विमतो भिन्नो मुक्तत्वात्..
पूर्वोक्तानुमाने भिन्न इति सामान्यतः साध्यनिर्देशाभिप्रायः
श्रीमज्जयतीर्थटीका
नन्वत्र भेदः किं परमात्मप्रतियोगिकः साध्यः उत जीवप्रतियोगिकः अथ वा जडप्रतियोगिकः आहोस्वित्सकलप्रतियोगिकः । नाऽद्यः । परमात्मनि हेतोरनैकान्त्यात् । संसाराभावलक्षणमुक्तत्वस्य तत्र सत्त्वात् । द्वितीयेऽपि सकलजीवप्रतियोगिकः स्वव्यति-रिक्तजीवप्रतियोगिको वा । न प्रथमः । मुक्तस्यापि जीवत्वेनांशे बाधात् । न द्वितीयः । मुक्तस्य तद्भेदसिद्ध्या विना तेषामेतद्व्यतिरिक्तत्वासिद्ध्याऽप्रसिद्धविशेषणत्वात् । सिद्धौ च सिद्धसाधनत्वात् । जीवभेदसाधनस्य प्रकृतानुपयोगित्वेनार्थान्तरत्वाच्च । एतेन संसारिभ्यो भेदः साध्यत इत्यपि परास्तम् । अत एव न तृतीयः । नापि चतुर्थः । पूर्ववदंशे बाधात् । अप्रसिद्धविशेषणत्वाच्च ।
श्रीविजयीन्द्रभिक्षु
विमतो भिन्न इति भेदसामान्यसाधनप्रतिज्ञाया विना विशेषविषयमपर्यवसानात्तमादाय पर्यवसाने च दोषदर्शनात्तथा साधनमनुपपन्नमित्यभिप्रायेण शङ्कते- नन्विति ।। मुक्तस्यापीति ।। तस्यापि जीवत्वरूपप्रतियोगितावच्छेदकावच्छिन्नत्वेन तत्र तद्भेदस्य बाधितत्वादिति भावः । तद्भेदसिद्ध्येति ।। संसारिजीवप्रतियोगिकभेदसिद्ध्येत्यर्थः । एतद्व्यतिरिक्तत्वेति ।। मुक्तव्यतिरिक्तत्वेत्यर्थः । अप्रसिद्धविशेषणत्वादिति ।। विमतो भिन्न इत्यनुमानप्रवृत्तेः पूर्वं मुक्ते संसारिभेदस्येव संसारिषु मुक्तभेदस्याप्यसिद्ध्या मुक्तव्यतिरिक्तजीवप्रतियोगिकभेदस्यैवाप्रसिद्ध्या अप्रसिद्धविशेषणत्वादित्यर्थः । सिद्धौ चेति ।। संसारिषु प्रतियोगितावच्छेदकभूतमुक्त-व्यतिरिक्तत्व१ज्ञानोपयुक्तत्वेनैतदनुमानप्रवृत्तेः प्रागेव मुक्ते संसारिप्रतियोगिकभेदस्य सिद्धौ चेत्यर्थः । ननु मुक्ते जीवत्वाधिकरणप्रतियोगिकभेदसाधने न बाधो न वा अप्रसिद्धविशेषणतेत्याशङ्क्याऽह- जीवभेदसाधनस्येति ।। मुक्तेश्वरयोः नियम्यनियामकभावोपपादकभेदसाधनस्यैवोचितत्वेना-तादृशभेदसाधनस्य२ प्रकृतानुपयुक्तत्वेनेत्यर्थः । एतेनेति ।। प्रकृतानुपयुक्तत्वप्रयुक्तार्थान्तरत्व-दोषेणेत्यर्थः । अत एवेति ।। अर्थान्तरत्वदोषग्रासादेवेत्यर्थः । पूर्ववदिति ।। मुक्तांश इत्यर्थः । अप्रसिद्धेति ।। परमात्मजीवजडरूपसकलप्रतियोगिकभेदस्याप्रसिद्धतया अप्रसिद्धविशेषणत्वादि-त्यर्थः । एतच्च असतः प्रतीतिरेव नेति मतेन । अन्यथा ३उक्तसकलजीवप्रतियोगिकभेद-रूपविशेषणस्य तत्रैव प्रसिद्धिसम्भवेनोक्तदोषाप्रसरादिति ।
