एवं प्रधानस्य परमात्मनो ..

वाचारम्भणमित्यादेः प्रकृतोपयोगसमर्थनम्

श्रीमज्जयतीर्थटीका

तथाऽपि न प्रकृतोपयोगं पश्याम इत्यत आह-

मूल

एवं प्रधानस्य परमात्मनो ज्ञानादप्रधानं ज्ञातमिव भवति ।

अनेन यत्, प्राधान्यात् ब्रह्मज्ञानेनाप्रधानस्य जगतो ज्ञानं भवतीति प्रागभिप्रेतम् । तत्र दृष्टान्तप्रदर्शनपरमेवेदं वाक्यम् । न तु मृत्पिण्डादिदृष्टान्तव्युत्पादनाय मृदादिव्यतिरेकेण मृण्मयाद्यसत्त्वपरमित्यतो न मृत्पिण्डादिदृष्टान्तस्य परोक्तार्थे तात्पर्यमित्युक्तं भवति । यथोक्तम्-

प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।

विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ।।’३ इति ।

ननु यदि कारणव्यतिरेकेण कार्यासत्त्वमत्र न विवक्षितं स्यात्तदा ‘सदेव सोम्येदमग्र आसीत्, तत्तेजोऽसृजत, सन्मूलाः सोम्येमाः सर्वाः प्रजाः’ इत्यादिना यदादौ ब्रह्ममात्रावस्थानं तस्मादेव जगतः सृष्टिस्तदायतनत्वमित्याद्युक्तम्, तदसङ्गतं स्यात् । तद्धि जगतो ब्रह्मविवर्तत्वोपपादनेन कार्यस्य पृथगसत्त्वपरं भवतीत्यत आह-

मूल

प्राधान्यज्ञापनार्थमेव सृष्ट्यादिकथनम् ।

स्यादिदं सृष्ट्यादिकथनमस्मन्मतेऽसङ्गतम् । यदि ब्रह्मविवर्तादिपरं स्यात् । न चैवं किं तु यद्वाचारम्भणदृष्टान्तेन प्राधान्याद्ब्रह्मज्ञानेनाप्रधानप्रपञ्चज्ञानमुक्तम् । तत्र कथं जगदपेक्षया ब्रह्मणः प्राधान्यमित्यपेक्षायां जगन्निमित्तकारणत्वादिना तज्ज्ञापनार्थमेवेति कथमसङ्गतिः ।

श्रीविजयीन्द्रभिक्षु

प्रकृतोपयोगस्य मूले स्फुटमप्रतीतेस्तात्पर्यतो व्याचष्टे- अनेनेति ।। उक्तमर्थमाचार्य-सम्मत्या द्रढयति- यथोक्तमिति ।। यथा प्रधानभूतसंस्कृतज्ञानी प्राकृतभाषाद्यपरिज्ञोऽपि विद्वानित्युच्यत एवं प्रधानपरमात्मज्ञानी प्राकृतप्रपञ्चाज्ञोऽपि सर्वज्ञ इत्युच्यत इति तदर्थः ।

ननु वाचारम्भणवाक्यमुपादानव्यतिरेकेणोपादेयासत्वप्रतिपादनपरमेव वाच्यम् । न त्वदुक्तार्थ-परम् । तथात्वे ‘सदेव सोम्येदमग्र आसीत्तत्तेजोऽसृजत । सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ इत्यादिनोच्यमानं सर्गाद्यसमये ब्रह्ममात्रावस्थानं तस्मात्तेजःप्रभृति-जगत्सृष्टिः तदायतनत्वं तल्लीनत्वं चासङ्गतं स्यात् । सर्गाद्यसमये अविद्याकर्मादेः सत्त्वेऽपि ब्रह्ममात्रावस्थानप्रतिपादनेनेतरनिषेधस्यैवावगमात् । उत्पत्तिस्थितिलयाधारत्वप्रतिपादनस्य चोपादानाभिप्रायकत्वात् । लोके उत्पत्तिस्थितिलयाधारस्य मृदादेर्घटाद्युपादानत्वस्य दर्शनात् । उपादानत्वं ब्रह्मणो न मृदादिवत्परिणामित्वम् । सच्चिदानन्दात्मकस्य निर्विकारस्य जडप्रपञ्चात्मना परिणामायोगात् । किन्तु विवर्ताधिष्ठानरूपत्वमेव । तच्च जगतो ब्रह्मसमत्वेऽनुपपन्नम् । अतात्विक-भावस्यैव विवर्तत्वात् । शुक्तिरजतादौ तथैव दर्शनादिति शङ्कते- नन्विति ।। उत्पत्तिस्थिति-लयाद्याधारत्वप्रतिपादनं नोपादानत्वज्ञापनार्थम् । तस्य ध्वंससाधारणकारणत्वप्रतिपादनमुखेन निमित्तत्वज्ञापकत्वात् । देशकालयोः घटाद्युत्पत्तिस्थितिलयाधारत्वेऽप्यनुपादानत्वात् । मृदादेर्घटा-धारत्वस्यासम्प्रतिपत्तेश्च । किन्तु जगन्निमित्तकारणत्वादिना प्राधान्यज्ञापनार्थमेवेति न तेन जगतो ब्रह्मव्यतिरेकेणासत्त्वसिद्धिः । नापि सदेवेति सर्गाद्यसमये ब्रह्ममात्रावस्थाप्रतिपादनेन तत्सिद्धिः । तस्यापि प्राधान्याभिप्रायकत्वेनैवोपपत्तेः । नासत्पुरुषमानयेत्यादावस्वतन्त्रेऽसत्त्वोक्तिदर्शनात् । वाचारम्भणवाक्योक्तदृष्टान्तप्रतिपन्नप्राधान्यज्ञापनार्थम् । अतो नासङ्गतिरित्यभिप्रायं मूलं शङ्कोत्तर-त्वेनावतार्य व्याचष्टे- अत आहेति ।। यदि जगतो ब्रह्मविवर्तत्वादिप्रतिपादनपरं स्यादित्यर्थः । निमित्तकारणत्वादिनेत्यादिपदेन तदायतनत्वादिपरिग्रहः । ज्ञापनार्थमेवेति ।। सृष्ट्यादिकथन-मित्यनुषङ्गः ।

