जडत्वं चाप्रमातृत्वमेव ..
अप्रमातृत्वस्य जडत्वे आत्मनि व्यभिचारोपपादनम्
श्रीमज्जयतीर्थटीका
अथ जडत्वस्यापि हेतोरनैकान्तिकतां विवक्षुराह-
मूल
जडत्वं चाप्रमातृत्वमेव ।
चशब्दो यस्मादित्यर्थे । चेत्यता जडत्वमित्यङ्गीकारे दृश्यत्वजडत्वयोर्भेदो न स्यात् । किमत इत्यत आह-
मूल
न च प्रमातृत्वमात्मनस्तैरङ्गीक्रियते ।
अत्रापि चशब्दो हेत्वर्थः । तैरिति प्रपञ्चमिथ्यात्ववादिभिः । प्रमातृत्वस्य प्रमाणप्रमेयसिद्धि-साहित्यनियतत्वात्तदङ्गीकारे तयोरप्यङ्गीकारप्रसङ्गान्नाऽत्मनः प्रमातृत्वं परैरङ्गीक्रियते । ततोऽपि किमित्यत आह-
मूल
अतस्तदप्यनैकान्तिकम् ।
यस्मात्प्रमातृत्वाभाव एव जडत्वं यतश्चाऽत्मनः प्रमातृत्वं परेण नाङ्गीक्रियते अतो दृश्यत्व-वज्जडत्वमप्यात्मनि विपक्षे वर्तमानमनैकान्तिकं भवति ।
इयांस्तु विशेषः । यद्दृश्यत्वं वादिप्रतिवादिनोरनैकान्तिकम् । आत्मनो दृश्यत्वस्य परं प्रत्युप-पादितत्वात् । जडत्वं पुनर्मायावादिन एव । तत्त्ववादिना आत्मनः प्रमातृत्वस्याङ्गीकारात् । अत एव तैरित्युक्तम् ।
ननु पारमार्थिकमेव प्रमातृत्वमात्मनो मया नाङ्गीक्रियते । तस्यैवाद्वैतप्रतिपक्षत्वात् । मिथ्याभूतं तूपादीयत एव । अन्यथा संसारानिरूपणात् । तत्कथमात्मनि जडत्वमनैकान्तिकमित्यत आह-
मूल
मिथ्याप्रमातृत्वञ्चानिर्वचनीयनिरासादेव निरस्तम् ।
मिथ्येति तावदनिर्वचनीयं वक्तुं न शक्यते । तस्याप्रामाणिकत्वादिना निरस्तत्वात् । ततो मिथ्येत्यसत्त्वे वक्तव्ये मिथ्याप्रमातृत्वमिति आत्मनो नास्ति प्रमातृत्वमित्युक्तं स्यात् । ततश्चानैकान्त्यतादवस्थ्यम् । आत्मनि प्रमातृत्वारोपस्तावन्मयाऽङ्गीक्रियत एवेति चेत् । एवं तर्हि साङ्ख्यचार्वाकादीनामन्तःकरणादावसावस्तीति भागासिद्धिः । आरोपितेन हेत्वभावेना-नैकान्त्यपरिहारेऽतिप्रसङ्गश्च ।
श्रीविजयीन्द्रभिक्षु
मिथ्यात्वहेतुदूषणे प्रवृत्तस्य परोक्तहेतुनिर्वचनमयुक्तमित्याशङ्क्यावतारयति- अथेति ।। पूर्वमन्यस्याप्रमातृत्वेनानिरुक्तेः जडत्वञ्चेति समुच्चयार्थकचशब्दानुपपत्तिमाशङ्क्याऽह- चशब्द इति ।। एवकारव्यवच्छेद्यं दर्शयति- चेत्यतेति ।। दृश्यत्वञ्च दूषितमिति भावः । कुतो नाङ्गीक्रियत इति हेत्वाकाङ्क्षां पूरयन् व्याचष्टे- अत्रापीत्यादिना ।। पूर्ववाक्यद्वयगतचशब्दार्थसम्बन्धं