सद्विलक्षणत्वं च ..

जगतः सच्छब्दार्थविकल्पानुपपत्त्या सद्विलक्षणत्वानुपपत्तिसमर्थनम्

श्रीमज्जयतीर्थटीका

न केवलं बाध्यत्वाभावाज्जगति सद्विलक्षणत्वानुपपत्तिः । किन्तु सच्छब्दार्थ-विकल्पानुपपत्तेश्चेति भावेन विकल्पमाह-

मूल

सद्विलक्षणत्वं च सज्जातिविलक्षणत्वं सन्मात्रविलक्षणत्वं वा

इह केचिज्जातिरेव पदार्थ इत्यातिष्ठन्ते । अपरे तु जातिविशिष्टा व्यक्तिरिति मन्यन्ते । अन्ये तु स्वरूपमेवेति सङ्गिरन्ते । तत्राऽद्ये मते सत् सत्ता जातिः । द्वितीये सत्ताविशिष्टा व्यक्तिः । तदुभ-याभिप्रायेणोक्तम्-सज्जातीति ।। सतो जातिः सज्जातिः । तथा सत्त्वं जातिर्यस्य तत्सज्जातीति । तृतीयमतानुसारेणोक्तम्- सन्मात्रेति ।। सन्मात्रं स्वरूपेणैव सत् । न जात्या । अत्र सच्छब्दार्थ एव विकल्प्यते । वैलक्षण्योक्तिस्त्वनुवादमात्रं दूषणोक्तिसौकर्यायेति ज्ञातव्यम् । ननु सत्यमबाध्यमिति परेणाङ्गीकृतम् । तदपि कस्मान्न शङ्क्यते । सत्यम् । तथा सति ‘यदबाध्यं न तद्बाध्यते’ इति व्याप्य-व्यापकभावानुपपत्तिः स्फुटैवेति निर्दलत्वेन शङ्कानर्हत्वात् । आद्यपक्षद्वयं दूषयति-

मूल

जात्यङ्गीकारे सद्बहुत्वम् ।

सच्छब्दार्थत्वेन सच्छब्दप्रवृत्तिनिमित्तत्वेन वा सत्ताजात्यङ्गीकारे सतां बहुत्वमनेकत्व-मङ्गीकर्तव्यं स्यात् । लक्षणव्याघातप्रसङ्गेनैकस्मिन्नुपदेशादिनैव सङ्गतिग्रहणाद्युपपत्त्या वैयर्थ्य-प्रसङ्गेन च जातिवादिभिर्जातेरनेकाश्रयताश्रयणात् । सद्बहुत्वं च सदद्वैतवादिनामनिष्टम् ।

अथ  बहूनि  व्यावहारिकाणि  सन्ति  सन्तीति नेदमनिष्टमिति चेत् । एवं तर्हि जगदेव सदिति न सद्विलक्षणम् । अथ सद्बहुत्वमनङ्गीकृत्य शशविषाणादिप्रतिषेधवदयं प्रतिषेधः क्रियत इति चेन्न । तथा सति जातिजातिमद्वैलक्षण्यसाधनेऽर्थान्तरतादिप्रसङ्गात् । तृतीयं दूषयति -

मूल

सन्मात्रविलक्षणत्वं चेत्सिद्धसाधनता ।

चेच्छब्दो यद्यर्थे । सद्विलक्षणत्वशब्दार्थस्तर्हीति शेषः । सिद्धसाधनता अर्थापत्तेरिति शेषः । कथमित्यत आह-

मूल

ब्रह्मवैलक्षण्याङ्गीकारात् ।

सत्तासम्बन्धमन्तरेण स्वरूपत एव सत् ब्रह्मैव परेणाङ्गीकृतम् । तद्वैलक्षण्यं च तद्विपरीत-लक्षणयोगो वा तल्लक्षणराहित्यं वा तत्तादात्म्याभावो वा । तत्सर्वं जगत्यस्माभिरङ्गीकृतमेवेति कथं न सिद्धसाधनता । सद्वादिना जगतो यत्सत्त्वमङ्गीक्रियते तदभावः सद्विलक्षणत्वमिति चेन्न । सद्वादिना प्रतिपन्नोपाधौ निषेधानर्हत्वलक्षणस्य सत्त्वस्याङ्गीकृतत्वात्    तत्र च दोषस्योक्त-त्वात् । तदेवं नानिर्वचनीये प्रमाणमस्तीति स्थितम् ।

