प्रकृष्टप्रकाशश्चन्द्र ..

सत्यज्ञानादिवाक्यानामखण्डार्थत्वसाधकानुमाने दृष्टान्ते साध्यवैकल्योपपादनम्

श्रीमज्जयतीर्थटीका

तदेतदसत् । दृष्टान्तस्य साध्यविकलत्वादित्याशयवानाद्यदृष्टान्तं तावद्दूषयति-

मूल

प्रकृष्टप्रकाशश्चन्द्र इत्यादिषु प्रकृष्टत्वादिविशेषणानि सन्त्येवेति न तत्साम्यम् ।

इत्यादिषु लक्षणवाक्येषु । स्थितानां पदानामभिधेयानीति शेषः । इतिशब्दो हेतौ । न तत्साम्यम् । सत्यज्ञानाऽदिवाक्यानामिति शेषः। न तद्दृष्टान्तेनैषामखण्डार्थतासाधनं युक्तमिति यावत् ।

इदमुक्तं भवति । लक्षणा हि वाच्यार्थासम्भवे समाश्रीयमाणा गङ्गायां घोष इत्यादिवाक्येषु दृष्टा । एवमेवाऽश्रयणेऽतिप्रसङ्गात् । प्रकृते च प्रकृष्टाऽदिपदाभिधेयानि प्रकृष्टत्वाऽदिविशेषणानि चन्द्रादौ प्रमाणसिद्धानि । अतोऽनुपपत्त्यभावान्नैषां लक्षणया चन्द्रादिस्वरूपमात्रपरत्वं युक्तम् । लक्षणानाश्रयणे चोक्तपर्यायत्वादिदोषप्रसङ्गः । तथा च दृष्टान्तस्य साध्यविकलत्वान्नानेन सत्यज्ञानादिवाक्यानां लक्षणया ब्रह्मस्वरूपमात्रपरत्वसिद्धिः इति ।

श्रीविजयीन्द्रभिक्षु

तदेतत्सामान्येनानूद्य दूषयति- तदेतदसदिति ।। प्रकृष्टत्वादिविशेषणानां चन्द्रादिनिष्ठतया लक्षणवाक्येष्वसत्त्वात् यथाश्रुतेऽनुपपत्तिं परिहर्तुं शेषं पूरयति- इत्यादिष्विति ।। न तत्साम्यमिति साध्ये हेत्वाकाङ्क्षायामाह- इतिशब्द इति ।। साम्यस्य सप्रतियोगिकत्वात् प्रतियोग्याकाङ्क्षायामाह- सत्येति ।।

ननु सत्यज्ञानादिवाक्यस्य प्रकृष्टप्रकाशाऽदिवाक्यसाम्याभावेऽपि स्वत एवाखण्डार्थत्वं किं न स्यादित्यत आह- न तद्दृष्टान्तेनेति ।। सत्यज्ञानादिवाक्यस्याखण्डार्थत्वाप्रतीतेः प्रकृष्टप्रकाशादि-वाक्येनैव तत्तत्र साधनीयम् । तच्चायुक्तम् । तस्य दृष्टान्तत्वायोगादिति भावः । ननु चन्द्रादौ वस्तुतः प्रकृष्टत्वादिविशेषणसत्त्वेऽपि प्रकृष्टादिपदानां तत्प्रतिपादनपरत्वाभावेन लक्षणया स्वरूपमात्रपरत्वेन चैतद्दृष्टान्तता स्यादित्याशङ्क्याऽह- इदमुक्तं भवतीति ।। वाच्यार्थासम्भव इति ।। वाच्यार्थान्वया-सम्भव इत्यर्थः । एवमेवेति ।। वाच्यार्थानुपपत्त्यभावेऽपीत्यर्थः । अतिप्रसङ्गादिति ।। गङ्गायां मत्स्य इत्यत्रापि स्यादित्यर्थः । प्रमाणसिद्धानीति ।। तथा च प्रकृष्टत्वादिविशेषणानां चन्द्रादावन्वये न योग्यताविरह इति भावः ।

