दृष्टस्य वस्तुनो ..

विशिष्टादीनां तर्केण दुर्घटत्वादनिर्वचनीयत्वशङ्का तत्परिहारश्च

श्रीमज्जयतीर्थटीका

ननु विशिष्टं विशेषणविशेष्यतत्सम्बन्धेभ्यो भिन्नमभिन्नं भिन्नाभिन्नं वा । नाऽद्यः । दण्डपुरुषसम्बन्धमन्तरेण दण्डिनोऽन्यस्याप्रतीतेः । दण्डिनमानयेत्युक्तेऽन्यस्यैवाऽनयनप्रसङ्गाच्च । द्वितीये तु  प्रत्येकं दण्डिव्यवहारप्रसङ्गः ; विशेषाभावात् । तृतीये तु दोषद्वयम् । व्याघातश्चा-धिकः । तथा भेदो भेदिभ्यां भिन्नश्चेदनवस्था । अभिन्नश्चेद्भेदभेदिनोरन्यतरमात्रावशेषः । एवं विशेषणमपि विशेष्याद्भिन्नत्वादिना विकल्प्य दूषणीयम् । तदेवं तर्केण भिन्नत्वादिना दुर्घटत्वाद् विशिष्टादयोऽनिर्वचनीयाः सिद्धा इति कथं नानुपपत्तिरित्यत आह-

मूल

दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकमिति दुर्घटत्वे सुघटत्वे वा नानिर्वचनीयसिद्धिः ।

इतिशब्दो हेतौ । दुर्घटत्वे सुघटत्वे वेति । तर्केणेति शेषः । तर्केऽनादरं सूचयितुं सुघटत्वे वेत्युक्तम् । अनिर्वचनीयेति भावप्रधानो निर्देशः । विशिष्टादेरित्यनुवर्तते । इदमत्र वक्तव्यम् । भिन्नत्वादिना दुर्घटत्वेन विशिष्टादिकमनिर्वचनीयमभिलषता तत्प्रतीतिरङ्गीक्रियते न वा । नेति वदन्ननुभवापलापित्वेनोपेक्षणीयः । आद्ये न विशिष्टादेर्दुर्घटत्वेऽप्यनिर्वचनीयत्वसिद्धिः । दृष्टि-विरुद्धा(द्धेऽ)र्थे तर्कस्य विपर्ययापर्यवसा(नादा)नेनाभासस्यानादरणीयत्वात् । न च दृष्टमपि विशिष्टादिकं तर्केण बाधिष्यत इति वाच्यम् । दृष्टार्थं प्रति तर्कस्य बाधकत्वासामर्थ्यात् । न च वक्तव्यं शुक्तिरजतादिकं देहात्मत्वादिकं वा दृष्टमपि तर्केण बाध्यं दृष्टमिति । तत्रापि बलवद्विरोधिदृष्ट्यैव बाधाङ्गीकारादिति ।