श्रीविजयीन्द्रभिक्षु

सच्छब्दार्थेति ।। बाध्यत्वानुपपत्त्या जगति परेण यत्सद्विलक्षणत्वमुच्यते तत्सच्छब्दार्थस्य विकल्पासहत्वाच्चेत्यर्थः । ननु सच्छब्दस्य नियतैकार्थत्वेनाऽचार्यकृतविकल्पानुपपत्तिरित्याशङ्क्य तदुपपत्तये मतभेदमाह- केचिदिति ।। तान्त्रिकेषु भट्टमतानुसारिण इत्यर्थः । जातिरिति ।। अनन्तासु व्यक्तिषु शक्तिकल्पने गौरवात् सामान्यलक्षणाभावेन प्रतिव्यक्तिशक्तिग्रहासम्भवात् निर्विक-ल्पकोपस्थितव्यक्तौ शक्तिग्रहासम्भवेन जातिविशिष्टव्यक्त्युपस्थितेरावश्यकत्वात् नागृहीत-विशेषणन्यायेन जातिविशिष्टे शक्तिग्रहे जातावपि शक्तेरावश्यकत्वात् व्यक्तेराक्षेपादिना लाभ-सम्भवाच्च जातिरेव पदार्थ इत्यर्थः । अपरे त्विति ।। गौतममतानुसारिण इत्यर्थः । जातिविशिष्टेत्युपलक्षणम् । यथासम्भवमाकृतिविशिष्टेत्यपि ज्ञेयम् ।

तेषामयमाशयः । व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकैक्येन शक्यैक्योपपत्तेः । सामान्य-लक्षणया सकलव्यक्त्युपस्थितौ शक्तिग्रहसम्भवात् । प्रौढप्रकाशकयावत्तेजःप्रतियोगिक-संसर्गाभावरूपतमःप्रतीत्यनुरोधेन प्रसिद्धधूमव्यक्तौ वह्निसम्बन्धावगमेऽपि ‘धूमो वह्निव्यभिचारी न वा’ इति संशयानुरोधेन च सामान्यलक्षणाया अप्यवश्यमभ्युपेयत्वात् । न हि प्रतियोगिज्ञानं विना अभावज्ञानं सम्भवति । न च धर्मिज्ञानं विना अप्रसिद्धधूमविषयकः संशयः । निर्विकल्पकोप-स्थितायामपि व्यक्तौ शक्तिग्रहसम्भवेन जातौ व्यक्त्यतिरिक्तविशेषणान्तराभावेन च व्यक्ति-विशिष्टत्वेनोपस्थितावेव शक्तिग्रहस्याऽवश्यकतया नागृहीतविशेषणान्यायस्य वैपरीत्यापातात् । व्यक्तेराक्षेपेण लाभे प्राधान्यानुपपत्तेः । प्रकृत्यर्थान्वितस्वार्थावबोधकप्रत्ययार्थभूत-कर्मत्वान्वयानुपपत्तेः जातिव्यक्त्योः युगपदुपस्थितेः आनुभविकत्वेन शक्यार्थव्यवहितप्रतीत्यभावेन च लक्षणानुपपत्तेश्चेति ।

