‘नासदासीन्नो सदासीत्तदानीं ...
नासदासीदित्यागमस्य आगमतया सदसद्वैलक्षण्यपरत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
ननु नासदासीदित्याद्यागमोऽनिर्वचनीयामविद्यां वक्ति । सदसती प्रतिषिद्ध्य तम आसीदिति महाप्रलयेऽविद्यावस्थानस्योक्तत्वात् । न चासतः सत्त्वप्रसक्त्यभावेन तन्निषेधा-योगादनुपपन्नार्थं वाक्यं नानिर्वचनीयामविद्यां गमयितुमलमिति साम्प्रतम् । अत्र सदसच्छब्द-योर्भावाभावपरत्वेनाङ्गीकृतत्वात् । भावाभाववैलक्षण्येनाप्यनिर्वचनीयत्वसिद्धेः । अतः कथं ‘न भावाभावविलक्षणं क्वचिदागमो वक्ति’ इति । तत्राह-
मूल
‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमापरो यत्’ इत्यत्र च ।
चशब्देन भावाभावविलक्षणं न वक्तीत्येतदनुकृष्यते । इदं खलु वाक्यं प्रलये सदसतोरभावं तमसश्च भावं प्रतिपादयदनुभूयते । न पुनस्तमः सदसद्विलक्षणमिति । ननु सदसतोरभावेऽवस्थितस्य तमसो बलात्सदसद्वैलक्षण्यमापाद्यत इति । सत्यम् । न तर्हीदं वाक्यमविद्यानिर्वचनीयता-यामागमयितव्यम् । पदार्थसंसर्गमात्रस्याऽगमार्थत्वेन सामर्थ्यलब्धस्यातदर्थत्वात् । यथोक्तम्-
‘यश्चार्थादर्थो न स चोदनार्थः ।’ इति ।
श्रीविजयीन्द्रभिक्षु
नन्विति ।। यद्यप्येवमपि विवादपदस्य शुक्तिरजतादेरनिर्वचनीयत्वे नेदं मानमुपन्यस्तं स्यात्तथाऽपि यथाकथञ्चिदनिर्वचनीयसाधनस्यैव प्रकृतोपयोग इत्यभिप्रायेण, अविद्याऽनिर्वचनीयत्वे साधिते तदुपादेयशुक्तिरूप्याद्यनिर्वचनीयत्वमपि साधितप्रायमित्यभिप्रेत्य वा अविद्याऽनिर्वच-नीयत्वे प्रमाणोपन्यासोऽयमिति नासङ्गतिरिति ध्येयम् । न चासतः सत्वप्रसक्तीति ।। यद्यप्यस्त्येवासतः शशविषाणमस्तीति शब्दाभासादिना सत्त्वप्रसक्तिः तथाऽप्यसत्त्वेनोपस्थित एव तत्र सत्त्वप्रतिषेधार्थं तत्प्रसक्तिरपेक्षिता । सा चासम्भाविनी । असत्त्वेन विरोधिरूपेणोपस्थितेरिति शङ्काभिप्रायः । इदं खल्विति ।। विलक्षणमितीत्यस्यानन्तरं प्रतिपादयदनुभूयत इत्यनुषङ्गः । तस्मात्तमसः सदसद्विलक्षणत्वस्यापदार्थत्वादवाक्यार्थत्वाच्च नासदासीदित्यादिवाक्यं शब्दविधया तत्र प्रमाणमिति न परेण वक्तुं शक्यमिति भावः । ननु तमःशब्दार्थभूताऽविद्या यदि निषेध्यसदसदर्थान्तर्गता तदा नासदासीदित्यादिवाक्यं व्याहतभाषित्वादप्रमाणं स्यात् । यदि च तदनन्तर्गता तदा सिद्धं नः समीहितम् । सदसद्विलक्षणस्यैवानिर्वचनीयशब्दार्थत्वादित्यभिप्रेत्य पुनस्तस्यैव वाक्यस्य तत्र मानत्वं शङ्कते- ननु सदसतोरिति ।। सामर्थ्यबललब्धस्येति ।। असदादिनिषेधसहकृतमहाप्रलयावस्थितत्वप्रतिपादनान्यथानुपपत्तिरूपसामर्थ्यलब्धस्येत्यर्थः ।
श्रीवेदेशतीर्थ