श्रीविजयीन्द्रभिक्षु

दुर्निरूपत्वाद् विशिष्टादिकमनिर्वचनीयमिति शङ्कते- ननु विशिष्टमिति ।। दण्डिनमिति ।। न च विशिष्टस्य विशेष्याभिन्नतया तस्याऽनयनमेवास्याऽनयनमिति वाच्यम् । एवं सति तृतीय-पक्षान्तर्भावापत्तेरिति भावः । प्रत्येकमिति ।। प्रत्येकं विशेषणविशेष्यतत्सम्बन्धानामिति शेषः । दोषद्वयमिति ।। अन्यस्यैवाऽनयनप्रसङ्गः प्रत्येकं दण्डिव्यवहारप्रसङ्गश्चेति दोषद्वयमित्यर्थः । व्याघातश्चेति ।। भेदाभेदयोरेकत्र विरोधश्चेत्यर्थः । अवशेष इति ।। अत्र स्यादिति शेषः । एव-मिति ।। विशेषणं विशेष्याद्भिन्नमभिन्नं भिन्नाभिन्नं वा । नाऽद्यः । मेरुमन्दरयोर्विशेषण-विशेष्यभावादर्शनात् । न द्वितीयः । देवदत्तमानयेत्युक्ते दण्डविशिष्टस्याप्यानयनप्रसङ्गात् । न तृतीयः ।। उक्तदूषणद्वयापाताच्चेति विकल्प्य दूषणीयमित्यर्थः । कथमिति ।। सत्यज्ञानादिवाक्यस्य विशिष्टार्थपरत्वे परमार्थसद्ब्रह्मस्वरूपप्रतिपादनपरत्वानुपपत्तिः कथं नेत्यर्थः । शङ्कोत्तरत्वेन मूलमवतारयति- अत आहेति ।। केन दुर्घटत्वं सुघटत्वं वेत्यत आह- तर्केणेति ।। ननु सुघटत्वेऽनिर्वचनीयत्वप्रसक्तेरेवाभावात् सुघटत्वे वेत्यस्याऽनर्थक्यमाशङ्क्याऽह- तर्क इति ।। ननु विशिष्टादेरनिर्वचनीयत्वासिद्धौ ‘दृष्टस्य वस्तुनो बलवद्दृष्टिं विना नान्यद्बाधकम्’ इति हेतुरुक्तः । तस्य वैयधिकरण्यमाशङ्क्याऽह- इदमत्रेति ।। दृष्टिविरुद्ध इति ।। ‘अहमस्मि’ ‘परोऽस्ति’ इति सत्त्वेनैव ग्रहणादनिर्वचनीयत्वस्य च तद्भिन्नत्वघटितमूर्तिकत्वान्न प्रत्यक्षसिद्धार्थे तर्केणानिर्वच-नीयत्वसिद्धिः । तस्य विपर्यये पर्यवसानासम्भवेनाऽभासत्वादित्यर्थः । ननु तर्केण प्रत्यक्षस्यैव बाधाद् विपर्यये पर्यवसानं भविष्यतीत्याशङ्क्य निराकरोति-न च दृष्टमपीति ।। दृष्टार्थं प्रतीति ।। प्रत्यक्षस्य प्रमाणान्तरबाध्यत्वं क्वापि न दृष्टमिति भावः । तर्केण बाध्यं दृष्टमितीति ।। ‘यदीदं रजतं स्यात् स्वोचितार्थक्रियाकारि स्यात्’ ‘यदि देह एवाऽत्मा स्यात् तदा कृतहानादिप्रसङ्गः’ इति तर्केणेत्यर्थः । बलवदिति । कालपृष्ठत्वत्रिकोणत्वादिविशेषदर्शनजन्येन ‘नेदं रूप्यम्’ इति प्रत्यक्षेणेत्यर्थः । तथा बालस्थविरशरीरयोः परिमाणभेदेन भेदोपलम्भेऽपि ‘योऽहं बाल्ये पितरावन्वभूवं सोऽहं स्थविरो न तावनुभवामि’ इति प्रत्यभिज्ञाप्रत्यक्षसहितेन ‘ममायं देहः’ इति बलवत्तरप्रत्यक्षेणेत्यर्थः ।

श्रीवेदेशतीर्थ

व्याघातः विरोधः । एवमिति ।। यद्यपि विशेषणस्याभिन्नत्वे भिन्नाभिन्नत्वे वा उक्तदोषातिदेशः सम्भवति न भिन्नत्वपक्षे, तथाऽपि विशेषणं विशेष्याद्भिन्नमित्यस्य भेदविशिष्ट-मित्यर्थो वाच्यः । तथा च तत्र भेदो विशेषणम् । तच्च भेदरूपं विशेषणं भिन्नमित्युच्यमाने तस्य च भेदविशिष्टमित्यर्थे अनवस्था स्यादेवेत्यतिदेशोऽत्रापि युक्त एवेति भावः ।

केचित्तु- भिन्नत्वे मेरुमन्दरयोरपि विशेषणविशेष्यभावः स्यादिति बहिरेव भिन्नत्वपक्षो दूषणीय इत्याहुः- तर्केणेति ।। ‘यदि विशिष्टादिकं तत्त्वं स्यात्तर्हि भिन्नत्वाद्यन्यतमप्रकारोपेतं स्यात्, तथात्वे चानवस्थादिकं स्यात् । न चानवस्थादिदोषदुष्टं भिन्नत्वाद्यन्यतमप्रकारोपेतत्वमङ्गीकर्तुं शक्यम् । अतो न तत्त्वम् । किं त्वनिर्वचनीयमेव’ इति तर्केणेत्यर्थः । कथं नानुपपत्तिरिति ।। उक्तरीत्या पुनस्तात्पर्यानुपपत्तिः प्राप्तैवेति भावः । सुघटत्व इत्यस्याऽनर्थक्यादाह- तर्क इति ।। मूले उक्तशङ्का-परिहारस्य स्फुटमप्रतीतेराह- इदमत्रेति ।। दृष्टस्य वस्तुन इत्यस्य ह्युपपादनलब्धं हेतुं स्वयमेवाऽह- दृष्टिविरुद्धार्थ इति ।। एवं विशिष्टादेस्तर्केण दुर्घटत्वेऽपि नानिर्वचनीयत्वसिद्धिरित्यंशं व्याख्याय दृष्टस्येत्यंशं तात्पर्यतो व्याख्यातुमाह- न च दृष्टमिति ।। बलवद्दृष्टिं विनेत्येतत्सङ्गमयितुमाह- न च वक्तव्यमिति ।।

