अनुमानस्य चाप्रसिद्धविशेषणः पक्षः..

सामान्यतोऽनिर्वचनीयत्वसाधकानुमानं तन्निरासश्च

अनुमानस्य चाप्रसिद्धविशेषणः पक्षः

श्रीमज्जयतीर्थटीका

सत्त्वासत्त्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी धर्मत्वात् । रूपरसवदित्यनुमानेन सामान्य-तोऽनिर्वचनीयत्वप्रसिद्धौ शुक्तिरजतादिधर्मिविशेषाश्रयता तस्य केवलव्यतिरेकिणा साध्यते । अतो न दोष इति चेन्न । अभिधेयत्वादौ व्यभिचारात् । तस्यापि पक्षतुल्यत्वे व्याघातात् । अभिधेयत्वादिकं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगीत्यत्र तस्य किञ्चिदादिशब्दाभिधेयत्वात् । किञ्च सकलधर्माणां यत्किञ्चिन्निष्ठात्यन्ताभावप्रतियोगितासाधने २सकलधर्मात्यन्ताभावाधिकरणत्वे व्यभिचारः । तस्यापि पक्षत्वे सकलधर्मवत्त्वं कस्यचिद्विरुद्धमापद्येत । अविरुद्धत्वं चोपाधिः । न च सत्त्वासत्त्वे अपि न विरुद्धे । अनिर्वचनीयार्थप्रतीतेः प्रागविरोधाप्रतीतेः । तदिदमप्रसिद्ध-विशेषणत्वं परसिद्धमिति ज्ञातव्यम् । अन्यत्र तददूषणत्वस्याचार्यैरेवोपपादितत्वात् । स्वमतेन तु ३स्वव्याघातादिदूषणमूहनीयम् ।

श्रीविजयीन्द्रभिक्षु

ननु साध्यप्रसिद्धिस्तत्रैवाङ्गं यत्र भावः साध्यः । तज्ज्ञानं विना तद्व्यतिरेकानिरूपणात् । यत्राभावः साध्यस्तत्र साध्यस्याप्रसिद्धावपि तदभावरूपस्य भावस्य हेत्वभावव्याप्यता-निरूपणसम्भवात् । तथा च प्रकृतानुमानेऽपि साध्यत्वाभिमतानिर्वचनीयत्वस्य सदसद्भेदरूपतया आकाशमितरभिन्नमित्यत्रेव न साध्यप्रसिद्ध्यपेक्षेति वदतः कस्यचिन्मतं दूषयितुमुपन्यस्यति- अभाव इति ।। साध्याभावव्यापकाभावप्रतियोगित्वमेव व्यतिरेकिणि गमकतौपयिकरूपम् । तच्च न स्वरूपसत्तया । व्यतिरेक्याभासोच्छेदापत्तेः । किं तु ज्ञातमेव । तज्ज्ञानमपि न वस्तुगत्या साध्याभावव्यापकाभावप्रतियेगित्वज्ञानत्वेन तथा । यत्र पटादौ१ घटाभावत्वमारोप्य तद्व्यापकतया लोष्टत्वादि गृहीतं तत्र लोष्टत्वाद्यभावेन घटाननुमानापातात्२ । किं तु साध्याभावत्वेन ज्ञायमानाभावव्यापकाभावप्रतियोगित्वज्ञानत्वेन । एवञ्च साध्याप्रसिद्धौ गमकतौपयिकरूपज्ञानमेव दुर्लभमित्यभावसाध्यकव्यतिरेकिण्यपि साध्यप्रसिद्धिरावश्यिकीत्यभिप्रायेण दूषयति- तदसदिति ।। तत्रेति ।। साध्याभावत्वेनाभिमते साध्याभावत्वप्रकारकबुद्धेः आवश्यकत्वादित्यर्थः । प्रतिषेधस्य चेति ।। प्रतिषेधज्ञानस्य प्रतियोगिज्ञानसापेक्षत्वनियमादित्यर्थः । अभिधेयत्वादाविति ।। अभिधेयत्वज्ञेयत्वादेः केवलान्वयित्वेनात्यन्ताभावप्रतियोगित्वरूपसाध्यस्य तत्राभावादिति भावः । पक्षतुल्यत्व इति ।। प्रयोगाविषयत्वे सति पक्षलक्षणलक्षितत्व इत्यर्थः । व्याघातमेवोपपादयति- अभिधेयत्वादीति ।। ननु धर्ममात्रस्यापि यत्किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने क्वाभिधेत्वादौ व्यभिचार इत्यत आह- किञ्चेति ।। यद्यप्यभिधेयत्वादावुक्तव्याघातान्नेयं शङ्कोन्मिषति तथाऽपि विस्मृतव्याघातदोषस्येयं शङ्केति ध्येयम् । धर्मात्यन्ताभावाधिकरणत्वेनेति ।। ३भावाभावात्मक-सकलधर्मात्यन्ताभावाधिकरणत्वाभावेनेत्यर्थः । सकलधर्मवत्त्वमिति ।। सकलधर्मात्यन्ताभावा-भावरूपस्य तस्य सकलधर्मरूपत्वादिति भावः । अविरुद्धत्वञ्चेति ।। परस्परप्रतिषेधानात्मकत्व-मित्यर्थः । तेन गोत्वादौ साध्याव्यापकत्वशङ्का नेति ध्येयम् । ननु सत्त्वासत्त्वयोरुभयोरपि भावरूपत्वेन तत्रैव साधनव्यापकत्वमित्याशङ्क्य निराह- न चेति ।। अनिर्वचनीयेति ।। तथा च अनिर्वचनीयार्थे सिद्धे अविरोधसिद्धिः । सिद्धे चाविरोधे साध्यप्रसिद्ध्या अनिर्वचनीयार्थ-सिद्धिरित्यन्योन्याश्रय इत्यर्थः । परसिद्धमिति ।। दोषतयेति शेषः । अन्यत्र प्रमाणलक्षणे । नन्वेवं बाध्यत्वानुमानं स्वरीत्यैवादुष्टमिति निष्प्रत्यूहमनिर्वचनीयार्थसाधकं स्यादित्याशङ्क्याऽह- स्वमतेन त्विति ।। ऊहनीयमिति ।। अनिर्वचनीयत्वं यदि निर्वचनानर्हत्वं तदा स्वव्याघातः । परेणैव अनिर्वचनीयशब्देन सदसद्विलक्षणत्वादिना निर्वचनात् । यदि चानात्मत्वमसत्त्वं वा तदा सिद्धसाधनम् । एवं बाध्यत्वमपि यदि ज्ञाननिवर्त्यत्वं तदाऽसिद्धिः । शुक्तिकायाथात्म्यज्ञानानन्तरं रजतं निवृत्तमित्यननुभवात् । यदि बाधकप्रमाविषयत्वं तदा ब्रह्मणि व्यभिचारः । तस्य सर्व-प्रत्ययवेद्यत्वाङ्गीकारात् । यदि च निषेध्यत्वेन बाधकधीविषयत्वं तदा घटादौ व्यभिचारः । यदि च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वं तदा संयोगादौ व्यभिचार इत्यादिकमूहनीयमित्यर्थः ।

श्रीवेदेशतीर्थ

अभाव इति ।। यथा इदं ज्ञानमप्रमाणमसमर्थप्रवृत्तिजनकत्वादित्यत्र प्रामाण्यरूप-साध्याभावस्य हेत्वभावेन व्याप्तिर्ग्राह्या । तच्च भावरूपमेवेति न तत्र प्रमाण्याभावरूपसाध्य-ग्रहणापेक्षा । अभावग्रहे हि प्रतियोगिग्रहणापेक्षा । न तु भावग्रहेऽपि । तथा प्रकृतानुमानेऽपि साध्यत्वाभिमतानिर्वचनीयत्वस्य सदसद्भेदरूपतया तदभावस्य सत्त्वासत्त्वरूपत्वेन भावरूपतया हेत्वभावव्याप्यत्वं साध्यस्याप्रसिद्धत्वेऽपि सुग्रहमेव    प्रतियोगिज्ञानानपेक्षणादिति भावः । प्रतिषेधाकारबुद्धेरिति ।। साध्याभावरूपत्वेनाभिमते भावरूपेऽपि व्याप्ये साध्याभावप्रकारक-बुद्धेरावश्यकत्वादित्यर्थः । अन्यथा साध्याभावत्वेनोपस्थितव्यापकाभावप्रतियोगित्वरूपस्य व्यतिरेकिणि गमकतौपयिकस्याज्ञानेनानुमित्यनुपपत्तेः । न च वास्तवसाध्याभावव्यापकाभाव-प्रतियोगित्वज्ञानमेव व्यतिरेक्यनुमितौ गमकतौपयिकम् । तच्च व्याप्यत्वेनाभिमतस्याभावस्य साध्याभावत्वेनाज्ञानेऽपि सम्भवतीति वाच्यम् । तथा सति व्यतिरेक्याभासविलोपापत्तेः । तथा हि । यत्र घटादौ पटाभावत्वमारोप्य तद्व्यापकतया लोष्ठत्वादिकं गृहीतं तत्र लोष्ठत्वाद्यभावेन पटाननु-मानापातात् । न ह्यत्र साध्यस्य पटस्य घटो वास्तवोऽभावः । तथा च साध्याभावत्वेनोपस्थित-व्यापकाभावप्रतियोगित्वज्ञानमेव प्रयोजकं वाच्यम् । तच्च साध्यस्याप्रसिद्धौ प्रतियोगिज्ञाना-भावेनानुपपन्नमिति भावः ।

