तदज्ञाननिवृत्तिश्च तेन भवति..

आत्मनो दृश्यत्वानङ्गीकारे अतिप्रसङ्गान्तरोक्तिः

तदज्ञाननिवृत्तिश्च तेन भवति

श्रीमज्जयतीर्थटीका

अथवा आत्मनो दृक्कर्मत्वानङ्गीकारेऽतिप्रसङ्गान्तरमेतत् । तथा हि, यद्यात्मनो दृक्कर्मत्वं न स्यात्तदा तदज्ञानं नाम न स्यात् । सति पुष्कलकारणे तत्कर्मकज्ञानप्रतिबन्धकं हि तदज्ञानम् । सम्बन्धान्तरानिरूपणात् । आत्माज्ञानाभावे च तन्निवृत्तिलक्षणमोक्षश्च न स्यादिति शास्त्रवैयर्थ्यं स्यादिति ।

श्रीविजयीन्द्रभिक्षु

सम्बन्धान्तरेति ।। अज्ञानस्याऽत्मना सहाऽत्मकर्मकज्ञानप्रतिबन्धकत्वादन्यस्य सम्बन्धान्तरस्य निरूपयितुमशक्यत्वादित्यर्थः । न च विषयविषयिभाव एव सम्बन्धो निरूपयितुं शक्यत इति वाच्यम् । स्वरूपसम्बन्धस्य त्वया अनभ्युपगमात् । अज्ञानविषयत्वाङ्गीकारे तुल्य-न्यायेन दृग्विषयत्वस्याप्युपपत्तेश्च । न च ‘यत्तदद्रेश्यम्’ इत्यादिश्रुतिविरोधान्न दृग्विषयत्वमिति वाच्यम् । ‘दृश्यते त्वग्य्रया बुद्ध्या’ इत्यादिश्रुतिविरोधेन साकल्येन दृश्यत्वाभावस्यैव तच्छ्रुत्यर्थ-त्वात् । त्वद्रीत्या चैतन्यं चैतन्यविषयो नेति तदर्थवर्णनसम्भवाच्च । आश्रयाश्रयिभावस्य तेजस्तिमिरयोरिव विरोधेनासम्भवात् । अत एव नाऽध्यासिकसम्बन्धोऽपि । अज्ञानस्यानादित्वेन आत्मवदध्यासानुपपत्तेश्च । संयोगसमवाययोस्त्वयैवानभ्युपगमाच्चेति भावः ।

श्रीवेदेशतीर्थ

सति पुष्कलकारण इति ।। यदा शुक्तिका रजताद्याकारेणावभासते तदा शुक्ति-ज्ञानोत्पादकेन्द्रियादिकारणकलापे सति शुक्त्यज्ञाननिमित्तमेव शुक्तित्वप्रकारकज्ञानानुत्पाद इति तदज्ञानस्य प्रतिबन्धकत्वमिति भावः । ‘तत्कर्मकज्ञानप्रतिबन्धकं तदज्ञानम्’ इत्युक्तेऽसम्भवः । इन्द्रियाद्यप्रवृत्तौ शुक्त्यादिज्ञानानुत्पत्तेरिन्द्रियाद्यभावप्रयुक्तत्वेनाज्ञानस्य प्रतिबन्धकत्वासिद्धेः । तदर्थं सति पुष्कलकारण इत्युक्तम् । ज्ञानप्रतिबन्धकं तदज्ञानमित्युक्ते घटज्ञानाप्रतिबन्धकस्यापि पटाज्ञानत्वं स्यादित्यत उक्तम्- तत्कर्मकेति ।।

इदं त्वापाततः । वस्तुतस्तु पूर्वोक्तयोजनायामेव तात्पर्यम् । तथा हि, तदज्ञानं तत्कर्मकज्ञानप्रतिबन्धकमेव न भवति । घटाज्ञाने विद्यमान एवेन्द्रियादिसन्निकर्षप्रवृत्तौ ज्ञानोत्पत्तेरनुभवसिद्धत्वात् । न हि पूर्वं ज्ञात एव घटो ज्ञायत इति नियमोऽस्ति । किं चाज्ञानस्य ज्ञानप्रतिबन्धकत्वे अज्ञानाभावस्य ज्ञानोत्पत्तौ कारणत्वं प्रयोजकत्वं वा स्वीकार्यम् । अज्ञानाभावश्च ज्ञानेनैव साध्य इत्यन्योन्याश्रयः । न च शुक्त्यादि यदा रजताद्याकारेणावभासते तदा शुक्तित्वग्रहणस्यानन्यनिमित्तत्वात् तदग्रहणप्रयोजकतया अज्ञानमङ्गीकार्यमिति वाच्यम् । दोषवशादेव तदग्रहणोपपत्तेः । यथोक्तं सुधायाम्- ‘केचित्सहजशक्तिप्रतिबन्धेन विपरीतामपि शक्तिमादधति’ इति ।

यत् सिद्धान्ते अज्ञानं भावरूपं प्रतिबन्धकमङ्गीकृतं तत् जीवस्वरूपादिविषय एव । न सर्वत्र । तदभिप्रायेणेदमज्ञाननिर्वचनं चेन्न कोऽपि दोष इति प्रतिभाति । तत्सत्त्वे स्वरूपपरमात्मादि-साक्षात्काराभावात् पश्चाच्छ्रवणादिजनितपरोक्षज्ञानादिना तच्छैथिल्ये सत्यपरोक्षज्ञानेन तदात्यन्तिकनिवृत्त्यङ्गीकारात् । तदुक्तं ‘श्रुत्वा मत्वा तथा ध्यात्वा’ इत्यादौ ।