श्रीवेदेशतीर्थ
ननु संसारप्रध्वंसाधिकरणत्वलक्षणमुक्तत्वरूपहेत्वभावादेव न परमात्मनि व्यभिचार इत्यत आह- संसाराभावेति ।। संसारसंसर्गाभावेत्यर्थः । नन्वेवं निगडमुक्तदृष्टान्तः साधनविकलः । संसारसंसर्गस्यैव तस्मिन् सत्त्वादिति चेन्न । तथात्वे घटो दृष्टान्त इति वक्ष्यमाणत्वात् । मुक्त-स्यापीति ।। विमतो मुक्तः सकलजीवप्रतियोगिकभेदवानित्यत्र मुक्तस्यापि सकलजीवमध्य-प्रविष्टत्वान्मुक्तेऽमुक्तजीवप्रतियोगिकभेदस्याबाधितत्वेऽपि मुक्तप्रतियोगिकभेदस्य बाधितत्वादंशे बाधित इत्यर्थः । सिद्धाविति ।। मुक्तस्य स्वव्यतिरिक्तसर्वजीवप्रतियोगिकभेदसिद्धावित्यर्थः । प्रकृतानुपयोगित्वेनेति ।। मुक्तेश्वरभेदस्य प्रकृतत्वादित्यर्थः । ननु संसारिभ्यो भेदसाधनान्न पूर्वोक्तदोष इत्यत आह - एतेनेति ।। अर्थान्तरत्वेनेत्यर्थः । अत एवेति ।। जडप्रतियोगिकभेदस्य प्रकृतानुपयोगित्वेनार्थान्तरत्वादेवेत्यर्थः । पूर्ववदिति ।। मुक्तस्यापि सकलमध्यप्रविष्टत्वादेवेत्यर्थः । अप्रसिद्धविशेषणत्वादिति ।। सर्वत्रापि स्वभिन्नप्रतियोगिकभेदस्यैव सत्त्वेन सकलप्रतियोगिक-भेदाधिकरणत्वासिद्धेरित्यर्थः ।
नन्वसति प्रसिद्धमिदं साध्यम् । न च तदपि सकलपदेन गृहीतमिति स्वेतरभेद एव तत्र स्यान्न सकलभेद इति वाच्यम् । सकलपदस्य वस्तुमात्रपरत्वादिति चेन्न । ‘सर्वं मिथ्येत्युक्ते ब्रह्मणि प्रमाणबाधः । शुक्तिरजतादौ सिद्धार्थता च स्यात्’ इत्याद्याचार्यवचनबलेनासतोऽपि सर्वपदपर्यायसकलपदसङ्ग्राह्यत्वात् । एवं च असन्न प्रतीयत इति मतेनेदमिति परिहारोऽत्र न मनोहर इति ध्येयम् । यद्वा सकलजीवप्रतियोगिको वा स्वव्यतिरिक्तसकलजीवप्रतियोगिको वेति विकल्प्याऽद्ये अंशे बाधः । द्वितीयेऽप्रसिद्धविशेषणतेति बोध्यम् । अत एव पूर्ववदित्युक्तम् ।
द्वैतद्युमणि
सकलजीवप्रतियोगिक इति ।। यावन्तो जीवास्तत्तद्व्यक्तिप्रतियोगिकभेदकूटमित्यर्थः । स्वव्यतिरिक्तेति ।। स्वभिन्नजीवत्वावच्छिन्नप्रतियोगिताकभेद इति वा स्वव्यतिरिक्तत्वेन परिचित-जीवव्यक्तीनां भेदकूटमिति वाऽर्थः । जीवत्वावच्छिन्नप्रतियोगिताकभेदपक्षः स्फुटं बाधितत्वान्नाऽ-शङ्कितः । अत एवोक्तकल्पद्वयोत्थानमपि । अंशे बाधादिति ।। साध्यीभूतकूटघटकस्वभेदांशे पक्षवृत्तित्वस्यैव बाधादित्यर्थः । अज्ञानस्याप्युक्तव्यासज्यवृत्तिधर्मावच्छिन्नसाध्यकानुमितौ विरोधितया तत्राप्रामाण्यग्रहसम्पादकतया च तस्य दोषत्वमिति भावः ।