केचित्तु व्याप्ये साध्याभावत्वप्रकारकबुद्धेरनिवारणादित्यर्थः । ननु नेदं व्यतिरेकिणि गमकतौपयिकं ममाभिप्रेतम् । किं त्वन्यदेव । तथा हि । यस्याभावस्य व्यापकतया हेत्वाभावो गृहीतस्तदभावेन तदभावः सिद्ध्यति । न चातिप्रसङ्गः । व्यापकाभाववत्तया ज्ञाने व्याप्याभाव-ज्ञानावश्यम्भावादिति चेत्तर्हि ‘इदमप्रामाण्याभाववत् तद्व्यापकसमर्थप्रवृत्तिजनकत्वाभाव-शून्यत्वात् यद्यद्व्यापकशून्यं तत्तदभाववद्यथा सम्प्रतिपन्नम्’ इत्यन्वयित्वमेव स्यान्न व्यतिरेकित्वम् । तथा च व्यतिरेक्यनुमानं पृथगभिलषतोक्तमेव प्रयोजकमङ्गीकार्यम् । तत्र च व्याप्यत्वेनाभि-मतस्याभावस्य साध्याभावत्वेन ज्ञानमावश्यकमिति साध्याज्ञाने साध्याभावत्वप्रकारकज्ञानासम्भवेन व्याप्तिग्रहानुपपत्तेरिति भाव इत्याहुः ।

किञ्च सर्वत्राभाव एव केवलव्यतिरेकिणा साध्यः । उत क्वचिद्भावोऽपि । नाऽद्यः । वह्न्यभावादेर्धूमाभावादिव्याप्यत्वग्रहे वह्न्यादेर्भावस्यापि सिद्ध्यविरोधात् । भावरूपसात्मक-त्वादेरपि सिद्ध्यविरोधाच्च । इयांस्तु विशेषः । यदत्र साध्यप्रसिद्धिरप्यङ्गमिति । न द्वितीयः । तत्र साध्याभावस्य हेत्वभावव्याप्यत्वग्रहे साध्यप्रसिद्धेर्वाच्यत्वात् । अपि चैवं केवलव्यतिरेकि-परार्थानुमानविलोपप्रसङ्गः । साध्याप्रसिद्धौ प्रतिज्ञाद्यसम्भवात् । न च सामान्यतः प्रसिद्ध्या प्रतिज्ञादिकं सम्भवतीति वाच्यम् । तर्हि तेनैव स्वार्थानुमानेऽपि केवलव्यतिरेकिप्रवृत्त्युपपत्तौ किमनेनेत्यलम् ।

व्याघातमुपपादयति- अभिधेयत्वादाविति ।। तस्येति ।। यन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्यं तस्य किञ्चिदादिशब्दाभिधेयत्वाद् व्याघात इत्यर्थः । सकलधर्माणामिति ।। केवलान्वयिधर्माणां पक्षसमत्वे व्यतिरेकिधर्माणां सुतरां तथात्वात् सर्वधर्माणाम् इत्युक्तम् । केचित्तु ननु धर्ममात्रस्यापि किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने क्वाभिधेयत्वादौ व्यभिचार इत्यत आह- किञ्च सकलधर्माणामिति इत्यप्याहुः । सर्वे धर्माः किञ्चिन्निष्ठात्यन्ताभावप्रतियोगिनः धर्मत्वादिति साधने यन्निष्ठाभावप्रतियोगित्वं तत्र सर्वधर्माभावाधिकरणत्वरूपधर्मसत्त्वेन तत्र व्यभिचार इत्यर्थः । ननु सर्वे धर्मा इति सर्वधर्मात्यन्ताभावाधिकरणत्वरूपधर्मस्यापि पक्षीकृतत्वान्न तत्र व्यभिचार इत्यत आह- तस्यापीति ।। सर्वधर्मात्यन्ताभावाधिकरणत्वस्यापि यत्किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने यन्निष्ठाभावप्रतियोगित्वं साध्यते तस्य भावत्वाभावत्वनित्यत्वानित्यत्वचेतनत्वाचेतनत्वादिसकल-धर्मवत्त्वमङ्गीकर्तव्यम् । तच्च विरुद्धमित्यर्थः । ननु व्यतिरेकिधर्मत्वादिति हेतुरिति न प्रमेयत्वादौ व्यभिचार इत्यत आह- अविरुद्धत्वं चोपाधिरिति ।।

नन्वविरुद्धत्वं यदि परस्परविरहव्याप्यत्वाभावः । तदा गोत्वाश्वत्वादौ साध्याव्याप्तिः । तयोर्महिष्यादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि परस्परविरहाव्याप्यत्वात् । यदि च परस्परविरह-रूपत्वाभावस्तदा रूपतद्ध्वंसादौ साध्याव्याप्तिः । तयोर्वाय्वादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि परस्परविरहरूपत्वात् । न च रूपध्वंसस्य रूपविरहरूपत्वेऽपि रूपस्य ध्वंसविरहरूपत्वं कथमिति वाच्यम् । अभावप्रतियोगिकाभावान्तरानङ्गीकारेण रूपध्वंसविरहस्य रूपात्मकत्वाङ्गीकारादिति चेन्न । प्रतिषेध्यप्रतिषेधानात्मकत्वस्य विवक्षितत्वात् । प्रतिषेधश्चात्यन्ताभाव एवेति न कश्चिद्दोषः ।

नन्वेवमपि साधनव्यापकोऽयमुपाधिः । अनिर्वचनीयवादिनो मते सत्त्वासत्त्वयोरपि उक्तरूप-परस्परविरहात्मकत्वाभावात् । अनिर्वचनीयरूपतृतीयकोटेः सत्त्वादित्यत आह- न च सत्त्वासत्त्वे अपीति ।। उपलक्षणमेतत् । घटत्वाघटत्वे एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनी । धर्मत्वाद् रूप-रसवदित्याभाससमानयोगक्षेमत्वं च ज्ञातव्यम् । स्वमतेन त्विति ।। यद्यनिर्वचनीयत्वं निर्वचनानर्हत्वं तदा व्याघातः । विवादास्पदशब्देनैव शुक्तिरूप्यस्य निर्वचनात् । अन्यथा मूकतापत्तेः । यदि च सदसद्विलक्षणत्वं तदा सद्विलक्षणमित्युक्तेऽसत्त्वस्य प्राप्तौ पुनरसद्विलक्षणमित्युक्ते व्याघातः । एवमसद्विलक्षणमित्युक्ते सत्त्वस्यैव प्राप्तेः पुनः सद्विलक्षणमित्युक्ते व्याघात इत्यर्थः । शुक्तिरूप्यस्य सद्वैलक्षण्यमस्माभिरङ्गीकृतमेवेति सिद्धसाधनत्वादिकमादिशब्दार्थः ।

द्वैतद्युमणि

केवलव्यतिरेकी भावसाध्यकाभावसाध्यकभेदेन द्विविधः । तत्र भावसाध्यकस्थले साध्यप्रसिद्धिं विना कथमपि व्याप्तिग्रहो न घटत इति तत्राऽवश्यिकी साध्याप्रसिद्धेर्दूषणता । अभाव-साध्यकस्थले त्वभावाभावरूपाभावव्यापकत्वेन गृहीताभावप्रतियोगिहेतुमत्ताज्ञानान्मुख्यविशेष्यी-भूतसाध्यविधेयकानुमितिरेव जायते । अत एवेतरत्वव्यापकीभूताभावप्रतियोगिपृथिवीत्ववती पृथिवीति परामर्शादिना ‘पृथिव्यामितरभेदः’ इत्याद्यनुमितिस्तान्त्रिकैरभ्युपगता । एवञ्च प्रकृते सदसद्वैलक्षण्यरूपानिर्वचनीयत्वस्याभावत्वात् तत्साध्यकस्थले तदभावस्य सत्त्वासत्त्वरूप-प्रतियोगितावच्छेदकस्वरूपतया तद्व्यापकत्वेन गृहीताभावप्रतियोगिबाध्यत्वावगाहिपरामर्शात् विमतमनिर्वचनीयत्वमित्येतदनुमितिः स्यात्, तावता क्षत्यभावादिति वदतः कस्यचिन्मत-मुत्थापयति-अभाव इति ।। यत्रेति शेषः । तथा सतीति ।। तत्रेत्यादिः । तादृशस्थलं इत्यर्थः । तथा सति अभावस्य साध्यत्वे सतीत्यर्थः । अभावाभाव इति ।। साध्यात्मकाभावस्याभाव इत्यर्थः। भाव एवेति ।। साध्यीभूताभावीयप्रतियोगितत्वावच्छेदकान्यतररूपः । साध्याघटितमूर्तिक इत्यर्थः। न तु भावात्मक इति यथाश्रुतोऽर्थः । तथात्वे १ध्वंसव्यापकीभूताभावप्रतियोगिसामान्यत्वादिलिङ्गोन सामान्ये ध्वंसभेदादिसिद्धेस्तादृशस्थलासङ्ग्राहकतया न्यूनतापत्तेः । इदानीं साध्यानुपस्थितिकाले अनुमितिसामग्रीनिर्वाहमात्रस्य कर्तव्यतया साध्याभावस्य भावरूपत्वनिर्भरे बीजाभावाच्च । अभावाभावस्येति ।। भावत्वेऽपि भेदात्यन्ताभावरूपसाध्यवैलक्षण्यानुरोधाद् यथायोगं प्रतियोगित्वावच्छेदकताप्रतियोग्यन्यतरात्मकत्वे अङ्गीकृतेऽपि । अपिशब्दो वक्ष्यमाणार्थे युक्ति-सूचनार्थः । तत्प्रकारश्चानुपदमेव व्यक्तीभविष्यति । प्रतिषेधाकारबुद्धेः साध्याभावत्वेन प्रतियोगितदवच्छेदकत्वावगाहिपरामर्शस्य । अनिवारणात् तत्साध्यकतल्लिङ्गकान्वयिपरामर्शानधी-नानुमितिसामान्यसामग्रीघटकताया इत्यादिः । अनिवारणात् वारणस्य कर्तुमशक्यत्वात् ।