स्वरूपमेवेति ।। व्यक्तिस्वरूपमेव पदार्थः ।  न जातिरपि । न वा जातिविशिष्टव्यक्तिरि-त्यर्थः । तेषां तु ‘प्रत्ययार्थभूतकर्मत्वादीनां व्यक्तावेवान्वयदर्शनात् स्वरूपमात्रे शक्त्यङ्गीकारेऽपि येन रूपेणोपस्थिते स्वरूपे यस्य पदस्य पिण्डादौ अयस्त्वसुवर्णत्वयोः विनाशोत्पत्तिदर्शनेन अनुगतजात्यभावेऽपि तव सुवर्णरजतघटादिषु अनुगतघटाकारबुद्धिवत् अनुगतधर्मं विनाऽपि घटोऽयमित्यनुगतप्रतीत्युपपत्त्या च पराभिमतजातौ मानाभावाच्च’ इत्याशय इति ।

नन्वेवमाचार्यकृतविकल्पस्य न्यूनतेत्याशङ्क्य तन्त्रावृत्तिभ्यामुभयपरत्वान्न न्यूनतेत्याह- तदुभयेति ।। सच्छब्दस्य भावप्रधानत्वमभिप्रेत्याऽह- तथा सत्त्वमिति ।। नन्वत्र सत्ताजातिर्वा जातिविशिष्टा व्यक्तिर्वा सन्मात्रं वेति सच्छब्दार्थ एव विकल्पनीयः । तद्वैलक्षण्यं किमर्थमुच्यत इत्यत आह- दूषणोक्तिसौकर्यायेति ।। केवलसच्छब्दार्थविकल्पने सिद्धान्तिकर्तृकबहुदूषणदानेन भग्नोत्सवः परो झटिति प्रकृतदूषणं न जानीयादिति तत्स्फुरणायेत्यर्थः । तथा सतीति ।। व्याप्यव्यापकभावस्य भेदगर्भत्वादिति भावः । सच्छब्दार्थत्वेनेति भट्टमते । सच्छब्दप्रवृत्तिनिमित्तत्वेनेति न्यायमते । अनेकत्वमिति ।। अवस्थाद्वयविशिष्टस्यैव पिण्डस्य यत्र विनाशस्तत्रापि चैत्रत्वादिजात्यङ्गीकारादिति भावः । लक्षणव्याघातप्रसङ्गेनेति ।। नित्यत्वे सत्येकत्वे सत्यनेकसमवेतत्वरूपतल्लक्षणव्याघातप्रसङ्गेनेत्यर्थः । वैयर्थ्यप्रसङ्गेनेति ।। जात्यङ्गीकारस्य विफलत्वप्रसङ्गेनेत्यर्थः । सद्बहुत्वाऽपादनमिष्टमित्याशङ्क्याऽह- सद्बहुत्वञ्चेति ।। ननु सदद्वैतमित्यस्य परमार्थसदैक्यमित्यर्थः । एवञ्च सत्ताजातिनिर्वाहाय अनेकसत्पदार्थाङ्गीकारेऽपि नाद्वैतहानिरित्याशयेन शङ्कते- अथेति ।। न सद्विलक्षणमिति ।। स्यादिति शेषः । ननु यथा शशविषाणादेः प्रतिषेधेऽपि न तस्य सत्त्वम् । तथा जगति सत्ताजातिमद्वैलक्षण्याङ्गीकारेऽपि न सत्ताजातिमदङ्गीकारप्रसङ्ग इति शङ्कते- अथेति ।। अर्थान्तरत्वादिप्रसङ्गादिति ।। ‘जगत् ब्रह्मवत्सत्यं न वा’ इति विप्रतिपत्तौ सत्ताजातिमद्वैलक्षण्यसाधनस्य प्रकृतानुपयुक्तत्वादिति भावः । तद्वैलक्षण्यसाधने सिद्धसाधनमादिपदार्थः । अर्थापत्तिरनुमानान्तर्भूतेत्यभिप्रेत्य सिद्धसाधनतोक्ति-रित्याशयेनाऽह- अर्थापत्तेरिति ।। सन्मात्रवैलक्षण्यसाधने ब्रह्मवैलक्षण्याङ्गीकारेण सिद्ध-साधनतोक्तिरसङ्गतेत्यत आह- सत्तासम्बन्धमन्तरेणेति ।। विशब्दलक्षणशब्दयोः नानार्थत्वेनैवा-नेकार्थाश्रयणेनापि तत्सिद्धसाधनतादोषानिस्तार इत्याह- तद्वैलक्षण्यञ्चेति ।। तद्विपरीतेति ।। ब्रह्मविपरीतेत्यर्थः । ननु प्रपञ्चसत्यत्ववादिना यत्सत्त्वं प्रपञ्चेऽभ्युपगम्यते तदभावरूप-सद्विलक्षणत्वमेव साध्यत इति न सिद्धसाधनतेति शङ्कते- सद्वादिनेति ।। तत्र चेति ।। प्रतिपन्नोपाधौ निषेधानर्हत्वरूपसत्त्वाभावसाधने च ‘न च बाध्यं जगदित्यत्र किञ्चिन्मानम्’ इत्यत्र मानाभावरूपदोषस्योक्तत्वादित्यर्थः । अनिर्वचनीये साधकप्रमाणदूषणं निगमयति- तदेवमिति ।।