श्रीराघवेन्द्रतीर्थ
एवं विमत इत्यादिपक्षदृष्टान्तनिर्देशाभिप्रायं व्यक्तीकृत्य भिन्न इति सामान्यतः साध्यनिर्देशाभिप्रायं व्यक्तीकरिष्यन् प्रतियोगिविशेषोपादानपक्षान् विकल्पपूर्वकं शङ्कित्वा निराह- नन्वित्यादिना मैवमिति पर्यन्तेन ।। अनैकान्त्यं व्यनक्ति- संसारेति ।। तत्र परमात्मनि । तद्ध्वंसस्य तत्राभावेऽपि ध्वंसात्यन्ताभावसाधारण्येन संसाराभावलक्षणस्येत्युक्तम् । परमात्मनि संसारो नेत्यस्य तत्संसर्गाभावविषयत्वात् । तत्संसर्गस्य तत्रालीकत्वात् । मुक्ते च बन्धस्य भूतत्वेन तत्संसर्गाभावस्य ध्वंसरूपत्वात् सम्बन्धाभावस्यैव संसाराभावत्वात् । भूतले घटोऽस्तीत्यत्र घटसम्बन्धसत्त्वमेव घटसत्त्वमिव तत्सम्बन्धाभावस्यैव तदभावरूपत्वात् संसाराभावलक्षणेत्युक्तिः युक्तेति ज्ञेयम् । अंशे बाधादिति ।। स्वभेदस्य स्वस्मिन्नभावादिति भावः । सिद्धौ चेति ।। १मुक्ते जीवभेदस्येति जीवेषु मुक्तव्यतिरिक्तस्येति२ वा योज्यम् । अन्त्यपक्षे अर्थात् तद्भेदस्य ३मुक्ते प्राप्तत्वादिति भावः । प्रकृतेति ।। मुक्तस्तु न केनापि नियत इत्यादिना मुक्तनियन्त्रीश्वरैक्यस्य शङ्कितत्वेन तद्भेदसाधनस्यैव प्रकृतत्वादिति भावः । एतेनेति ।। प्रकृतानुपयोगित्वेनेत्यर्थः । अत एवेति ।। प्रकृतानुपयोगा-देव । तृतीयः जडप्रतियोगिक इति पक्षः । सकलप्रतियोगिक इति चतुर्थश्च नेत्यर्थः । पूर्ववदित्येतदग्रेऽप्यन्वेति । मुक्तस्यापि जीवत्वेन सकलमध्यगतजीवभेदस्य तस्मिन्नभावात् स्वव्यतिरिक्तेत्युक्तौ पूर्ववदप्रसिद्धविशेषणतेत्यर्थः ।
गोविन्दीया
संसाराभावेति ।। संसारध्वंसलक्षणमुक्तत्वाभावेऽपि तदभावलक्षणमुक्तत्वस्य सत्त्वादित्यर्थः । मुक्तस्यापीति ।। यदि मुक्त आत्मनि मुक्तामुक्तप्रतियोगिको भेदः साध्यश्चेत् तर्हि तत्रामुक्तप्रतियोगिकभेदे विद्यमानेऽपि मुक्तप्रतियोगिकभेदरूपांशे प्रतियोगिधर्मिणा एकत्वेन बाधादित्यर्थः । सिद्धौ चेति ।। एतद्व्यतिरिक्तत्वसिद्धौ विशेषणसिद्ध्या विशिष्टसाध्यसिद्ध्या सिद्धसाधनत्वादित्यर्थः । जीवभेदेति ।। परमात्मभेदस्य प्रकृतोपयुक्तत्वाद् जीवभेदसाधन-स्यानुपयुक्तत्वेनार्थान्तरं नाम निग्रहस्थानमित्यर्थः । एतेनेति ।। जीवप्रतियोगिकभेदनिराकरणेन तद्वद्दूषणोद्भावनेनेत्यर्थः । अत एवेति ।। सिद्धसाधनत्वेनार्थान्तरत्वेन चेत्यर्थः । पूर्ववदिति ।। जीवप्रतियोगिकभेदपक्षवदित्यर्थः ।
जनार्दनभट्टीया