अयं भावः । अभावसाध्यकस्थले स्वाभावरूपस्य प्रतियोगिनस्तत्वावच्छेदकस्य वा स्वाभाव-त्वेनैवावगाहिपरामर्शस्यैव कारणताऽवश्यमभ्युपेया । न तु प्रतियोग्यादेः तदन्यरूपेणावगाहिनः । येषां मते अभावाभावस्य न भावात्मकत्वम् । किन्तु प्रतियोगिसमनियताभावान्तरत्वमेव । तन्मते भवदुक्तपरामर्शस्य साध्यीयव्यतिरेकव्याप्त्यवगाहित्वाभावेन तेनानुमित्यजननस्यानुभवसिद्धतया येषां द्वितीयाभावस्य प्रतियोगिस्वरूपत्वं तन्मतेऽपि तथैवाङ्गीकर्तव्यम् । अनुभवकलहायोगात् । तथा चोक्तपरामर्शस्य कारणत्वायोगात् तल्लिङ्गकानुमितिसामान्येऽपि प्रतिषेधाकारबुद्धेरावश्यकत्वमिति ।

श्रीराघवेन्द्रतीर्थ

अभावसाधने सिद्धमिष्टं किमित्यत आह - तथा सतीति ।। ‘पृथिवी इतरभिन्ना गन्धवत्त्वात्’ इति व्यतिरेकिणा जलादित्रयोदशान्योन्याभावसाधने हि साध्यस्याभावरूपत्वेन तदभाव इतरत्वं भावरूपमिति यत्र पृथिवीतरत्वं तत्र गन्धवत्त्वाभाव इति व्याप्तिग्रहः सुशक१ एवेति साध्याऽप्रसिद्धेर्दोषतोपयुक्तव्याप्तिविरहरूपप्रकारनिरासोऽभावसाध्यव्यतिरेकिणि२ सम्भवतीत्यर्थः। प्रतिषेधाकारबुद्धेरिति ।। साध्याभावत्वेन ज्ञानस्यानिवारणादित्यर्थः । अन्यथा व्यतिरेकव्याप्तौ साध्याभावस्य भावत्वेन सिषाधयिषितसाध्याभावत्वेन ज्ञानाभावे  यत्र सुखाभावं दुःखत्वेन भ्रान्त्वा ३तद्व्याप्यत्वेन मुखप्रसादाभावं गृहीत्वा तदभावेन मुखप्रसादेन सुखमनुमिनोति । तत्र सुखानुमानं न स्याद्दुःखाभावानुमानमेव स्यात् । ४व्यापकस्य दुःखत्वेन भ्रान्तस्य सुखाभावस्य सुखाभावात्मक-मिदं दुःखमिति ज्ञात्वा ५तद्व्याप्यत्वेन ६प्रसादाभावज्ञाने तदभावेन मुखप्रसादेन सुखानुमानं भवति । अभावाभावस्य भावत्वादस्तु तथा बुद्धिः । ततः किमित्यतः प्रतियोगिभूतसाध्यप्रसिद्धिरपेक्षितैवेति भावेनाऽह - प्रतिषेधस्येति ।। पूर्वं सामान्यप्रसिद्ध्या व्यतिरेकिसम्भवादित्युक्तेः सामान्यप्रसिद्धि-सम्पादकमनुमानमाह- सत्त्वासत्त्वे इति ।। द्विवचनान्तम् । एकस्मिन् धर्मिणि निष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिनी । रूपरसौ वायुनिष्ठात्यन्ताभावप्रतियोगिनौ यथा तथेत्यर्थः । अनेन सत्त्वासत्त्वहीनं किञ्चित्सिध्यतीति भावः । अत्र विशेषचर्चा वादावलीव्याख्याने ।

सामान्यत इति ।। धर्मिविशेषानालिङ्गिततयेत्यर्थः । व्यतिरेकिणेति ।। प्रागुक्तेनेति भावः । व्याघातं व्यनक्ति- अभिधेयत्वादीति ।। यन्निष्ठाभावप्रतियोगित्वं साध्यं तस्य किञ्चिदादि-शब्दाभिधेयत्वाद् व्याघात इत्यर्थः ।१ व्यभिचारस्थलसम्पादनायाऽह-सकलेत्यादि साधन इत्यन्तम् । सर्वे धर्माः किञ्चिन्निष्ठात्यन्ताभावप्रतियोेगिनो धर्मत्वाद् गन्धरूपरसवदिति साधने यन्निष्ठाभाव-प्रतियोगित्वं सर्वधर्माणां तत्र सर्वधर्माभावाधिकरणत्वरूपधर्मस्य सत्त्वेन२ सर्वधर्मात्यन्ताभावाधि-करणं किञ्चित्सिद्ध्यतीति तन्निष्ठात्यन्ताभावाधिकरणत्वे व्यभिचार इत्यर्थः । अविरुद्धत्वञ्चेति । ३परस्परनिषेध्यनिषेधानात्मकत्वरूपमित्यर्थः । रूपरसयोस्तादृशत्वेन साध्यव्यापकत्वात् सत्त्वा-सत्त्वयोश्चान्योन्यनिषेधात्मकत्वेन साधनाव्यापकत्वाच्चेति भावः । न विरुद्धे इति । ४परस्पर-निषेध्यनिषेधात्मके न भवत इत्यर्थः । तथा च साधनव्यापकत्वमेवेति भावः । अन्यत्रेति ।। आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणमिति प्रमाणलक्षणादाविति भावः । व्याघातादीति ।। सत्त्वं नेत्युक्तावसत्त्वं प्राप्तम् । तदपि नेत्युक्तौ व्याघातः । तथाऽसत्त्वं नेत्यत्रापि ध्येयम् । आदिपदेन ५व्याप्त्यादिराहित्यग्रहः ।प्रतियोगिसापेक्षतेति । प्रतियोगिप्रसिद्धिसापेक्षतानियमादित्यर्थः । रूपरसवदिति । पक्षद्वयसद्भावाद्दृष्टान्तद्वयमित्येतदयुक्तम् । ‘अनित्ये वाङ्मनसी मूर्तत्वात् घटवत्’ इत्याद्यनुपपत्तेरिति चेदुच्यते । एकधर्मिनिष्ठो योऽत्यन्ताभावस्तत्प्रतियोगित्वसाधने सत्त्वासत्त्वयोरेकात्यन्ताभाव-प्रतियोगित्वस्य बाधितत्वेन एकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगिकत्वमेव साधनीयम् । तत्र च रूपमेकमेव दृष्टान्तश्चेत्साध्यवैकल्यापत्त्या रूपरसद्वयग्रहणमिति ज्ञातव्यम् । अविरोधाप्रतीते-रिति ।। तथा चानिर्वचनीयरूपतृतीयकोटिसिद्धौ उपाधेः साधनव्यापकत्वेनानुमानस्य निर्दुष्टत्व-सिद्धिः । तत्सिद्धौ च निर्दुष्टानुमानेनानिर्वचनीयतासिद्धिरित्यन्योन्याश्रयः स्यादिति भावः ।

गुरुराजीया

अभाव इति ।। निरात्मकत्वाद्यभाव इत्यर्थः । अयमाशयः । अप्रसिद्धविशेषणत्वं हि व्याप्तिग्रहप्रतिबन्धकत्वेन दूषणमभिमतम् । तच्च यत्र भावः केवलव्यतिरेकिणा साध्यते तत्रैव भवति । तत्र साध्याभावस्याभावतया भावरूपसाध्यात्मकप्रतियोगिज्ञानाधीनत्वेन साध्याप्रसिद्धौ भावरूप-साध्यात्मकप्रतियोगिज्ञानाभावेन दुर्ज्ञानतया तदज्ञाने च सम्बन्धिज्ञानाभावेन ससम्बन्धिक-पदार्थरूपव्यतिरेकव्याप्तेः दुर्ग्रहत्वात् । न तु यत्राभावः केवलव्यतिरेकिणा साध्यस्तत्रापि । तत्राभावरूपं यत्साध्यं तदभावरूपस्य भावस्यैव व्यतिरेकव्याप्तिं प्रति सम्बन्धित्वेन ज्ञातव्यतया तद्ग्रहेऽभावरूपसाध्यात्मकप्रतियोगिज्ञानानपेक्षणेन साध्याप्रसिद्धावपि तज्ज्ञानसम्भवेन व्याप्ति-ग्रहस्य सुशकत्वात् । तथा चाप्रसिद्धस्य (भावस्य) व्यतिरेकिणा साधनासम्भवेऽपि तादृशाभावस्य साधनमविकलम् । यस्य भावस्य व्यापकतया हेत्वभावो गृहीतस्तदभावस्य व्यापकाभावाभावरूपेण हेतुना पक्षे सिद्धिसम्भवात् । व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञानावश्यम्भावात् ।