श्रीवेदेशतीर्थ

सच्छब्दस्य नियतैकार्थत्वेनाऽचार्यकृतविकल्पानुपपत्तिमाशङ्क्य तदुपपत्तये मतभेदमाह- केचिदित्यादिना ।। निर्विकल्पकोपस्थितव्यक्तौ शक्तिग्रहासम्भवेन जातिविशिष्टव्यक्ति-ग्रहस्याऽवश्यकत्वान्नागृहीतविशेषणन्यायेन जातिविशिष्टव्यक्तिग्रहे जातावेव शक्तिः । व्यक्तेरा-क्षेपादिना लाभ इति भावः । अपरे त्विति ।। निर्विकल्पकोपस्थितायामपि जातौ शक्तिग्रहासम्भवेन जातौ व्यक्त्यतिरिक्तविशेषणान्तराभावेन च व्यक्तिविशिष्टत्वेनोपस्थितजातावेव शक्तिग्रह-स्याऽवश्यकतया नागृहीतविशेषणान्यायस्य वैपरीत्यापाताद्व्यक्तेराक्षेपलभ्यत्वेऽप्राधान्यप्रसङ्गाच्च प्रकृत्यर्थान्वितस्वार्थावबोधकप्रत्ययार्थभूतकर्मत्वाद्यन्वयानुपपत्तेश्च जातिविशिष्टव्यक्तिरेव शक्येति भावः । अन्ये त्विति ।। क्षीरविक्रयादिना ब्राह्मणत्वशूद्रत्वयोः स्पर्शमणिसम्बन्धेनायः-पिण्डादावयस्त्वसुवर्णत्वयोश्च विनाशोत्पत्तिदर्शनेन सुवर्णरजतमृद्घटादिष्वनुगतधर्माभावेऽप्यनु-गताकारबुद्धिवद्घटोऽयं घटोऽयमित्यनुगतप्रतीत्युपपत्त्या च नित्यानुगतजातौ मानाभावेन स्वरूप-मात्रमेव पदशक्यमित्याशयः । सत्त्वं जातिर्यस्येति ।। तथा च सदिति मूले भावप्रधानमिति भावः । व्याप्यव्यापकभावानुपपत्तिरिति ।।

नन्वभेदेऽपि व्याप्यव्यापकभावोऽवश्यमङ्गीकार्यः । अन्यथा शब्दोऽनित्यः कृतकत्वादित्यादा-वनित्यत्वसमव्याप्तस्य स्वाभिन्नसाधनाव्यापकस्य कृतकत्वस्याप्युपाधितापत्तेः । तत्र ह्यभेदेऽपि व्याप्तिमङ्गीकृत्य साधनव्यापकत्वेनानुपाधित्वं वक्तव्यमिति सर्वत्राभेदेऽपि व्याप्यव्यापक-भावोऽङ्गीकार्य इति चेन्न । साधनस्योपाधित्वेऽप्यनिष्टाभावात् । न च तस्योपाधित्वे तत्र व्यभिचारस्य व्याप्यत्वासिद्धेर्वोन्नयनं स्यादिति वाच्यम् । साधनस्य साध्यव्याप्यत्वग्राहक-प्रमाणविरोधेन तत्र तदुन्नयनासम्भवादिति भावः ।

