तत्वोद्योतप्रकरणम्
।।श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।
श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
तत्वोद्योतप्रकरणम्
श्रीमज्जयतीर्थपूज्यचरणप्रणीतटीकया नवभिष्टिप्पणीभिश्च समलङ्कृतम्
श्रीमज्जयतीर्थ टीका
मङ्गलाचरणम्
विश्वोत्पत्तिस्थितिध्वंसकारणं रमणं श्रियः ।
अभिवन्द्य यथाबोधं तत्वोद्योतं विवृण्महे ।।
श्रीविजयीन्द्रभिक्षु
अथ तत्वोद्योतटिप्पणी श्रीविजयीन्द्रभिक्षुविरचिता प्रारभ्यते
सर्वज्ञं सर्वकर्तारं सर्वजीवजडात्मकात् ।
प्रपञ्चाद्वस्तुतोऽत्यन्तभिन्नं श्रीनृहरिं भजे ।। १ ।।
१तं पाणिपल्लवं बाहुशाखं सद्द्विजसेवितम् ।
विद्याहासलतापुष्पं मध्वकल्पतरुं भजे ।। २ ।।
ब्रह्मविन्मुखरङ्गस्थां मध्व ते वाङ्नटीं परान् ।
विचित्रपदविन्यासैर्मोहयन्तीं भजेऽन्वहम् ।। ३ ।।
यस्य वाक्कामधेनुर्नः कामितार्थान् प्रयच्छति ।
सेवे तं जययोगीन्द्रं कामबाणच्छिदं सदा२ ।। ४ ।।
यो व्यासमुनिदावाग्निः सच्छास्त्रमरुता सह ।
ददाह कुमतारण्यं प्रकाशाय तमाश्रये ।। ५ ।।
श्रीसुरेन्द्रमुनेः पादपद्मे रागस्य पीडनात् ।
रक्ते नखदलोपेते सेवे शिष्यालिसेविते३ ।। ६ ।।
सर्वतन्त्रस्वतन्त्रेण विजयीन्द्राख्यभिक्षुणा ।
तत्वोद्योतस्य विवृतेर्गूढो भावः प्रकाश्यते ।। ७ ।।
श्रीमज्जयतीर्थमुनिः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थं शिष्यार्थदानाविच्छेदरूपप्रचय-गमनार्थं च १कृतमविगीतालौकिकशिष्टाचारानुमितवेदबोधितकर्तव्यताकं श्रीरमणाभिवन्दनरूपं मङ्गलं शिष्यशिक्षायै निबध्नन् तन्मनःसमाधानाय चिकीर्षितं प्रतिजानीते- विश्वोत्पत्तिस्थिति-ध्वंसकारणमिति ।। अत्र विवृण्मह इत्युत्तमपुरुषबहुवचनघटनाय ‘अस्मद्युत्तमः’२ इति शास्त्रार्थ-सम्पत्तये वयमित्यध्याहर्तव्यम् । तत्वोद्योतविवरणकर्तुरेकत्वेऽपि ‘अस्मदो द्वयोश्च’३ इति सूत्राद् वयमिति बहुवचनोपपत्तिः । तथा च वयं विश्वोत्पत्तिस्थितिध्वंसकारणं श्रियो रमणमभिवन्द्य यथाबोधं तत्वोद्योतं विवृण्मह इति सम्बन्धः । विवरणरूपक्रियायाः करिष्यमाणत्वेऽपि ‘वर्तमान-सामीप्ये वर्तमानवद्वा’४ इति शास्त्रप्रवृत्तिसम्भवात् ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’५ इति तत्फलस्य कर्तृगामित्वाच्च विवृण्मह इति ६लडात्मनेपदोपपत्तिः । विश्वोत्पत्तिस्थितिध्वंसकारणमिति विशेषणेन श्रियो रमणस्य ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिकारणवाक्यगतब्रह्मादिशब्द-मुख्यार्थत्वमस्तीति विभावितम् । एतच्चोपलक्षणम् । तन्नियतिज्ञानाज्ञानबन्धमोक्षकारणमित्यपि द्रष्टव्यम् । एतच्च कारणत्वं विश्वशब्दार्थे यथासम्भवं द्रष्टव्यम् । तदाहुः-