द्वैतद्युमणि

तत्रेति ।। शुक्तिरूप्ये देहात्म्यैक्ये चेत्यर्थो न सङ्गच्छते । देहात्म्यैक्यविषयकप्रत्यक्षप्रतीतेः सिद्धान्तेऽनङ्गीकारेण तद्बाघप्रसक्तेरभावात् । शङ्कामात्रं पररीत्या कृतम् । किन्तु शुक्तिरूप्य इत्येवार्थः । देहात्म्यैक्यारोपस्तु नास्त्येवेति बहिरेवानुसन्धेयम् ।।

श्रीराघवेन्द्रतीर्थ

अनुपपत्त्यभावादित्येतदसिद्धमिति शङ्कते- नन्विति ।। दोषद्वयमिति ।। अन्यस्यैवानयन-प्रसङ्गः१ प्रत्येकं दण्डिव्यवहारप्रसङ्गश्चेति दोषद्वयमित्यर्थः । एवमिति । विशेषणं विशेष्याद्भिन्नं चेद्विशेषणादिभावानुपपत्तिः । मेरुमन्दरयोस्तद्भावादर्शनात्२ । अभेदेऽपि तथा । एकस्य तद्भावा-दर्शनात् । ‘चैत्रमानय’ इत्युक्ते दण्डवत आनयनापत्तेश्च । न तृतीयः । दोषद्वयं व्याघातश्चेत्येवं विकल्प्य दूषणीयमित्यर्थः । सुघटत्वे अनिर्वचनीयत्वाप्रसक्तेः दुर्घटत्वस्यैव वक्तव्यत्वेन सुघटत्वोक्तिः किमर्थेत्यत आह- तर्केऽनादरमिति ।। परिष्कारपूर्वं मूलवाक्यं व्याचष्टे- इदमत्रेति ।। न वेत्यनन्तर-मितिशब्दो योज्यः ।३ विपर्ययापर्यवसानादिति ।। विशिष्टाकारस्य विशेषणादिभ्यो भेदेऽभेदे भेदाभेदे च दोषदर्शनाद् विशिष्टाकारोऽसन्ननिर्वचनीयो ४वा न सत्य इति विपर्यये पर्यवसानं ५विशिष्टाकारसत्त्वग्राहिप्रत्यक्षविरोधान्न६ सम्भवतीत्याभासः तर्कोऽनादरणीय इत्यर्थः । ७न चेत्यनन्तरमितिशब्दो योज्यः । तर्केण बाध्यं दृष्टमिति । ‘यदीदं रजतं सत्स्यात् स्वोचितार्थक्रियाकारि स्यात्’, ‘यदि देह एवाऽत्मा स्यात् कृतहानादिप्रसङ्गः’  इत्यादितर्केण  बाध्यं दृष्टमित्यर्थः । तत्रापीति ।। ‘नेदं रूप्यम्’, ‘मम देहः’ इति बलवद्विरोधिदृष्ट्यैवेत्यर्थः । कालपृष्ठत्रिकोणत्वादिविशेषदर्शनजन्यत्वाद् बलवत्त्वमिति भावः । विशेषाभावादिति । दण्डसम्बन्धवत्त्वं दण्डित्वं तद्यदि प्रत्येकं दण्डादिस्वरूपं स्यात्तदा वास्तवदण्ड्यपेक्षया  दण्डादेर्विशेषाभावात्प्रत्येकं दण्डे पुरुषे तत्सम्बन्धे च दण्डिव्यवहारप्रसङ्ग इत्यर्थः । दोषद्वयम् भेदाभेदपक्षोक्तं दोषद्वयम् । विशिष्टादेरिति ।। सत्यत्वेन प्रत्यक्षप्रतीतिसिद्धस्य विशिष्टादेरित्यर्थः । विपर्ययापर्यवसानेनेति । यदि विशिष्टादिकं प्रतीयेत तर्हि भिन्नत्वाद्यन्यतम-प्रकारोपेतं स्यात् । न चान्यतमः प्रकार उक्तदूषणेनाङ्गीकर्तुं शक्यते, तस्मात् विशिष्टादिकं न प्रतीयत इति  विपर्ययपर्यवसानं    सम्भवति  प्रत्यक्षविरुद्धत्वादित्यर्थः  । दृष्टार्थम् प्रत्यक्षसिद्धमर्थम् । देहेति ।। अहं कृष्ण इत्यादि देहधर्माध्यासस्तावदस्ति स च देहात्मतादात्म्यारोपं विनाऽनुपपत्तेर्देहा-त्मत्वप्रतीतिसिद्धमित्यर्थः । तर्केणेति ।। इदं, न रजतं, दाहच्छेदादिमत्त्वात् । देहो, नात्मा, जडत्वादित्यनुमानेनेत्यर्थः ।। दृष्टैवेति । अनुमानमूलभूतरजताभावावगाहिप्रत्यक्षेण, मम देह इति देहात्मभेदग्राहिबलवत्प्रत्यक्षेणैवेत्यर्थः ।।

