पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे..
नासदासीदित्यागमस्य परिशेषतया सदसद्वैलक्षण्यपरत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
माभूदिदं वाक्यमनिर्वचनीयाविद्यायामागमतया प्रमाणम् । परिशेषतया तु भविष्यति । तथा हि । तम आसीदिति महाप्रलये तमसोऽविद्यापरपर्यायस्यावस्थानमभिहितम् । तस्य च प्रसक्तानां सत्त्वादिप्रकाराणां नासदासीदित्यादिना सदसदभावाभिधानेन प्रतिषेधे सत्यन्यत्रा-प्रसङ्गात्परिशिष्यमाणे तमसोऽनिर्वचनीयत्वे बुद्धिर्भविष्यतीत्याशङ्क्यास्य वाक्यस्यार्थान्तरं विवक्षुस्तत्सिद्धये पराभिमतार्थेऽनिष्टप्रसङ्गं तावदाह-
मूल
पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे ‘आनीदवातं स्वधया तदेकम्’
इति तदानीं परिशिष्टत्वाद् ब्रह्मण एवानिर्वचनीयत्वं स्यात् ।
श्रीमज्जयतीर्थटीका
यद्यस्य वाक्यस्योक्तविधया परिशेषप्रमाणत्वेन तमसोऽनिर्वचनीयत्वमङ्गीक्रियते तदा परमार्थतयाऽङ्गीकृतस्यैव ब्रह्मणोऽप्यनिर्वचनीयत्वं स्यात् । तस्यापि तमोवत् ‘आनीदवातम्’ इति वाक्येन तदानीं प्रलये परिशिष्टत्वावगमात् । उभयोरपि परिशिष्टत्वेनावगतयोरन्यतरस्मिन्नेव परिशेषेणानिर्वचनीयत्वापाते नियामकाभावात् । ब्रह्मणः पारमार्थिकत्वे प्रमाणमस्तीति चेन्न । तमसोऽपि तस्य वक्ष्यमाणत्वात् । अतो नैतद्वाक्यं प्रसिद्धसदसत्प्रतिषेधपरमिति । तदेकं सर्वोत्तमं ब्रह्म अवातं वातप्रेरणया विनैव स्वधया सुखेनैव न तु सुखप्राप्त्याद्यर्थं आनीदचेष्टतेति श्रुत्यर्थः। ननु महाप्रलये ब्रह्मणोऽवस्थानं परस्य सम्मतमेव । तत्किं तत्समर्थनाय ‘आनीदवातम्’ इति वाक्यमुपादीयते । मैवम् । यदीदमनुदाहृत्यातिप्रसङ्गोऽभिधीयेत तदैतद्वाक्यप्रकृतस्यैव सन्निहितत्वादनेन सत्त्वादिप्रतिषेधस्य क्रियमाणत्वान्नातिप्रसङ्ग इति परः परिहर्तुमुत्सहेतापि । तन्निरासायैतत्प्रकरणगतवाक्येनैव ब्रह्मणोऽवस्थानमुपपादनीयम् ।
श्रीविजयीन्द्रभिक्षु
परिशेषतया त्विति ।। यद्यपि महाप्रलये परेण ‘सदेव सोम्येदमग्र आसीत्’ इत्यादि-वाक्यान्तरबलेन सद्ब्रह्मावस्थानाङ्गीकारात् ‘नो सदासीत्’ इत्यस्य सन्मात्रनिषेधकत्वायोगात् तद्विशेषनिषेधकत्वे च ब्रह्मण इव तमसोऽपि तद्विशेषत्वेनैव तदाऽवस्थानोपपत्तेर्न परिशेषाव-तारस्तथाऽपि तदाच्छादनेन वा ‘असदेवेदमग्र आसीत्’ इति श्रुत्यन्तरेण वेयं शङ्केति ध्येयम् । अन्यत्राप्रसङ्गादिति ।। सदसद्रूपत्वे विरोधेनाप्रसङ्गादिति भावः । नन्वस्तु