उत्पत्तिस्थितिसंहृतिप्रभृतयो भावा भवन्त्याज्ञया ।
पद्मापद्मभवादिसर्वजगतो व्यस्ताः समस्तास्सदा ।। इति ।
यद्यपि विश्वोत्पत्तिकारणमित्येवोक्तेऽपि७ स्थित्यादीनामपि विश्वशब्दार्थत्वेन तत्कारणत्वसिद्धेः स्थित्यादिशब्देन विशिष्योपादानं व्यर्थमेव । तथापि -
‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति ।’८
‘त्वं मुक्तिदो बन्धदोऽतो ९मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो ।’
‘उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ।।’१०
इत्यादिश्रुतिस्मृतिविवक्षानुसारेण उत्पत्त्यादीन् तेन तेन रूपेण सङ्कीर्त्य तत्कारणत्वप्रतिपादनमत्रेति ध्येयम् । ध्वंसपदोपादानेन ध्वंसासाधारणकारणत्वप्रतिपादनेन तस्य निमित्तत्वमेव न तूपादानत्व-मिति विभावितव्यमित्यप्याहुः । अत एव विश्वोत्पत्तिकारणत्वादेरव्याप्त्यतिव्याप्त्यादिलक्षण-दोषाभावात् प्रत्येकमेव लक्षणत्वमिति समुदिततत्कारणत्वप्रतिपादनं क्वोपयुक्तमिति निरस्तम् । तथा प्रतिपादनस्य श्रुतिविवक्षामूलत्वेन पुरुषार्थोपयोगित्वात् । अन्यथा तथा तथा भगवत्स्वरूप-प्रतिपादिकाः श्रुतिस्मृतय उन्मत्तप्रलापाः स्युः ।
यद्वा, उत्पत्त्याद्येकैककारणत्वं ब्रह्मविष्णुशिवेषु प्रत्येकं विश्रान्तमिति मतनिरासाय श्रीरमण-निष्ठतया तत्त्रितयोक्तिरत्रेति ध्येयम् । यद्यप्यत्र पूर्णिमामावास्यातिथ्योरिव विश्वोत्पत्तिस्थिति-ध्वंसानां प्रवाहतोऽनादित्वस्याविशिष्टतया एवं क्रमेणोपादाने न किमपि नियामकमस्ति तथाऽपि विश्वशब्दार्थभूतवियदादिप्रत्येकव्यक्तिषु उत्पत्तिं विना स्थित्यभावात् लब्धस्थितिकस्यैव ध्वंसाच्च तत्तद्व्यक्त्यपेक्षयोत्पत्त्यादीनां क्रमे नियामकसत्त्वात् तथैवेहोपादानमिति न किञ्चिदनुपपन्नम् । यद्यप्येवमप्युत्पत्तिस्थितिध्वंसपदेषु ‘द्वन्द्वे घि’१ इति सामान्यशास्त्राद्बलवता ‘अल्पाच्तरम्’२ इति विशेषशास्त्रेण स्थितिशब्दस्यैव प्राथम्यमुचितम्३ । अत एव विश्वस्थितिप्रलयसर्गमहाविभूतीति भगवत्पादीयप्रयोगः । तथाऽप्युक्तरीत्योत्पत्तेः स्थितिं प्रत्युपजीव्यत्वेनाभ्यर्हितत्वात् ‘अभ्यर्हितं पूर्वम्’ इति ततोऽपि विशेषशास्त्रेणोत्पत्तिशब्दस्यैव प्राक्प्रयोगोऽयमुपपद्यत इति ध्येयम् । यद्यपि च विश्वोत्पत्तिस्थितिध्वंसकारणमित्येवोक्तेऽपि तेन पदेन श्रीरमणस्यैव लाभो भविष्यति ।