परमात्मनि कदापि संसाराभावेन संसारध्वंसलक्षणमुक्तत्वाभावात् नानैकान्त्यमित्यत आह– संसाराभावेति ।। अत्यन्ताभावमादाय तत्राऽपि संसाराभावलक्षणहेतुत्वादित्यर्थः । जीवभेदसाधनस्य प्रकृतानुपयोगित्वेनेति ।।१ जीवमात्रनिरूपितभेदमात्रसाधनस्येत्यर्थः ।२
एकजीवधर्मिकतदतिरिक्तसकलजीवप्रतियोगिकभेदस्य प्रकृतनियम्यनियामकभावानुपयुक्तत्वेने-त्यर्थः । जीवपरमात्मभेदस्यैव नियम्यनियामकभावोपयुक्तत्वादिति भावः । अत एवेति ।। अर्थान्तरत्वादेवेत्यर्थः । पूर्ववदंश इति ।। मुक्तस्यापि जीवत्वेन जीवभेदसाधने बाध इत्यर्थः ।
श्रीमज्जयतीर्थटीका
मैवम् । अविवक्षितप्रतियोगिविशेषभेदस्य साध्यत्वात् । न चैवमर्थान्तरता । मुक्तस्य भेदमात्रानङ्गीकारेणाऽक्षिपन्तं प्रति तत्साधनस्य सङ्गतत्वात् । ईश्वराद्भेदस्त्वागमादिना साध-यिष्यते । अथवा प्रागवस्थायां येन भेदेन विशिष्टः तेनैव मोक्षेऽपीत्ययमत्रार्थो विवक्षित इति न कश्चिद्दोषः ।
श्रीविजयीन्द्रभिक्षु
पर्वतो वह्निमानिति प्रसिद्धानुमाने पर्वतीयत्वाद्यौदासीन्येन३ वह्निमात्रसाधनवद् विमतो भिन्न इत्यनुमानेऽपि प्रतियोगिविशेषानालिङ्गितभेदमात्रं साध्यम् । अन्यथा तत्रापि पर्वतीय-वह्निसाधने सिद्धसाधनं अपर्वतीयवह्निसाधने बाध इति विकल्प्य दूषणोद्भावनप्रसङ्गादित्यभिप्रेत्य समाधत्ते- मैवमिति ।। पूर्वोक्तमर्थान्तरतादोषमाशङ्क्य निराकरोति- न चैवमिति ।। एवं प्रतियोगिविशेषानालिङ्गितभेदमात्रसाधने मुक्तत्वहेतोः पक्षधर्मताबलाद् भेदत्वेन जडादिभेदवद् अबाधितत्वाविशेषात् विनिगमनाविरहेणैव मुक्ते ईश्वरप्रतियोगिकभेदसिद्ध्यवैकल्येऽपि भेदान्तर-साधनप्रयुक्तार्थान्तरतादोषतादवस्थ्यमिति शङ्कार्थः । भेदमात्रानङ्गीकारेणेति ।। ‘न च मुक्तस्य कुतोऽपि भेदोऽस्ति प्रमाणाभावात्’ इति मुक्तस्य भेदमात्रानङ्गीकारेण मुक्तेश्वरयोः परस्परभेदाभावेन नियम्यनियामकभाव एव न सम्भवतीत्याक्षिपन्तं प्रति तदुपयुक्ततया भेदमात्रसाधनस्य प्रकृतसङ्गतत्वादित्यर्थः ।
नन्वेवं नियम्यनियामकभावप्रयोजकमुक्तेश्वरभेदासिद्धितादवस्थ्यमित्यत आह- ईश्वराद्भेद-स्त्विति ।। मुक्तस्येति शेषः । ईश्वरभेदत्वेनेश्वरभेदस्त्वित्यर्थः । प्रागवस्थायामिति ।। पूर्वकाल इत्यर्थः । पूर्वत्वादिकं काले अखण्डोपाधिरिति न काचिदनुपपत्तिरिति । मोक्षेऽपीत्यनन्तरं विशिष्ट इत्यनुषज्यते । अत्रेति ।। विमतो भिन्न इति प्रतिज्ञायामित्यर्थः । न कश्चिद्दोष इति ।। नन्वत्र भेदः किं परमात्मप्रतियोगिकः इत्यादिना विकल्प्य