ब्रह्मणोऽप्यनिर्वचनीय-त्वम् । तावताऽपि तमसोऽनिर्वचनीयत्वाक्षतेरित्याशङ्क्याऽह- परमार्थतया अङ्गीकृतस्यैवेति ।। एवकारः परमार्थतयेत्यनेन सम्बद्ध्यते । ननु परिशेषस्योभयसाधारण्याद् ब्रह्मण एवेत्यव-धारणानुपपत्तिरित्याशङ्क्यावधारणमप्यर्थत्वेन व्याचष्टे- ब्रह्मणोऽपीति ।। तस्येति ।। पारमार्थिकत्वे प्रमाणस्येत्यर्थः । भवेदेवमापादनं यदि वाक्यशेषप्रतिपन्नं ब्रह्म स्यात् । तदेव कथमित्यतो वाक्यशेषस्यार्थमाह- तदेकमिति ।। इदं वाक्यं सर्वेणापि ब्रह्मपरमेव वाच्यम् । अनन्याधीन-चेष्टावत्त्वस्य तस्मिन्नेव सम्भवात् । अन्यथा ‘न परः किञ्चनास’ इति तदा तदुत्तमान्य-निषेधायोगादिति भावः । ननु महाप्रलय इति ।। विप्रतिपन्न एवार्थे तन्निर्णयाय प्रमाणमुपन्यस-नीयम् । न त्वन्यत्रेति भावः । एतत्प्रकरणगतेति ।। एवं च प्रलये ब्रह्मसत्त्वस्याविप्रतिपन्नत्वेऽ-प्युक्तरीत्या आपादनसमर्थनरूपप्रयोजनसत्त्वान्न तदुपादानं व्यर्थमिति भावः ।
श्रीवेदेशतीर्थ
अस्मिन्वाक्ये तमः सन्न भवत्यसन्न भवतीति सत्त्वादिप्रकाराणामनिषेधादाह- सदसद-भावाभिधानेनेति ।। यदि तमसः सत्त्वमसत्त्वं वा स्यात्तर्हि तमस एव सतोऽसतो वा सत्त्वेन तदभावा-भिधानं न स्यादित्यर्थः । अन्यत्रेति ।। सदसद्रूपत्वे विरोधेनाप्रसङ्गादित्यर्थः । यदीदमिति ।। पारिशेष्येणानिर्वचनीयत्वाङ्गीकारे तदानीं ब्रह्मणः परिशिष्टत्वेन ब्रह्मण एवानिर्वचनीयत्वं स्यादिति यद्यतिप्रसङ्गोऽभिधीयेत, तदा नायमतिप्रसङ्गः प्राप्नोति । युक्तस्तमसः सदसत्त्वप्रतिषेधः । तस्यैवैतद्वाक्यप्रकृतत्वेन सन्निहितत्वात् । न ब्रह्मणः। तस्यानेन वाक्येनाप्रकृतत्वेनासन्निहितत्वात् । एतत्प्रकरणगतवाक्यप्रकृतस्यैव सत्त्वादिप्रतिषेधस्य क्रियमाणत्वादिति परः परिहर्तुमुत्सहेता-पीत्यर्थः । अपिशब्देन तत्परिहारस्याशक्यत्वं द्योतयति । तथा हि । नासदासीदिति सदसत्प्रतिषेधे यत्प्रलये स्यात्तस्य सर्वस्यानिर्वचनीयत्वं बलादापद्यत एवेति ।
द्वैतद्युमणि
परिशेषप्रमाणत्वेनेति ।। परिशेषप्रमाणोत्थापकत्वेनेत्यर्थः । निमित्ते तृतीया अङ्गी-कारेऽन्वेति । तथा च मूले परिशेषपदं परिशेषोत्थापकपरम् । तस्माद् भावे ष्यञित्युक्तं भवति । तमस इति शेषोक्तिः । ब्रह्मणोऽपीति ।। अनेन एवकारोऽप्यर्थ इत्युक्तं भवति । इतिपदोत्तर-मध्याह्रियमाणतृतीयान्तश्रुतिपदोत्तरतृतीयाया ज्ञाप्यत्वरूपहेतुत्वार्थकत्वमङ्गीकृत्य लब्धमर्थमाह- परिशिष्टत्वावगमादिति ।। नियामकाभावात् । ब्रह्मव्यावृत्तहेत्वभावात् । ब्रह्मण्यनिर्वचनीयत्वाभावे ‘सदसदभावाधिकरणकाले सत्त्व’रूपहेतोस्तत्रैव व्यभिचारित्वप्राप्तेरिति भावः । पारमार्थिकत्वेन १प्रमाणप्रमितत्वमपि हेतुविशेषणम् । तथा च न व्यभिचार इत्याशयेन शङ्कते- ब्रह्मण इति ।।