‘एको वै नारायण आसीत् न ब्रह्मा नेशानो नेमे द्यावापृथिवी’४
‘नारायणाद् ब्रह्मा जायते नारायणाद्रुद्रो जायते ।’५
इत्यादिश्रुत्या सर्गाद्यसमये नारायणान्यसत्त्वं प्रतिषिध्य तस्यैव सत्त्वप्रतिपादनपूर्वकं देवप्रमुख-चतुर्मुखेशानादिसहितजगत्कारणत्वोपपादनात् । तथापि श्रियो रमणमित्युक्तिः तस्यैवाभि-वन्दनीयताप्रयोजकेष्टत्वरूपसम्पत्तिरस्तीति ज्ञापनाय । तथा हि, श्रयन्त्येतां स्वेष्टार्थलिप्सया ब्रह्मेशानादिसर्वे जना इति श्रीर्लक्ष्मीः । ‘क्विप् च’१ इत्यादिसूत्रेण श्रीङ्धातोः कर्मणि क्विप् । तस्या रमणं तस्या अपि सुखप्रदमित्यर्थः । तथा च श्रुतिः-
‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणम्’२ ।
इत्यादिका । अनेन अभिवन्दनीयताप्रयोजकं विशिष्टत्वाख्यं रूपान्तरमप्यस्तीति विभावितम् । तथा च स्मृतिः-
‘एतावताऽलं ननु सूचितेन गुणैरसाम्येऽनतिशायितेऽस्य ।
हित्वेतरान् प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ।।’३
इत्यादिका । अधिकृतत्वरूपं प्रयोजकान्तरमपि व्याख्येयतत्वोद्योतनामकग्रन्थप्रतिपाद्यत्वादेव सिद्ध्यति । अभिवन्द्येत्यभिशब्दो भक्तिश्रद्धातिशयकथनाय । क्त्वाप्रत्ययस्तु तादृशमेवाभिवन्दनं प्रारिप्सिताविघ्नपरिसमाप्त्यादिकारणमिति कारणताशरीरप्रविष्टाव्यवहितपूर्वकालत्वप्रतिपादनमुखेन तत्कारणत्वस्फोरणायेति मन्तव्यम् ।
केचित्तु विश्वोत्पत्तिस्थितिध्वंसकारणमित्यनेनैव तादृशत्वस्यान्यत्रासम्भवाद् वस्तुगत्या श्रीरमण एवाभिवन्द्यत्वेन लभ्यत इति श्रियो रमणं वायुं चेति चशब्दाध्याहारमङ्गीकृत्य-
‘शंरूपमाश्रिता वायुं श्रीरित्येव च कीर्त्यते ।’
इत्यादेः श्रीशब्देनात्र भारतीं विवक्षित्वा तद्वाक्यार्थं वर्णयन्ति ।
यथाबोधं विवृण्मह इति प्रतिज्ञया स्वव्याख्येयतत्वोद्योतग्रन्थस्य शब्दतोऽर्थतश्च गभीरत्वं स्वस्य तद्व्याख्यानसामर्थ्यरूपगौरवं च विभावितम्४ । अन्यथा बहुवचनवैयर्थ्याद् यथाबोधमित्युक्ति-वैयर्थ्याच्च । तत्वोद्योतं विवृण्मह इति विशिष्टविवरणप्रतिज्ञया विषयप्रयोजनाभावप्रयुक्तं तस्य प्रेक्षावदनुपादेयत्वरूपानारम्भणीयत्वं निरस्यति । व्याख्येयग्रन्थस्य तत्वम् उद्योत्यते उत्कर्षेण प्रकाश्यते ज्ञाप्यते अनेनेति अन्वर्थसञ्ज्ञयैव विषयप्रयोजनादिसद्भावज्ञापनेन तद्विषयप्रयोजना-भ्यामेव तद्व्याख्यानरूपस्यास्यापि तद्वत्त्वस्य सूचितत्वादिति सर्वमवदातम् ।
श्रीवेदेशतीर्थ
अथ तत्वोद्योतटीकाटिप्पणी श्रीवेदेशतीर्थकृता प्रारभ्यते