उद्भावितः सर्वोऽपि दोष इत्यर्थः । यद्यपि अथ वेति पक्षे विमतो भिन्न इत्यविशेषितप्रतियोगिकभेदसाधनपक्षतो नार्थकृतो विशेषोऽस्ति । तत्रेवात्रापि मुक्ते संसारिजडेश्वरभेदसिद्ध्यवैकल्यात् जडादिभेदसाधनप्रयुक्तार्थान्तरत्वशङ्का-तत्परिहारयोरप्यविशेषाच्च तथाऽपि ‘प्रागवस्थायां मुक्तो येन भेदेन विशिष्टस्तेनैव मोक्षेऽपि विशिष्टः’ इति प्रतिज्ञावाक्यार्थस्य विवक्षितत्वात् तस्याञ्च बुद्धिस्थप्रकारावच्छिन्नवाचिसर्वनाम-समभिव्याहारमहिम्ना प्रतियोगिविशेषालिङ्गिततत्तद्भेदत्वरूपविशेषाकारेण भेदोपस्थितिरत्र पक्षेऽस्तीति पूर्वस्मादस्य पक्षस्य भेद इति द्रष्टव्यम् ।
श्रीवेदेशतीर्थ
अविवक्षितप्रतियोगिविशेषेति ।। अत एव विमतो भिन्न इति सामान्योक्तिः । अन्यथाऽस्माद्भिन्न इति विशेषनिर्देशः स्यादिति भावः । अस्मिन् पक्षे परमात्मा सपक्ष एव । तत्र परस्य व्यावहारिकभेदाङ्गीकारेण साध्यसम्प्रतिपत्तेरिति ज्ञेयम् । न चैवं तर्हि ‘ईश्वरस्याज्ञाना-भावात्संसारिणैक्यं तेनानुभूयेत’ इत्यादिविपक्षबाधकतर्कोक्त्ययोग इति वाच्यम् । अस्मिन् पक्षे ‘मुक्तामुक्तयोर्भेदाभावे मुक्तस्य संसारः संसारिणो वा मुक्तत्वं स्यात्’ इत्युक्तस्यैव विपक्षबाधकस्य ग्रहणादिति । ननु मुक्तस्य परमात्मप्रतियोगिक एव भेदः साध्यः । तस्यैव विप्रतिपत्तिविषयत्वात् । तत्र विमतो भिन्नः इत्यविवक्षितप्रतियोगिविशेषभेदसाधनेऽर्थान्तरता स्यात् । विनिगमनाविरहेण मुक्तेश्वरभेदसिद्धावपि भेदान्तरस्याप्यनुपयुक्तस्य सिद्धेरित्याशङ्क्य निषेधति- न चैवमर्थान्तर-तेति ।। मुक्तस्य भेदमात्रानङ्गीकारेणेति ।। अत एवाक्षेपावसरे ‘न च मुक्तस्य कुतोऽपि भेदोऽस्ति’ इत्युक्तमिति भावः । नन्वनेनानुमानेन मुक्तस्य यस्मात्कस्माच्चिद्भेदमात्रं सिद्धम् । न तु परमात्म-प्रतियोगिक इत्यत आह- ईश्वरादिति ।। मुक्तस्येति शेषः । ईश्वरभेदत्वेनेश्वरभेदस्त्वित्यर्थः । ईश्वराद्भेदोऽप्यनुमानेनैव साध्य इति निर्बन्धे त्वाह- अथवेति ।। प्रागवस्थायां विद्यमानो भेद ईश्वर-प्रतियोगिकोऽपि भवतीति तस्य मोक्षपर्यवसायित्वसाधने मुक्तस्येश्वराद् भिन्नत्वमपि सिद्ध्यतीति भावः । यद्यप्यथवेति पक्षे अविशेषितप्रतियोगिकभेदसाधनपक्षतो नार्थकृतो विशेषोऽस्ति । तत्रेवात्रापि मुक्ते संसारिजडेश्वरभेदसिद्ध्यवैकल्यात् । तथाऽपि सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्न-वाचितया प्रतियोगिविशेषालिङ्गिततत्तद्भेदत्वरूपविशेषाकारेण भेदोपस्थितिरत्रेति पूर्वस्माद्भेद इति द्रष्टव्यम् ।
