अनिर्वचनीयासिद्धेश्च ...
अनिर्वचनीयत्वस्य मिथ्यात्वे भेदनिराकरणोपपत्तिशङ्का तन्निरासश्च
श्रीमज्जयतीर्थटीका
सदसद्विलक्षणत्वं मिथ्याभूतमङ्गीक्रियते । भेदस्तु पारमार्थिक एव निराक्रियते । तत्कथं भेदाङ्गीकारनिराकरणयोर्विरोधः । न हि मिथ्याभूतं चन्द्रभेदमङ्गीकृत्य पारमार्थिकतन्निरासे विरोधो भवतीत्यत आह-
मूल
अनिर्वचनीयासिद्धेश्च सद्विलक्षणत्वमसद्विलक्षणत्वं च
मिथ्येत्यविलक्षणत्वमेव सत्यं स्यात् ।
यदि विरोधपरिहाराय जगतः सद्विलक्षणत्वमसद्विलक्षणत्वं च मिथ्येत्यङ्गीक्रियते तदा अनिर्वचनीयस्योक्तरीत्या प्रमाणाभावेनासिद्धेर्मिथ्याशब्दस्य तदर्थत्वानुपपत्तौ असदर्थत्वे चाङ्गीकार्ये जगतः सदसदात्मकत्वं सत्यं प्रसज्यते । स्तम्भे स्तम्भवैलक्षण्यस्यासत्त्वे स्तम्भात्मकत्वस्य सत्यत्ववदिति ।
श्रीवेदेशतीर्थ
तत्कथमिति ।। समानसत्ताकयोरेव भावाभावयोर्विरोधादिति भावः ।
द्वैतद्युमणि
ननु ‘साधकप्रमाणाभावेन अनिर्वचनीयं निराकृत्य बाधकेनापि निराचष्टे’ इत्युपक्रान्तम् । इदानीं तु अविर्वचनीये प्रमाणाभावमभिधायासत्त्वपक्ष एवेदं दूषणमभिहितम् । तथा च कथं न पूर्वोत्तरविरोध इति चेन्न ।
यतोऽत्रानिर्वचनीयाङ्गीकारे स्वव्याहतत्वादिरूपबाधकप्रदर्शनार्थमयं ग्रन्थः प्रवृत्तः । तत्राङ्गी-कारनिराकरणयोर्व्याहतिपरिहाराय पारमार्थिकभेदनिराकरणं मया क्रियत इत्युक्ते तत्रानेन ग्रन्थेनेद-मुच्यते ‘लोके सत्त्वासत्त्वौदासीन्येन प्रतीतिर्नास्तीति स्थितिः । तत्र ‘इदं सद्विलक्षणम्’ इत्यादिवाक्यं सद्विलक्षणत्वं पारमार्थिकत्वेनैव बोधयति । तन्निषेधवाक्यमपि सत्त्वनिषेधरूपमसत्त्वं भेदे सत्त्वेनैव बोधयतीत्येकत्र विरुद्धे सत्त्वासत्त्वे बोधयतोर्वाक्ययोर्व्याहतिः१ । एवं सद्विलक्षणत्वं जगत्यसत्त्वरूपम् । तदभावेऽभिहिते तदेव सत्त्वमित्येवं जगतः सत्त्वासत्त्वोभयप्राप्त्या व्याहतिः । वचनविरोधस्य विषयविरोधमूलत्वात्’ इत्यभिहिते तत्र ‘जगति निषिद्ध्यमानोऽपि भेदः सत्त्वाभाववानपि नासत्त्ववान् । जगति तद्भेदसत्त्वेऽपि न तन्निराकरणेन पुनः सत्त्वम् । अतो न व्याहतिः । अनिर्वचनीयस्य तृतीयप्रकारस्याङ्गीकारात्’ इत्याशयेन शङ्कितम् । तन्न घटते । तत्र प्रमाणाभावेन तेन रूपेण भेदादिजगतां बुद्धावनारोहेणोक्तवाक्याभ्यामुपपादितरीत्या विरुद्धधर्म-वत्त्वेनैव प्रतीयमानत्वाद् व्याहतिर्दुवारैवेति । तथा च कथं पूर्वोत्तरविरोधः ।
श्रीराघवेन्द्रतीर्थ
चशब्दसमुच्चेयमाह - मिथ्याशब्दस्येत्यादि ।।
२सदसदात्मकत्वमिति । सद्वैलक्षण्यस्य मिथ्यात्वे असत्त्वस्यासद्वैलक्षण्यस्य मिथ्यात्वे सत्त्वस्यैव प्राप्त्या सदसदात्मकत्वं सत्यं प्रसज्येतेत्यर्थः । अविलक्षणत्वं सत्यमित्यस्यार्थः ।
गुरुराजीया
तत्कथमिति ।। समानसत्ताकयोरेव भावाभावयोर्विरोधादिति भावः ।
गोविन्दीया
सदिति ।। सदसद्विलक्षणत्वं सदसद्भ्यां भेदः मिथ्याभूतोऽङ्गीक्रियत इत्यर्थः ।
नारोपन्तीया
सदसदात्मकत्वं सत्यमिति । अनेन विलक्षणत्वमिति मूलं पूर्वप्रकृतसदसद्विलक्षणत्वा-भावपरमिति व्याख्यातं वेदितव्यम् ।
जनार्दनभट्टीया
उत्तरवाक्यमवतारयति – सदसद्विलक्षणत्वं मिथ्याभूतम् इत्यादिना ।। ‘अविलक्षणत्वमेव स्यात्’ इति मूले आपादकाप्रतीतेः योजयति – यदि विरोधेत्यादिना ।।