जयति जगति जन्मस्थेमसंहारकर्ता चिदचिदखिलयन्ता यः स्वतन्त्रोऽखिलज्ञः ।
विततविमलशक्तिः पूर्णबोधेष्टरूपः श्रुतिततिमतमुक्तामुक्तभेदो रमेशः ।।
व्यासं नत्वा तथा मध्वं जयार्यं च गुरूनपि ।
व्याख्यास्ये मन्दबोधाय तत्वोद्योतस्य पञ्चिकाम् ।।
स्वेष्टदेवतानमनपूर्वकं चिकीर्षितं निर्दिशति- विश्वोत्पत्तीति ।। ननु १अल्पाच्तरं पूर्वमिति शास्त्रानुसारेण स्थितिशब्दस्यैव प्राक् प्रयोग उचितः । अत एव विश्वस्थितिप्रलयसर्गेति भगवत्पादीयप्रयोगः इति चेत् । न । उत्पत्तेः स्थितिं प्रत्युपजीव्यत्वेनाभ्यर्हितत्वात् २‘अभ्यर्हितं पूर्वम्’ इति विशेषशास्त्रेणोत्पत्तिशब्दस्यैव प्राक्प्रयोगात् । अत्र मुक्तेश्वरयोर्भेदः साध्यते । भेदप्रतीतिश्च व्यावर्तकधर्मप्रतीतिसाध्येति तत्प्रदर्शनार्थमिदमुक्तम् । मुक्तानां तु ‘जगद्व्यापारवर्जम्’३ इत्यादिना सूत्रकृतैव विश्वोत्पत्त्यादिकारणत्वाभाव उक्तः । श्रीपतित्वं तु विष्णोरेवासाधारणो धर्म इति मुक्तानां तदभावः प्रसिद्ध एव । श्रियो रमणमित्यनेन श्रियोऽपि नमस्कारः कृतो भवति ।
तत्वस्य परमपुरुषाख्यस्य उद्योतः यथार्थज्ञानं भवत्यस्मादिति व्यधिकरणबहुव्रीहिः । अथ वा तत्वमुद्योत्यते उत्कर्षेण ज्ञाप्यतेऽनेनेत्यन्वर्थसञ्ज्ञेत्याहुः ।
श्रीराघवेन्द्रतीर्थ
अथ तत्वोद्योतटीकाटिप्पणी श्रीराघवेन्द्रतीर्थकृता प्रारभ्यते
जगज्जन्मस्थेमलयनियमा यदपाङ्गतः ।
तं वन्दे परमानन्दमिन्दिरामन्दिरोरसम् ।।
प्रणम्य श्रीमदानन्दतीर्थादिगुरुशेखरान् ।
व्याख्यास्यामि यथाबोधं तत्वोद्योतस्य पञ्चिकाम् ।।
ग्रन्थादौ मङ्गलाचरणपूर्वकं चिकीर्षितं प्रतिजानीते- विश्वेति ।। मूले चिच्चेत्यपदेन न यत्किञ्चिच्चेतनाचेतनग्रहः । अपि तु कृत्स्नस्येति भावेन भगवतोऽपि चिद्रूपत्वाद् बाधनिरासाय तदन्यचिच्चेत्यग्रहणप्रदर्शनाय वा विश्व इत्युक्तिः । यन्तेति नियमनमुपलक्षणमिति भावेनोक्तम्-उत्पत्तीत्यादि ।। तेनान्यजातस्याप्यन्येन नियमनसम्भवात् जन्मादिहेतुत्वमेकनिष्ठं नेति शङ्का परास्ता । अत एव मूलोपात्तमेव विशेष्यं श्रियो रमणमित्युक्तम् । जन्मादिचतुष्टयस्यैव कृत्स्न-जगद्विषयत्वादुत्पत्त्यादेरेव ग्रहणम् । न ज्ञानाज्ञानबन्धादेः । तेन भगवति जन्महेतुत्वादयश्चत्वारो हेतव उक्ता भवन्ति । उत्पत्तिः पराधीनविशेषावाप्तिः । स्थितिः परिपालनम् । जातस्यैव स्थित्यादीत्यतोऽभ्यर्हितत्वाद्वा बहुष्वनियमाद्वा अनेकाचोऽप्युत्पत्तेः पूर्वं निर्देशः । श्रिय इत्युक्त्या तस्या अपि भगवदुपसर्जनतया अभिवन्दनसिद्धिः । भक्त्याद्यङ्गवत्त्वद्योतनाय अभि इत्युक्तिः । यथाबोधं अस्मद्बुद्धिमनतिक्रम्य, अस्मद्बुद्ध्यनुसारेणेति वा शिष्यबुद्धिमनतिक्रम्य तस्य बोधो यथा भवति तदनुसारेणेति वा मूलकर्तृबोधमनतिक्रम्य तदभिप्रायानुसारेणेति वाऽर्थः । तत्वस्य परापर-रूपतत्वस्य । उद्योतः ‘द्युत- दीप्तौ’ भावे घञन्तम् । उत्कृष्टदीप्तिः सम्यग्ज्ञानम् । यद्वा तत्वस्य परमपुरुषस्य उत्कृष्टत्वेन द्योतो ज्ञानं येन भवति तत्प्रकरणं तत्वोद्योतसञ्ज्ञं प्रकरणं विवृण्महे । ‘वर्तमानसामीप्ये वर्तमानवद्वा’१ इति लडुक्तिः । विश्व इत्यादिना किञ्चिद् विवरणाद्वा२ । बहुवचनं गौरवात् । ग्रन्थकर्तुः प्रतिपाद्यस्य च प्रीतेरात्मगामित्वद्योतनायाऽत्मनेपदम् । ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’३ इत्युक्तेः ।
अथ श्रीपाण्डुरङ्गिकेशवाचार्यकृता तत्वोद्योतटीकाटिप्पणी (गुरुराजीया) प्रारभ्यते
गुरुराजीया
यद्विद्याधीशगुरोः शुश्रूषान्या न रोचते तस्मात् ।
अस्त्वेषा ४भक्तियुता श्रीविद्याधीशपादयोः सेवा ।। १ ।।
तत्वोद्योतस्य विवृतेर्विद्याधीशोक्तमार्गतः ।
विवृतिर्भावगूढायाः क्रियते भावशुद्धये ।। २ ।।
यत्स्पष्टार्थं पदं वाक्यं तन्न व्याक्रियते मया ।
ग्रन्थगौरवभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ।। ३ ।।
ग्रन्थादौ मङ्गलमाचरन्नेव शिष्यावधानार्थं चिकीर्षितं निर्दिशति- विश्वेति ।। ननु ‘इन्द्राग्नी’ इत्यत्र १तत्र तत्र सावकाशघ्यन्ताजाद्यदन्तशास्त्रयोरुभयोरपि प्रसङ्गेऽपि ‘विप्रतिषेधे परम्’२ इति न्यायेन परत्वादजाद्यदन्तशास्त्रस्यैव प्रवृत्त्येन्द्रशब्दस्यैव पूर्वनिपातवद् अजाद्यदन्तमित्यस्य ईशकृष्णावित्यत्र ‘अल्पाच्तरम्’३ इत्यस्य च प्लक्षन्यग्रोधावित्यत्र सावकाशत्वेन उत्पत्तिस्थितीत्यत्र वागिन्द्रावित्यादाविव उत्पत्तिशब्दस्यादन्तत्वाभावेन तदुभयाप्रसङ्गेऽपि अल्पाच्तरशास्त्रस्यैव प्रवृत्त्या स्थितिशब्दस्यैव पूर्वनिपातः स्यादिति चेदत्र स्वामिनः । ‘लक्षणहेत्वोः क्रियायाः’४, ‘समुद्राभ्राद्धः’५, ‘समानाधिकरणजातीययोः’६ इत्यादिषु यथायथं व्यभिचारं कुर्वता सूत्रकृता एतत्प्रकरणस्यानित्यताया ज्ञापितत्वेन तस्यानित्यत्वसिद्ध्या अत्राप्रवृत्त्युपपत्तेः । अभिप्रेतं चानित्यत्वमल्पाच्तरशास्त्रस्य टीकाकाराणाम् । ‘अल्पाच्तरमित्यस्यानित्यत्वात् शकुनिसूत्रयोरिति साधु’ इति अन्यत्रापि टीकाकारैरुक्तत्वादिति ध्येयम् ।