बहुत्वमनेकत्वमिति ।। ‘अनेकानुगतं सामान्यम्’ इति लक्षणानुरोधेनैवमुक्तम् । लक्षणव्याघातप्रसङ्गेनेति ।। जातेरेकमात्राश्रितत्वेऽनेकाश्रितत्वघटितलक्षणव्याघातप्रसङ्गेनेत्यर्थः । ननु सत्ताजातिरेव नाङ्गीक्रियते येन सद्बहुत्वं स्यात् । न चैवं सद्विलक्षणमिति तत्प्रतिषेधासम्भवः । शशविषाणादिप्रतिषेधवदुपपत्तेरित्याशङ्कते- अथेति ।। अर्थान्तरतादिप्रसङ्गादिति ।। जगद्ब्रह्मवत् सन्न वेति विप्रतिपत्तौ सत्ताजातितद्वद्वैलक्षण्यसाधनस्य प्रकृतानुपयुक्तत्वादित्यर्थः । सिद्धान्ते सत्ताजातेरङ्गीकारेऽप्यतिरिक्ताया अभावेन तद्वद्वैलक्षण्यसाधने सिद्धसाधनम् आदिशब्दार्थः । स्वविकल्पितानुवादे यदीत्यस्यैव स्वारस्यं मन्वान आह-चेच्छब्द इति ।। यद्वा तर्हीत्युपादानं ह्यत्र विवक्षितम् । चेच्छब्दस्य शङ्कार्थत्वे तदसङ्गतं स्यादित्याशयेनाऽह- चेच्छब्द इति ।। नञ्समानार्थकवीत्युपसर्गस्य तद्विरुद्धतदभावतदन्यरूपार्थत्रयमभिप्रेत्याऽह- तद्वैलक्षण्यं चेति ।। तत्तादात्म्याभावो वेति ।। तल्लक्षणवद्भेद इत्यर्थः । तत्र चेति ।। तादृशसद्वैलक्षण्यसाधने यदबाध्यं न तद्बाध्यमिति व्याप्यव्यापकभावानुपपत्तिरिति दोषस्योक्तत्वादित्यर्थः । केचित्तु प्रतिपन्नोपाधौ त्रैकालिकनिषेधानर्हत्वरूपसत्त्वाभावसाधने च न च बाध्यं जगदित्यत्र किञ्चिन्मानम् इत्यत्र मानाभावरूपदोषस्योक्तत्वादित्यर्थ इत्याहुः ।