गुरुराजीया

व्याघात इति ।। भेदाभेदयोरेकत्र विरुद्धत्वेनावस्थानासम्भवादिति भावः । अनवस्थेति ।। तस्यापि भेदस्य भेदिभ्यां भिन्नत्वेऽविश्रान्तभेदपरम्पराप्रसङ्गादिति भावः । अन्यतरावशेष इत्युप-लक्षणम् । भिन्नाभिन्नत्वे दोषद्वयं व्याघातश्चाधिक इत्यपि द्रष्टव्यम् । दूषणीयमिति ।। विशेषणस्य विशेष्याद्भिन्नत्वे भेदपरम्परयाऽनवस्था । अभेदे विशेषणविशेष्ययोरन्यतरमात्रावशेषप्रसङ्गः । भिन्नाभिन्नत्वे दोषद्वयं व्याघातश्चाधिक इति दूषणीयमित्यर्थः ।

तर्केण भिन्नत्वादिना दुर्घटत्वशङ्काया१ मूलारूढत्वलाभायानुरूपं शेषमाह- तर्केणेति शेष इति ।। तर्केण दुर्घटताया एव पूर्वं शङ्कितत्वेन तन्मात्रस्यैव वक्तव्यतयोभयोक्तेर्वैयर्थ्यमित्यतस्तत्प्रयोजन-माह- तर्केऽनादरमिति ।। तर्कदौर्घट्येन विशिष्टादेरनिर्वचनीयत्वस्यैव शङ्कितत्वेनानिर्वचनीयत्व-सिद्धिरित्येव वक्तव्यतयाऽनिर्वचनीयसिद्धिरित्ययुक्तमित्यतो लक्षणयाऽनिर्वचनीयत्वपरत्वान्न इति भावेनाऽह- अनिर्वचनीयेतीति ।। ‘बलवद्दृष्टिं विना’ इत्यस्य वैयर्थ्यमाशङ्क्य तद्व्यावर्त्यशङ्का-प्रदर्शनेन परिहरति- न चेति ।। तत्रापीति ।। यद्यपि सिद्धान्ते देहात्मैक्यप्रत्यक्षमेव नास्ति । यदाह ग्रन्थकारः ।

जातमात्रा मृगा गावो हस्तिनः पक्षिणो झषाः’  इत्यादि, तथाऽप्यङ्गीकृत्य तद्भ्रमम्, अयं ग्रन्थः ।