रमणमिति ।। रमत इति रमणः । कर्तरि ल्युट् । ७‘ल्युड् भावे करणाधिकरणयोश्च’ इति भावकरणाधिकरणेषु ८ल्युड्विधानानन्तरं ‘कृत्यल्युटो बहुलम्’९ इति सूत्रारम्भसामर्थ्यादेव कर्त्रादावपि तत्सिद्धेरिति ध्येयम् । यत्तु बाहुलकात्कर्तरि ल्युडिति तन्न । सूत्रारम्भसामर्थ्यादेव कर्तरि तत्सिद्धिसम्भवे १०बाहुलकपर्यन्तानुधावनाऽनर्था स्यात् । तस्य प्रयोजनान्तरार्थताया एवाऽकरे स्थितत्वेन बाहुलकेन कर्तरि ल्युड्व्युत्पादनस्य परेषामसम्मतत्वाच्चेति ।
अथ गोविन्दीया तत्वोद्योतटीकाटिप्पणी प्रारभ्यते
प्रणम्य परमात्मानं पूर्णबोधान् गुरूनपि ।
तत्त्वोद्योतस्य वाक्यार्थाः प्रकाश्यन्ते यथामति ।।
तत्त्वोद्योताख्यप्रकरणस्य वाक्यार्था लिख्यन्ते- तत्त्वोद्योतमिति ।। तत्त्वस्य= परमात्मतत्त्वस्य उद्योतः= उत्कृष्टतया ज्ञानं यस्मात् । तत्त्वम् उद्योत्यते येन इति वा तत् तत्त्वोद्योतं तत्तथेत्यर्थः ।
जनार्दनभट्टीया
अथ जनार्दनभट्टीया तत्वोद्योतटीकाटिप्पणी प्रारभ्यते
दूरापास्तपराहतिप्रविलयाद्यावद्यशक्त्याकृतिः
स्वेच्छाधीनकृतिः समस्तविषयानन्तोरुबोधाम्बुधिः ।
यन्ता यो जडचेतने सुमनसामिष्टस्तदन्येष्टकृत्
तं नारायणमन्तरायहतये नौमि श्रियो वल्लभम् ।। १ ।।
पद्मनाभादिपरमहंसा यदुपसत्तितः ।
तापं जहुस्तमानन्दतीर्थं सेवेऽतिनिर्मलम् ।। २ ।।
संसारापारकान्तारपरिखिन्नकृपाकराः ।
गुरवोऽगाधबोधीयमतस्थाः सन्तु मद्धिये ।। ३ ।।
जयतीर्थार्यतरणेर्गावो विष्णुपदस्पृशः ।
सन्दर्शयन्तु सच्छास्त्रमार्गं मन्ददृशो मम ।। ४ ।।
श्रीमन्नृसिंहार्यगुरूपदेशनिर्णीतमध्वागमतत्त्वसाराः ।
ये दक्षिणस्यां मधुरापुरश्रीनिवासभट्टाभिधया प्रसिद्धाः ।। ५ ।।
अमी व्याख्यन् भारतस्य तथा भागवतस्य च ।
तात्पर्यनिर्णयौ गूढौ सदाचारस्मृतिं तथा ।। ६ ।।
तत्तनूजः श्रीनिवासभट्टोपाध्यायनामिनाम् ।
शिष्यो व्यातनुते तत्त्वोद्योतटीकां जनार्दनः ।। ७ ।।
स्पष्टार्थमिह यद्वाक्यं न व्यक्तीक्रियते मया ।
ग्रन्थबाहुल्यभीरुत्वात् न चोद्ग्रन्थं बहूच्यते ।। ८ ।।
तत्त्वोद्योतोदयादुत्थतट्टीकाशिशिरद्युतेः ।
उद्यन् प्रभामण्डलोऽयं भूयात् सत्पद्मसौख्यदः ।। ९ ।।
भगवान् जयतीर्थमुनिर्ग्रन्थादौ मङ्गलाचरणपूर्वकं चिकीर्षितं प्रतिजानीते१– विश्वेति ।। उत्पत्तिश्च स्थितिश्चेत्यादि२ द्वन्द्वसमासः । ‘आङ्महतः समानाधिकरणजातीययोः’३ इति सूत्रेण अनल्पाच्कस्य४ अनभ्यर्हितस्यापि समानाधिकरणादस्य द्वन्द्वे पूर्वप्रयोगज्ञापकाद्५ ‘अल्पाच्तरं पूर्वम्’६ इति विधेरनित्यत्वावगमेन प्रकृतद्वन्द्वेऽपि अनल्पाच्कस्योत्पत्तिपदस्य७ पूर्वं प्रयोगो युक्त