श्रीवेदेशतीर्थ

दृष्टान्तप्रदर्शनपरमेवेति ।। तदर्थं तनूर्वर्षिष्ठेत्यादिवत् ‘यथा तेन तद्विज्ञातं स्यात्’ इत्यावर्तनीयमिति भावः । तज्ज्ञानप्रयोजनलाभश्चोपमार्थ इत्युक्तम् । तत्र किं तज्ज्ञानस्य प्रयोजनं दृष्टान्तदार्ष्टान्तिकयोर्यल्लाभ उपमार्थ इत्याशङ्कायामुभयत्रापि तज्ज्ञानप्रयोजनप्रदर्शनाय अनु-व्याख्यानम् एवोदाहरति- यथोक्तमिति ।। कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम् अनादिनित्यत्वात् परापेक्षत्वेन संस्कृतं प्रधानं तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकज्ञानं भवति । तज्ज्ञानेन यत्फलं विद्वद्व्यवहारगोचरत्वादिकं तद्भवतीति यावत् । एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं स्वर्गादि, तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते तत्फलेऽन्तर्भवतीति अनु-व्याख्यानार्थः। तद्धि जगत इति ।। जगदुत्पत्तिस्थितिलयाधिकरणत्वोक्त्योपादानत्वं तावद् ब्रह्मणो सिद्धम् । घटाद्युत्पत्तिस्थितिलयाधिकरणस्य मृदादेरुपादानत्वदर्शनात् तच्च मृदादिवन्न परिणामित्वेन ब्रह्मणो निर्विकारत्वात् । किन्तु शक्त्यादिवद्विवर्ताधिष्ठानत्वेन । तथा च कारणव्यतिरेकेण कार्यस्यासत्त्वमेव सृष्ट्यादिवाक्यार्थत्वेन प्राप्तमिति भावः । कथमसङ्गतिरिति ।। उत्पत्तिस्थिति-लयाधिकरणत्वोक्तिश्च देशकालयोरिव निमित्तकारणेऽप्युपपन्नेति मन्तव्यम् ।

द्वैतद्युमणि

तदायतनत्वमिति ।। तदन्यतादात्म्येनाप्रतीयमानत्वमित्यर्थः । आदिपदेन सत्प्रति-ष्ठितत्वस्य ग्रहणम् । ब्रह्मविवर्तत्वमिति ।। तत्सत्तान्यूनसत्ताकतत्तादात्म्यापन्नत्वमेव तद्विवर्तत्वम् । वाचारम्भणदृष्टान्तेनेति ।। यथा च यथेतिपदं वाचारम्भणवाक्यादपि प्रागावर्तनीयम् । ‘तेन तद्विज्ञानं स्यात्’ इति अन्त्येऽननुषञ्जनीयम् । ‘वाचारम्भणं विकारोऽतोऽप्रधानम् । मृत्तिकेत्यादि नाम नित्यं धार्यत्वेन नित्यत्वात् प्रधानम् । तेन संस्कृतेन ज्ञातेन तत्सर्वं प्राकृतं विज्ञातं ज्ञातफलं भवति यथा, एवं सोम्य स आदेशो भवतीत्यर्थः’ इत्यन्यत्रोक्तयोजना स्मारिता भवति ।