नन्वज्ञानार्थयोः कुत उक्तपरम्परासम्बन्धोऽङ्गीकार्यः । आश्रयाश्रयिभावादिलक्षणसाक्षात्-सम्बन्धस्यैवोपपत्तेरित्यत आह- सम्बन्धान्तरेति ।। त्वयेति शेषः । उक्तसम्बन्ध-स्योत्तरत्र दूष्यत्वात् । न च विषयविषयिभावलक्षणः सम्बन्धोऽस्त्विति वाच्यम् । स्वरूपसम्बन्धस्य त्वयाऽ-नङ्गीकारात् । अज्ञानविषयत्वे ब्रह्मणस्तन्न्यायेन दृग्विषयत्वस्याप्यापत्तेश्च । न चाज्ञान-ब्रह्मणोराध्यासिक एव सम्बन्धोऽस्त्विति वाच्यम् । प्रकाशे तमस इवाध्यासस्याप्यनुपपत्तेः । संयोगसमवाययोश्च त्वयैवानङ्गीकारादिति भावः ।

द्वैतद्युमणि

अथ वेति ।। एतन्मूलं पूर्वमूलोक्तातिप्रसङ्गे इष्टापत्तिपरिहारकातिप्रसङ्गान्तरपरतयैव न व्याख्यायते  । किन्तु तत्समकक्षातिप्रसङ्गान्तरपरतयैव व्याख्यास्यत इति भावः । सति पुष्कल इति ।। ज्ञानोत्पादकसामग््रयां सत्यामित्यर्थः । प्रतिबन्धकं तन्निष्ठकार्यानुकूलशक्तिविघटकम् । परस्यापि मते प्रतिबन्धकाभावस्य कारणत्वानङ्गीकारादिति भावः । अत्र तदनुकूलशक्ति-विघटकत्वमेव तत्प्रतिबन्धकत्वम् । पुष्कलकारणोक्तिस्तु तदनुमापकतया । अन्यथैककारणकाले कार्यानुत्पत्तेः कारणान्तरविरहादपि सम्भवेन तदसिद्धेः ।

श्रीराघवेन्द्रतीर्थ

अज्ञानं कुतो न स्यादित्यत आह- सतीति ।। वेदान्तश्रवणादिरूपे वा आकाङ्क्षादिमत्सदेव सोम्येत्यादिवाक्यज्ञानरूपे वा पुष्कलकारणे सत्यपि ब्रह्मगोचरज्ञानाभावो हि किञ्चित्प्रति-बन्धकायत्त इति वाच्यम् । तच्चाज्ञानमेव । अन्यस्यानिरूपणात् । सत्यामपि ज्ञानसामग्य्रां वस्तु-स्वभावादेव ज्ञानकर्मत्वं न चेत् किं प्रतिबन्धकाज्ञानेन कृत्यम् । अतोऽज्ञानं नाम वस्त्वेव न स्यादित्यर्थः ।

गुरुराजीया

न चेत्यादिवाक्यद्वयमुपपाद्योपपादकभावापन्नैकातिप्रसङ्गसमर्पकत्वेन व्याख्याय वाक्य-द्वयोक्तमर्थं पूर्ववाक्यार्थत्वेनैव वर्णयित्वा द्वितीयं वाक्यमतिप्रसङ्गान्तरसमर्पकत्वेन व्याचष्टे- अथ वेति ।। किं तदतिप्रसङ्गान्तरं यत्समर्पकत्वं द्वितीयवाक्यस्याऽश्रीयते इत्यतस्तदेवोपदर्शयति- तथा हीति ।। इतीत्यस्य इत्यतिप्रसङ्गान्तरमिति पूर्वेण सम्बन्धः ।

गोविन्दीया

अतिप्रसङ्गान्तरमेतदिति ।। एतद्दूषणम् अतिप्रसङ्गान्तरम् । अथवा एतद्वाक्यम् अतिप्रसङ्गान्तरं वक्तीत्यर्थः । सतीति ।। समग्रकारणे सत्यपि तत्कर्मज्ञानप्रतिबन्धकं हि तज्ज्ञान-प्रतिबन्धकत्वेनाज्ञानस्य चार्थेन परम्परासम्बन्ध इत्यर्थः । सम्बन्धेति ।। अज्ञानार्थयोः सम्बन्धान्त-राणि विषयविषयिभाव-संयोग-समवाय-अध्यासरूपाणां चतुर्णां स्वशास्त्रेऽनिरूपणात् । तथा हि । अज्ञानार्थयोः स्वशास्त्रे स्वरूपसम्बन्धस्य विषयविषयिभावसम्बन्धस्यानङ्गीकृतत्वाद् उभयोः द्रव्यत्वाभावेन संयोगसम्बन्धाभावात् । अवयवावयवित्वाद्यभावेन समवायाभावात् । प्रकाश-तमसोरिवाध्याससम्बन्धानुपपत्तेः परम्परासम्बन्ध एवाङ्गीकार्य इत्यर्थः ।

जनार्दनभट्टीया

सति पुष्कलेति ।। अन्धकारस्यापि घटचाक्षुषसाक्षात्कारप्रतिबन्धकस्य घटाज्ञानत्ववारणाय ‘पुष्कल’ इत्युक्तम् । अन्धकारकाले घटचाक्षुषज्ञानकारणस्य आलोकस्य अभावात् नातिव्याप्तिरिति भावः । सम्बन्धेति ।। ‘घटस्य अज्ञानम्’ इत्यत्र षष्ठ्यर्थस्य सकलतदज्ञानकारणकाले तदज्ञानप्रतिबन्धकत्वातिरिक्तस्य सम्बन्धस्य निरूपयितुमशक्यत्वादित्यर्थः ।