इति ज्ञातव्यम् । ‘अल्पाच्तरम्’ इत्यस्यानित्यत्वाच्छकुनिसूत्रयोरिति साध्विति । एवम् ‘उत्पत्तिस्थितिभङ्गं’ ‘प्रीत्यै माधवमध्वयोः’ इत्यादयः टीकाकारीयाः प्रयोगाः समाधेयाः । प्राञ्चस्तु ‘लब्धजन्मन एव स्थित्यादिः’ इति८ भाष्यटीकारीत्या स्थित्याद्यपेक्षयोत्पत्तेरभ्यर्हितत्वात् ‘अभ्यर्हितं पूर्वम्’ इत्युत्पत्तिपदस्य पूर्वं प्रयोग इति समादधते । वन्दनस्य भक्त्याद्यतिशयपूर्वकत्वसूचनाय, स्वातन्त्र्येण तद्वन्दनस्य ‘परिवारतया ग्राह्या अपि हेया प्रधानतः’ इति निषिद्धत्वात् परिवारदेवतात्वेनैव वन्दनमिति सूचयितुं च अभि इत्युपसर्गः । ग्रन्थारम्भसमये सकलवाङ्मनसदेवतायाः श्रियोऽपि वन्दनीयत्वाद् रमणं श्रियः इत्युक्तम् । स्वस्य निरहङ्कारत्वख्यापनाय – यथाबोधमिति ।। विवृण्महे इत्युत्तमपुरुषप्रयोगादेव ‘वयम्’ इति लभ्यते ।
नारोपन्तीया
अथ नारोपन्तीया तत्वोद्योतटीकाटिप्पणी प्रारभ्यते
श्रिया समाराधितमादिदेवं नारायणं तं सततं नमामि ।
चरीकरीतीह बरीभरीति य एतदेकोऽथ जरीहरीति ।। १ ।।
विश्वेषामुदितः सुखाय सुधियां संसारकान्तारतो
निःसर्तुं सरणीमनाकलयतां तत्रत्यदुस्तस्करान् ।
सर्वस्वापहृतौ निबद्धहृदयानुद्वेजयंस्तेजसा
तत्त्वोद्योतकरः सदैव भगवानाचार्यसूर्योऽस्तु नः ।। २ ।।
उन्मार्गेण यियासतो निपतितानालोक्य दुर्गागमे
गूढं ब्रह्मदिदृक्षतां करुणया निर्माय निर्मायकृत् ।
द्वारं मध्वयतिः सुभाष्यमदधाद् द्वास्थं जयं दिग्जयं
कण्ठोद्घाटनकुञ्चिकाङ्कितकरं वन्दामहे तं गुरुम् ।। ३ ।।
तत्त्वोद्योतस्य विवृतिं जयतीर्थार्यनिर्मिताम् ।
तदनुग्रहमाश्रित्य व्याख्यास्यामि क्वचित्क्वचित् ।। ४ ।।
जयतीर्थमुनिः श्रीमान् पदवाक्यप्रमाणवित् ।
श्रीमदाचार्यरचिततत्त्वोद्योतप्रपञ्चिकाम् ।
विधित्सुः सर्वदुरितनिवर्तनपटीयसः ।
प्रसत्त्यै कमलाभर्तुरभिवन्दनमाचरन् ।
शिष्यशिष्ट्यै निबध्नाति प्रतिजानाति चेप्सितम् ।।
विश्वोत्पत्तीत्यादिना ।।
द्वैतद्युमणिटिप्पणिसारोद्धारः
हुलिगियदुपत्याचार्यविरचितः द्वैतद्युमणिटिप्पणिसारोद्धारः
श्रीमन्तं जगदुदयस्थितिप्रणाशान् कुर्वन्तं गुणगणपूर्णमीशितारम् ।
मुक्तानामपि सकलैरवद्यगन्धैरस्पृष्टं हरिमनिशं नमामि भक्त्या ।। १ ।।
श्रीमदानन्दतीर्थार्यान् जयराजमुनीनपि ।
तद्गुरून् मद्गुरूंश्चापि प्रणमाम्यहमञ्जसा ।। २ ।।
तत्त्वस्य मुख्यस्वतन्त्रतत्त्वात्मकनारायणस्य उत्कृष्टद्योतः मुक्तामुुक्तसकलनियन्तृत्वादिना ज्ञानं यस्मादिति व्युत्पत्त्या ग्रन्थस्य तत्साधनत्वलाभः ।