सूचयन् व्याचष्टे- यस्मादिति ।। निरासप्रकारमुपपादयति- मिथ्येति ।। आत्मनीति ।। यद्यप्यारोपितासत्त्व-व्यवस्थापनादयमपि पक्षो मिथ्यात्वपक्षदूषणेनैव निरस्तस्तथाऽपि दूषणान्तराभिधानाय पुनः शङ्केति ध्येयम् । साङ्ख्येति ।। इदमुपलक्षणम् । परस्यापि मते शरीरादौ भागासिद्धिः । ‘गौरोऽहं न जानामि’ इति प्रतीत्या तत्राऽरोपितप्रमातृत्वसत्त्वादिति द्रष्टव्यम् । न च धर्मिसमसत्त्वस्य प्रमातृत्वस्याभावो हेतुरिति न देहादौ १भागासिद्धिरिति वाच्यम् । तथा सति तव मते भागासिद्धिः । अतिप्रसङ्ग-श्चेति ।। वह्नौ साध्ये धूलीपटलादेरपि हेतुत्वप्रसङ्गश्चेत्यर्थः ।
श्रीवेदेशतीर्थ
मिथ्यात्वहेतुदूषणे प्रवृत्तस्य परोक्तहेतुनिर्वचनमयुक्तमित्याशङ्क्यावतारयति- अथेति ।। पूर्वमन्यस्याप्रमातृत्वेनानिरुक्तेर्जडत्वं चेति समुच्चयार्थकचशब्दानुपपत्तिमाशङ्क्याऽह- चशब्द इति ।। एवकारव्यवच्छेद्यं दर्शयति- चेत्यतेति ।। दृश्यत्वञ्च दूषितमिति भावः । पूर्ववाक्यद्वयगतचशब्दार्थ-सम्बन्धं सूचयन् व्याचष्टे- यस्मादिति ।। ननु मायावादिना दृश्यत्वहेतोरनैकान्तिकतानङ्गीकारात्कथं वादि-प्रतिवादिनोरित्युक्तमित्यत आह- आत्मनो दृश्यत्वस्य परं प्रत्युपपादितत्वादिति ।। तस्यैवेति ।। पारमार्थिकप्रमातृत्वाङ्गीकारे तन्निर्वाहाय पारमार्थिकप्रमाणप्रमेययोरप्यङ्गीकारप्रसङ्ग इत्यर्थः । साङ्ख्यचार्वाकादीनामिति ।। अस्मन्मतेऽन्तःकरणादावात्मत्वाऽरोपो नास्त्येव ।
जातमात्रा मृगा गावः पक्षिणो हस्तिनो झषाः ।
भयाभयस्वभोगादौ कारणानि विजानते ।१
इत्याद्यनुव्याख्याने तस्य निराकृतत्वादिति भावेनैवमुक्तम् । साङ्ख्य-चार्वाकादीनामपि सत्यत्व-वादित्वेन तान् प्रत्यपि मायावादिनाऽनुमानस्य प्रयोक्तव्यत्वादिति भावः । यद्यारोपितप्रमातृत्व-मात्मन्यस्तीत्यप्रमातृत्वहेतोर्न व्यभिचारः तर्ह्यारोपितप्रमेयत्वाद्यभावस्यापि ह्रदादौ सत्त्वेनाग्निमत्त्वे साध्ये प्रमेयत्वादेरपि व्यभिचारो न स्यादित्याह- आरोपितेति ।।
द्वैतद्युमणि
संसारेति ।। सदसद्विषयप्रमाभ्यां रागद्वेषाधीनसदसत्प्रवृत्ति१तदधीनपुण्यपापादिमूलकत्वात् संसारप्रवाहस्य तदभावे तस्यासत्वप्रसङ्गात् इत्यर्थः । तत्कथमिति ।। प्रतियोगिव्यधिकरण-प्रमातृत्वाभावस्यैव हेतुत्वानुसरणादिति भावः ।
श्रीराघवेन्द्रतीर्थ