तथा हि । पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यत्र इतरत्वस्य जलत्वादेर्व्यापकः पृथिवीत्वाभावो गृहीत इति पृथिवीत्वाभावाभावरूपेण पृथिवीत्वेन पृथिव्यामितरान्योन्याभावोऽ-प्रसिद्ध एव सिद्ध्यति । प्रतियोगिज्ञानस्य वृत्तत्वात् । प्रत्यक्षेण भूतले घटाभाववत् । न च विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्य साध्याप्रसिद्धौ कथं तद्विशिष्टज्ञानमिति वाच्यम् । ‘भूतले घटाभावः’ इति घटाभावविशेष्यकप्रत्ययानन्तरं ‘घटाभाववद्भूतलम्’ इति तद्विशेषणकप्रत्ययवत् पक्षविशेषणकसाध्यविशेष्यकप्रतीत्यनन्तरं साध्यविशेषणकपक्षविशेष्यकप्रत्ययस्योपपन्नत्वात् ।

ननु साध्याभावव्यापकाभावाभावरूपहेतुमत्तया पक्षज्ञानस्य व्यतिरेकिगमकतौपयिकत्वात् साध्यप्रसिद्धिं विना च तादृशप्रतिसन्धानासम्भवान्न तत्राप्रसिद्धसाध्यसिद्धिः । वस्तुगत्या यः साध्याभावस्तद्व्यापकाभावप्रतियोगिमत्तया ज्ञानस्यैव तद्गमकतौपयिकत्वे च व्यतिरेक्या-भासानुपपत्तिरिति चेन्न । योऽभावो यस्याभावस्य व्यापकत्वेन गृहीतस्तदभावाभावेन तस्य व्याप्यस्याभावः पक्षे साध्यत इत्यनुगतानतिप्रसक्तस्य गमकतौपयिकत्वादिति दिक् ।

प्रतिषेधाकारबुद्धेरिति ।। व्यतिरेकिणि साध्यस्याभावतया तदभावस्य वस्तुतो भावत्वेऽपि तस्य साध्याभावत्वेन ज्ञानमावश्यकम् । साध्याभावत्वेन ज्ञायमानसाध्याभावव्यापकाभावप्रतियोगि-रूपहेतुमत्तया पक्षज्ञानस्य व्यतिरेकिणि गमकतौपयिकत्वात् । न च साध्यप्रसिद्धिं विनैतादृश-प्रतिसन्धानं भवतीति कथं न तस्य दोषत्वम् । न च वस्तुतो यः साध्याभावस्तद्व्यापकाभाव-प्रतियोगिहेतुमत्तया ज्ञानमेव लाघवात् तत्र गमकम् । न तूक्तरूपम् । गौरवात् । तच्च व्याप्यत्वेनाभिमतस्य भावस्य साध्याभावत्वेनाज्ञानेऽपि सम्भवतीति न साध्यप्रतीतिसापेक्षत्वमिति वाच्यम् । तथा सति यत्र घटादौ पटाद्यभावत्वमारोप्य तद्व्यापकतया लोष्ठत्वादि गृहीतं तत्र लोष्ठत्वाद्यभावेन पटाद्यननुमानप्रसङ्गेन व्यतिरेक्याभासविलयप्रसङ्गात् । न च योऽभावो यस्याभावस्य व्यापकतया गृहीतस्तदभावाभावरूपेण हेतुना तस्य व्याप्यस्याभावः पक्षे साध्यत इत्येतदेव तत्र गमकम् । व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञानावश्यम्भावादिति वाच्यम् । तथा सति विवादपदं पृथिवीत्वाभाववत् तद्व्यापकशब्दाश्रयत्वाभावरहितत्वाद् यद् यद्व्यापकशून्यं तत्तदभाववत् यथा सम्प्रतिपन्नमित्यन्वयित्वप्रसङ्गेन व्यतिरेकित्वभङ्गप्रसक्तेः । तथा च व्यतिरेकिणः पृथक्त्वमभिलषता पूर्वोक्तमेव प्रयोजकं तत्राङ्गीकार्यम् । तत्र च व्याप्यतया अभिमतस्य भावस्य साध्याभावत्वेन ज्ञातव्यत्वात् साध्यज्ञानाभावे च तदसम्भवाद्व्याप्तिग्रहानुपपत्तिरेवेति युक्तमप्रसिद्धविशेषणत्वस्य दूषणत्वमित्यन्यत्र विस्तरः ।

एवं तर्हि जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादाविव विवादपदमनिर्वचनीयं बाध्यत्वादित्यत्रापि सामान्यतः सदसद्विलक्षणत्वरूपसाध्यप्रसिद्धिसम्भवान्नाप्रसिद्धविशेषणत्वस्य दूषणत्वमित्याशयेन शङ्कते- सत्त्वासत्त्व इति ।। यौ धर्मौ तौ एकधर्मिनिष्ठात्यन्ताभावप्रतियोगिनौ यथा रूपरसावित्यनुमानार्थः । अत्र च भिन्नाधिकरणनिष्ठात्यन्ताभावप्रतियोगितया अर्थान्तरता-निरासायैकत्वेन धर्मी विशेषितः । रूपमात्रस्य रसमात्रस्य वा दृष्टान्ततयोपादाने तस्यैकधर्मि-निष्ठरूपात्यन्ताभावप्रतियोगित्वस्य रूपे तादृशरसात्यन्ताभावप्रतियोगित्वस्य रसे सत्त्वेऽपि एकधर्मिनिष्ठौ यावत्यन्ताभावौ तत्प्रतियोगित्वस्य रूपे वा रसे वा अभावेन दृष्टान्तस्य साध्य-वैकल्यप्रसङ्गादुभयस्य दृष्टान्ततयोपादानम् । न च एको यो धर्मी तन्निष्ठो योऽत्यन्ता-भावस्तत्प्रतियोगित्वस्य साध्यार्थत्वेन विवक्षितस्य रूपमात्रे रसमात्रे वा सत्त्वान्न साध्यवैकल्यमिति वाच्यम् । तथा सति (‘पक्षीकृतयोः सत्त्वासत्त्वयोरेकधर्मिनिष्ठौ यौ सत्त्वासत्त्वयोरत्यन्ताभावौ तत्प्रतियोगित्वेऽपि)१ एकधर्मिनिष्ठो योऽत्यन्ताभावः सत्त्वस्य वा असत्त्वस्य वा तत्प्रतियोगित्वस्य सत्त्वासत्त्वयोरन्यतरस्मिन् सत्त्वेऽपि पक्षीकृतयोः सत्त्वासत्त्वयोस्तदभावेनेष्टापत्त्या तादृश-साध्यार्थस्य विवक्षितुमशक्यत्वात् । विस्तरस्तु नयनप्रसादिन्यां द्रष्टव्यः ।

केवलव्यतिरेकिणेति ।। विवादपदमनिर्वचनीयं बाध्यत्वादात्मवदिति व्यतिरेकिणेत्यर्थः । नन्वभिधेयत्वस्यापि पक्षतुल्यत्वात् कथं व्यभिचारः । ‘न हि पक्षे पक्षतुल्ये वा व्यभिचारः’ इति हि प्राचां वाचः। तत्कथमेतदित्यत आह- तस्यापीति ।। व्याघातमेवोपपादयति-अभिधेयत्वादीति ।। तस्येति ।। यन्निष्ठात्यन्ताभावप्रतियोगित्वं साध्यं तस्य किञ्चिदादिशब्दाभिधेयत्वाद्व्याघात इत्यर्थः। किञ्च पक्षतुल्यत्वादिना अभिधेयत्वादौ व्यभिचारं परिहृतवतस्तव धर्ममात्रस्य यत्किञ्चिन्निष्ठा-त्यन्ताभावप्रतियोगित्वमित्यभिमतम् । केवलान्वयिधर्माणामपि किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वे व्यतिरेकिधर्माणां तथात्वस्य कैमुतिकन्यायसिद्धत्वात् । तथा च धर्मात्यन्ताभावाधिकरणत्वे व्यभिचारः । तत्र हेतूकृतस्य धर्मत्वात् । साध्यस्यासत्त्वात् । तथा च व्यभिचार इत्याह- किञ्च सकलधर्माणामिति ।। तस्यापि पक्षतुल्यत्वात् कथं व्यभिचार इत्यत आह- तस्यापीति ।।