अतोऽनुपपत्त्यभावादिति ।। न च मुख्यार्थानुपपत्त्यभावेऽपि तात्पर्यानुपपत्त्या स्वरूपमात्रे लक्षणाकल्पनं सम्भवतीति वाच्यम् । स्वरूपमात्रप्रश्नोत्तरत्वस्य निरसिष्यमाणतया स्वरूपमात्रे तात्पर्याभावेन तदनुपपत्तेरप्यभावादिति भावः । किञ्च स्वरूपमात्रे लक्षणाङ्गीकारे पर्यायत्वं वैयर्थ्यञ्चाऽपद्यते । न च शक्त्या एकार्थनिष्ठानामेव पर्यायत्वम् । न तु लक्षणादाविति वाच्यम् । द्विरेफशब्दस्य लक्षकस्यापि भ्रमरादिशब्दपर्यायत्वदर्शनात् । न च नक्षत्रादिव्यावृत्तिबोधनेन सप्रयोजनत्वान्न वैयर्थ्यमिति वाच्यम् । व्यावर्तकधर्मवैशिष्ट्याप्रतीत्या व्यावृत्तिबोधस्यैवासम्भवात् । विशिष्टार्थपरत्वाऽश्रयणे तु नायं दोष इत्यत आह- लक्षणाऽनाश्रयणे चेति ।। दृष्टान्तस्य साध्यवैकल्योपपादनप्रयोजनमुपंसहरति- तथा चेति ।। अनेन प्रकृष्टप्रकाशाऽदिवाक्यदृष्टान्तेन उक्तानुमानेन चेत्यर्थः ।।

श्रीवेदेशतीर्थ

प्रकृष्टत्वादिविशेषणानां चन्द्रनिष्ठतया लक्षणवाक्येष्वसत्त्वाद्यथाश्रुतान्वयेऽनुपपत्तिं परिहर्तुं शेषपूरणेन योजयति- इत्यादिष्विति ।। ननु सत्यज्ञानादिवाक्यस्य प्रकृष्टादिवाक्यसाम्याभावो मयाऽपि स्वीकृतः । भिन्नभिन्नपदघटितत्वेन वैलक्षण्यस्यानुभवसिद्धत्वादित्य आह- न तद्दृष्टान्ते-नेति ।। हेतुसाध्यवत्तया साम्यं त्वया स्वीकृतं तदत्र न सम्भवतीति भावः ।

ननु चन्द्रादौ वस्तुतः प्रकृष्टत्वादिविशेषणसत्त्वेऽपि वाक्यस्य तत्प्रतिपादनपरत्वाभावेन लक्षणया स्वरूपमात्रप्रतिपादनपरत्वेन  दृष्टान्तः  स्यादित्यत  आह- इदमुक्तं भवतिति ।। वाच्यार्थासम्भव इति ।। वाच्यर्थान्वयासभ्यव इत्यर्थः । एवमेवेति ।। वाच्यार्थान्वयानुपपत्त्यभावेऽपीत्यर्थः । प्रमाणसिद्धानीति ।। तथा च प्रकृष्टत्वादिविशेषणानां चन्द्रादावन्वये न योग्यताविरह इति भावः ।

ननु मुख्यार्थानुपपत्त्यभावान्नात्र लक्षणाऽऽश्रीयते । किन्तु शक्त्यैव स्वरूपमात्राभिधायित्वम् । अतो न दृष्टान्ते साध्यवैकल्यमित्यत आह- लक्षणाऽनाश्रयण इति ।। उक्तेति ।। वाच्यार्थ-भेदाभावाङ्गीकारादिति भावः ।

श्रीराघवेन्द्रतीर्थ

अनतिप्रसङ्गायावच्छेदकमाह - इत्यादिषु लक्षणवाक्येष्विति ।। एवञ्च सति ‘न तत्साम्यम्’ इत्यस्य सिद्धमर्थमाह- न तद्दृष्टान्तेनेति ।। अनेन मूलवाक्येनोक्तशङ्कानिरासस्या-स्पष्टत्वादाह- इदमुक्तमिति ।। एवमेवेति ।। मुख्यार्थसम्भवेऽपीत्यर्थः ।

एवमेवेति । वाच्यार्थानुपपत्त्यभावेऽपि लक्षणाश्रयणे ‘तीरे घोषः’ इति वाक्येऽपि लक्षणा स्यादित्यतिप्रसङ्ग इत्यर्थः । सन्त्येवेत्यस्यार्थमाह- प्रमाणसिद्धानीति ।। ननु मुख्यार्थानुप-पत्त्यभावेन लक्षणया स्वरूपमात्रपरत्वं नाश्रीयते किन्तु शक्तिरूपमुख्यवृत्त्यैव स्वरूपमात्रपरत्व-मुच्यतेऽतो न दृष्टान्ते साध्यवैकल्यमित्यत आह- लक्षणानाश्रयणे चेति ।। शक्त्यैव स्वरूपमात्रपर-त्वाङ्गीकारे चेति शेषः । पर्यायत्वादीति ।। वाच्यभूतचन्द्रस्वरूपरूपैकार्थप्रतिपादकत्वादित्यर्थः । आदिपदेन चन्द्रस्वरूपमात्रस्यैकेन चन्द्रपदेनैव बोधितत्वात्पदान्तरवैयर्थ्यं स्यादिति दूषणं द्रष्टव्यम् ।