श्रीराघवेन्द्रतीर्थ

मूलं स्पष्टार्थं मत्वा तात्पर्यार्थमाह- अनेनेति ।। अनित्यत्वादित्यादिग्रन्थेनेत्यर्थः । प्रागिति ।। वाचारम्भणं विविधप्रकारमित्यादिना श्रुत्यर्थोक्तिप्रस्ताव इत्यर्थः । तदवतारिका-यामस्माभिस्तथैवोत तमादेशमित्यादिना तदभिप्रायो वर्णित इत्यभिप्रेतमित्युक्तम् । इदमिति ।। वाचारम्भणमित्यादिवाक्यमित्यर्थः । परोक्तार्थ इति ।। उपादानादन्यदुपादेयं नेत्यर्थ इत्यर्थः। यथोक्तमिति ।। अनुव्याख्याने । उत्तरवाक्यमवतारयितुं शङ्कामाह- नन्विति ।। अत्रेति ।। मृत्पिण्डादिदृष्टान्तेष्वित्यर्थः । यदादाविति ।। यच्छब्दस्य यदुक्तं तदसङ्गतमिति तच्छब्देनान्वयः । ब्रह्मविवर्तत्वेति ।। ब्रह्मण्यारोपितत्वोपपादनेनेत्यर्थः ।

परिष्कारपूर्वं मूलवाक्यं व्याचष्टे- स्यादिदमित्यादिना ।। ब्रह्मविवर्तादीति ।। कार्यस्य कारणात् पृथगसत्त्वमादिपदार्थः । निमित्तकारणत्वादिनेति ।। स्थितिलयादिकारणत्वं सदायतनादि-वाक्योक्तमादिपदार्थः । तदिति ।। प्राधान्यज्ञापनार्थमेव । इतीति ।। हेतोरित्यर्थः । विद्वानित्युच्यत इति ।। विद्वद्व्यवहारगोचरो भवतीत्यर्थः ।

गुरुराजीया

दृष्टान्तप्रदर्शनपरमेवेति ।। तदर्थं च तनूर्वर्षिष्ठेत्यादिवद् यथा तेन तद्विज्ञातं स्यादिति प्रकृतानुवृत्तिराश्रयणीयेति भावः । यदुक्तं ‘तज्ज्ञानप्रयोजनलाभश्चोपमार्थः’ इति । तत्र किं तज्ज्ञानप्रयोजनं दृष्टान्तदार्ष्टान्तिकयोर्यल्लाभ उपमार्थ इत्याशङ्कायाम् उभयत्रापि तज्ज्ञानप्रयोजन-प्रदर्शनाय अनुव्याख्यानमेव उदाहरति- यथोक्तमिति ।। कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्राधानम् । अनादिनित्यत्वात् परानपेक्षत्वेन संस्कृतं प्रधानम् । तत्र यथा प्राधान्यात् संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञातं भवति । तज्ज्ञानेन सकलस्यापि यत्फलं विद्वद्व्यवहारगोचरत्वादिकं तद्भवतीति यावत् । एवमनित्यत्वादिनाऽप्रधानस्य देवताकर्मादिमिश्रस्य १जगतो ज्ञाने यत्फलं तत् समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो ज्ञानाल्लभ्यते । तत्फलेऽन्तर्भवति । पामराः विद्वानिति न व्यवहरन्तीत्यतः सद्भिरित्युक्तम् ।

नन्विति ।। लयाद्यधिकरणत्वोक्त्योपादानत्वं तावद् ब्रह्मणः सिद्धम् । घटाद्युत्पत्तिस्थिति-लयाधिकरणस्य मृदादेस्तदुपादानत्वदर्शनात् । तच्च मृदादिवन्न परिणामित्वेन । ब्रह्मणो निर्विकार-त्वात् । किन्तु शुक्त्यादिवद् विवर्ताधिष्ठानत्वेन । तथा च कारणव्यतिरेकेण २कार्यस्यासत्त्वमेव सृष्ट्यादिवाक्यार्थत्वेन प्राप्तमिति भावः ।

गोविन्दीया

एवमिति ।। यथा प्रधानसंस्कृतनामज्ञानादप्रधानप्राकृतनाम ज्ञातार्थमिव भवति तथे-त्यर्थः । इदं वाक्यमिति ।। वाचारम्भणमित्यादिवाक्यमित्यर्थः । यथोक्तमिति ।। तत्परिज्ञानात् संस्कृतनामपरिज्ञानात् प्राकृताज्ञोऽपि साङ्केतिकनामाज्ञानवानपि पुरुष इत्यर्थः । अत्रेति ।। वाचारम्भणमित्यादिवाक्यमित्यर्थः । तद्धीति ।। ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिवाक्यं जगतः ब्रह्मण्यारोपितत्वोपपादनेन कार्यस्य पृथक्सत्त्वाभावप्रतिपादकं भवतीत्यर्थः । न चैवमिति ।। सृष्ट्यादिकथनं ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिवाक्यं जगतः ब्रह्मण्यारोपितत्वप्रतिपादकं न चेत्यर्थः । किन्त्विति ।। वाचारम्भणदृष्टान्तेन जगन्निमित्तकारणत्वादिना ब्रह्मणि प्राधान्य-ज्ञापनार्थमित्यर्थः ।