सदिति प्रतीयमानत्वात् ..

विश्वमिथ्यात्वादिसाधकानुमानागमयोः प्रत्यक्षबाध्यत्वसमर्थनम्

सदिति प्रतीयमानत्वात्

श्रीमज्जयतीर्थटीका

तथापि बाध्यत्वं कुत इति चेत् । इत्थम् । स्तम्भादिकं हि प्रत्यक्षसिद्धमाश्रित्यानुमानं प्रवर्तते । अन्यथाऽश्रयहीनताप्रसङ्गात् । तथा चोपजीव्यत्वेन बलवत्प्रत्यक्षं कथमुपजीवकत्वेन दुर्बलमनुमानं सति विरोधे न बाधेत । एतेन ‘वाचारम्भणम्’२, ‘नान्योऽतोऽस्ति द्रष्टा’३ इत्यादिश्रुतयोऽपि निरस्ताः । तासामपि हि विषयसमर्पकत्वेन प्रत्यक्षमुपजीव्यमिति ।

श्रीविजयीन्द्रभिक्षु

तथाऽपीति ।। उक्तरीत्या विरोधिविषयत्वेऽपि अधिकबलवत्त्वे प्रमाणाभावाद्वैपरीत्या-पत्तेश्चेति भावः । अनुमानापेक्षितपक्षादिग्राहकत्वेनोपजीव्यत्वेन प्राबल्यात्प्रत्यक्षस्य बाधकत्व-मुपपद्यत इति परिहरति- इत्थमिति ।। उपजीव्यत्वेनेति ।। साक्षात् परम्परया वा यदुत्थानं विना यदुत्थानं न सम्भवति तत्तस्योपजीव्यमिति भावः । विषयसमर्पकत्वेनेति ।। निषेध्यसमर्पकत्वेने-त्यर्थः । इदमुपलक्षणम् । स्वरूपग्राहित्वस्य जन्यज्ञानप्रामाण्यग्राहित्वादित्यपि द्रष्टव्यम् ।

श्रीवेदेशतीर्थ

परमतानुवादावसरे जगन्मिथ्यात्वे भेदमिथ्यात्वे चोदाहृताः श्रुतयोऽपि न परेष्टसाधनक्षमाः इत्याह- एतेनेति ।। विषयसमर्पकत्वेनेति ।। धर्मिग्राहकत्वेनेत्यर्थः । प्रत्यक्षसिद्धविकारादिकमनूद्य तस्य वागालम्बनमात्रत्वादिविधानादिति भावः ।

द्वैतद्युमणि

तथापीति ।। प्रत्यक्षविरोधसद्भावेऽपीत्यर्थः । बाध्यत्वं तद्विरोधेन स्वार्थावगाहिप्रमानु-मित्यजनकत्वम् । बाधकत्वमिति पाठे प्रत्यक्षस्येति शेषः । प्रमाजननशक्तिविघटकत्वमित्यर्थः । कुत इति प्रश्ने, प्रबलप्रमाणस्यैव बाधकत्वात् प्रमाणत्वसामान्येन प्रत्यक्षप्राबल्ये बीजाभावादिति भावः ।

श्रीराघवेन्द्रतीर्थ

बाध्यत्वं कुत इतीति ।। विरोधितयोक्तप्रत्यक्षस्य प्राबल्यानिरूपणादिति भावः । अनु-मानमिति ।। मिथ्यात्वसाधकानुमानमित्यर्थः। उपजीव्यत्वेनेति ।। धर्मिग्राहकतयेति योज्यम् । ‘वाचारम्भणं विकारो नामधेयम्’ (छां. ६.४.१) इति श्रुत्या प्रत्यक्षेण गृहीतं विकारशब्दितं घटादिकमनूद्य ‘यो विकारःस वाचारम्भणं वागालम्बनमात्रं मिथ्या इति यावत्’ इत्यर्थवर्णनात् ‘द्रष्टा जीवः अतो ब्रह्मण अन्यो नास्ति’ इत्यर्थकथनात् द्रष्ट्रादेश्च भेदेन सत्त्वेन च ग्रहणादुप-जीव्यत्वाच्च तद्बाधितत्वेन निरस्ता इत्यर्थः । कथमुपजीव्यतेत्यत आह- तासामपीति ।। विषयेति ।। अनुवाद्येत्यर्थः ।

गुरुराजीया

अन्यथेति ।। प्रत्यक्षसिद्धस्तम्भाद्यनाश्रयणे आश्रयहीनताप्रसङ्गादिति न्यायमतमाश्रि-त्योक्तम् । स्वमते तददूषणत्वस्य -

आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम् । अतिप्रसङ्गाभावात् ।’

आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ।

केषाञ्चिन्न च ते दोषाः.............।’

इत्यादिना, प्रमाणलक्षणादावाचार्यैस्तददूषणत्वस्य समर्थितत्वादिति ध्येयम् । विषयसमर्पकत्वे-नेति ।। धर्मिग्राहकत्वेनेत्यर्थः । प्रत्यक्षसिद्धं विकारादिकमनूद्य तस्य वागालम्बनतादेर्विधातव्यत्वा-दिति भावः ।

गोविन्दीया

अन्यथेति ।। अनुमानस्याश्रयानङ्गीकार इत्यर्थः । सतीति ।। सति विरोधे कथं न बाधेतेत्यर्थः । एतेनेति ।। उपजीव्यतया प्रबलप्रत्यक्षेणोपजीवकत्वेन दुर्बलस्यानुमानस्य निराकरणेनोपजीव्यत्वेन प्रबलप्रत्यक्षसिद्धं जगद्धर्मिणमाश्रित्य तस्य मिथ्यात्वं द्रष्टृत्वाभावं वदन्त्यः वाचारम्भणम्’ ‘नान्यतोऽस्ति’ इत्यादिश्रुतयोऽपि उपजीवकत्वेन दुर्बलत्वान्निरस्ता इत्यर्थः । तासामपीति ।। तासामपि श्रुतीनां धर्मिसमर्पकत्वेन प्रत्यक्षमुपजीव्यमित्यर्थः ।

जनार्दनभट्टीया

तथाऽपीति ।। प्रत्यक्षविरोधमात्रसद्भावेऽपि इत्यर्थः । १बाध्यत्वं कुतः? इति ।। प्रत्यक्षस्य मिथ्यात्वबाधकत्वमित्यर्थः । अनुमानमिति ।। मिथ्यात्वानुमानमित्यर्थः । आश्रयहीनतेति ।। आश्रयहीनताया मायावादिमते दोषत्वादिति भावः । घटग्राहकप्रत्यक्षस्य वह्न्यनुमानबाधकत्ववारणाय आह – सति विरोध इति ।। ‘एतेन’ इति एतच्छब्दाभिप्रेतमर्थमाह – विषयसमर्पकत्वेनेति ।। धर्मिग्राहकत्वेनेत्यर्थः । उपजीव्यमितीति ।। अत्र ‘इति’शब्दो हेत्वर्थः । उपजीव्यत्वादित्यर्थः ।

अयं भावः – ‘वाचारम्भणम्’ इति श्रुतेः न भवदुक्तरीत्या घटादिविकारमिथ्यात्वमर्थः । विकारत्वग्राहक-प्रत्यक्षबाधितत्वात् किन्तु वक्ष्यमाणरीत्या प्राकृतनाम्नां विविधप्रकारत्वं संस्कृतमृत्तिकादिनाम्नां नित्यत्वं धार्यत्वं चेत्यर्थः । ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतेरपि ‘अतः= परमात्मनो, अन्यः = सदृशः नास्ति’ इति ।