तदङ्गीकार इति ।। आत्मनः प्रमातृत्वाङ्गीकार इत्यर्थः । चशब्दो हेत्वर्थ इत्युक्तं व्यनक्ति- यस्मादिति ।। औतेति । प्रमाणप्रमेययोरङ्गीकारप्रसङ्गेनेति योज्यम् । अन्यथेति । मिथ्याप्रमातृत्व-स्याप्यभावेन तन्निबन्धनसुखदुःखादिभोगरूपसंसाराभावापातादित्यर्थः । भागासिद्धिरिति ।। तदभावरूपजडत्वहेतोरभावाद् देहेन्द्रियान्तःकरणेषु भागासिद्धिरित्यर्थः । आरोपितेनेति ।। अप्रमातृत्वं हि हेतुः । तदभावः प्रमातृत्वम् । स चाऽत्मन्यारोपितोऽस्तीत्यारोपितो हेत्वभावस्तत्र विपक्षेऽस्तीति नानैकान्त्यमित्युक्तौ पर्वतोऽग्निमान् प्रमेयत्वादित्यत्र ह्रदे प्रमेयत्वाभाव आरोपितोऽस्तीति सोऽपि सद्धेतुः स्यादित्यर्थः । अङ्गीक्रियत एवेति ।। प्रातिभासिकमङ्गीक्रियत एव न सत्यमिति ।
गुरुराजीया
चेत्यत्वं जडत्वमिति तन्निर्वचनान्तरस्यापि सम्भवात्कथमप्रमातृत्वमेवेत्यवधारणमित्य-तस्तद्ग्रहणे बाधकस्य सत्त्वाद्युक्तमवधारणमिति भावेन तद्ग्रहणे बाधकमाह- चेत्यतेति ।। तथा च दृश्यत्वग्रहणेनैव प्राप्त्या पृथक् परकीयतदुक्त्ययोगादिति भावः । पूर्ववाक्यद्वयगतं हेत्वर्थ-चशब्दद्वयसम्बन्धं दर्शयन्नेव वाक्यं व्याचष्टे- यस्मादिति ।। ननु मायावादिनाऽऽत्मनो दृश्यत्वा-नङ्गीकारात् कथं दृश्यत्वहेतोरनैकान्त्यमिति विशेषकथनमित्यत आह- आत्मन इति ।। अङ्गी-कारानङ्गीकारयोः साधकबाधककथनेनेति शेषः । तस्यैवेति ।। पारमार्थिकप्रमातृत्वस्यैवेत्यर्थः । पारमार्थिकप्रमातृत्वस्य प्रमाणप्रमेयसिद्धिसाहित्यनियतत्वेन तदङ्गीकारे तयोरप्यङ्गीकारप्रसङ्गेना-द्वैतपक्षभङ्गप्रसङ्गादिति भावः । संसारेति ।। कर्तृत्वभोक्तृत्वप्रमातृत्वाध्यासप्रवाहस्यैव संसारत्वेन तदतिरिक्तसंसाराभावादित्यर्थः । अप्रामाणिकत्वादीत्यादिशब्देन बाधकपरिग्रहः । आरोपित-प्रमातृत्वाभावस्यैव हेतुत्वेन मयाऽङ्गीकृतत्वादात्मनि चाऽरोपितप्रमातृत्वस्यैव च सत्त्वेन नानैकान्त्यमिति शङ्कते- आत्मनीति ।। एवं तर्हि मास्त्वनैकान्त्यम् । भागासिद्ध्या हेतोराभासत्वं दुर्वारमेवेत्याह- एवं तर्हीति ।। अङ्गीकृत्य चैतदुक्तम् । वस्तुतस्तु नानैकान्त्यपरिहारोऽपि । तथा सति यत्रानैकान्त्यमायाति तत्र सर्वत्र आरोपितहेत्वभावेन तत्परिहारापत्त्या तद्दूषणत्ववार्ताया उच्छेदप्रसक्तेरित्याह- आरोपितेनेति ।।
गोविन्दीया