अनिर्वचनीयामविद्यामिति ।। तथा च शुक्तिरूप्यादावनिर्वचनीयत्वकोटिप्रसिद्ध्य-भावेऽप्यविद्यायां तत्प्रसिद्धिरिति भावः । अथवाऽविद्यानिर्वचनीयत्वे सिद्धे तदुपादेयशुक्ति-रूप्यादेरनिर्वचनीयत्वं सेत्स्यतीति तत्रैव कोटिप्रसिद्धिरिति भावः । यदुक्तं प्रसिद्धातिक्रमस्तूत्तरार्थ इति तद्दर्शयितुमाह- न चासतस्सत्त्वेति ।। सृष्टिकाले सत्त्वप्रसक्त्यभावेनेत्यर्थः । यद्यप्यस्त्येवा-सतोऽपि शशविषाणमस्तीति शब्दाभासादिना सत्त्वप्रसक्तिः तथाप्यसत्त्वेनोपस्थित एव तत्र सत्त्वप्रतिषेधार्थं तत्प्रसक्तिरपेक्षिता । सा चासम्भाविनी । असत्त्वेन विरोधिरूपेणोपस्थितेरिति शङ्काभिप्रायः । भावाभावपरत्वेनेति ।। अभावस्य तु सृष्टिकाले सत्त्वप्रसक्त्या तन्निषेध उपपन्न इति भावः ।
श्रीराघवेन्द्रतीर्थ
भावाभावेति । विधिनिषेधादिरूपभावाभावपरत्वेनेत्यर्थः । आगमयितव्यमिति ।। १आगमतया वक्तव्यमित्यर्थः । सामर्थ्येति ।। अन्यथाऽनुपपत्तिलब्धस्येत्यर्थः । यथोक्तमिति ।। मीमांसकैः । चोदनार्थः शब्दार्थः ।
गुरुराजीया
अनिर्वचनीयामविद्यामिति ।। तथा चानिर्वचनीयत्वस्याविद्यायामेव प्रसिद्धत्वान्नाप्रसिद्धि-रिति भावः । यदुक्तं प्रसिद्धातिक्रमस्तूत्तरार्थः इति तत्प्रतिपादयितुमाह- न चासतः सत्त्वेति ।। भावाभावपरत्वेनेति ।। अभावस्य सत्त्वेन प्रसक्तिरस्त्येवेति न प्रतिषेधानुपपत्तिरिति भावः । अत्र वाक्ये तमः सन्न भवति असन्न भवतीति सत्त्वादिप्रकाराणामनिषेधादाह- सदसदभावाभिधानेनेति ।। यदि तमसः सत्त्वमसत्त्वं वा स्यात्तर्हि तमस एव सतोऽसतो वा सत्त्वेन तदभावाभिधानं न स्यादिति भावः ।
गोविन्दीया
शुक्तिरूप्यादौ अनिर्वचनीयत्वासिद्ध्या तस्य दृष्टान्तत्वासम्भवेऽपि अविद्याया तत्सिद्ध्या तस्या एव दृष्टान्तत्वं भविष्यतीत्याशङ्कते- नन्विति ।। न चेति ।। प्रसक्तस्य निषेधो युक्तः । असदस्तीति असतः सत्त्वप्रसक्त्यभावेन तन्निषेधायोगाद् अनुपपन्नार्थं वाक्यम् अनिर्वचनीयामविद्यां गमयितुं नासमर्थमिति साम्प्रतमवान्तरशङ्केत्यर्थः । अत्रेति ।। असतः सत्त्व-प्रसक्त्यभावेऽपि अभावोऽस्ति इति सत्त्वप्रसक्त्या तन्निषेधसम्भवात् तमसि भावाभाववैलक्षण्येन अनिर्वचनीयत्वसिद्धेरित्यर्थः । नासदिति ।। तदानीं प्रलये असन्नासीत्, सन्नो आसीत्, रजो नासीत्, यत् परं व्योम तदपि नासीदित्यर्थः । सत्यमिति ।। बलादर्थात् सदसद्विलक्षणता आपद्यत इत्यङ्गीकारांशः कथं न वक्ति ? इत्याक्षेपो अनङ्गीकार्य इत्यर्थः । सामर्थ्येति ।। अर्थाल्लब्धस्य सदसद्विलक्षणत्वस्य अतदर्थत्वात् आगमार्थत्वाभावादित्यर्थः । यश्चेति ।। अर्थादागतोऽर्थो यः स चोदनार्थः आगमवाक्यार्थो नेत्यर्थः ।।
जनार्दनभट्टीया
सामर्थ्यलब्धस्येति ।। श्रुतार्थापत्तिरूपसामर्थ्यलब्धस्येत्यर्थः । यश्चेति ।। अर्थात् प्रतीतार्थात् अनुपपन्नात् प्रतीतार्थानुपपत्तेरिति यावत् । योऽर्थः सिद्ध्यति स न चोदनार्थः इति जैमिनिसूत्रार्थः ।