द्वैतद्युमणि

आतिष्ठान्ते भट्टा इत्यर्थः । मन्यन्ते नैयायिकाः । सङ्गिरन्ते जरन्नैयायिकाः ।

श्रीराघवेन्द्रतीर्थ

सच्छब्दार्थेति ।। ‘सच्चेन्न बाध्येत’ इत्यर्थापत्तिशरीरप्रविष्टसच्छब्दार्थेत्यर्थः । एवं चाग्रे व्याप्यव्यापकभावानुपपत्त्युक्तिः स्वरसेति ज्ञेयम् । इहेति । १शब्दार्थविषये । आतिष्ठन्त इति ।। अङ्गीकुर्वन्तीत्यर्थः । सत्तेत्यनुवादः जातिरिति विधिः । ‘सच्चेन्न बाध्येत’ इत्यत्र सत्त्वं जातिरि-त्यर्थः । व्यक्तिरिति । सच्छब्दार्थ इति योज्यम् । सतो जातिरिति । सन्निष्ठो जातिरूपो धर्म इति तत्पुरुष इति भावः । बहुव्रीहिमुपेत्याऽह- सत्त्वं जातिर्यस्येति ।। दूषणेति ।। सिद्धसाधनत्वादि-वक्ष्यमाणदूषणोक्तिसौकर्यायेत्यर्थः । अन्यथा ‘ब्रह्मवैलक्षण्याङ्गीकारात्’ इत्याद्युक्तेरयोग इति भावः। मतद्वयानुरोधेन व्याचष्टे- सच्छब्दार्थत्वेनेति ।। लक्षणव्याघातेति ।। ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति लक्षणव्याघातप्रसङ्गेन इत्यस्य अनेकाश्रयताश्रयणादित्यन्वयः । हेत्वन्तरमाह- एकस्मिन्नुपदेशादिनेति ।। व्याकरणव्यवहारावादिपदार्थः । सङ्गतिग्रहणादीति । व्याप्तिकार्य-कारणग्रहावादिपदार्थः । वैयर्थ्येति । सङ्केतग्रहणादेरिति वा, जात्यङ्गीकारस्येति वा योज्यम् । अनेकत्र सङ्केतग्रहणाद्यर्थमिति यावत् । सन्ति सन्तीति ।। आद्यं शत्रन्तं कारकपदम् । द्वितीयं क्रियापदम् । सतामेव बहुत्वम् । न सद्विलक्षणानामिति मूलार्थमुपेत्याऽह- एवं तर्हीति ।। अर्थान्तरतादीति ।। गगनादेरिव ब्रह्मण इव च सत्त्वेनाप्युपपत्त्या त्वदभिमतसत्त्वाभावासिद्धेरिति भावः। आदिपदेन सिद्धसाधनत्वग्रहः । जातेरधिकरणात्मकत्वेन तद्वैलक्षण्यादेरिष्टत्वात् । तद्विप-रीतलक्षणेति ।। परिच्छिन्नसत्ताकत्वादिरूपेत्यर्थः । तत्र चेति ।। तादृशसत्त्वाभावसाधनपक्षे च ‘न च बाध्यं जगदित्यत्र किञ्चिन्मानम्’ ‘बाध्यत्वमपि हि तेषां मिथ्या’ इत्यादिना दोषस्योक्तत्वादित्यर्थः ।

१सच्छब्दप्रवृत्तिनिमित्तत्वेनेति ।। जातिविशिष्टव्यक्तौ शक्तिरिति मते जातेः शब्दप्रवृत्ति-निमित्तत्वादिति भावः । एकस्मिन्निति । जातेरेकव्यक्तिमात्राश्रितत्वेऽनेकाश्रितत्वगर्भजाति-लक्षणव्याघातः । किञ्चानेकव्यक्तिषूपदेशायोगेन सङ्गतिग्रहणायोगेनैकस्यां जातौ शक्तिरङ्गीकृता । तत्र जातेरेकव्यक्तिमात्राश्रितत्वे एकस्यां व्यक्तौ उपदेशेन शक्तिग्रहसम्भवेन जात्यङ्गीकारवैयर्थ्यप्रसङ्ग इत्यर्थः ।

गुरुराजीया

सज्जातीत्यनेन कथं पक्षद्वयलाभ इत्यतस्तं दर्शयति- सतो जातिरित्यादिना ।। बहुत्वमनेकत्वमिति ।। ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति परकीयतल्लक्षणोक्तेरिति भावः । व्याघातेनेति ।। जातेरेकमात्राश्रितत्वेऽनेकाश्रितत्वघटिततल्लक्षणायोगादिति भावः । उपदेशादि-नैवेत्यादिशब्देन वृद्धव्यवहारादिपरिग्रहः जातिवादिभिरिति ।। नैयायिकादिभिरित्यर्थः । अर्थान्तर-प्रसङ्गादिति२ ।। बाध्यत्वाबाध्यत्वविप्रतिपत्तौ जगतो जातिजातिमद्वैलक्षण्यसाधनस्यानुपयोगादिति भावः । चेच्छब्दो यद्यर्थ इति ।। स्वविकल्पितपक्षानुसारेण यदिशब्दस्यैव स्वारस्यादिति भावः । दोषस्योक्तत्वादिति ।। सिद्धसाधनत्वस्येत्यर्थः ।