चेत्यतेति ।। चेत्यत इदमिति चेत्यम्, तस्य भावः तत्तेत्यर्थः । प्रमातृत्वस्येति ।। प्रमातृत्वस्य धर्मस्य प्रमाणप्रमेययोः सिद्धिः ज्ञानम्, तत्साहित्येन नियमेन स्थितत्वात् तदङ्गीकारे प्रमातृत्वाङ्गीकारे प्रमाणप्रमेययोरङ्गीकारप्रसङ्गात् तयोः मिथ्यात्वत्यागभिया नाऽत्मनः प्रमातृत्वं परैरङ्गीक्रियत इत्यर्थः । इयानिति ।। उभयरीत्या दृश्यत्वमनैकान्तिकम्, जडत्वं तु मायावादि-रीत्यैवेत्यर्थः । तस्यैवेति ।। पारमार्थिकप्रमातृत्वस्यैव औतवादिनो विरुद्धत्वात् मिथ्याभूतमङ्गी-क्रियत इत्यर्थः । अन्यथेति ।। मिथ्याप्रमातृत्वानङ्गीकारे संसारानिरूपणप्रसङ्गाद् अवश्यमङ्गी-कार्यमित्यर्थः । तस्येति ।। अनिर्वचनीयस्य अप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च निरस्तत्वादि-त्यर्थः । एवं तर्हीति ।। साङ्ख्यचार्वाकादीनाम् अन्तःकरणादौ जगदन्तःपातिनि असौ प्रमातृत्वा-रोपोऽस्तीति अप्रमातृत्वरूपहेतोरभावेन भागासिद्धिरित्यर्थः । आरोपितेनेति ।। अतिप्रसङ्गः सर्वत्र अनैकान्तिकानुमाने आरोपितहेत्वभावमादाय अनैकान्त्यपरिहारेण समीचीनत्वं वक्तुं शक्यमित्यर्थः ।
जनार्दनभट्टीया
‘अप्रमातृत्वमेव’ इति एवकारव्यावर्त्यं दर्शयति – चेत्यतेति ।। ‘तैः’ इत्यस्य स्पष्टार्थत्वेऽपि ‘नाङ्गीक्रियते’ इति मूलोक्तानङ्गीकारस्फुटीकरणार्थमाह – प्रपञ्चेति ।। अनङ्गीकारहेतुमेव स्पष्टयति– प्रमातृत्वस्येति ।।
ननु ‘आत्मनोऽपि दृश्यत्वात्’ इति वाक्य एव आत्मनोऽपि दृश्यत्वात् जडत्वात् च अनैकान्तिकौ इति सङ्गृहीतुं शक्यत्वेन ‘अतस्तदपि’ इति योगविभागानुपपत्तिः इत्यत आह – इयानिति ।। एवञ्च अर्थापत्त्युपमे अनुमानविशेषः । ‘सम्भवपरिशेषावनुमा’ इत्यादाविव अत्रापि विशेषसूचनार्थं योगविभाग इति भावः । अन्यथेति ।। मिथ्याप्रमातृत्वस्यापि अनङ्गीकार इत्यर्थः । संसारेति ।। सुखदुःखादि-प्रमातृत्वस्य तत्समनियतधर्मस्य वा संसारत्वादिति भावः । आरोपस्तावदिति ।। आरोप एव प्रमातृत्वं तदभावरूपजडत्वाभावात् न आत्मनि अनैकान्तिकता इति भावः । असाविति ।। प्रमातृत्वारोप इत्यर्थः । आरोपितेनेति ।। आरोपितेन हेत्वभावेन अनैकान्त्योद्धारे ‘वह्निमान् द्रव्यत्वात्’ इत्यत्र विपक्षे ह्रदे आरोपितद्रव्यत्वाभावस्य सत्वात् अनैकान्त्यपरिहारस्य सम्भवेन सद्धेतुत्वप्रसङ्गलक्षण अतिप्रसङ्ग इत्यर्थः ।