श्रीराघवेन्द्रतीर्थ
सत्त्वादिप्रकाराणां श्रुतौ सदसद्ग्रहणं भावाभावत्वनित्यानित्यत्वभिन्नाभिन्नत्वादि-प्रकाराणामुपलक्षणमिति भावः । विवक्षुरिति ।। उत्तरवाक्य इति भावः । व्याचष्टे- यदीत्या-दिना ।। उक्तेति ।। तथाहीत्यादिना उक्तविधयेत्यर्थः । वक्ष्यमाणत्वादिति । ‘अनृतं परिणामतः’ इत्यादौ ‘विश्वं सत्यं वशे विष्णोः’ इत्यादौ चेति भावः। श्रुत्यर्थमाह- तदेकमिति ।। एतद्वाक्ये ब्रह्मणोऽप्रकृतत्वशङ्कानिरासार्थं तदुदाहरणमिति भावेन तत्सार्थक्यमाह- यदीदमित्यादिना ।।
गुरुराजीया
अन्यस्येति ।। सदसत्त्वस्य विरुद्धत्वेनाप्रसङ्गादित्यर्थः । यदीदमिति ।। पारिशेष्येणा-निर्वचनीयत्वाङ्गीकारे तदानीं ब्रह्मणः परिशिष्टत्वेन ब्रह्मण एवानिर्वचनीयत्वं स्यादिति यद्यति-प्रसङ्गोऽभिधीयेत तदा नायमतिप्रसङ्गः प्राप्तो भवति । युक्तस्तमसः प्रतिषेधः । तस्यानेन वाक्येन प्रकृततया प्रतिषेधेन सन्निहितत्वात् । न तु ब्रह्मणः । तस्यास्मिन् प्रकरणेऽश्रुतत्वेन प्रतिषेधेना-सन्निहितत्वाद् एतत्प्रकरणप्रकृतस्यैव सत्त्वादिप्रतिषेधस्य तेन क्रियमाणत्वादित्यर्थः ।
गोविन्दीया
परिशेषतयेति ।। परिशेषानुमानतया वाक्यं प्रमाणं भविष्यतीत्यर्थः । अन्यत्रेति ।। सदसद्रूपत्वे विरोधेनाप्रसङ्गात् सत्त्वादिप्रकाराणामभावे सदसद्रूपत्वं स्यादिति प्रसङ्गासम्भवादि-त्यर्थः । तस्यापीति ।। तमोवत् तम असीदिति वाक्येन यथा तमसोऽवशिष्टत्वमवगम्यते तथा आनीदवातमिति वाक्येन प्रलये तस्यापि ब्रह्मणोऽपि परिशिष्टावगमादित्यर्थः । ब्रह्मण इति ।। पारमार्थिकत्वे यत्प्रमाणं तदेव नियामकमस्तीति चेदित्यर्थः । तमसोऽपीति ।। तस्य पारमार्थिकत्वस्येत्यर्थः ।
नारोपन्तीया
परिहर्तुमुत्सहेतापीति । एतद्वाक्ये सदसन्निषेधानन्तरं अस्तितया प्रतिपाद्यत्व-मेवानिर्वचनीयत्वमिति परेण विवक्षा क्रियत इति भावः ।
जनार्दनभट्टीया
‘ब्रह्मण एव अनिर्वचनीयत्वं स्यात्’ इत्यत्र ‘नान्यस्य’ इत्येवकारार्थप्रतीतेरेवकारार्थमाह– परमार्थतया अङ्गीकृतस्येति ।। तथा च आपाद्यानिष्टत्वसूचनमेवशब्दप्रयोजनमिति भावः । तमसोऽपि तस्येति ।। तमसोऽपि पारमार्थिकत्वे तस्य प्रमाणस्य वक्ष्यमाणत्वात् इत्यर्थः ।