गुरुराजीया

ननु न लक्षणया चन्द्रस्वरूपमात्रपरत्वं प्रकृष्टादिपदानामुच्यते येन मुख्यार्थानुपपत्त्य-भाववर्णनं सङ्गच्छेत । किन्तु मुख्यवृत्त्यैव । अतो नोक्तदोष इत्यत आह-लक्षणाऽनाश्रयणे चेति ।। १चन्द्रस्वरूपवाच्यार्थस्यैकत्वादिति भावः । यत्तु शक्त्यैव स्वरूपमात्राभिधायित्वेन लक्षणया तदनङ्गीकारान्न दृष्टान्ते साध्यवैकल्यमित्याशङ्क्य २तत्परिहारकतयैतद्ग्रन्थप्रवृत्त्युपवर्णनं तदसत् । लक्षणावच्छक्तेरपि वृत्तित्वेन तत्प्रतिद्वन्द्वितया ३मुख्यवृत्तेरेव वक्तव्यतया शक्तेरुपादानायोगात् ।

गोविन्दीया

समाश्रीयमाणेति ।। अन्यार्थसमाश्रियमाणेत्यर्थः । एवमेवेति ।। वाच्यार्थासम्भवा-भावेऽपि लक्षणाश्रयेऽतिप्रसङ्गात् सर्वत्र वचनवृत्तिप्रवृत्तिस्थलेऽपि लक्षणावृत्तेः प्रवृत्तिः स्यादित्यर्थः । नैषामिति ।। प्रकृष्टप्रकाशश्चन्द्र इति पदत्रयाणामजहल्लक्षणया१ चन्द्रस्वरूपमात्रपरत्वं नापि तु प्रकृष्टत्वादिपरत्वं चेत्यर्थः । लक्षणेति ।। चन्द्रे प्रकृष्टत्वादिविशेषणानां सत्त्वात्तु लक्षणानाश्रयणे वचनवृत्त्याश्रयणे चोक्तपर्यायत्वादिदोषप्रसङ्गः, अतो लक्षणाश्रयणमित्यर्थः । तथा चेति ।। चन्द्रे प्रकृष्टत्वादिविशेषणानां सत्त्वात् प्रकृष्टप्रकाशः चन्द्र इति वाक्यस्य स्वरूपं प्रकृष्टत्वादिकं चेत्युभय-परत्वात् । सत्यज्ञानादिवाक्यस्य ब्रह्मणि सत्यत्वादिविशेषणानामभावाद् ब्रह्मस्वरूपमात्रपरत्वात्तु दृष्टान्तस्य प्रकृष्ट इत्यादिदृष्टान्तवाक्यस्य स्वरूपमात्रपरत्वरूपसाध्यविकलत्वाद् अनेनानुमानेन सत्यज्ञानादिवाक्यानां लक्षणया ब्रह्मस्वरूपमात्रपरत्वसिद्धिर्नास्तीत्यर्थः ।

जनार्दनभट्टीया

‘इत्यादिषु’ इत्यस्य विशेष्यं निर्दिशति – लक्षणेति ।। ‘प्रकृष्टप्रकाशः’ इत्यादिवाक्यानां प्रकृष्टत्वादिविशेषणाधारत्वस्य बाधितत्वात् सप्तम्यनुपपत्तिरित्यतः शेषम् अध्याहृत्य योजयति – स्थितानामित्यादिना ।। एवमेवेति ।। मुख्यार्थसम्भवेऽपीत्यर्थः ।  पर्यायत्वादिदोषेति ।। लक्ष्यत्वेनाभिमतशुद्धातिरिक्तस्य सत्यत्वादिविशिष्टस्य मुख्यार्थस्य दुर्वचत्वादिति वक्ष्यमाणत्वादिति भावः । आद्यपक्षे दूषणान्तरमाह– तद्देशकालेति ।। ‘दण्डिनम् आनय’ इत्यत्र दण्डस्येव विशेषणान्वयिन एव व्यावर्तकत्वादिति भावः ।