गोविन्दीया

तदिति ।। तदुभयमताभिप्रायेणेत्यर्थः । नन्विति ।। यदबाध्यं तत्सत्यमिति परेणाङ्गी-कृतम् । सत्यशब्दार्थपर्यालोचनयाऽबाध्यत्वरूपोऽर्थः अवसीयते । तथा च उभयोः साध्यसाधनयोः ऐक्येन व्याप्यव्यापकभावानुपपत्तेः तदपि कस्मात् न शङ्क्यत इत्यर्थः । सत्यमिति ।। कस्मान्न शङ्क्यते इत्याक्षेपांशो नाङ्गीकार्य इत्यर्थः । तथाऽपीति३ ।। यद्यपि शङ्क्यः तथाऽपीत्यर्थः । निर्दलत्वेनेति ।। निर्बीजत्वेनेत्यर्थः । सतामिति ।। जातेरनेकाश्रितत्वेन सतामनेकत्वमङ्गीकर्तव्यं स्यादित्यर्थः । लक्षणेति ।। जाते एकाश्रितत्वे ‘नित्यमेकमनेकानुगतं सामान्यम्’ इति जातिलक्षण-विरोधप्रसङ्गेन अनेकाश्रयताश्रयणम् । अथवा एकस्मिन् वस्तुनि उपदेशेन लक्षणेन च वाच्य-वाचकसम्बन्धग्रहणाद्युपपत्त्या तज्जातीयेषु इतरवस्तुषु उपदेशाद्यभावात् सम्बन्धग्रहणानुपपत्त्या अवाच्यत्वेन तेषां वैयर्थ्यप्रसङ्गेन च अनेकाश्रयताश्रयणम् । अनेकाश्रयत्वे एकस्यां जातिविशिष्ट-व्यक्तौ सङ्गतिग्रहणे सति तज्जातीयेतरव्यक्तिस्थजातिज्ञानसम्भवेन तत्र सङ्गतिग्रहणं सुशकमि-त्यर्थः । अथेति ।। जगति सद्बहुत्वमङ्गीकृत्य शशविषाणादिप्रतिषेधवद् अयं प्रतिषेधः विलक्षणपदेन क्रियत इति चेदित्यर्थः । तथा सतीति ।। सद्बहुत्वनिषेधे क्रियमाणे सति तन्निषेध एव साधनीयः। जगतो जातिजातिमद्भिन्नत्वसाधनेऽर्थान्तरता स्यात्  । आदिपदेन सिद्धसाधनता स्यात् । तथा हि । सत्ताजातेः व्यक्त्यभिन्नत्वेन व्यक्तिभिन्नत्वसाधनेन जातिभिन्नत्वं साधितमेव । पुनस्तत्साधने सिद्धसाधनता स्यादित्यर्थः । सन्मात्रेति ।। यदि सद्विलक्षणशब्दार्थः सन्मात्रविलक्षणं तर्ह्यर्थापत्तेः सिद्धसाधनतेति शेषपूरणेन समग्रवाक्यार्थः। तद्वैलक्षण्यं चेति ।। ब्रह्मणः सकाशाद्विरुद्धं लक्षणं यस्य जगतस्तद्विलक्षणं तस्य भावस्तद्वैलक्षण्यं विपरीतलक्षणयोग इति यावत् । विमतं ब्रह्मलक्षणं यस्मात् तत् तस्य भावस्तद्वैलक्षण्यं तल्लक्षणराहित्यम् । ब्रह्मणः सकाशाद्विलक्षणं भेदो यस्य तत् तस्य भावस्तद्वैलक्षण्यं तत्तादात्म्याभावो वेत्यर्थः । तत्र चेति ।। प्रतिपन्नोपाधौ निषेधार्हत्वरूपसत्त्वाभाव-साधने  ‘न च बाध्यं जगदित्यत्र किञ्चिन्मानम्’  इति  मानाभावरूपदोषस्योक्तत्वादित्यर्थः । तदेवेति ।। यस्मादेवमुक्तरीत्याऽनिर्वचनीयप्रमाणं नास्तीति सिद्धमित्यर्थः ।

