्रुत्युदाहरणेनेत्यर्थः । नतु तद्विशेषोऽपीति ।। पञ्चमहाभूतलक्षणार्थान्तरविशेषोऽपीत्यर्थः । तत्रेति ।। अर्थविशेषलाभनिमित्तमित्यर्थः ।