अविरुद्धत्वं चेति ।। रूपरसयोरेकधर्मिनिष्ठात्यन्ताभावप्रतियोगित्वरूपसाध्यवत्त्वात् सहावस्थितत्वेनाविरुद्धत्वरूपोपाधेरपि सत्त्वेन साध्यव्यापकत्वात् साधनवति पक्षे वक्ष्यमाणरीत्या उपाधेरभावेन साधनाव्यापकत्वादविरुद्धत्वमुपाधिश्चेत्यर्थः । न च गोत्वाश्वत्वादौ  महिष्यादि-रूपैकधर्मिनिष्ठात्यन्तभावप्रतियोगित्वरूपसाध्यसत्त्वेऽपि सहानवस्थितत्वेन विरुद्धत्वसत्त्वेन तत्र साध्याव्यापकत्वमिति वाच्यम् । २प्रतिषेध्यप्रतिषेधभावरूपविरोधाभावस्यैवोपाधितया अभिमतत्वेन गोत्वाश्वत्वादौ तादृशविरोधाभावस्यापि सत्त्वेन तदनवकाशात् । न च घटतद्ध्वंसयोरेकधर्मि-निष्ठात्यन्ताभावप्रतियोगित्वेऽपि उक्तोपाधिविरहात् तत्र साध्याव्यापकत्वमिति वाच्यम् । प्रतियोगितदत्यन्ताभावत्वरूपविरोधाभावस्य विवक्षितत्वेन तदनवकाशात् । न च संयोगतदत्यन्ता-भावयोः प्रतियोगितदत्यन्ताभावत्वलक्षणस्य विरोधस्यैव सत्त्वात्साध्याव्यापकत्वमिति वाच्यम् । प्रदेशभेदेन वृत्तेरनुभूयमानत्वेन संयोगः स्वात्यन्ताभावसमानाधिकरण इत्यावयोरसम्मतत्वेन तदप्रसङ्गादिति भावः ।

साधनव्यापकत्वमाशङ्क्य परिहरति- न चेति ।। अनिर्वचनीयेति ।। तथा चान्योन्याश्रय इति भावः । परसिद्धमिति ।। अप्रसिद्धविशेषणत्वदूषणतावादिनो नैयायिकस्य सिद्धमित्यर्थः । न तु मायिसिद्धमित्यर्थः । तन्मतेऽपि तददूषणत्वादिति भावः । अन्यत्रेति ।।

आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम्’

आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम्’

इत्यादिना प्रमाणलक्षणानुव्याख्यानादावित्यर्थः । स्वव्याघातादीति ।। ‘यद्यनिर्वचनीयत्वं निर्वचना-नर्हत्वं तदा स्वव्याघातः । तत्किमिति पृष्टे इदमित्युक्तौ तेनैव शब्देन तस्य निरुक्तत्वात् । अन्यथा मूकत्वप्रसङ्गात् । यदि च सदसद्विलक्षणं तदा सन्न भवतीत्युक्ते असत्त्वमेव लब्धम् । सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य । पुनः असन्न भवतीत्युक्ते कथं न स्वव्याहतिः । एवमसन्न भवतीत्यभिहिते सत्त्वमेवाभिहितम् । पुनः सन्न भवतीत्युक्तौ कथं न स्वव्याहतिः’ इति सुधोपपादितप्रकारेण व्याघातो द्रष्टव्यः ।

अयमस्याः सुधाया आशयः । असन्न भवतीति निषेधविशिष्टसन्निषेधस्य विशेषणभूत-निषेधविषयकत्वस्य लाघवमूलकसविशेषणे हीति न्यायसिद्धत्वात् निषेधनिषेधरूपातिशयलाभाय च नञ्द्वयसार्थक्यसम्भवात् निषेधनिषेधे सत्त्वविधिरेव सिद्धो भवति । तथा चायं प्रयोगः । सद् असन्न भवतीति वाक्यलभ्यम् एकेन नञर्थेन विशिष्टतया तद्वाक्यप्रतिपाद्यत्वे सति तन्नञर्थ-विशिष्टान्वयितद्वाक्यप्रतिपाद्यनञर्थान्तरत्वात् । यद्वस्तुस्वरूपम् एकेन नञर्थेन विशिष्टतया तद्वाक्यप्रतिपाद्यत्वे सति नञर्थविशिष्टान्वयितद्वाक्यप्रतिपाद्यनञर्थान्तरवत् तत्तल्लभ्यम् । यथा अघटो न भवतीति वाक्यलभ्यो घटः । तत्र हि अघट इति नञर्थेन निषेधेन विशिष्टो घट एवो-च्यते । तद्विषयश्च द्वितीयो निषेधो विशेषणीभूतेन निषेधेनैव सम्बद्ध्यते । विशिष्टविषययोर्विधि-निषेधयोः विशेषणोपसङ्क्रामकत्वस्य ‘लोहितोष्णीषा ऋत्विजः प्रचरन्ति’ ‘न जीर्णमलवद्वासाः स्नातकःस्यात्’ इत्यादौ प्रसिद्धत्वात् ततश्च निषेधे निषिद्धे घट एवोक्तो भवतीति । स्वव्याघातादीत्यादिपदेन मानव्याहततायाः परिग्रहः । यत्तु आदिपदेन व्याप्तिविरहपरिग्रह इति ‘तत्तु न केवलं प्रमाणव्याहतेयं प्रतिज्ञा अपि तर्हि स्वव्याहताऽपि’ इत्यादिशब्दव्याख्यानरूपटीका-ग्रन्थादर्शनमूलकत्वादुपेक्ष्यम् । तदनुसारेण प्रमाणव्याहतताया एव आदिशब्दार्थतया दार्शनिकम्मन्येन परेण व्याख्यातत्वादिति द्रष्टव्यम् ।

गोविन्दीया

अभाव इति ।। शुक्तिकारजतम् अनिर्वचनीयं बाध्यत्वादित्यनुमानेन अनिर्वचनीयशब्दलक्षिताभावः साध्यत इत्यर्थः । सत्त्वासत्त्वे इति ।। एकस्मिन् धर्मिणि निष्ठः स्वात्यन्ताभावः तस्य प्रतियोगिनीत्यर्थः । स्वशब्देन सत्त्वासत्त्वग्रहणमिति भावः । अभिधेयत्वादिति ।। सर्वस्याप्यभिधेयत्वेन तदत्यन्ताभावस्य कुत्राप्यदृष्टत्वात् तत्प्रतियोगित्व-स्याप्यभावेन साध्यासत्त्वाद् व्यभिचार इत्यर्थः । स्वस्यैव स्वात्यन्ताभावताप्रतियोगितासम्भवादिति भावः । किञ्चेति ।। यस्मिन् सकलधर्मात्यन्ताभाव उच्यते तस्मिन्नेव सकलधर्मात्यन्ताभावाधि-करणत्वरूपधर्मसत्त्वेन तत्र धर्मे व्यभिचार इत्यर्थः । स्वस्यैव स्वात्यन्ताभावताप्रतियोगित्वा-सम्भवादिति भावः । तस्यापीति ।। सकलधर्मात्यन्ताभावाधिकरणत्वरूपधर्मस्यापि पक्षतुल्यत्वे यस्मिन् एतदत्यन्तभाव उच्यते अभावाभावो भाव एवेति नियमात् तस्य चेतनत्वाचेतनत्व-नित्यत्वानित्यत्वादिसकलधर्मवत्त्वं वक्तव्यम् । तच्च विरुद्धमापद्येत इत्यर्थः । अविरुद्धत्वमिति ।। सत्त्वासत्त्व इत्याद्यनुमानप्रयोगे व्यतिरेकिधर्मत्वादिति हेतुप्रयोगे नाभिधेयत्वादौ व्यभिचार इति परकीयहार्दशङ्कां मनसि निधायाविरुद्धत्वं चोपाधिरित्युक्तमित्यर्थः । पक्षे उपाध्यभावमुपपादयति- अनिर्वचनीयेति ।। यस्मिन् सत्त्वासत्त्वात्यन्ताभावः तस्यानिर्वचनीयरूपार्थस्याद्यापि साध्यत्वेना-प्रतीतेः । तत्प्रतीतिजन्यसत्त्वासत्त्वाविरोधप्रतीतिर्न स्यादित्यर्थः । स्वमतेनेति ।। अनिर्वचनीयपदस्य निर्वचनानर्हत्वमित्यर्थश्चेत् तत्पदाभिधेयत्वेन निर्वचनार्हत्वं चेति व्याघातः । सदसद्विलक्षणत्व-मर्थश्चेत् सदसद्विलक्षणत्वमादाय सिद्धसाधनतेत्यर्थः ।