नारोपन्तीया

जातिवादिभिरिति । नैयायिकादिभिः । न तु सिद्धान्तेऽपि । शक्तिग्रहादेरन्यत्रा-न्यथैवोपपादितत्वादिति भावः ।

जनार्दनभट्टीया

अनेकार्थशब्दस्थल एव विकल्पप्रवृत्तेः अनेकार्थत्वं शब्दस्य दर्शयितुं मतभेदमाह – इह केचिदित्यादिना ।। स्वरूपमेवेति ।। व्याप्तिस्वरूपमात्रमित्यर्थः । स किं सत्ताजातिः सत्ताजातिमद्वा? इति विकल्पे कर्तव्ये सद्विलक्षणत्वं च सज्जातिविलक्षणत्वमिति विलक्षणग्रहणं कुतः? इत्यत आह – अत्रेत्यादिना ।। व्याप्यव्यापकभावानुपपत्तिरिति ।। अभेदादिति भावः । आद्यपक्षमात्रदूषणत्वं निवारयति – आद्यपक्षद्वयमिति ।।

आद्यपक्षानुसारेण योजयति – सच्छब्दार्थत्वेनेति ।। द्वितीयमतानुसारेण योजयति – सच्छब्द-प्रवृत्तिनिमित्तत्वेनेति ।। जातेरनेकाश्रयत्वं दर्शयति– १लक्षणव्याघातप्रसङ्गेनेति ।। यत्र जातिरेव लक्षणत्वेनोच्यते ‘पृथिवीत्ववती पृथिवी’ इत्यादौ तत्र सम्भाविताशेषरूपयावल्लक्ष्यमात्र-वृत्तित्वरूपलक्षणविरोधेन इत्यर्थः । वैय्यर्थप्रसङ्गेनेति ।। जातेरेकव्यक्तिकत्वाङ्गीकारे शक्तिग्रहाद्यर्थम् अनेकव्यक्तिक्रोडीकाररूपप्रयोजनाभावेन जातेः वैय्यर्थ्यप्रसङ्गेनेति शेषः । शशविषाणादिप्रतिषेध-वदिति ।।१ असत्या एव जातेः प्रतिषेध इत्यर्थः । अयं प्रतिषेध इति ।। जगत् सच्चेत् न बाध्येत । बाध्यते च अतः सद्विलक्षणमिति अर्थापत्तिपर्यवसानरूपप्रतिषेध इत्यर्थः । यद्यप्यत्र घटो नास्तीत्यादाविव प्रतिषेधः२ पृथङ् न श्रूयते । तथाऽपि ‘नश्छव्यप्रश्नान्’३ ‘सुडनपुंसकस्य’४ इत्यादाविव ५नञ्समानार्थक-विलक्षणशब्दस्यैव प्रतिषेधत्वमभिप्रेत्य एवमुक्तम् । अथवा ‘जगत् सच्चेत् न बाध्येत । बाध्यते च जगत् अतः सन्न’ इति प्रतिषेध इत्यर्थः । एवं च न क्वापि कुसृष्टिरिति ज्ञेयम् । अर्थान्तरादीति ।। आदिपदात् सत्ताजातेः घटादौ प्रत्यक्षसिद्धत्वेन सद्वैलक्षण्यशब्देन तत्प्रतिषेधे प्रत्यक्षबाधकप्रसङ्गश्चे-त्यर्थः । तत्र च दोषस्येति ।। ‘बाध्यत्वं मिथ्या न वा’ इत्यादिना वाक्यद्वयेन दूषितत्वादित्यर्थः । यद्वा प्रतिपन्नोपाधौ निषेधानर्हरूपसद्विलक्षणत्वे प्रत्यक्षबाधलक्षणदोषस्योक्तत्वादित्यर्थः ।