गोविन्दीया

व्याघात इति ।। विरुद्धयोर्भिन्नत्वाभिन्नत्वयोरङ्गीकराद्व्याघातश्चाधिको दोष इत्यर्थः । तथा भेदोऽपीति ।। भेदोऽपि भेदिभ्यां भिन्नश्चेत् तस्य च भेदाधिकरणत्वं विना भिन्नत्वं नोपपद्यत इति भेदान्तरमङ्गीकर्तव्यम् । सोऽपि भेदो भेदान्तरमपेक्षत इत्यनवस्थेत्यर्थः । एवमिति ।। विशेषणं विशेष्याद्भिन्नं चेत्तस्य च भेदाधिकरणत्वं विना भिन्नत्वं नोपपद्यत इति भेदरूपविशेषणान्तर-मङ्गीकर्तव्यम्, पुनरप्येवमित्यनवस्था । अभिन्नं चेद् विशेषणविशेष्ययोरन्यतरमात्रावशेषः । भिन्नाभिन्नं चेद् दोषद्वयं व्याघातश्चेति दूषणीयमित्यर्थः । तदेवमिति ।। यदि विशिष्टादिकं तत्त्वं स्यात्तर्हि भिन्नत्वाद्याकारोपेतं स्यात्, भिन्नत्वाद्याकारोपेतं चानवस्थादिदोषदुष्टं च तत् तत्त्वं भवितुं नार्हत्यतोऽनिर्वचनीयमेवेति तर्केण भिन्नत्वादिना धर्मेण वक्तुं दुर्घटत्वाद् विशिष्टत्वा-दयोऽनिर्वचनीयाः सिद्धा इति कथं नानुपपत्तिरित्यर्थः । आद्ये इति ।। विशिष्टप्रतीतिरङ्गीक्रियत इति पक्षे तस्य च प्रत्यक्षसिद्धत्वेन सत्यत्वात्, भिन्नत्वादिना दुर्घटत्वेऽपि नानिर्वचनीयत्व-सिद्धिरित्यर्थः । दृष्टिविरुद्धार्थे इति ।। दृष्टिसिद्धार्थे विपर्यये पर्यवसानं वक्तव्यम् । अनिर्वचनीयं च दृष्टिविरुद्धार्थो भवति । तत्र अपर्यवसानं पर्यवसानमेव न भवति । अतो विपर्यये पर्यवसानाभावेन आभासस्यानादरणीयत्वादित्यर्थः । न चेति ।। शुक्तिरजतादिकं यदि तत्त्वं स्यात् तर्हि वस्तु-क्रियाकारि स्यात् । न च तद्भवति तस्मादतत्त्वम् । देहात्मत्वादिकं यदि तत्त्वं तर्हि नित्यत्वादि-धर्मोपेतं स्यात्, न च तद्भवति । अतोऽतत्त्वमेवेति वा तर्केण दृष्टमपि प्रत्यक्षसिद्धमपि तद्द्वयं बाध्यं दृष्टमिति न च वक्तव्यमित्यर्थः ।

नारोपन्तीया

तत्रापि बलद्दृष्ट्यैव बाधाङ्गीकारादिति ।। मम शरीरमित्यादि सार्वजनीनानुभवादिति भावः । अत्र देहात्मत्वं परसिद्धमेवानूदितम् । सिद्धान्ते तु- अहं मनुष्य इत्यादिव्यपदेशस्य गौणत्वात्, मम देह इत्यादिप्रतीतेश्च देहात्मभ्रमानभ्युपगमात् । अत एवोभयसिद्धस्य शुक्तिरजतभ्रमस्य पृथगुपादानमिति बोध्यम् ।

जनार्दनभट्टीया

दोषद्वयमिति ।। भेदपक्षोक्तदोषः, अभेदपक्षोक्तदोषश्चेति दोषद्वयमित्यर्थः । व्याघातश्चेति ।।

भेदश्चेद् अभेदसम्भवः । अभेदश्चेद् भेदसम्भवः । परस्परविरहरूपत्वात्  तयोरिति व्याघात इत्यर्थः । कथं नानुपपत्तिरिति ।।  उक्तरीत्या सत्यत्वादिविशिष्टस्यापि अनिर्वचनीयत्वेन ‘सत्यं ज्ञानम्’ इत्यादिना एतादृशब्रह्मोपदेष्टुः विप्रलम्भकत्वापत्त्या विशिष्टार्थानुपपत्तिरिति भावः । ‘दृष्टस्य’ इति सामान्योक्तेः प्रकृते उपयोगाप्रतीतेः तर्कस्य प्रमाणदृष्टार्थबाधकत्वहेत्वप्रतीतेः बलवद्दृष्टिं विनेत्यस्य उपयोगाप्रतीतेश्च सर्वमाह – १इदमत्रेति ।।  अत्र चोद्ये इदम् एतद्वाक्यसूचितम् उत्तरं वक्तव्यमि-त्यर्थः । बलवद्विरोधिदृष्ट्यैवेति ।।  ‘नेदं रजतम्’, ‘नाहं देहः’ इति दृष्ट्येत्यर्थः ।