द्वैतद्युमणि
नन्वेतदनुमानेन मुक्तेश्वररयोः भेदासिद्ध्येश्वरे मुक्तनियामकत्वसिद्धौ साक्षादनुपयोगितया प्रथमतस्तदुपन्यासोऽनुचितः । परम्परया कथञ्चिदुपयोगमात्रेण तदुपन्यासे जगत्सत्यत्वादिसाधनमपि प्रथमतः कुतो न कृतमित्यरुचेराह- अथ वेति ।।
साध्यं च स्ववृत्त्यावरण (आवरणत्वं नाम चित्स्वरूपग्रहविरोधित्वं स्ववृत्तित्वस्वग्रह-विरोधित्वोभयसम्बन्धेन चिद्विशिष्टत्वपर्यवसितम्) संसर्गाभावाधिकरणताश्रयक्षणपूर्वकालसम्बन्धि-स्ववृत्तिभेदकूटवत्त्वं पर्यवसितम् । अत्र स्वपदेन संसारान्मुक्तग्रहणेस्ववृत्तिर्याऽऽवरणसंसार्गा-भावाधिकरणता ध्वंसाधिकरणतैव । तदधिकरणक्षणो मुक्तिक्षण एव । मुक्तनिष्ठाधिकाणतायाः क्षणरूपकाले सत्त्वात् । तत्पूर्वकालसम्बन्धिनो ये तन्मुक्तत्वाश्रयनिष्ठा भेदा अनादिकालतो विद्यमाना बहव एव । तत्कूटवत्त्वं तत्र मुक्तत्वविशिष्टेऽनेनानुमानेन सिद्धं चेत् प्रागवस्थायां तत्र विद्यमानानां ईश्वरजीवान्तरजडादिप्रतियोगिकानां सर्वेषां भेदानां मुक्त्यवस्थायां सिद्ध्या उक्तानुमानेनेश्वरभेदासिद्ध्या प्रथममेतदनुमानोपन्यासायोगदोषः, एवं इदानीन्तनबद्धपुरुषकल्पित-प्रातिभासिकभेदोपादानेनार्थान्तरादिदोषश्च नात्र कल्पे पदमादधाति ।
श्रीराघवेन्द्रतीर्थ
ननु प्रकृत ईश्वराद्भेदो न सिद्ध इत्यत आह- ईश्वरादिति ।। आगमादिनेति । ‘तान्यहं वेद सर्वाणि’१ इत्यादिवक्ष्यमाणागमेन ‘तत एवाभ्रान्तत्वान्न मुक्तस्यापि भेदनिवृत्तिः’ इति वाक्येन वक्ष्यमाणानुमानान्तरभेदप्रत्यक्षाभ्यां२ चेत्यर्थः । ईश्वरभेदस्याप्यनेनैव लाभायाऽह- अथ वेति ।। प्राक्तनभेदः परमते मायाद्युपाधिकृतोऽपि सर्वोपाधिविलयरूपमुक्तौ तस्य भेदस्य सद्भावसाधने पारमार्थिक एव स भविष्यति । मूलकृताऽप्यग्रे प्राचीनभेदस्यैव मुक्तावनिवृत्तिसाधनादिति भावः ।
(श्री.टि.)येन भेदेन यत्प्रतियोगिकभेदेन विशिष्टः । अभूदिति शेषः । तेनैव तत्प्रतियोगिकभेदेनैव ।
जनार्दनभट्टीया
नन्वेवमपि प्रकृतनियम्यनियामकभावोपयुक्तभेदसिद्धिः न स्यादित्यत आह– ईश्वरा-दिति ।। अनेनैवानुमानेन यथा जीवपरमात्मभेदसिद्धिः तथा उपायान्तरमाह–अथवेति ।। प्रागिति ।। मुक्तेरिति शेषः । इति न कश्चिद्दोष इति ।। संसारदशायां ईश्वरप्रतियोगिकभेदस्य जीवे परैरप्यङ्गीकृतत्वेन मुक्तस्य तद्वैशिष्ट्यसिद्धौ तस्य नियम्यनियामकभावोपयुक्तत्वेन अर्थान्तरादिः कश्चिददोष इत्यर्थः ।