निर्विषयस्येति ।। निर्धर्मिकस्य सत्यविविक्तत्वलक्षणसामान्यस्येत्यर्थः । अन्यथेति ।। अनिर्वचनीयरूपाश्रयाभावेऽपि मिथ्यात्वसामान्यं सिद्धं चेत् तदपि धूमत्वसामान्यं सिद्धं प्रसज्येते-त्यर्थः । द्वयोरिति ।। विमतं मिथ्या बाध्यत्वात्, नेदम् असत् प्रतीतत्वात्, इत्यनुमानद्वयोरपि परस्परं सत्प्रतिपक्षतयाऽप्रामाण्यापत्तिरित्यर्थः । क्षित्यादिकं सकर्तृकं कार्यत्वात्, नायम् असर्वज्ञकर्ता क्षित्यादिसर्वकर्तृत्वात्, इत्यनुमानद्वयोरपि परस्परं सत्प्रतिपक्षतयाऽप्रामाण्यापत्त्या ईश्वरसिद्धिर्न स्यादिति प्रतिबन्द्या शङ्कते- नन्विति ।। एवं सत्यनिर्वचनीयत्वसिद्धौ१ ईश्वरसिद्धिर्दुर्लभा स्यादित्यर्थः । न स्यादिति ।। दुर्लभा न स्यात् सुलभैवेत्यर्थः । तदन्तर्भावादिति ।। क्षित्यादिसर्वकर्तृतान्तर्भावादि-त्यर्थः । कार्यत्वानुमानेनैव सार्वज्ञ्यादिरूपेण ईश्वराख्यकर्ता सिध्यतीति पुनरनुमानान्तरारम्भाभावेन न सत्प्रतिपक्षतेति भावः । ये त्विति ।। पूर्वं क्षित्यादिकर्तृत्वस्यैव ईश्वरत्वात् कार्यत्वानुमानेनैव ईश्वरसिद्धौ पुनरनुमानान्तरापेक्षाभावेन सत्प्रतिपक्षता नास्तीत्युपपादितम् । इदानीं ये कार्यत्वेन कर्तृमात्र-सिद्धिमङ्गीकृत्य सर्वज्ञत्वसिद्धौ पुनः परिशेषेण ‘अयम् असर्वज्ञो न भवति क्षित्यादिसर्वकर्तृत्वात्’ इति परिशेषानुमानेन प्रयतन्ते तेषां कथमिति चेदित्यर्थः । यः कर्तेति ।। कर्तृत्वसाधनेऽसार्वज्ञादि-प्रतीत्यभावेऽपि क्षित्यादिकर्ता असर्वज्ञो भवति कर्तृत्वात्, यः कर्ता नासौ सर्वज्ञः यथा कुलालः, इत्यनुमानेनासर्वज्ञप्रतीतौ  पुनः  सर्वज्ञसाधकानुमानप्रारम्भः  तदा  सत्प्रतिपक्षता  स्यादिति चेत्, नेत्यर्थः । प्रकृतेति ।। तेन असत्त्वेन तदसाधनात् । असत्त्वनिषेधासाधनात् । किन्तु प्रतीतत्वादिति हेतुना साधनादित्यर्थः । अस्य चेति ।। क्षित्यादिकर्तृत्वरूपहेतोः तत्कर्तृरूपाश्रयासिद्ध्यादिनाऽ-प्यसिद्ध्या दुष्टत्वेन हीनबलत्वात् सत्प्रतिपक्षतानिरुपकरणात् । कर्तृसिद्ध्यनन्तरमपि साध्यरूप-फलकस्यैव सिद्धत्वात् प्रतिरोधकत्वाभावेन सत्प्रतिपक्षतायाः निराकरणमित्यर्थः ।

नारोपन्तीया

अभावः केवलव्यतिरेकिणा साध्य इति ।। अयमाशयः । साध्याप्रसिद्धिर्हि न साक्षाद्दूषणम् । उपाधिवद्धेत्वाभासबहिर्भूतत्वात् । किन्तु साध्याभावे साधनाभावेन व्याप्तौ गृह्यमाणायां साध्यरूपप्रतियोगिज्ञानाभावेनाभावस्य दुर्ज्ञानतया व्याप्तिज्ञानासम्भवेन व्याप्यत्वा-सिद्धिरूपहेत्वाभासोत्थापकतया, तथा संशयघटितपक्षतापक्षे संशयाभावेन पक्षतायोगादाश्रया-सिद्ध्युन्नायकतया, तथा साध्यरूपविशेषणज्ञानवैकल्यादनुमितिरूपविशिष्टज्ञानानुत्पत्त्या च दूषणत्वं वाच्यम् । न चैतानि दूषणानि अभावसाधने सम्भवन्ति । साध्याभावस्य भावत्वात् तस्य प्रतियोगिज्ञानानपेक्षणात् । संशयघटितपक्षताया अनाश्रयणात् । साधकबाधकमानाभावस्येव पक्षतात्वोपपत्तेः । साध्यविशेष्यकपक्षविशेषणकाया एवानुमितेः सम्भवाच्च । तस्माद्घटादौ इच्छा-त्यन्ताभावावच्छेदकत्वरूपं निरात्मत्वं भावरूपं सिद्धम् । तस्य व्यापको हेत्वभावः तत्रैव गृहीतः । तदभावेन हेतुना पक्षे साध्याभावः सेत्स्यति । व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञानस्या-वश्यंभावात् । एवं प्रकृतेऽपि पारमार्थिकत्वाभावरूपमनिर्वचनीयत्वं साधनीयम् । ब्रह्मणि व्यतिरेकव्याप्तिग्रहः सुशक एवेति ।

प्रतिषेधाकारबुद्धेरनिवारणादिति । इदमत्राकूतम् । यस्यकस्यचिद्येनकेनचिद्व्याप्तिज्ञानेन यदि किञ्चित्साध्यसिद्धिः स्यात्, तदा अतिप्रसङ्गः स्यात् । प्रतियोग्यनुयोगिभावो नियामको वाच्यः । सोऽपि स्वरूपसन् ज्ञातो न वा । आद्ये विभागे संयोगाभावत्वभ्रमवतो विभागव्यापकत्वम् । एतदभावे गृहीतवत एतत्त्वरूपहेतुना संयोगानुमानं न स्यात् । किन्तु विभागाभावानुमानमेव स्यात् । तस्माद्यदभावेन गृहीतस्य यस्य येन व्याप्तिर्गृह्यते । तदभावेन स एव तदभाववत्तया सिध्यतीति द्वितीय एव ज्ञातपक्षोऽङ्गीकार्यः । सैव च प्रतिषेधाकारबुद्धिरिति घट्टकुट्यां प्रभातः । किञ्चेच्छात्यन्ताभावा-वच्छेदकत्वरूपं घटादिनिष्ठनैरात्म्यं व्यतिरेकाप्रतियोगीति भ्राम्यतोऽप्येवमनुमितिः स्यात् । त्वदभिमतस्य स्वरूपसत एव व्यतिरेकप्रतियोगित्वस्य तत्र सत्त्वात् । न च तद्व्यापकस्य व्यतिरेकप्रतियोगित्वज्ञाने सति अत्र न तादृशभ्रमसम्भव इति वाच्यम् । भिन्नविषयत्वेन प्रतिबध्यप्रतिबन्धकभावासम्भवात् । अन्यथा पक्षे परामर्शरूपव्याप्यप्रतिसन्धानकाले बाधावतारः कुत्रापि न स्यात् । न चैवं परामर्शस्य चरमकारणत्वं न स्यादिति वाच्यम् । भावभूतकारणानपेक्षत्वस्यैव तत्र तत्त्वात् । वस्तुतस्तु व्यतिरेकाप्रतियोगिप्रमेयत्वव्यापकस्य गगनात्यन्ताभावस्य व्यतिरेकप्रतियोगित्वदर्शनस्य सत्त्वात्तयोर्विरोध एव न । न च तस्य व्यतिरेकाप्रतियोगित्वम् ।

अभिधेयत्वादाविति ।। आदिशब्देन प्रमेयत्वघटत्वादेर्ग्रहणम् । तथाचाभिधेयत्वप्रमेयत्वरूपधर्मद्वये वा ज्ञानं प्रतिबन्धकम् । अतस्तदभाव एवैतादृशानुमितौ हेतुसाध्यरूपव्यतिरेकप्रतियोगिज्ञानम् । तथा च प्रतिषेधाकारबुद्धेः क्वोपयोग इति वाच्यम् । तथात्वे व्याप्तिज्ञानादेरपि दत्तजलाञ्जलितापातात् । अव्याप्यताज्ञानव्यतिरेकस्यैवानुमिंितं प्रति कारणतायाः सुवचत्वादिति दिक् । ननु तर्हि अयमपि अभावसाध्यको व्यतिरेकी । तथापि भवदुक्तन्यायेन सामान्यतः साध्यसिद्धौ नोक्तदूषणावसर इत्याशयेन सदसद्विलक्षणत्वरूपमिथ्यात्वसिद्धये सामान्येन साध्यप्रसिध्यर्थं अनुमानमाचरन्ति  । सत्त्वासत्त्वे इति ।। यन्निष्ठात्यन्ताभावप्रतियोगित्वं सेत्स्यति सत्त्वासत्त्वयोः तत्रैव सदसद्विलक्षणत्वरूपं मिथ्यात्वं सेत्स्यतीति भावः ।

अत्र यत्किञ्चिन्निष्ठात्यन्ताभावप्रतियोगित्वसाधने शशशृृङ्गे ब्रह्मणि चोभयात्यन्ताभावस्य सिद्धान्तिनः  सिद्धत्वात् सिद्धसाधनं स्यात् । अत एकत्त्वेन धर्मी विशेषितः । नन्वेवमपि तयोः स्वस्वरूपेणैकत्वादुक्तदोषस्तदवस्थ एवेति चेन्न । अत्रैकशब्दस्याभेदार्थत्वात् । तस्य च प्रतियोग्याकाङ्क्षायां तदेव धर्मितयाऽभिमतं तत्रान्वेति । ततश्च सत्त्वासत्त्वे परस्परात्यन्ताभाववन्निरूपितान्योन्या-भावानधिकरणधर्मिनिष्ठात्यन्ताभावप्रतियोगिनीति साध्यार्थः  । द्वित्वपर्याप्त्यधिकरणधर्मत्वादिति हेत्वर्थः । अत एव रूपरसवदिति द्वित्वावच्छिन्नं दृष्टान्तं उपादत्ते स्म । अभिधेयत्वघटत्वरूपधर्मद्वये चाव्यभिचारादित्यर्थः । यद्यपि घटत्वस्य पटादिनिष्ठात्यन्ताभावप्रतियोगित्वमस्ति । तथापि तादृशद्वित्वावच्छिन्नस्य न कुत्राप्यत्यन्ताभावः । यदि च एकसत्त्वे द्वयमिह नास्तीति प्रतीत्या व्यासज्यवृत्तिप्रतियोगिकात्यन्ताभावमभिप्रेत्य व्यभिचारः कथञ्चिदेकत्र परिह्रियते, तर्हि पक्षेऽपि तथाविधार्थसिद्ध्या अर्थान्तरं सिद्धसाधनता च स्यात् । सदेकरूपघटादिषु उभयाभावस्य सिद्धान्तिसम्मतत्वादिति भावः । ननु व्यतिरेकित्वेन हेतुं विशेषयाम इति चेन्न । सिद्धान्ते सत्त्वस्य केवलान्वयितया स्वरूपासिद्ध्यापत्तेः । असत्त्वमादाय हेतुसिद्ध्यङ्गीकारे तु उक्तव्यभिचारतादवस्थ्यमिति दिक् ।

सदसद्विलक्षणत्वरूपानिर्वचनीयसाध्यप्रसिद्ध्यर्थानुमानं निराकृत्य यत्परेण भावाभावविलक्षणत्वं वा नित्यानित्यविलक्षणत्वं वा विशिष्टाविशिष्टविलक्षणत्वं वेत्याद्यनेकप्रकारकानिर्वचनीयत्वप्रसिद्ध्यर्थम् अनुमानान्तरमपि निराकरोति- सर्वधर्माणामिति ।। तथा चानेनानुमानेन घटाघटविलक्षणत्वादिका-न्यनेकानिर्वचनीयानि सिध्यन्ति । घटत्वाघटत्वादेरपि पक्षे प्रवेशात् । तथा सच्चेत् सदा सदेव स्यान्न कदाचिद्बाध्येत । असच्चेत्सदिति न प्रतीयेतैव । तस्मादुभयवैलक्षण्यमनिर्वचनीयत्वम् । तथा घटत्वं घटस्वभाव एवायमिति चेत् सदा घट इत्येव प्रतीयते । अघटश्चेत्कदापि घट इति न प्रतीयेत । उभयत्वं च विरुद्धम् उभयरूपत्वं च विरुद्धमतस्तदुभयवैलक्षण्यमनिर्वचनीयमित्यादीन्यपि अनिर्वचनीयानि सेत्स्यन्तीति मन्यन्ते ।

अत्र प्रष्टव्यम् ।  किमयं सर्वशब्दः सङ्कुचितवृत्तिराहोस्विदसङ्कुचितवृत्तिः । आद्ये उक्तदोषे सत्येव । दोषान्तरमाह- धर्मात्यन्ताभावेति ।। द्वितीयमनूद्य दूषयति- तस्यापि पक्षत्व इति ।। यद्येकेनापि धर्मेण तद्धीनं स्यात्, तर्हि तत्रैव व्यभिचारो दुर्वार इति, तत्परिहाराय सर्वधर्माधिकरणत्वमवश्यमापद्येतेति भावः । उपलक्षणं चैतत् । दृष्टान्ताभावादनुमानोत्थानमपि न सम्भवतीति स्फुटत्वान्नोक्तम् । यदि च घटत्वाघटत्वे  इत्यादिरूपेण  प्रत्येकं  पक्षीकरणं  तदा पूर्वानुमानोक्तदूषणेनैव दूषितप्रायमित्यपि द्रष्टव्यम् ।

अविरुद्धत्वं चोपाधिरिति ।।  ननु गोत्वाश्वत्वयोर्गजनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि विरुद्ध-त्वान्न साध्यव्यापकता उपाधेरिति चेन्न । भ्रान्तोऽसि । नह्यस्माभिरत्र सहानवस्थानलक्षणविरोधो विवक्षितोऽस्ति । परस्परविरहरूपस्य तस्याभिप्रेतत्वात् । तथापि । घटतत्प्रागभावयोः तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि उक्तरूपाविरुद्धत्वाभावादुक्तदोषतादवस्थ्यमिति चेन्न । परस्परात्यन्ताभावरूपत्वाभावलक्षणस्योपाधेरिष्टत्वात् । नन्वेवमपि कपिसंयोगतदत्यन्ताभावयोः एकवृक्षनिष्ठात्यन्ताभावप्रतियोगित्वात् परस्परात्यन्ताभावरूपत्वाच्च नोक्तदोषानिस्तार इति चेत् । संयोगादेरव्याप्यवृत्तित्वानभ्युपगमात् । अभ्युपगमे वा प्रतियोगिन्यधिकरणपरस्परात्यन्ता-भावरूपस्योपाधित्वेनेष्टत्वात् । तस्य च रूपरसादौ साध्यव्यापकता सुलभैवेति भावः ।।

साधनव्यापकत्वान्नायमुपाधिरित्याशयेन शङ्कते- न च सत्त्वासत्त्वे अपीति ।। परिहरति- अनिर्वचनीयेति ।। परसिद्धमितीति ।। यद्यपि परमते अप्रसिद्धविशेषणता साक्षादनुमानदूषणं न भवति । किन्तु तत्र व्याप्तिग्रहासम्भवात् संशयाभावाच्च व्याप्तिपक्षधर्मताविरहसम्पादकत्वादसिद्धि-रूपहेत्वाभासोन्नायकतयैव । अनुमितिजनकीभूतज्ञानविषयाभावत्वस्यैवासिद्धिपदार्थत्वात् । सा च सिद्धान्तेऽपि दोषो भवत्येव । तथा च यत्र साध्याप्रसिद्धिः तत्रावश्यं व्याप्तिपक्षधर्मतावैकल्यमिति परेषामभिमानात् । नास्माकमभिमानः । यच्छशशृृङ्गं तदत्यन्ताभावप्रतियोगीति व्याप्तेर्निष्कलङ्क-त्वात् । अत एव वन्ध्यासुतो न वक्ता असत्त्वादित्याद्यनुमानमपि सदनुमानमेव । न तु परमत इवाश्रयासिद्ध्यादिमत् । सामानाधिकरण्याभावेऽपि यथा सताऽसताऽपि साध्येन व्याप्तिः तथाऽस्माभिः सुधाबिन्दौ सपरिकरं व्युत्पादितमिति विस्तरभिया अत्र न प्रतन्यते ।

अन्यत्रेति । ‘आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम्’ इत्यादावित्यर्थः । व्याघातादिदूषण-मिति ।। सत्त्वाभावाङ्गीकारेऽसत्त्वस्यैव लाभेन पुनस्तत्रैव तन्निषेधे व्याघात इत्यर्थः । आदिशब्देन व्याप्तिविरहो द्रष्टव्यः ।

जनार्दनभट्टीया

नैयायिकैकदेशमतमाह – अभाव इति ।। ‘जीवच्छरीरं सात्मकम्’१ इत्यादौ केवलव्यतिरेकिणि सात्मकमित्यादेः न निरात्मकमिति व्याख्यानेन निरात्मकत्वाद्यभाव एवार्थ इति भावः । निरात्मकत्वं घटादौ विद्यमानं भावरूपमिति कृत्वा, भावस्य प्रतियोगिप्रतीतिमन्तरेण प्रत्येतुं शक्यत्वात् ‘यत्र निरात्मकत्वं तत्र प्राणादिमत्वाभावः’ इति घटादौ व्याप्तिग्रहः सुशक इत्यर्थः । अयमाशयः–  निरात्मकत्वं नाम घटादौ विद्यमानः कश्चित् भावरूपो धर्मः । तदभावरूपं सात्मकत्वं जीवच्छरीरे साध्यते । निरात्मकत्वसात्मकत्वाभावाभावरूपं निरात्मकत्वं भावरूपमेवेति न सात्मकत्वरूपसाध्य-प्रसिद्ध्यपेक्षा– इति । ‘कश्चित्’ इति अस्वरसोद्भावनम् । तद्बीजं तु निरात्मकत्वं न भावरूपम् । येन तत्प्रतीतेः प्रतियोगिप्रतीतिनिरपेक्षत्वं स्यात् । किन्तु अभावरूपमेव । घटे सात्मकत्वं नास्तीति प्रथमप्रतीतावेव उपलभ्यमानत्वात् । अन्यथा निर्वह्नित्वादेरपि अभावरूपत्वं न स्यात् । न चेष्टापत्तिः । वह्निसाध्यकधूमानुमाने ह्रदादेः व्यतिरेकदृष्टान्तत्वाभावप्रसङ्गादिति । इत्थं दूषणे सत्येव प्रकारान्तरेण दूषयितुमुपक्रमते – तदसदिति ।। ‘अभावाभावो भाव एव’ इति१ तस्य प्रतिषेधप्रतीतिसापेक्षता नेति वा । आद्यं निराह – अभावेति ।। प्रतिषेधाकारेति ।। घटादौ सात्मकत्वं नास्ति । घटादिः सात्मको न भवतीति वा प्रतिषेधाकारव्यतिरेकबुद्धेरनिवारणात् अवश्यमङ्गीकार्यत्वादित्यर्थः । अन्यथा अन्वयव्याप्तिग्रहापेक्षया विशेषाभावेन व्यतिरेकव्याप्तिग्रहत्वभङ्गः स्यात् इति भावः । द्वितीयं पराकरोति– प्रतिषेधस्य चेति ।। यत्र सात्मकत्वं नास्तीति प्रतीतौ सात्मकत्वरूपप्रतियोगिप्रतीतिसापेक्षता-नियमादित्यर्थः । अन्ये तु– प्रतिषेधाकारबुद्धेः व्यतिरेकिणि गमकताप्रयोजकं यत्साध्याभाव-व्यापकाभावप्रतियोगित्वं तद् बुद्धेरनिवारणात् अवश्यमङ्गीकार्यत्वात् प्रतिषेधस्य च साध्याभावस्य साध्यरूपप्रतियोगिप्रतीतिसापेक्षतानियमादित्यर्थः – इत्याचक्षते । सामान्यतः साध्यप्रसिद्ध्या एव व्यतिरेकिप्रसिद्धिश्चेत् तर्हि अत्रापि अनुमानेन अनिर्वचनीयरूपसाध्यप्रतीतिं सम्पादयिष्यामीत्याशयेन अनुमानं मायावादी प्रयुङ्क्ते । सत्वासत्वे इति ।। एकधर्मिनिष्ठो योऽत्यन्ताभाव इति ।।

यथा च अभावपदस्य द्विवचनान्तत्वेन व्याख्यानमवश्यकं तथा अनुपदमेव वक्ष्यामः । एकैकस्य पक्षत्वे केवलसद्विलक्षणत्वस्य केवलासद्विलक्षणत्वस्य वा असिद्ध्यापत्त्या उभयविलक्षणत्व-रूपानिर्वनीयसिद्ध्यर्थम् उभयोपादानम् । एकपदन्तु सत्वासत्वान्यतरप्रतियोगिक एकैकाभावाधिकरण-द्वयसिद्ध्या अर्थान्तरतावारणाय निर्धर्मिकब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वमादाय अर्थान्तरतावार-णाय । धर्मिपदं धर्मिसमसत्ताकधर्मपरम् । वस्तुतस्तु एकपदस्य एकत्वसङ्ख्याविशिष्टार्थकत्वेन धर्मिसमसत्ताक एकत्ववन्निष्ठात्यन्ताभावप्रतियोगिनीति अनेनैव पूर्तेः अर्थान्तरताभावात् च धर्मिपदं व्यर्थम् । ‘क्षित्यादिकं स्वोपादानगोचरापरोक्षज्ञप्तिचिकीर्षाकृतिमज्जन्यम्, भावकार्यत्वात्’ इत्यत्र कृतिग्रहणेनैव ईश्वरसिद्धावपि चिकीर्षादिवदुद्देशसिद्ध्यर्थं वा । अत्यन्तपदं तु घटरूप-एकधर्मिनिष्ठान्योन्याभावप्रतियोगिकत्वस्य सत्वासत्वयोः सिद्धत्वेन सिद्धसाधनतावारणाय । दृष्टान्तद्वयोपादानं तु अभावे द्वित्वस्य अविवक्षितत्वे सदेकस्वभावस्यापि द्वित्वावच्छिन्नसत्वा-सत्वोभयाभावाधिकरणत्वसम्भवेन सत्वासत्वप्रतियोगिकाभावद्वयाधिकरणत्वरूपानिर्वचनीयत्वा-सिद्ध्यापत्त्या अभावे द्वित्वविवक्षायाः आवश्यकत्वे सति एकस्मिन् रूपे रसे वा तादृशाभाव-द्वयप्रतियोगित्वाभावेन दृष्टान्ते साध्यवैकल्यनिरासाय ।  नह्यत्र कापि काव्यालङ्काररीतिः प्रस्तुता । येन

रेजाते रघुकुलकेतनौ गिरीन्द्रे सञ्जाते हनुमदिनात्मजानुषङ्गे ।

धामि्न स्वे विसरति रामलक्ष्मणौ तौ र्ओन्दू गुरुबुधसंयुतौ यथा खे ।।१

इत्यादाविव दृष्टान्तदार्ष्टान्तिकयोः सङ्ख्यासाम्यं गुणः स्यात् । एतेन अभावपदस्य द्विवचनान्तत्वेन व्याख्यानमावश्यकमिति प्रागुक्तं समर्थितं ज्ञातव्यम् । अन्यथा दृष्टान्तद्वयोपादानस्य सर्वथा नैरर्थक्यप्रसङ्गादिति ।। केवलव्यतिरेकिणेति ।। ‘विवादपदं अनिर्वचनीयं बाध्यत्वात् । यन्नानिर्वचनीयं न तत् बाध्यम् । यथा आत्मा’ इति प्रागुक्तकेवलव्यतिरेकिणेत्यर्थः । न दोष इति ।। साध्यरूपविशेषणाप्रसिद्धिदोषो नास्तीत्यर्थः । व्याघातमुपपादयति – अभिधेयत्वादिति ।। तस्य व्यभिचारपरिहाराय अभिधेयत्वं यत्र नास्तीति त्वया उच्यते तस्य वस्तुन इत्यर्थः । सकलधर्मा-त्यन्ताभावाधिकरणत्वेनेति ।। सकलधर्मात्यन्ताभावाधिकरणत्वरूपधर्मेणेत्यर्थः । तस्यापीति ।।  सकलधर्मात्यन्ताभावाधिकरणत्वस्येत्यर्थः । सकलधर्मवत्वमिति ।। न हि सकलधर्मरहितस्य सकलधर्मात्यन्ताभावाधिकरणत्वम् उपपद्यते । अपि तु सकलधर्मवत इति भावः । विरुद्धमिति ।। घटत्वं घटमात्रवृत्ति, पटत्वं पटमात्रवृत्ति इत्यादि प्रमाणविरुद्धमित्यर्थः । ननु ‘धर्मत्वहेतोः व्यभिचारित्वे व्यभिचारे च अवश्यमुपाधिः’ इति न्यायेन कश्चिदुपाधिरपि स्यादिति चेत्, सत्यम् । सत्वासत्वान्यत्वस्य उपाधेस्सत्वात् । न च पक्षेतरत्वरूपत्वेन अनुमानमात्रोच्छेदकतया तस्य अनुपाधित्वम् । ‘वह्निरनुष्णः पदार्थत्वात्’ इत्यादौ बाधितसाध्यके वह्नीतरत्वोपाधिवत् प्रकृतेऽपि बाधस्य वक्ष्यमाणतया सत्वासत्वान्यत्वस्य उपाधित्वसम्भवात् । अत एव विष्णुतत्वनिर्णयटीकायां वेदवाक्यं सकर्तृकं वाक्यत्वात् इति नैय्यायिकोदीरितानुमाने अवेदत्वमुपाधिः इत्युक्तम् । अन्यश्चोपाधिरस्तीत्याह– अविरुद्धत्वञ्चेति ।। ननु किमिदम् अविरुद्धत्वं नाम यदत्रोपाधिः स्यात् । परस्परविरहाव्याप्यत्वं वा सहानवस्थायित्वं वा ? वध्यघातकभावशून्यत्वं वा? नाद्यद्वितीयौ घटरूपैकधर्मिनिष्ठात्यन्ताभाव-प्रतियोगिनोः गोत्वाश्वत्वयोः साध्याव्यापकत्वात् । न तृतीयः । पाकजरक्तरूपतत्पूर्वरूपयोः साध्याव्यापकत्वादिति चेत्, न । परस्परविरहानात्मकत्वं वा परस्परविरहाव्यापकत्वं वा अविरुद्धत्वमिति विवक्षितत्वात् । गोत्वाश्वत्वयोः पाकजरक्तरूपतत्पूर्वरूपयोश्च निरुक्ताविरुद्धत्वस्य सत्वात् न कश्चित् क्षुद्रोपद्रवः । न केवलं सत्वासत्वान्यत्वम्, अपि तु अविरुद्धत्वमपीति समुच्चयार्थः चशब्दः । प्राञ्चस्तु ‘न केवलम् अभिधेयत्वादौ व्यभिचारः । किन्तु अविरुद्धत्वमुपाधिश्चेति चशब्दो भिन्नक्रमः’– इति व्याचक्षते । उपाधेः पक्षे १साध्याव्यापकत्वमुपपादयति–  न चेत्यादिना ।। अन्यत्रेति ।। अनुव्याख्यानादौ इत्यर्थः । यथोक्तम् अनुव्याख्याने –

आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।

केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।।’२ इति ।

स्वव्याघातादिकमिति ।।३ सत्वाभावाधिकरणत्वे असत्वमेव प्राप्तमिति तन्निषेधे व्याघातः । असत्वा-भावाधिकरणत्वे सत्त्वमेव प्राप्तमिति पुनस्तन्निषेधे व्याघात इत्यर्थः । आदिशब्देन असत्वा-भावाधिकरणत्वांशे सिद्धसाधनं ग्राह्यम् ।